26 साम्परायाधिकरणम्

(3.03.012) सांपरायाधिकरणम्संगति सूचनाय पूर्वाधिकरणार्थं कीर्तयति - सुकृतेतिविदुषातेत्यज्यमानयोः पुण्यपापयोः हानिचिन्तन मन्यत्रसंक्रान्तिचिन्तनंचोभयं कर्तव्यमिति पूर्वमुक्तम् । अथ तयोः - पुण्यपापयोः कदा त्यागःइत्यत्रकालविशेषनि रूपणं क्रियत इति संगतिः । सन्निधि समाम्नात मन्त्राणांअन्यथा सिद्धत्वेन अनंगत्व मुक्तम् ।एवंचेत् । सन्निधिपाठशून्यानांहानोपायनादीनां अनंगत्वं स्यादिति शंकया उत्थितस्य पूर्वपक्षस्यनिराकरणपूर्वकं तयोः अंगत्वं प्रसाध्य, तच्चिन्त नस्यापि अंगत्वंस्थापितम् । अत्रापि देहवियोगकाले अध्वनिच तच्चिन्तनं कार्यं उतदेहवियोगकालेएवेति विचारःपादानुसारात्"चिन्तनीयमित्युक्तं’ इति भाषितम् । सारे इदं स्पष्टम्"।।संशय निर्देशपुरस्सरं पूर्व पक्षमाह - तद्धानं किमिति ।उभयथा श्रुतत्वादिति।श्रुत परित्यागे प्रमाणाभावात्, श्रुत्युक्तार्थे यथाश्रुति प्रतिपत्ताव्यत्वाच्चेतिभावः । अथोभयथा श्रुतत्वमेव शाखाभेदेनोपपादयति - एवं हीत्यादिना ।ताण्डिनः छन्दोगाः ।अत्रतु शरीरवियोगकालइति । पापं विधूय, शरीरंधूत्वा इत्युक्तौ हि न कथं चिदपि शरीरवियोगानन्तरमध्वनि पापहानिःप्रतीयेत इति भावः । यद्यपि पापंविधूय शरीरं द्यूत्वा इति श्रवणात्पापविमोकानन्तरमेवच शरीरत्यागः श्रूयत इति न समकालत्वप्रतीतिः तयोःअथापि कारणभूतपापनाशे शरीरानवस्थितेः औचित्याद् देहवियोगपापनाशयोःसमकालत्वसिद्धिःअत्र पापशब्दः पाप पुण्योभयपरः पुण्यस्यापि ब्रह्मविद्विषये पापत्वात्ननूदाहृत श्रुतिः न देहवियोगकाले पापहानि प्रतिपादने तत्परा,शरीरं धूत्वा पापं विधूय इत्यर्थक्रमेणाप्यन्वयसंभवात् शरीरवियोगानन्तरमेवपापहानिप्रतिपत्तेः । तथाच स एतं देवयानमिति श्रुत्यैकार्थ्येनदेहवियोगानन्तरं अध्वन्येन सुकृतदुष्कृतयोर्हानसिध्या कथमुभयत्रत्यागस्वीकार इति चेन्न, क्लिष्टकल्पनापत्तेः । नच स एवं देव यानमितिश्रुत्यैकार्थ्याय तथाश्रयणं युक्तं, अन्यत्र दायसंक्रान्ति समकालंसुकृतदुष्कृत संक्रमणस्य श्रूयमाणत्वेन संक्रमणस्य च त्याग पूर्वकत्वेनदेहवियोगकालेपि त्यागावश्यकत्वेन तच्छ्रुत्यैकार्थ्येन “अश्व इवेतिश्रूते यथाश्रुतार्थ स्वीकारस्यैव वक्त व्यत्वादित्याशयेन देहवियोगकालेसंक्रमणबोधकश्रुतिमुदाहरति - शाट्यायनकेऽपीति। यदा, पुत्राः दायमुपयन्ति तदा सुहृदः साधुकृत्यां