13 पराधिकरणम्

(3.02.07) पराधिकरणम्अथोत्तराधिकरणसंगतिमाह - इदानीमिति । ब्रह्मणः उभयलिंगत्वस्यैतावतोक्तत्वेनप्रस्तुतत्वात् अस्मादित्युक्तम् । अत इति सूत्रकारोऽपि निर्दिशति ।उभयलिंगाधिकरणेन साक्षात्संगतिरिति सूचयितुं न स्थानतोपि परस्येतिसूत्रनिर्दिष्ट परशब्दः परस्मादित्यनेनोपात्तः । अस्य च प्राप्यतयापरस्मादित्यर्थः । प्राप्यभूतस्य सर्वोत्कर्षबोधनायाह - जगन्निमित्तोपादानभूतपरमकारणादिति ।परमकारणादित्यत्र परमशब्देनकारणान्तराहित्यमुक्तम् । परब्रह्मणः = परमकारणत्वप्रयुक्तोत्कर्षवतो ब्रह्मणः इत्यर्थः । निर्दोषत्वेति । इदं च दृष्टान्तार्थंयथाच निर्दोषत्वस्थेम्ने पूर्वाधिकरणे अचितः ब्रह्मरूपत्व प्रकारःचिन्तितः तथैवास्मिन्नधिकरणे कल्याणगुणाकरत्वस्थेम्ने परंनास्तीत्युच्यतेइति । यद्वा निर्दोषत्वेत्यादेः उभयलिंगत्वस्थेम्ने इत्यर्थः ।तथा च परब्रह्मणोऽप्यन्यस्य परस्य प्राप्यभूतस्य सत्वे अस्य प्राप्यत्वोपयोगिभोग्यगुणजातवैकल्येनास्मिन्नुभयलिंगत्वस्यन पौष्कल्यमिति।निराक्रियतइति भावः । तथाचोभयलिंगाधिकरणोक्त निरस्तनिखिलदोषत्वं पूर्वाधिकरणेस्थिरीकृतम् ।अत्रच तदुक्तकल्याणगुणाकरत्वं स्थिरीक्रियते इति संगतिरितिभावः । संशयमाह - तत्रेयमिति। एतस्मादित्यनेन अतश्शब्दार्थः उक्तःपरमित्यस्य विशेष्यवाचकपदं किञ्चितत्वमित्यध्याहृतम् । सेतुशब्दःभावप्रधाननिर्देशः । व्यपदेशशब्दश्च द्वन्द्वान्ते श्रूयमाणत्वेनप्रत्येकसंबन्धीत्याशयेनोक्तं सेतुत्वव्यपदेशादिति । अनेन कथं प्राप्यभूततत्वान्तरावगमःइत्यत्रोपपादयति - सेतुशब्दस्यचेति । अयं भावः यथाच लोके सेतोः तीरान्तरप्रापकत्वंतथा ब्रह्मणोपि सेतुत्वव्यपदेशेन वस्त्वन्तर प्रापकत्वमुक्तं भवतिःततश्च ब्रह्मणा प्रापणीयं किंचित् ततोप्युत्कृष्टं तत्त्वमस्तीतिसिध्यतीति । अत्र सेतुन्मानसंबन्धभेदव्यपदेशादिति निर्देशेनैव सूत्रोचित्येसति बहुवचनतया निर्देशात् तत्तद्व्यपदेश बहुल्यमस्तीति सूचित मित्याशयेनव्यपदेशान्तरमाह - तथा - एवंसेतुमितिअत्र जगत्कारणस्य ब्रह्मणः तीर्त्वेति अतिक्रमणीयत्वबोधनात् तदतिक्रम्याधिगन्तव्यंकिंचिदस्तीति सिध्यतीति भावः ।। अस्तितां द्योतयतीति । उक्त ब्रह्मणःपादचतुष्ट्यवत्वादिना परिमितत्वोक्तेः अपरिमितस्यैव प्राप्यत्वात्इतोप्यपरिमितं प्राप्यभूतं किञ्चदस्तीत्यवगम्यत इत्याशयः ।सेतुसेतुमतोःप्रापकत्व प्राप्यत्वलक्षणइति। पूर्वं केवलसेतु व्यपदेशः अत्रतुप्रतिसंबन्धिनिर्देशसहितसेतुशब्दनिर्देशः इति भिदा । अमृतस्येत्यादिअत्र सेतुशब्देन ब्रह्मणः प्रापकत्वोक्तेः अमृतस्येति अन्यस्यप्रापकत्वोक्तेश्चान्यदेव परं प्राप्यमित्यध्यवसीयते इति भावःपरात्परं=जगत्कारणादुत्कृष्टमित्यर्थः । श्रुतावुभयत्र पञ्चम्यन्तपरशब्दःजगत्कारणविषयःइत्याशंकितुराशयः ।