12 अहिकुण्डलाधिकरणम्

(3.02.06) अहिकुण्डलाधिकरणम्अथ सविस्तरमुक्तार्थानुवादपुरस्सरमुत्तराधिकरणसंगतिमाह - मूर्तामूर्तात्मकस्येति ।अचित्प्रपञ्चस्येतिप्रकृतार्थोपयोग्यर्थविशेषनिर्देशः । तत्र चेतनाचेतनात्मकप्रपञ्चस्यब्रह्मरूपत्वोक्तेः ।कदाचिदपि ज्ञानादिसंकोचाभावात् चेतनेभ्योऽप्येषसत्यमित्युक्तमित्यन्वयः । क्षेत्रज्ञो जीवः। अत्र प्रधानजीवपतित्वोक्तेःचेतनाचेतन प्रपञ्चस्य नियाम्यत्वात्मक विभूतित्व लक्षण ब्रह्मरूपत्वमुक्तं भवति । गुणेशत्वोक्त्या गुणवश्यजीव व्यावृत्तिसिद्धेः ब्रह्मणःज्ञानादि संकोचाभावश्च फलितः ।नित्यइति। नित्यानेकचेतनानां नित्यैकचेतनस्यब्रह्मणः कामप्रदत्वोक्त्या पतित्वं सिद्धम्ब्रह्मरूपत्वप्रकारः इति। अचिद्वस्तुनः ब्रह्मरूपत्वं पूर्वमुक्तम्अत्र तत्प्रसंगेन ब्रह्मरूपत्वप्रकारश्चिन्त्यते इति संगतिः ।अथोभयलिंगपदे साक्षादपि संगतिरस्तीत्याशयेनाह - ब्रह्मणोनिर्दोषत्वसिध्यर्थमिति।अहिकुण्डलन्यायेन एकजातियोगेन च अचितः ब्रह्मरूपत्वाभ्युपगमेहिनिर्दोषत्वमनुपपन्नंभवेत् । अतो निर्दोषत्वानुगुण ब्रह्मरूपत्वबोधनाय पूर्वोक्तनिर्दोषत्वप्रतिष्ठापनार्थम् एतदधिकरणस्यारंभः । संशयमाह - किमस्येति । ब्रह्मरूपत्वमहिकुण्डलन्यायेनेतियथैकस्यैवाहेः कुण्डलभावः ऋजुभावश्चावस्थाविशेषः, तद्वत् । द्रव्यंत्वहिलक्षणमेकमेवतथैवाचिद्वस्तूनि ब्रह्मणः अवस्थाविशेषाः तादृशावस्थाविशिष्टं ब्रह्मत्वेकमेवतथा चाचिद्वस्तुनः ब्रह्मरूपत्वं ब्रह्मण एवावस्थाविशेषत्वमित्यर्थः ।प्रभाप्रभवतोरित्यादि। यद्यपि - एकगोत्वरूपजाति योगस्य खण्डमुण्डादिष्वपिसत्वेन तस्यापि दृष्टान्तीकरणं युज्यते ।अथापि एकजातियुक्तयोः खण्डमुण्डयोःसमप्राधान्यात्अत्रच तदनांगी कारेण गुणप्रधानभावस्याभ्युपगमेन तत्प्रदर्शनाय तदनुरूपप्रभाप्रभावदृष्टान्तःउक्तः ।एकजातियोगेन=ब्रह्मस्वरूपैकजातियोगेनेत्यर्थः । अंशाधिकरणेजीवस्यांशत्वनिर्णयात् जीवस्यैवेत्युक्तम् । नन्वंशाधिकरणे जीवस्येवप्रकृत्यधिकरणे आरम्भणाधिकरणे चाचिद्वस्तुनोपि अंशत्वं स्थापितमेवनहि विशेषणीभूत चिद्वस्तुनः ब्रह्मांशत्वं विना विशिष्टस्योपादनत्वंनिर्वहति । तथा जगद्ब्रह्मणोरनन्यत्वं च । अतः पौनरुक्यमित्यत्रांशाधिकरणोक्तप्रकारेण परिहारमाह - इह स्थाप्यमानमिति । अथ पूर्वपक्षमुत्थापयति - किंयुक्तमिति । अनेनेति । अत्र देवताशब्दनिर्दिष्टाचेतेनेषु ब्रह्मणोऽनुप्रेवशबोधनात्कर्मकर्त्रोः भेदः सिद्ध इत्याशयेन इत्यादि भेदव्यपदेशाच्चेत्युक्तम्ससमुच्चयार्थकचब्देन सूत्रस्थतुशब्दार्थः उक्तः ।। कुण्डलशब्दःभावप्रधाननिर्देशः ऋजुभावस्याप्युपलक्षकः इत्याशयेन कुण्डलभाव ऋजुभाववदित्युक्तम्संस्थानविशेषाः = अवस्थाविशेषाः ।।