द्विषन्तःपापकृत्यामुपयन्तीत्यर्थः । ननूभयत्र हान श्रवणेऽप्यसंभवादेकत्रैवेतिनिश्चेतव्यमित्यत्र तत्संभवप्रकारमाह - अत इत्यादिना । नच तत्तच्छारवाभेदेनश्रवणभेदात् तत्तच्छारवाप्रतिपाद्यब्रह्मविद्यानिष्ठानां तथातथेतिव्यवस्थाकल्पनं किं न स्यादिति वाच्यम् । वैरुप्यप्रसंगेन तथाकल्पनासंभवात्हानोपायनचिन्तनस्य सर्वब्रह्मविद्यानिष्ठसाधारणत्वेन हानिकालचिन्तनस्यापिसर्वेषामावश्यकत्वेन सर्वेषां ब्रह्मविद्यानिष्ठानां पुण्यपापयोः एककालेप्रहाणस्यैव स्वरसत्वाच्चसिद्धान्त वक्ष्यमाणयुक्त्या उक्त पूर्वपक्षस्यापि निरस्त प्रायत्वसंभवाच्च । अतश्चोभयधा श्रवणात् श्रुतोपपत्तये सर्वेषामेवाविशेषेणदेहवियोगकाले केषांचित्कर्मणां अध्वनि केषांचित्कर्माणां विनाशःइत्यभ्युपागन्तव्यमिति पूर्वपक्षिहृदयम् ।सिद्धान्तमाह - इति प्राप्त इति । सांपराय इति व्याख्येयनिर्देशः।युद्धायत्योस्सांपराय इति निघण्डुः ।संपरा=देहविगमस्य पश्चात् ईयत=प्राप्यतेइति संपरायः । संपराय एव सांपरायः । स्वार्थे अण् । औचित्यात्निरवशेषंही येत इत्यध्याहृतम् । ननु देहवियोगानन्तरं भोक्तव्य ब्रह्म प्राप्तिरूपफलस्य सत्वेन कथं तरितव्यभोगाभावः उच्यते इत्यत्राशयमाह - विद्याफलभूतेति । न वयं विद्याजन्यं ब्रह्मप्राप्तिफलं पश्चात् निषेधामःअपि तु कर्मजन्यमेव सुखदुःखोपभोगरूपं फलम् । तस्य च देहवियोगानन्तरमभावात्तद्वेतुभूतकर्मणः प्रयोजनाभावात् न मध्ये आवश्यक तेति देहवियोगकाले एवतन्नाशः इष्यतेभोक्तव्यशब्देन तर्तव्यशब्दार्थोविवृतः । तरतेःप्राप्तिवाचकत्वमभिसन्धायैवंव्याख्यातम् । “तथा ह्यन्ये’ इति सूत्रखण्डं पूरयन्व्याचष्ठे - तथाहीतिअशरीरमिति ।अत्रहि शरीरवियोगानन्तरं प्रियाप्रियास्पर्शः उक्तःअतः शरीरवियोगानन्तरं न सुखदुःखानुभवःइति भावः । प्राप्तिश्चन निषिद्धेति चाशयः । संप्रसादः नाडीविशेषः । तत्संबन्धाज्जीव उच्यतेसंप्रसीदति अस्मिन् जीव इति व्युत्पत्यातु परमात्मपरः । अत्रशरीरात्समुत्थायेत्यादि श्रवणात् जीवपरत्वम् । अत्र शरीरवियोगानान्तरंब्रह्मप्राप्तेरेवोक्त्यामध्ये कर्मजन्य सुखदुःखानुभवः अर्थान्निषिद्धःइति भावःपूर्वोदाहरणे शरीरनियोगानन्तरं कर्मजन्यभोगो निषिद्धः ।ब्रह्मप्राप्तिश्चार्थसिद्धा अनन्तरोदाहरणद्वये ब्रह्मप्राप्तिः कण्ठोक्ता, कर्मजन्यभोगनिषेधः आर्थिकः इति विवेकः ।।