तेनेद पूर्णं पुरुषेणसर्वमिति । एतदनन्तरं “इतिप्रकृत्य’ इत्यध्याहारः ।तथा च तेनेदमिति परमात्मनः प्रस्तुतत्वात्तत इति तच्छब्देन तं परामृश्य तस्मादपि “उत्तरतरमिति उत्कृष्टस्यबोधनात् अन्यदेव प्राप्यं वस्तु इत्याशयः । अत्र श्रुतौ ततइत्येतन्नहेतुवाची परंतु प्रकृत ब्रह्मवाचीति पूर्वपक्षिणो हृदयम् । तथाचातिवाहिकन्यायेनसर्वजगत्कारणभूतं परब्रह्मैव प्राप्यान्तरप्रापकः इति अस्मादपिपरं प्राप्यं किंचित्तत्वमस्तीति पूर्वपक्ष्याशयः ।।

तुशब्दस्वारस्यादुत्तरसूत्रं सिद्धान्तपरमित्याशयेनाह - एवं प्राप्त इति ।सर्वलोकासंकरकरत्वश्रुतेरिति ।यथा च सेतुः उभयपार्श्ववर्तिनामसंकरकरःतथेदं ब्रह्मापि सर्वस्य जगतः असंकीर्णत्वेन स्थापकमिति सेतुसादृश्याभिप्रायेणसेतुत्वव्यपदेशः इति भावः । तीरान्तरप्राप्तिहेतुत्वमेवात्र कुतोन विवक्ष्यत इति चेत् ? एषां लोकानामसंभोदायेति वर्णासंकरकरत्वप्रयुक्तसेतुसादृश्यस्य कण्ठोक्तेः तद्विरुद्धार्थकल्पनस्यायुक्तत्वात्अथोक्तार्थमवयवार्थप्रदर्शनेनापि द्रढयति - सिनोतीति। एवं सेतुशब्दस्यप्रमाण बलेनान्यथासिद्धत्वात् सेतुं तीर्त्वत्यत्रापि अन्यथा नयनमेवकार्यमित्याशयेनाह - एतमितिननु तरत्तेः प्राप्तिवचनत्वं न दृष्टम् । अत एव हि “अविद्यया मृर्त्युतीर्त्वाइत्यत्रापि तरतेरन्यर्थाकत्वमभ्युपगत मित्यत्र प्राप्तिवाचकत्वेलोकप्रसिद्धिमाह - यथेति। अत्र तरतेरन्यार्थकत्वं बाधितम् । मृत्युंतीत्वा"इत्यत्रतु “तर्तु मृत्युमविद्ययेति” उपबृंहणानुसारादन्यार्थकत्वंस्वीकृतम् । विवृतं चेदं जिज्ञासाधिकरणभाष्य व्याख्याने ।।

अथोन्मानव्यपदेशस्यान्यथानयनपरं सूत्रं व्याख्याति - योऽयमिति । बुध्यर्थः इतिव्याख्येय पदनिर्देशः । तथा चापरिच्छिन्नस्य ब्रह्मणः चतुष्टयपादवत्त्वोक्तिरुपासनार्था । एष म आत्माऽन्तर्हृदय इति अल्पायतनत्वोक्तिवदिति भावः ।एवमुन्मानन्यपदेशस्योपासनार्थतयानिर्वाहे प्रमाणमाह - सत्यमिति । स्वतोऽपरिमितस्य स्वतः परिमितत्वं हिविरुद्धं, उक्तमुभयलिंगं जगत्कारणं ब्रह्म च स्वतः अपरिमितं अनन्तमितिपरिच्छेदत्रयराहित्योक्तेरित्याशयः । ननु सत्यं ज्ञानमनन्तं ब्रह्मेतिवाक्यमपि प्राप्यभूत तत्त्वान्तर विषयकमेव नतु जगत्कारणत्वनोक्तोभयलिंगब्रह्मविषयकमितिकिं नस्यादिति शंकामपाकरोति - जगत्कारणत्वं हीतितस्यैव अनन्तत्वेनोक्तस्यै वेत्यर्थः । सत्यं ज्ञानमनन्तमित्युक्तस्यैवतस्माद्वा एतस्मादिति परामृश्य आकाशः सभूतः इत्यादिना जगत्कारणत्वोक्तेःजगत्कारणविषयकमेवापरिच्छेदवाक्यमिति जगत्कारणत्वेनाभिमतस्योभय लिंगस्यब्रह्मण एवापरितत्व सिध्या स्वतः उन्मितत्वं न संभवतीति तद्व्यपदेशस्योपासनार्थत्वमेवस्वीकर्तव्यमिति भावः । पादवदित्येतत् विवृण्वन्नुपसंहरति - अतो यथेति।