वाशब्देनोपयुक्तं विवक्षितमर्थमाह - वाशब्द इति । अथ द्वितीयशिरोपरिग्रहेप्रथमशिरसि अनूक्तमपि दूषणं स्वयमाह - ब्रह्मस्वरूपस्यैवेति । भेदश्रुतय इति ।ननु भेदभूत प्रपञ्चस्य अवस्थावद्ब्रह्मणश्च भेदस्य स्थितत्वात् कथं भेदश्रुतीनांबाधः इति चेदुच्यते - अचिद्वस्तूनां संस्थानविशेषरूपत्वाभ्युपगमात् संस्थानस्यसंस्थानिनश्चाहिकुण्डलन्यायेनैकत्वात् कथं वस्तुतो भेदसिद्धिरित्याशयात् ।अपरिणामित्ववादिन्योऽपीति । ब्रह्मण एवावस्थावत्त्वात् अवस्थावतश्चमृदादेरिव परिणामित्वावश्यकत्वात् ब्रह्मणोऽपरिणामत्वबोधक श्रुतीनां(निर्विकारत्वश्रुतीनां) बाधस्स्यादित्यर्थः । अथ सूत्रार्थमाह - अतोयथेति । प्रभातदाश्रययोरित्यनेन प्रकाशाश्रयशब्दः व्याख्यातः ।एवमिति । ब्रह्मोचित्प्रपञ्चयोरपि ब्रह्मत्वेन तादात्म्यमित्यर्थःतथाच यथा प्रभातदाश्रयोः गुणप्रधानभावेन भेदः तेजस्त्वेनचाभेदःतथ ब्रह्माचित्प्रपञ्चयोरपि प्रधानगुणभावेन भेदः ब्रह्मत्वेन रूपेणाभेदश्चअतः भेदाभेदश्रुतीनामपि न विरोधः इति ।।

पूर्ववदित्युक्ते अहिकुण्डलवदिति पूर्वोक्तप्रथमपक्षः ग्राह्यः इति शंकास्यात्, स च बाधितः, अतः वाशब्दस्य पक्षद्वयव्यावृत्त्यर्थत्वमाह - वाशब्द इति ।पूर्ववदिति खण्डमुत्तरत्र व्याचिख्यासुः पक्षद्वयव्यावृत्तिप्रकारंपक्षद्वयेपि दूषणप्रदर्शनपूर्वकं निरूपयति - एकस्यैवेति । अनेन प्रथमपक्षोदूषितः । उक्तदोषादनिर्मोक्षः इति । भेदापरिणामित्वश्रुतिबाधरूपदोषान्नविमोचनमित्यर्थः । अथ द्वितीयपक्षमनूद्य दूषयति - अथेति । यथा प्रभायांतदाश्रये च तेजस्त्वजातिरनुवर्तते, एवं ईश्वरे चिदचिद्वस्तुनोरपिब्रह्मत्वरूपजातिरनुवर्तते इत्यंगीकर्तव्यम् ।ततश्च सकलश्रुत्यादिविरोधः इत्यर्थः । ब्रह्मापि = ब्रह्मत्वमपीत्यर्थः ।भावप्रधाननिर्देशः । अयं भावः - यथा गोत्वादीनां सर्वव्यक्त्यनुवर्तमानत्वेऽपिन व्यक्तिवाचकपदानां सामानाधिकरण्यं, अन्यथा खण्डोगोरितिवत् खण्डोमुण्डः इत्यपि सामानाधिकरण्यापत्तेः । तथा ब्रह्मत्वस्येश्वरे अचिद्वस्तुनिचानुवर्तमानत्वेपिव्यक्तिभूतेश्वरवाचिपदैः व्यक्तिभूताचित्प्रपंचवाचकपदैश्च सामानाधिकरण्यंन स्यात् । ततश्च श्रूयमाणं तादृशसामानाधिकरण्यं न तन्मते घटयितुंशक्यमिति । अत्रैवमुक्तदूषणस्य सकलश्रुतिस्मृतिव्यवहारविरोधः इतिभड्यन्तरेण प्रतिपादितत्वात् ब्रह्मैवजातिः चिदचिदीश्वरेष्वनुवर्ततेइति पक्षोपि निरस्तः ।तथा सति ब्रह्मरूपजातेः सर्वत्रानुवृत्तौ ब्रह्मणः जगत्कारणत्वतदाधारत्वसर्वज्ञत्वादि गुणाश्रयत्वादीनां श्रुत्यादिसिद्धानामनुपपत्तेःतद्बोधकश्रुतीनां विरोधात् इति ।अथ सूत्रकृदभिमतं अबाधितं पक्षंसूत्रखण्डोपादानेन व्याचष्टे - पूर्ववदेवेत्यादिना । अस्मिन्पक्षेभेदाभेदश्रुतीनां न व्याहतिरित्याह - विशिष्टवस्त्विति । एवमभ्युपगमेपरम प्रयोजनसिद्धिरपीत्याह - ब्रह्मणो निर्दोषत्वं चेति । अथापृथक्सिद्धविशेषणतयांशत्वं लोकदृष्टमितिसूचनाय प्रकाशादिवदित्यंशं पूर्वंव्याख्यातमपि शिष्यस्फुटप्रतिभासाय विशदयति - तदेवमित्यादिनादृष्टान्तसिद्धमर्थं दार्ष्टान्तिकेप्यतिदिशति - तथेहेति ।।