ननु देहवियोगकाले एव पुण्यपापयोर्निरवशेषं हान्यभ्युपगमे कोषीतक्युपनिषद्वाक्यविरोधःतत्राध्वनि तयोर्हानिश्रवणादिति शंकापरिहार परमुत्तरसूत्रं व्याचष्टे - एवमित्यादिअअर्थस्वाभाव्यात्। यद्यपि देहवियोगकाले हानिप्रतिपादकं श्रुतिवाक्यमप्यस्ति, अथापि तन्मात्रस्य कौषीतक्युपनिषच्छ्रुतोक्तवाक्यनिर्वाहकत्वासंभवात्अर्थ स्वभावस्य तथात्व कथनम् । दृष्टंचार्थ स्वभावस्य अग्निहोत्रंजुहोति यवागूं पचतीत्यादौ निर्वाहकत्वमिति भावः । श्रुतेः=देहवियोगकालेहानिबोधक श्रुतेरित्यर्थः । यद्वा अविरोधेनेति प्रयोजने तृतीयाएतेन सूत्रस्थाविरोधादित्यत्र ल्यब्लोपे पञ्चमीति दर्शितम् । अविरोधायेत्यर्थःततश्च अश्व इव रोमाणि विधूय पापमिति श्रुति अर्थस्वभावोभयाविरोधेनकौषीतिकी वाक्यघटकपदानामर्थो वर्णनीयःइति भावः । श्रुतेरित्यस्यचकौषीतिकीश्रुतेरित्यर्थःततथाच कौषीकीश्रुतेः अर्थस्वभावस्य चाविरोधजननाय कौषीतकीवाक्य घटकपदानामन्वयोवर्णनीयः इत्यर्थः । न चात्र श्रुतेरर्थ स्वभावस्य च विरोधेः श्रुतेर्बलीयस्त्वं,श्रुतिर्हि पाठक्रमरूपा अर्थ स्वभावश्चार्थ क्रमरूपः अर्थक्रमश्चपाठकमापेक्षया बलीयानिति पूर्वतन्त्रे सिद्धान्तितमेवनातोऽनुपपत्तिः । यथेष्टमिति छन्दत इत्यस्य व्याख्यानम् ।अथोपपन्नमन्वयंस्पष्टार्थं व्याचष्टे - कौषीतकीवाक्य इति । तर्कानुगृहीता श्रुतिःअश्वइवेत्यादिका । श्रुत्यन्तरानुगृहीताच ।अन्याहि तर्कविरुद्धार्थप्रतिपादिका श्रुत्यन्तराननुगुणाच ।। मुक्तस्याप्राकृतविग्रहे अप्सरोभिःअलंकारः क्रियते । अलंकृतः ब्रह्मैवाभिप्रैति । अलंकृतः आगच्छत्यरंह्रदम् । इति तु नास्ति । परंतु श्रुतौ अन्यथोक्तम् । “तं ब्रह्माहअभिधावतः…ब्रह्मैवाभिप्रैति । स आगच्छत्यरं हृदम् । इत्येवमुक्तम्अत्रार्थक्रमानुसारात् पाठक्रमः अन्यथानेयःसआगच्छति..मनसैवात्येति इत्यन्तो भागः तं ब्रह्माह इत्यततः प्राक्योग्यः । एव मेव तत्सुकृत दुष्कृते धूनुते इत्यपि ।।

उत्तरसूत्रमवतारयति - अत्रेति । सूत्रार्थमाह - सुकृतेति । अर्थवत्वशब्दसमभिव्याहारात्गतेरित्यस्य गतिश्रुतेरित्यर्थः उक्तः । ब्रह्मविद्विषयत्वात् देवयानेत्युक्तम्अर्थवत्वं=अबाधिवार्थकत्वम् । केवलस्यात्मनः=शरीररहितस्यात्मनःगमनं=प्रवृत्तिः । अयं भावः - अणुत्वेन केवलस्यात्मनः गमन संभवेपिजीवात्मनः संसारदशायां शरीरसंयोगमन्तरा