ब्रह्मणो कारणादि पादव्यपदेश इति । अयं भावः - मनो ब्रह्मेत्युपासीतेत्यध्यात्मंतदेच्चतुष्पाब्रह्म वाक्पादःप्राणःपदः चक्षुःपादःश्रोत्रं पादःइत्यत्र ब्रह्म प्रतीकभूतमनसः वागादिपादव्यपदेशः उपासनार्थ एव नतु तात्विकः मनसः वागादिपादत्वासंभवात् तद्वदुन्मानव्यपदेशोपीति ।।

उत्तरसूत्रं चोद्यमुखेनोत्थापयति - स्वयमनुन्मितस्येति । उन्मानव्यपदेशस्योपासनार्थत्वेपिस्वतोऽपरिच्छिन्नस्य कथं परिच्छेद्यत्वं स्वभावविरोधात् परिच्छिन्नत्वमपरिच्छिन्नत्वंच हि परस्परविरुद्धम् । नहिपरस्परविरुद्धयोर्धर्मयोरेकत्र समावेशोयुक्तः इति शंकाहृदयम् । दृष्टान्त भूतवागादिविषयतया सूत्रं व्याचष्टेप्रतिपन्नेति ।अनेन दार्ष्टान्तिकेऽप्युन्मितत्वानुसन्धान संभवःअर्थसिद्धः । प्रकाशादिवदिति सूत्रखण्डं व्याचष्टे - यथेति। आकाशादेरित्यनेनसूत्रस्थादिशब्दो विवृतः । अयं भावः स्वतोऽपरिच्छिन्नत्वं स्वतःपरिच्छिन्नत्वं च विरुद्धं, न त्वौपाधिकपरिच्छिन्नत्वं स्वाभाविकापरिच्छिन्नत्वंचस्वतोऽपरिच्छिन्नस्य ब्रह्मणः अस्मदनुग्रहायोपासनार्थं औपाधिकाल्पत्वसंभवात्अतो न कश्चिद्दोषः इति ।।

अथ तृतीयहेत्वनुवादपुरस्सरं तन्निराकरणपरं सूत्रं व्याचष्टे - यदुक्तमिति ।स्वस्यैव प्राप्यत्वे प्रापकत्वे च श्रुतिमाह - नायमात्मेति । उदाहृतश्रुतौ “स्वांतनू"मिति स्वस्य प्राप्यत्वस्य एष आत्मा विवृणुते इति स्वस्य प्रापकत्वस्य चोक्तेःस्वस्यैव प्राप्यत्वप्रापकत्वोभयस्य सिद्धिरिति भावः । अनन्योपायत्वश्रवणादिति ।प्राप्यस्यैवोपायत्वश्रवणादित्यर्थः । अनेनाभिमतं सिद्धोपायत्वं ब्रह्मणःदर्शितम् । तथा चामृतस्यैष सेतुरित्यादौ अमृतस्य ब्रह्मणः इति वा । ब्रह्मप्राप्तिमोक्षस्येति वा योजनं कार्यमिति न प्राप्यवस्त्वन्तरसिद्धिरिति भावः ।।

अथ भेदव्यपदेशमनूद्य दूषयति - यत्पुनरुक्तमिति । अक्षरात्परतः परः इतिवाक्योदाहरणं समाधानसौकर्यार्थम् । तत्र हि परतः परः परमात्मेति निश्चितम् ।तद्वदत्रापि सर्वोत्कृष्टत्वेन प्रतिपादितः जगत्कारणभूतः परमपुरुष एवेतिभावः । सूत्रं व्याचष्टे - तत्रैवेत्यादिना । तत्रैव = श्वेताश्वतरोपनिषद्येवप्रतिषेधवाक्यं दर्शयति - यस्मादिति । तथा च परमपुरुषस्य परत्वोक्तेःततोन्यस्य परत्वासंभवोक्तेश्च ततो यदुत्तरतरं परात्परमित्यादौ सर्वस्मादपिपरभूतात् परमात्मनः अन्यस्य परत्वकथनं च विरुद्धमिति भावः । ननु यस्मात्परंनापरमस्तीति परमपुरुषादुत्कृष्टस्यान्यस्य निषेधेनाधिकनिषेधसिद्धावपिसमनिषेधाभावात् परमपुरुषसमस्यान्यस्य सिध्या ततो यदुत्तरतरं परात्परमित्यस्यापिकथञ्चित् एतत्तात्पर्यकत्वसंभवात् अन्यस्य प्राप्यस्य प्रतीतिःदुर्वारैवेत्यत्रोदाहृतश्रुतेरर्थमाह - यस्मादपरमिति यस्मादिति पञ्चम्यन्तस्यन परशब्देनान्वयः किन्त्वपरशब्देनैवेति भावः ।