14 फलाधिकरणम्

(3.02.08) फलाधिकरणम्अथोक्तार्थमनुवदन् संगतिं प्रदर्शयति - उक्तमित्यादिना ।उपासितुमिच्छा=उपासिसिषा ।जीवस्य सर्वावस्थासु सदोषत्वमिति तदनन्तरप्रतिपत्त्यधिकरणप्रभृतिमुग्धाधि करणपर्यन्तार्थः उक्तः । निर्दोषत्वं कल्याणगुणाकरत्वमितिउभयलिंगाधिकरणार्थः । उभय लिंगत्वमित्यनुक्त्वा एवं पृथगुक्तिःतदुपर्यधिकरणद्वयेनोक्तार्थद्वयस्य स्थिरीकृतत्वप्रदर्शनाय । सर्वस्मात्परत्वचेतिअस्य प्राप्यत्वोपयुक्तगुणत्वेन कल्याणगुणान्तर्भावेपि पृथगधिकरणेनिरूपितत्वात् पृथगुक्तिः । एवमहिकुण्डलाधिकरणोक्तं ब्रह्मणः अचिदंशित्वंनिर्दोषत्वोपयुक्तमिहानुसन्धेयम्उपासनं विवक्षन्निति। अनेन ब्रह्मात्मैक्यबोधात् प्रसादनिरपेक्षान्मोक्षःइत्यद्वैतिमतं निरस्तम् । उत्तरपादौ उपासनस्यैव मोक्षसाधनत्वोक्तेःतेन प्रीयमाणात् परस्मादेव मोक्षसिद्धेरावश्यकत्वात् प्रसादनिरपेक्षज्ञानमात्रस्यमोक्षहेतुत्वासिद्धेः ।उपासीनानां परस्मादेवेत्यादि। अनेनापवर्गाख्यफलप्रदत्वौपयिकमौदार्यं भगवतः अत्रोच्यत इति सूचितम् ।अपवर्गाख्यंफलमिति संप्रति ब्रूते इतिअनेन प्राप्यत्व रूपफल प्रतिपादनानन्तरंतस्यैव फल प्रदत्वं निरूप्यते इति संगतिर्दर्शिता । फलप्रदत्वस्यापिकल्याणगुणान्तर्भावात् उभयलिंगपादे संगतिःयद्वा - परत्वौदार्यवतः एव सेव्यत्वात्उत्तरपादप्रतिपाद्योपास्यत्वसिध्यर्थंपूर्वाधिकरणे परत्वनिरूपणानन्तरं अत्र फलप्रदत्वकथनेनौदार्यमुच्यते।प्रदातृत्वस्यपरत्वाभावौदार्या भावेऽप्य संभवात् । तथाच प्रयोजनमन्तरेण प्राणिनांप्रवृत्त्यदर्शनात् प्रदात्रभावे प्रयोजनस्यासिद्धेः औदार्याभावेच प्रदातृत्वासंभवाच्च भगवतः प्रदातृत्वोपयुक्तैदार्यगुण निरूपणम्प्रथमकाण्डे सर्वे वेदा यत्रैकं भवन्ति, सर्वे होतारः यत्रैकंभवन्तीत्यादि प्रमाणैः सर्वकर्मसमाराध्यत्वेन, द्वितीयकाण्डे “अग्निरवमोदेवतानां विष्णुः परमः इत्यादिभिः सर्वदेवतान्तर्यामित्वेन अस्मिन्काण्डेएतावत्पर्यन्तं भवभयचकित प्राप्त्युपास्त्येकलक्ष्यत्वेनच प्रतिपादितस्य परस्य ब्रह्मणः नित्यनैमित्तिक काम्यरूपाणां प्रवृत्तिधर्माणां कर्मयोगज्ञान योग भक्ति भोगादिरूपाणां निवृत्ति धर्माणांचानुगुणं फलं दिशतीति फल प्रदत्वमुच्यते इति संगतिःएतदाशयेनैवोत्तरपादारम्भे “उक्तं ब्रह्मोपासि सिषोपजननाय….