प्रयत्नाद्यनुत्पत्तिदर्शनात्सर्वकर्मणां च देहवियोगसमये एव नाशाभ्युपगमेन कर्मारब्धदेहस्यापिनाशप्रसंगात् गमन दशायां शरीराभावेन तत्संयोगापेक्ष प्रवृत्त्यादिकंनोपपद्येत इति गति श्रुतिर्वाधितार्थैव स्यात्न चाविर्भूत स्वरूपत्वात्सत्यसंकल्पत्वेन शरीराभावेपि प्रवृत्यादिकमुपपद्यतेइति वाच्यम्,गमनात्पूर्व मनाविर्भूतस्वरूपत्वात् । गमनानन्तरमेवहिस्वारूपाविर्भावः ।अत एकेदशस्य कदाचित् विनाशः एकदेशान्तरस्य पश्चादित्युभ्युपगन्तव्यम्तथा सति एकदेशकर्मणः सत्वेन शरीरस्थिति संभवात् गमनाद्युपपत्त्यान देवयान श्रुतेः बाधितत्वमिति । यद्यपि अध्वन्येव निरवशेषकर्मक्षयाभ्युपगमेऽपिन गतिश्रुतेर्बाधितत्वम् । अथापि श्रुतोपपत्तये देहवियोग कालेपिकेषांचित्कर्मणां विनाशः एषितव्य इति पूर्वपक्षितात्पर्यम् ।।ननुगमनस्य प्रयत्न सापेक्षत्वात् प्रयत्नस्यच करणकलेबरापेक्षत्वमस्तीतिशरीर शून्यस्य कथं गतिः इत्याशंकनं न युक्तंशरीरान्तःस्थितस्य केवलस्यात्मनः नाडीसंचारस्य आसु तदानाडीषु सृप्तोभवतिइति श्रुति सिद्धत्वादिति चेन्न । तत्रापि देहान्तः स्थितत्वादेवगमनप्रयतत्व स्वीकारात् ।नच विदेहस्य विरंजानदीनरणस्य स्वीकारात्तत्र कथमिति शंक्यम् । तां मनसा अत्येति इति श्रुतत्वात् । अत्ययानन्तरमेवसुकृतदुष्कृतधूननस्य पाठात् अनन्तरमेव शरीरपातः इति पूर्व पक्ष्याशयः ।।

समाधानसूत्रार्थमाह - उपपन्न एवेति । लक्षणं = स्वरूपमित्यर्थः । अत्रदेहसंबन्धोपलब्धेरिति बोधनाय तदुपलब्धेः इत्येतावन्मात्रस्य पर्याप्तत्वेपिसूत्रे अधिकोक्तिः आविर्भूतस्वरूपस्य कर्मकृतदेहविलक्षण तत्सजातीयदेहसंबन्धएव न तु संसारिण इव कर्मकृत देह संबन्ध इति बोधनार्थेति ध्येयम् ।।उक्तमर्थंश्रुतिभिरूपपादयति - परंज्योतिरिति । नन्वनाविर्भूतस्वरूपस्यकर्मनाशे शरीरनाशात्कथं गमनादिकमिति शंकायां अविर्भूतस्वरूपस्यमुक्ति दशायां देह संबन्धोऽस्तीत्युक्ते कः परिहारः उक्तोभवतीत्यत्राह - अतइति । अयमाशयः देहवियोगकाले सर्वकर्म हानौ किं बाधकं? तथा सति गमनकालेशरीर संबन्धोन स्यादिति चेन्नकर्मनाशेऽपि शरीर संबन्धस्य मुक्तौ सत्वात् । अतः कर्मनाशेपिशरीरासंबन्धस्यासंभवात् देहवियोगकाले सर्वकर्मनाशेऽपि शरीरसंबन्ध संभवेन गमनादिकमुपपन्नमेवेतिननु शरीर संबन्धं प्रति कर्मेव सत्यसंकल्पत्वमपि हेतुः । मुक्तस्यसत्य संकल्पत्वेन नूतन शरीर