तेन फलितमर्थमाह - न केनापीति । परमपुरुषादन्यस्योत्कृष्टत्वनिषेधे सर्वप्रकारेणापिउत्कृष्टनिषेधसंभवात् समाधिकनिषेधः अनैनैव वाक्येन कृतस्स्यादित्याशयःनन्वेवं व्युत्क्रमेणान्वये किं निबन्धनमित्यत्र श्रुत्यन्तरपर्यालोचनामाह -तथाऽन्यत्रापीति ।अत्र हि एतस्मादन्यत्परमित्युक्त्या अन्यस्यैव परत्वनिषेधः कृतःतथा न तस्येशे=ईष्टे इति परमपुरुषस्यैव सर्वपरत्वोक्तेःसमाभ्यधिकनिषेधःसिद्धःइति भावः । एवं परमपुरुषवेदनस्यैकस्यैवापवर्गोपयत्वोक्तेः समनिषेधोऽप्यावश्यकःइति यस्मादपरं परं नास्तीत्येवान्वयः स्वीकर्तव्यःअन्यथा यस्मात्परं नास्तीत्येतावतैवोपपत्तौ अपरशब्दवैयर्थ्यम् चइति यस्मात्परमिति वाक्येनेव उदाहृतवाक्यद्वयेनापि परमपुरुषादन्यस्यपरत्वनिषेधःकृतः । अतस्तद्विरुद्धार्थकल्पनं न प्रमाणिकमिति सिद्धम् । ननुयस्मादपरं परंनास्तीत्यत्र परत्वेन शंकित चर्तुमुखादिविषय एवापरशब्दइति कथं कार्त्स्न्येन परत्व निषेधः इति चेन्न संकोचकाभावात् ।कार्त्स्न्येनपरत्वनिषेधो हि स्वतः प्राप्तः ।नह्येतस्मादिति श्रुत्यन्तरेपिहिसामान्यत एव परत्वनिषेधः कृतः । तस्मान्नेयमाशंका युक्ततरेति ।ननूदाहुतवाक्ये सर्वस्मात्परत्वेनोक्तं न जगत्कारणवस्तु तथाचजगत्कारणादन्यस्यैव परत्वोक्या तस्यैवप्राप्यत्वमिति परत्त्वसिद्धिरित्यत्रसर्वस्मात्परत्वेनोक्तमेव जगत्कारणमिति दृढयति - तद्धि जगदुपादानकारणतयेतिननु हिरप्यगर्भः संभवर्तताग्रे प्रजापतिः प्रजाःअसृजत धाता यथापूर्वमकल्पयदित्यादिभिःहिरण्यगर्भस्य कारणत्वं प्रतिपाद्यते । अतस्तदैकार्थ्यात् सद्ब्रह्मात्मादिसाधारणशब्दा अपि तद्विषया एवेति सर्वस्मात्परत्वोक्तस्य न जगत्कारणत्वमित्यत्राह - अद्भयःसंभूतइति । पुरुषमेनं प्रत्यभिज्ञापयतीति । पुरुषादधीति पुरुषशब्दश्रवणात् विद्युतः इति विद्युद्वर्णत्वोक्तेः अद्भयः संभूतः इत्यादिवाक्येषुलक्ष्मीपतित्वोक्तेः यमन्तस्समुद्रे कवयो वयन्तीति समुद्रशायित्वप्रतिपादनात्तदक्षरे परमेव्योमन्निति परमव्योमसंबन्धोक्तेःअन्यत्र चतुर्मुखशिवयोः सृज्यत्व संहार्यत्वोक्तेश्च जगत्कारणंपरमपुरुष एवेत्यवगमात् तदेकप्रकरणपठितस्य हिरण्य गर्भःइत्यादिवाक्यस्यापिपरमपुरुषविषयकत्वमेवेति सर्वपरत्वेनोक्तः परमपुरुष एव जगत्कारणमिति भावः ।1) हिरण्यगर्भः समवर्तताऽग्रे भूतस्य जातः पतिरेक आसीत् ।स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।।