फलप्रदत्वपर्यन्तमिति भाषिष्यते । अतः उपासनेच्छया तत्प्रवृत्त्यर्थंसिद्धोपायस्य भगवतः अत्र फलप्रदत्वमुच्यते इति । अथवा, परत्वात्परस्य ब्रह्मणः प्राप्यत्वमस्तु, प्रापकत्वं तु न संभवति, अमृतस्यैषसेतुरिति सेतुत्वोक्तेः केवलप्रशंसारूपत्वात् । अतः कर्मण इव ध्यानादेवफलसिद्धिरितिन भगवतः प्रापकत्वमित्याक्षेप संगतिः । सूत्रे विशिष्य मोक्षरूपफलानिर्देशेनसामान्यतःफलमिति निर्देशस्य प्रयोजनं दर्शयन् सूत्रस्यअस्य सिद्धान्त सूत्रत्व ज्ञापनेनार्थं वर्णयति - तुल्यन्याय तयेतियद्यप्यत्रादौ सिद्धान्त सूत्रंविफलं अन्ते वक्ष्यमाणत्वात्, तत्रैवयुक्तत्वाच्च, तथापि भगवतः मुक्तिप्रदत्वरूपविशेष सूचनाय, व्याजमात्रभूतविद्यायाः विरोधिनिवर्तकत्वमेव स्वस्वरूपादिफललाभस्तु अस्मात्सिद्धोपायादेवेतिविशेषार्थ सूचनाय च प्रथमं सिद्धान्तसूत्रमधिकोक्तिश्चेति ध्येयम्ऐऐहिकमामुष्मिकमपिफलमिति। यद्यप्यैहिकमामुष्मिकं च फलं प्रति नकर्मणां हेतुत्वं, परं तु द्वारभूतस्यैव कस्यचिदिति पूर्वमेव निर्णीतम्अअथापि द्वारविशेषः एवात्र निरुप्यते इति न विरोधः नापि पौनरुक्त्यम्अथोपपत्तिमेवान्वयव्यतिरेकाभ्यामुपपादयति - स एवहीतिसर्वज्ञत्वस्य, तत्तदर्थिनामपेक्षितार्थज्ञान तद्विरोधिज्ञानतन्निरसनादि ज्ञानोपयोगित्वमभि प्रेत्य सर्वज्ञः इत्युक्तम् । सर्वशक्तित्वस्यतत्तदर्थि भोग्य भोगोपकरणनिष्पादनोपयोगित्वम् तद्विरोधि निरसनोपयोगित्वंचाभिसन्धाय सर्व शक्तिरित्युक्तम् । लुब्धे एतदुभयसत्वेऽप्यकिंचित्कारत्वमभिप्रेत्यमहोदार इत्युक्तम् । दातुमीष्टे इत्यन्तेनोपपत्तिदर्शिता । अथकर्मणामननुपपत्तिमाह - नहीति । अचेतनमित्यनेन पूर्वोक्तविपरीताकारःप्रदर्शितःक्षणध्वंसीति ततोप्यधि दूषणम् ।।

न केवलं सकलफलप्रदानसामर्थ्यं अनुमेयम् । श्रुतमपीति उत्तरसूत्रार्थमाह - सवा इति । अन्नादः= अन्नदः इत्यर्थः । अन्नादः वसुदानः इत्यादिनाभोगप्रदत्वं आनन्दयातीत्यनेनापवर्गप्रदत्वं च विवक्षितमित्याशयेनभोगापवर्गरूप फलमित्युक्तम् । यद्वा अन्नं आ=समन्तात् ददातीत्यर्थःभक्ते प्रपन्न च भगवान् तदभिमतफलं तदनुबन्धिपर्यन्तं ददातीत्यर्थःअनेन भगवतः आश्रितविषये वात्सल्यौदार्यातिशयः सूचितः ।। पूर्वत्रेश्वरस्यफलप्रदत्वे तर्कः उक्तः कर्मणामयोग्यत्वात् ईश्वरस्य योग्यत्वाच्चेतिअत्र तु फलप्रदत्वं कण्ठोक्तमिति भेदं निघाय - अयमेव ददातीति हिश्रूयत इति भाषितम्उपासनरूपमेवेति - अत्रोपासनं कर्मांगोपासनं विवक्षितं, नतु मोक्षोपायभूतब्रह्मोपासनंतन्मते मोक्षस्य ब्रह्मणश्चानंगीकारात् । कर्तृसंस्कारमुखेन कर्मशेषत्वात्वेदान्त भागस्य इति बोध्यम् ।अधर्मजन्य नरकादिफलमप्यनेनैवेत्यपिसामान्यनिर्देशस्याभिप्रायः ।।

सिद्धान्तसूत्रं योजयति - तु शब्द इत्यादिना । पूर्वोक्तमिति । अनेनपूर्वमित्यस्यार्थो दर्शितः । तथा च प्रथममुक्तं परमपुरुषस्यैवफलप्रदत्वमिति तदर्थः इति भावः । हेतुव्यपदेशादित्यत्र हेतुशब्दोभावप्रधाननिर्देशः । अयं भावः - यजिधातुना यागः उक्तः स च देवताराधनभूतःयज देवपूजायामिति धातोः । ततश्च तत्तद्यागैः देवतानामेवाराध्यत्वात्तत्तद्वाक्ये फलहेतुत्वव्यपदेशाच्च तासामेव फलप्रदत्वमिति । अथतथा हेतुव्यपदेशमुदाहरति - वायव्यमिति । यथेत्यादिः । वायव्यं = वायुदेवताकंश्वेतं = श्वेतद्रव्यकम्, क्षेपिष्ठा = क्षिप्रगामिनी, स्वेन भागधेयेन =स्वहविर्भागेण । भूतिं = ऐश्वर्यमित्यर्थः । गमयति = प्रापयति ।ननूक्तवाक्यस्य न देवतायाः फलप्रदत्वपरत्वं अर्थवादत्वात् तस्यच स्वार्थेऽप्रामाण्येन केवल प्रशंसारपत्वादित्यत्राह - कामिन इतिमन्त्रस्यार्थ वादस्यच प्रतीयामानेऽर्थे तात्पर्याभावेऽपि तदुक्तार्थस्यविध्यपेक्षितत्वेन भवद्भिरपि स्वीकारात् अप्रमाण्यं कुतः । अत्रहिफलार्थिनः अभिमतफलसाधनत्वप्रकार उपदिश्यते, सच विध्यपेक्षित एवअन्यथा तत्प्रवृत्त्यनिर्वाहात् । ततश्च विध्यपेक्षितत्वान्नस्वार्थे अप्रामाण्यम् ।साधितंच मन्त्रार्थवादानां प्रामाण्यं पूर्वमेवेत्याशयःनन्वस्तु देवतानामपि फलप्रदत्वं तावता अपूर्वस्य फल प्रदत्वेकिमनुपपन्न मित्यत्राह - एवमिति । देवतानां फलप्रदत्वं श्रुतं अपूर्वस्यफल प्रदत्वं चाश्रुतमिति भवन्मते श्रुतपरित्यागः अश्रुतपरिकल्पनंचेतिमहान् दोषः । नन्वपूर्वस्यार्थापत्ति विषयत्वेन शाब्दविषयत्वाभ्युपगमात्न कल्प्यत्वमिति चेन्न क्षणध्वंसिकर्मणः फलप्रदत्वान्यथानुपत्त्याहिअपूर्वस्य तदिष्यते, तत्र देवतायाः फलप्रदत्वश्रवणानुरोधेन देवताप्रसादस्यैवान्यथानुपपत्त्या फल प्रदत्वं कुतो नाभ्युपगम्यते ।