संबन्धः उपपन्नः । अस्यचानाविर्भूतस्वरूपत्वेनसत्यसंकल्पत्वाभावात् न गमनसमये नूतनशरीरोत्पत्तिः । एतावदनुवृत्तशरीरसंबन्धश्चस्वहेतुभूतकर्मनाशान्नष्ट एव भवेत् । अतश्च कथं गमनसमये शरीर स्थितिरित्याशयेनपृच्छति - कथमिति। समाधत्ते - विद्यामाहात्म्यादिति। अयं भावः न वयंगमनदशायामनाविर्भूतस्वरूपस्य नूतन शरीरोत्पत्तिं ब्रूमः किंतु एतावदनुवृत्तसूक्ष्मशरीरानुवृत्तिमेव, विद्यामाहात्म्यात् ब्रूमः । ननु तद्धेतुकर्मविनाशेकथं तदनुवृत्तिःअतो विद्याया एव नूतन शरीर संबन्धहेतुत्वं स्वीकर्तव्यं भवतीतिचेन्न सूक्ष्मशरीरानुवृत्ति मात्रहेतुत्वाद्विद्यायाः । अन्यथासूक्ष्म शरीरस्याप्यननुवृत्तौ देवयानेन गमनाभावेन विद्याफलभूत ब्रह्मप्राप्तिरेव न सिध्येदिति विद्यायाः वैयर्थ्यमेव स्यात् । अतो विद्यायाःसूक्ष्मशरीरस्थापकत्वमात्रं कर्मविनाशेऽप्यभ्युपेयत इति । एतदेवोपपादयति - विद्याहीतिननु हेतुविनाशे कार्यस्थितिर्न दृष्टेत्यत्र लोकसंमतिमाह - लोकवदितियथा तटाकाद्युत्पत्तिहेतुभूतेच्छादिविनाशेपि कार्यान्तरार्थं तटाकादिकार्यस्थितिःदृष्टा एवमेव शरीरहेतुभूतकर्मविनाशेपि मोक्षफलरूपकार्यान्तरार्थंशरीरानुवृत्तिः विद्यामाहात्म्यात् युक्तेत्यर्थः ।अत एव हि पुण्यपापमाहात्म्यात् स्वफलभूतसुखदुःखानुभवाय स्वर्गनिरयप्राप्तिहेतुभूतशरीरानुवृत्तिहेतुत्वमिष्यते इत्याशयः । वस्तुतः देहावसानेसुखदुःखादिफलप्राप्तिहेतुभूतकर्मकलापस्य नाशाभ्युपगमेऽपि स्वस्वरूपाभिनिष्पत्तिपर्यन्तं ज्ञानसंकोचमात्रहेतुभूतसूक्ष्मकर्मशेषोऽभ्युपगम्यत इव । परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति श्रुतिसामर्थ्यात् ।नहि भगवन्निग्रहलक्षणकर्मशेषमन्तरेण स्वाभाविकज्ञानवतः तावन्तं कालमकारणंज्ञानसंकोच इति वक्तुं शक्यम् । अतस्तादृशकर्मशेषस्यानुवृत्त्यासूक्ष्मशरीरस्थितिसंभवेन गमनाद्युपपत्तिः ।अत्र देहवियोगकाले निरवशेषं नाशकथनं च सुखदुःखादिफलप्राप्तिहेतुभूतकर्मणामेव ।अत एव सुकृतदुष्कृताभ्यां भोक्तव्यसुखदुःखे नविद्येते इति पूर्वं भाषितमिति । ननु क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टेपरावरे इति श्रुत्या सर्वकर्मणां विद्यारम्भकाले एव नाशप्रतिपादनात्देहवियोगकाले इति स्थापनं विरुद्धम् । अत एव हि तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौतद्व्यपदेशादिति