अनया भगवतः परत्वं जगत्कारणत्वं जगद्व्याप्तिः तत्फलादिकं प्रतिपादितम् ।2) यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव ।स ईशेऽस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ।।अनया तस्यैव सर्वानुरञ्जकत्वं शेषित्वं च प्रतिपादितम् ।3) य आत्मदाः बलदाः यस्य विश्व उपासते प्रशिषं यस्य देवाः ।यस्य च्छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ।।अत्रेतरासंभावनाभूतमौदार्यं प्रदर्शितम् ।4) यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः ।यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ।।अत्र विभूतिविशेषः प्रदर्शितः ।5) यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने ।यत्राधि सूर उदितौ व्येति कस्मै देवाय हविषा विधेम ।।अत्र सर्वलोकानां लोकेश्वराणामपि तदधीनत्वं प्रोक्तम् ।6) येन द्यौरुग्रा पृथिवी च दृढे येन सुवः स्तभितं येन नाकः ।यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ।।अत्रास्य महिमातिशयः प्रपञ्चितः ।7) आपो ह यन्महतीः विश्वमायन् दक्षं दधाना जनयन्तीरग्निम् ।ततो देवानां निरवर्ततासुरेकः कस्मै देवाय हविषा विधेम ।।अत्रानेनैव ब्रह्मसृष्टिः देवानां नियमनं च दर्शितम् ।।8) यश्चिदापो महिना पर्यपश्यत् दक्षं दधाना जनयन्तीरग्निम् ।यो देवेष्वधि देव एकः आसीत् कस्मै देवाय हविषा विधेम ।।अत्र ब्रह्मादीन्प्रति स्वामित्वं निरूपितम् ।।कस्मै = महते प्रजापतये । देवाय = निरुपाधिक क्रीडा विजिगीषादि सर्वार्थवते,हविषा = आत्मरूपेण, पुरोडाशादिभिर्वा, विधेम = तस्मै शेषभूताः परिचर्यांविदधीमहि ।। इत्यादिकमत्र बोध्यम् ।। ननु ततो यदुत्तरतरमित्यत्रतच्छब्देन परमपुरुषपरामर्शात् तस्मादप्युत्कृष्टस्य साक्षादेव बोधनात्यस्मात्परमित्यादिवाक्यं कथञ्चिदन्यथा नेतव्यमेव । अन्यथा एतद्वाक्यस्यार्थोपपादनासंभवादित्याशयेन शंकते - ततो यदुत्तरतरमिति । तत इत्यत्र तच्छब्दो न परमपुरुषवाचीकिं तु ततः इत्येतद्धेतुवाचीत्युत्तरत्र वक्ष्यन् तदुपयोगितया पूर्वंप्रकरणं प्रदर्शयति - पूर्वत्रेत्यादिनातत इत्यादि श्रुतेरर्थमाह - यदुत्तरतरमिति । अयमर्थः - जगत्कारणात्परस्मात्ब्रह्मणः उत्कृष्टं परं यतो नास्ति, ततः = तस्माद्धेतोः उत्तरतरं = सर्वोत्कृष्टंजगत्कारणं यद्ब्रह्म तत् अनामयं = कर्मकृतरूप तत्कृतदुःखसंबन्ध विरोधितापत्रयप्रतिभटमिति एतद्ब्रह्म य विदुः ते अमृता भवन्तीति । एवं ततो यदुत्तरमित्यन्यथासिद्धत्वात् न प्राप्यवस्त्वन्तर बोधन समर्थ मित्युक्तम् । अथ विपक्षेबाधकमप्याह - अन्यथेति । उपक्रमविरोध इति । तत इत्यस्य हेतुपरत्वानभ्युपगमेनपरमात्मपरत्वाभ्युपगमे ततोप्युत्तरतरत्वेनोक्तं पुनः तद्विषयक ज्ञानस्यैवय एतद्विदुमृतास्ते भवन्तीति मोक्षहेतुत्वोक्त्या परमपुरुषवेदनस्यमोक्षहेतुत्वबोधकनान्यः पन्थाः इत्याद्युपक्रमवाक्यविरोधो दुर्वारः इति भावः ।