अतः वचनान्तरविरोधेनापूर्वस्यार्थापत्ति विषयत्वं न युक्तमितिननु नियोगरूपमपूर्वं लिङ्गादि वाच्यमेव, नार्थापत्तिविषयोऽपि ।अतो नाश्रुतकल्पनादीत्यत्राह - लिंङ्गादयोपीति। कृति साध्यत्वमेवलिङ्गर्थः नत्वपूर्वम् । अतोऽपूर्वस्वरूपस्य तस्य लिङ्गवाच्यत्वस्यच कल्पनं महागौरवमिति भावः ।शब्दानुशासानानुमतमिति। अप्रतिषिद्धत्वादितिभावः । प्रागेवोक्तं = प्रथमाधिकरणसिद्धान्तभाष्य एवोक्तमित्यर्थःनन्वस्तु वाय्वादिदेवतानां फलप्रदत्वं अथापि भगवतः सर्वफलप्रदत्वमनुपपन्नमेव, श्रुतविरोधात् । एवं देवताना भाराध्यत्वं, अभोक्तुःपरस्य प्रीयमाणत्वं च विरुद्धं अतोऽभोक्तुरतृप्तस्य भगवतः सर्वकर्मफलप्रदत्व कथनमयुक्तमेवेत्यत्राह - वाय्वाद्यात्मनाचेतिभगवतस्तत्तदन्तर्यामित्वेऽपि यष्टुः तादृशज्ञानाभावेन कर्मसमाराध्यत्वेनकर्माकरणात् कथं भगवतस्तृप्तिः फलप्रदत्वंचेति शंकानिराकरणाय स्मृतिवाक्योदाहरणम् । न केवलं भोक्तृत्वमात्रं अपितु फलप्रदत्वरूपप्रभुत्वमपिइत्येतादृशतास्पर्यकमित्याशयेन प्रभुरिति=फलप्रदायीत्यर्थःइत्युक्तम्एवं भगवतः परंपरया साक्षाद्वार्चनं लोकसिद्धमपीत्याह - लोके चेति।भूमिः=विषयत्वम् । सर्वं समञ्जसमिति । एवमभ्युपगमे एवसर्व विध्यर्थवादमन्त्राणांसामञ्जस्यमिति भावः ।यद्यपि देवताधिकरणे प्रीतिः फलप्रदानंच देवतानां नविद्यते इति वदतांमीमांसकानां मतस्य प्रतिक्षेपात् देवतायाः फलप्रदत्वमुक्तमेव ।विशिष्य कृतप्रयत्नापेक्षस्तु विदित प्रतिषिद्धावैयर्थ्यादिभ्यइत्यत्र पुण्ये पापेच पूर्वकर्मानुरूपं ईश्वरः प्रवर्तयती त्युक्त्याईश्वराधीनमेव कर्मफलमिति ईश्वरस्यफलप्रदत्वं सिद्धम् । अथापि साक्षीचेता, अवाक्यनादरः इत्यादिषु तस्य साक्षित्वानादरत्वादिश्रवणात्ततेन च केषांचित् उपासनाऽप्रवृत्तिस्स्यादितितन्निराकरणार्थं पुनःऔदार्यगुणाविष्करणेन फल प्रदत्वमुच्यते । अयमाशयः - तटस्थत्वानादरत्वादिभवतु भगवतःअथापि तद्वचनमन्याभिप्रायकमेव, सर्वज्ञस्य भगवतः महावत्सलत्वेनात्युदारत्वेनच शास्त्रेषु बोधनात् । अत एव हि विधिनिषेधस्थलेऽपि तयोर्भगवदाज्ञारूपत्वेनतदनुष्ठानाननुष्ठानादौ भगवत्प्रत्यप्रीतिभ्यां सुखादि फल प्रदत्वमितितदतिरिक्त पुण्यपापे पुरुषे न कल्प्येते । आज्ञानुष्ठानाननुष्ठानाभ्यांआज्ञापयितुः प्रीत्यप्रीतिजननस्य नियतत्वात् तत्प्रयुक्त फलप्रदत्वस्यनियतत्वाच्च । अतः परमेव ब्रह्म स्वाज्ञाभूतस्वाराधनरूप यागदानहोमस्तुतिनमस्कार कीर्तनार्चनध्यानानामनुष्ठाने प्रीतस्सन् तत्तत्फलंभोगापवर्गभूतं प्रयच्छतीति तस्यैव सर्व फलप्रदत्वमेष्टव्यमितिएवमभ्युपगमादेव वाय्वादि देवताराधनरूपकर्मणां विपाकात्प्रागेव कालकाल्यानांतासां देवतानां नाशेऽपि अनुष्ठातुः फलोपपत्तिर्युक्ता । अन्यथातासां नष्टत्वेन फलप्रदत्वासंभवात् । भगवतश्च तत्तदन्तर्वर्तिनःपरमपुरुषस्याकालकाल्यत्वेनसर्वदाऽवस्पितेः फलप्रदानोपपत्तेः अनुष्ठातुः फलप्राप्तिर्युक्ता इति ।।समाप्तं फलाधिकरणम् ।।अथ तृतीयाध्याये तृतीयः पादः ।।

धर्मपदस्य, जैमिनिपदस्य च सत्त्वेनोत्तरसूत्रस्य पक्षान्तरपरत्वमित्यभिप्रयन्नाह - संप्रतीति । अत एवेत्येतदविशेषेणोक्त हेतुद्वयपरमित्याशयेनव्याचष्टे - उपपत्तेः शास्त्राच्चेति । धर्ममित्यस्यान्वय सौकर्यायफलप्रदमिति विधेयविशेषण वाचकपदमध्याहृतम् । धर्मस्यैव फल प्रदत्वंजैमिनिर्मन्यत इत्यर्थः । नन्वीश्वरस्य फलप्रदत्वे योहेतुः स एवधर्मस्य फलप्रदत्वेऽपि हेतुरिति विरुद्धभाषणमित्यत्र क्रमेणोपपत्तिंशास्त्रं च दर्शयति - लोके हीति । कृत्यादिकं मर्दनादिकं च कर्मेतिपाठः स्वरसः न तु कृत्यादि कर्म, दानादिकं च कर्मेतिकृष्यादेर्मर्दनादेरपि भवति फलं द्वारतो वाऽन्यथा वेति सारावलीग्रन्थात्तत्पाठस्य आचार्याभिमतत्वप्रतीतेः । एवं वेदेऽपि यागदानहोमादीनामितिदानस्य पृथक्कीर्तनाच्च । ननु लोके कस्यचित् साक्षादिव परंपरयापिफलसाधनत्वदर्शनात् वेदेऽपि यागादीनां परंपरया फलसाधनत्वमुपपन्नमेव,अथापि श्रुतपरित्यागो दोषः इत्यत्र द्वारतया स्वीकृतस्यापूर्वस्यापिश्रुतत्वात् न श्रुतपरित्यागः इत्याशयेन शास्त्राच्चेत्येतद्विवृणोति - तथेत्यादिना।स्वर्गस्य कर्तव्यतया = स्वर्गार्थं कर्तव्यतयेत्यर्थः । अन्यथानुपपत्त्येति,पदजन्यपदार्थोपस्थितिविषयस्येवार्थापत्तिविषयस्यापि शाब्दबोधे भानाभ्युपगमात्आशुतरविनाशिनांच कर्मणां कालान्तरभावि फलजनकत्वासंभवेन तेषां फलसाधनत्वबोधनान्यथापपत्त्या द्वारभूतस्यापूर्वस्य फलसाधनत्वावश्यकत्वाच्चश्रुतस्यतस्यैव फलसाधनत्वमिति भावः ।।