सूत्रसांगत्यमिति चेन्न - विषयभेदात् । तथाहि - यद्ययमुपासकःप्रकृतमुपासनं समापयेत् तदा पूर्वोत्तरकर्मणी क्षमिष्ये इत्येवंरूपसंकल्पः भगवतो जायतेअयं च दर्शनसमानाकारज्ञानारम्भकाले एव । उक्तसंकल्प एवाश्लेषविनाशरूपः । अन्तिमप्रत्ययपर्यन्तोपासननिर्वृत्त्यनन्तरं तु क्षान्तमितिसंकल्पो जायते । अयं च देहवियोगकाले भवति । इदमेव धूननम् । उपायनं तुसुहृदि द्विषदि च पूर्वोक्तरीत्या भवतीति । अतो न विरोधः ।सूत्रे तच्छब्दः देहसंबन्धपरः । लक्षणं स्वरूपं तथा च देहसंबन्धाख्यार्थस्यकर्मशून्ये मुक्तात्मनि सत्वात् । तद्वत् गमनकालेपि कर्म संबन्धाभावेपिदेहसंबन्धस्य सद्भावः उपपन्नः इति भावः । यद्यपितदुपलब्धेः इत्येवालम्एतावतैव प्रकृतार्थलाभ संभवात् । तथापि लक्षण, अर्थशब्दप्रयोगःअन्याभिप्रायेण । गतेरर्थवत्त्वोपपादनाय हि शरीरसंबन्धतदनुगुणकर्मसंबन्धः इष्यते त्वया । सुकृतदुष्कृतधूननानन्तरमपि “स आगच्छति तिल्यंवृक्षं इति गतिरूपार्थः उपलभ्यते । तत्र कथं निर्वाहः क्रियते ।तस्मात् गतेः ज्ञापकभूतस्य कस्यचिदर्थस्योपलब्धिः स्वीकार्यातदस्माकमपि समानम् ।।

उत्तरसूत्रं चोद्यमुखेनोत्थापपति - अथ स्यादिति । साक्षात्कृतपरतत्वानांदेहपातसमये अवश्यं निःशेषकर्मक्षयः अपेक्षितः इति पूर्वपक्षितात्पर्यम्सूत्रार्थमाह - नास्माभिरिति येषामर्चिरादिगतिरासन्ना तेषामेव साक्षात्कृतपरतत्वानांनिशेषकर्मक्षयो देहावसानेभवति नान्येषां इति सिद्धान्ताभिप्रायःननु साक्षात्कारपर्यन्तविद्यावतामर्चिरादिगतिरेव कुतो नासन्नेत्यत्राह - प्रारब्धस्येतिअधिकारविशेषं=स्थानविशेष मित्यर्थः । प्रारब्धस्य कुतो न नाशइत्यत्राह - प्रारब्धस्य हीति । नन्वेवं वक्ष्यमाण समाधान पर्यालोचनेसर्व विद्वद्विषयेपीयं शंका जायत एवेति विशिष्य वसिष्टादिकं पुरुस्कृत्यशंकाकरणं कुतः? उच्यतेसर्वेषां प्रारब्धकर्मजन्यान्तिमशरीरे मोक्षः इति निर्विवादम् ।वसिष्ठादयश्चान्तिमशरीरभाजः इत्यपि।निमिशापादिना शरीरनाशः पुनःतत्सरूप देहपरिग्रहः अरुन्धत्यादि स्वीकारश्च दृश्यते ।स एव वसिष्टःइत्यपि प्रत्यभिज्ञा । मध्ये शरीरनाशे स्थूलदेहपरिग्रहः सुखदुःखानुभवश्चकथम् । अतः निश्शेषकर्मक्षयः सांपराये कथमिति पूर्वपक्ष्याशयः ।