अनन्तरोक्तिविरोधः इति परमपुरुषादन्यस्य उत्तरतरमित्युत्कृष्टत्वबोधने तदुत्कृष्टत्वनिषेधकस्य यस्मात्परं नापरमित्याद्यनन्तरवाक्यस्यविरोधः इति भावः । एवं तच्छब्दस्य परमपुरुषपरत्वेन कश्चिन्निर्वाहःएवं अवधिपरत्वेऽपि तेनेदं पूर्णमिति परमपुरुष व्याप्यजगद्रूपवस्तुनःप्रकृतत्वेन तत्परामर्शित्वाभ्युपगमेन ततः उत्कृष्टपरत्वं परस्यपुरुषस्य बोध्यते इत्यपि निर्वाहो बोध्यः । अथ परात्परं पुरुषमित्यत्रापिन परमपुरुषादन्यस्य परत्वप्रतीतिरित्याह - परात्परमिति । अथ पराययातदक्षरमधिगम्यते यत्तदद्रेश्द्यमित्यारभ्य अक्षरात्परतः पर इतिअदृश्यत्वादिगुणकस्य अव्याकृतादपि परत्वेनोक्तसमष्टिपुरुषात्परत्वेनोक्तस्यसर्वविलक्षणस्य परमात्मनः पूर्वं प्रस्तुतत्वात् तस्यैवात्र परात्परशब्देनप्रत्यभिज्ञानात् स एव परमपुरुषः परात्परमिति समष्टिपुरुषात्परत्वेनकथ्यत इति न तस्मादपि अन्यस्य परत्वेनोक्तिरिति भावः ।।

एवं परमात्मनोऽन्यस्य परस्य वस्तुनः अभ्युपगमे दूषणपरं सूत्रंयोजयित्वा परमात्मन एव सर्वस्मात्परत्वमिति स्वपक्षे प्रमाणबोधनंसूत्रं योजयति - अनेनेत्यादिना। अनेन सर्वगतत्वमिति पदस्य व्याख्येयम्श्रुतौ साक्षादायामशब्दस्याश्रवणात् असंकोचात् सर्वव्याप्तत्वोपपादनसौकर्यायचसर्वव्याप्तिवाचिशब्देभ्यः इत्युक्तम् । बहुवचन स्वारस्यमभिप्रेत्यबहूनि वाक्यान्युदाहृतानि । नित्यं=कालपरिच्छेदरहितं विभुं=देशपरिच्छेदरहितंसर्वगतं=वस्तुपरिच्छेदरहितम् । यद्वा विभुं=प्रभुमित्यर्थः । सर्वगतशब्देनोभयक्रीडीकारः ।। सूत्रस्थादिशब्दार्थं दर्शयति - आदिशब्दादितिसमानाधिकरणवाक्या निगृह्यन्त इत्यर्थः । अनेन धारकत्वनियन्तृत्वशेषित्वादि परवाक्यानामपि ग्रहणं सिद्धम् । ततश्च सर्वव्याप्तत्वधारकत्व नियन्तृत्व शेषित्वादि बोधनात् सामानाधिकरण्य निर्देशोच्चपरमात्मनः कृत्स्तप्रपञ्च शरीरकत्वसिद्ध्या तस्मादधिकतत्वनिषेधःसंभवतीति भावः । इदमेव च स्वपक्षेप्रमाणम् । यदि परमात्मनोऽप्यधिकतत्वमन्यत्स्यात्तर्ह्यस्य सिद्धंश्रूयमाणं कृत्स्न शरीरकत्वं न सिध्येत् ।एवमस्यत्रिविध परिच्छेद रहितत्वोक्तेः । अस्मादधिकवस्तुसद्भावेच तदसिद्धेस्चाधिकवस्तुनिषेधःआवश्यकः इति भावः । अधिकरणार्थमुपसंहरति - अत इतिकण्ठतः अधिकवस्तुनिषेघात् सर्वव्याप्तत्वादि प्रमाणबलाच्च परस्मादन्यस्यपरत्वासंभवेनेदं परमेव परम पुरुषाख्यं ब्रह्म सर्वस्मादपि परमितिसिध्यतीति भावः ।। पराधिकरणं समाप्तम् ।।