सामान्यविदुषां अन्तिमशरीरे एव परतत्व साक्षात्कारः। अतः तद्देहनाशानन्तरंअर्चिरादिगति प्राप्तेः नैतच्छंकनं युक्तमित्यपि कथं चित्समाधानंकथ्येतापि । वसिष्ठादीनां परतत्वसाक्षात्कारप्रसिद्धेः नैतत्समाधानंयोयुच्यते इति च पूर्वपक्ष्याशयः"साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी” इति शरणागतेरेवप्रारब्ध नाशकत्वेन प्रारब्धाध प्रायश्चित्तत्व संभवेपि उपायभक्तिःप्रारब्धव्यतिरिक्ताधनाशिनीति भक्तिरूप विद्यायाः प्रारब्ध व्यतिरिक्तपापनाशकत्वेनतावन्मात्र प्रायश्चित्तत्व संभवात् भक्तिनिष्ठानामेषां भक्त्यातन्नाशासंभवेनानुभवेनैव तन्नाशः इति । किं बहुना शरणागतेरपि हिअभिमतिवैषम्येनप्रारब्धनाशकत्वतदभावौ । अतो भक्तेः प्रारब्धना शकत्वाभावेन नार्चिरादि गतिः ज्ञानिनामपि तेषामासन्ना ।वक्ष्यते च भक्तेःप्रारब्धव्यतिरिक्ताधना शकत्वं अनारब्धकार्ये एव तु पूर्वे तदवधेरित्यत्रननु यावदधिकारं “इति सूत्रस्य किं प्रयोजनम्? वसिष्टादेः अधिकारावसानेएव मोक्षः । मध्ये देहनाश, पुत्रजन्मनिमित्तसुख दुःखानभवेपि पूर्वदेहनाशेननिरवशेष कर्म क्षयो नास्तीति सूचनाय इति सफलत्वकथनमनुपयक्तम् ।ब्रह्मविद्यानिष्ठानां सुकृत धूष्कृत कर्म विधूननं संचितविषयम्प्रारब्धं कर्म तु अनुभवेनैव विनाश्यम् । प्रारब्धकर्म क्रमेणानेकशरीरोत्पादकम् । एतदवासने एव मोक्षः । प्रारब्धावसने मोक्षः इत्येत्वसिष्टादीनां तद्विलक्षणानां भक्तिमतां समानम् । न तत्र भिन्नरूपताकर्म विशेषेण पदवीविशेषं प्राप्तः इत्येतन्मात्रमधिकम्प्रारब्धकर्मानुभवदशायां तदा तदा देहनाशः देहान्तरप्राप्तिश्चेतत्तुल्यम् । वसिष्ठविलक्षणानामपि ज्ञानिना केषांचित् जाति स्मरत्वमपिसं प्रतिपन्नम् । एवंच केवलज्ञानिनां वसिष्ठानां च चरमदेहावसानेएव मोक्षस्य संप्रतिपन्नत्वात् कथं वसिष्टादिकमादाय पूर्वपक्षोत्थानं?अयमाशयः - सामान्यज्ञानिनां प्रारब्धावसानात् पूर्वं देहनाशदेहान्तराद्युत्पत्तावपिपूर्वजन्मस्मरणेसत्यपि पूर्व देहसमयजातनामरूपादिकं न भवति । परंतु तत्तच्छरीरावच्छिन्न देहवाचकसंज्ञा विलक्षणा ।वसिष्टादीनां तुन तथा । सर्वदा वसिष्ट एव ।। तथैव पुराण प्रसिद्धेः ।सूर्यचंन्द्रवश्यौ वसिष्टोपाध्यायकौ । शब्द्रवंश्य निमिप्रभृतिस वंशः अहल्यापुत्रशतानन्दोपाध्यायकः । कदाचित् निमिः वषिष्टं स्वोपाध्यायंयागार्थं ऋत्विक्त्वेन वरयामास वसिष्टश्च इन्द्र प्रार्थितः तदीययांगकारयित्वा त्वदीयमपि यागं कारयामि इत्युवाच । निमिश्च तूष्णीं स्थित्वावसिष्टगमनानन्तरं गौतमं शतानन्दपितरं वृतवात् । यागं च चकार । आगतोवसिष्ठः अमर्षवशात् निद्राणं निमिं शशाप । तव देहवियोगो भूयादितिउत्थितो निमिरपि वसिष्ठं तथैव शशाप । सद्य एवोभयोः देहः पतितः ।वसिष्ठस्तु ब्रह्मसमीपमागत्य स्ववृत्तान्तमुक्त्वाअधिकारिपुरुषस्य मम जाता दुर्गतिः कथं निवार्या इति स्वखेदं विज्ञापयामासब्रह्मा च मित्रावरुणतेजसः तव पुनरुद्भवः स्यादिति वरं ददौ ।समुद्रमथनार्थमागतामूर्वशीं वरुणः चकाम । सा तु पूर्वमेव मित्रेणवृतास्मि । मनसः शरीरस्य च तदधीनत्वात् किं करोमि । प्रीतिस्त्वय्येवेत्यवोचत् । स्ववीर्यधारणाशक्तः वरुणः उर्वशीं प्रति त्वामुद्दिश्यमम वीर्यं अस्मिन् कुंभे विसृजामीत्युक्त्वा कुंभे निहितवान् ।ऊर्वशी मित्रार्थं गता । तावत्पर्यन्तं प्रतीक्षमाणो मित्रोपि अत्र स्थितामूर्वशीज्ञात्वा कुंभसमीपमाजगाम । तस्याः पूर्वमेव गतत्वात् खिन्नः स्ववीर्यधारणासमर्थःअस्मिन्नेव कुंभे वीर्यं तत्याज ।मित्रावरुणतेजोभ्यां मिश्रीभूताभ्यां वसिष्ठः पुनरपि समजनि । अस्मिन्नेवकुंभे प्रथमं मित्रतेजसः अगस्त्यः उत्पन्नः ।एवं रीत्या वसिष्ठादीनामुत्पत्तेः देहपातानन्तरं देहान्तरप्राप्त्यादिसत्त्वेन देहपातसमये निरवशेषकर्मक्षयः कथमित्येतदजानता पूर्वपक्षिणा शंकितः ।।“अवान्तरतपानाम वेदाचार्यः पुराणर्षिः विष्णुनियोगात् कलिद्वापरयोःसन्धौ कृष्णद्वैपायनः संबभूव” वसिष्ठश्च ब्रह्मणो मनसः पुत्रः सन्निमिशापादपगतपूर्वदेहः पुनः ब्रह्मादेशात् मित्रावरुणाभ्यां संबभूव"पुनर्देहान्तरपरिग्रहेपि “त एवैति” इति स्मृतिप्रसिद्धेः वसिष्ठत्वादिकंनापैति इति शंकरभाष्यम्” गृहात् गृहान्तरं स्वेच्छया वयं गच्छामःतथैव इमे स्वेच्छया कायात् कायान्तरं गच्छन्ति । पूर्व सरूपदेहमेवपरिगृह्णन्ति । पुत्रजन्मविपत्यादौ स्वकार्यत्वाभिमानेन सुखदुःखादिचानुभवन्ति ।। ज्ञानाधिकोपि श्रीवसिष्ठः भगवद्ध्यानपरोपि पुत्रशोकार्तःअत्यन्तं खिद्यति । “स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः । कण्ठे बध्वाशिलां गुर्वीं निपपात तदम्भसि ।। स मेरुकूटादात्मानं मुमोच भगवान् ऋषिः ।शिरस्तस्य शिलायां तु तूलराशाविवापतत्"एवं व्यासोपि पुत्रशोकात् छायाशुकं रुद्रप्रत्तं प्रतिमारूपं स्वीकृत्य जीवितःइत्यादिकं सुप्रसिद्धम् ।। समाप्तं सांपरायाधिकरणरम् ।।