उत्तरसूत्रार्थमाह - स वा इति । अत्र ब्रह्मणि अचिद्धर्मभूत स्वरूपपरिणामादीनांप्रतिषेधेनाचित्स्वरूपैक्यासंभवात् भेदनिर्देशवदभेदनिर्देशस्याप्युपपत्त्यैजीवस्येवांशांशिभाव एवाभ्युपेत्य इति भावः । एवं विशेषणविशेष्यभावेनांशांशित्वसिध्याप्रकृतिश्चेति प्रतिज्ञातं कारणत्वं, तदनन्त्यत्वमित्युक्तं अनन्यत्वंच युक्तं भवतीत्याह - अत इति । अनेन स्वरूपपरिणामाभावेपि न कारणत्वादीनांहानिरिति दर्शितम् । अथ प्रसंगात् कार्यविज्ञान प्रतिज्ञायाः अप्येवमभ्युपगमेप्रधानं फलमाह - ब्रह्मण इति । अथैतदधिकरणस्योभयलिंगपादे संगत्यतिशयंसूचयन् उपसंहरति - ब्रह्मणो निर्दोषत्वेनेतिननु प्रभा तदाश्रयदीपयोः भिन्नयोरपि यथा तेजस्त्वेन तादात्म्यंतथा अचेतनप्रपञ्चस्यापि ब्रह्मत्वरूपजातियोगेन तादात्म्यरूपब्रह्मरूपत्वमेवस्वीकार्यम् । तथा सति हि “एतत्परमं तु ब्रह्म, तस्मिन् त्रयं, भोक्ता भोग्यंप्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्” इत्यादिश्रुतिरुपपद्येत ।अत्र हि चिदचिदीश्वरेषु त्रिष्वपि ब्रह्मत्वस्यानुगतिरुक्ता?इति चेत् । सत्यं, उक्तप्रबलानुपपत्तिभिः अचेतनेषु ब्रह्मत्वस्यासंभवस्यत्वयापीष्यमाणत्वात् अत्रोक्तं ब्रह्मत्वमन्यादृशम् । वस्तुत्रयघटकेश्वरेब्रह्मत्वमस्ति ।चेतनेपि ज्ञानबृहत्त्वमस्ति, अचेतने प्रकृतिरूपे नित्यविभूत्यधः परिच्छेदरूपराहित्यमस्ति । अत एव “तदसंख्यातप्रमाणकमिति अनन्तत्वोक्तिःनित्यविभूतिरूपे अचेतनेपि ऊर्ध्वपरिच्छेदराहित्यमस्ति । तावन्मात्रमुपजीव्यब्रह्मत्वोक्तिरित्यदोषः । यद्वा स्थूलचिदचिच्छरीरकब्रह्म प्रतिसूक्ष्मचेतनाचेतनशरीरकब्रह्मणः कारणत्वात् कारणे कार्ये च चेतनाचेतनवैशिष्ट्यस्यनियतत्वात् त्रयाणामपि ब्रह्मत्वोक्तिः इत्यदोषः ।ननु ब्रह्मणो निर्दोषत्वसिध्यर्थं अस्याधिकरणस्यारंभ इति चेत् अस्य पूर्वाधिकरणशेषत्वमेवोचितम् न पृथगधिकरणत्वम् । यद्वा । वृद्धिह्रासभाक्त्वमन्तर्भावात्उभयसामञ्जस्यादेवं दर्शनाच्च “इत्येतावत्पर्यन्तस्य उभयलिंगाधिकरणत्वंस्वीकृत्य तदुपरि । प्रकृतैतावत्वं इत्यारभ्य एतदधिकरणपर्यन्तस्यपृथगधिकरणत्वं कल्पयितुं शक्यम् । एतद्रीतिं विहायान्यथाधिकरणकल्पनेन बीजमस्तीति चेत्, शृणु - देवादिसर्वदेहसंबन्ध तत्स्वामित्व प्रयुक्तदोषवत्वपरिहारेण ब्रह्मणो निर्दोषत्व सिध्यर्थं उभयलिंगाधिकरणंप्रकृतम् । तत्र हि अखिल हेय प्रत्यनीकत्वकल्याणगुणैकतानत्वस्थापनेनब्रह्मणः सविशेषत्वसिध्या निर्विशेषवादिनां अद्वैतिनां पक्षो निरस्तःअत एव, द्वे वाव ब्रह्मणो रूपे इत्यादिविषयवाक्यमादाय “अथात आदेशोनेतिनेति सर्वनिषेधकरणात् ब्रह्मणो निर्विशेषत्वमेवेति अद्वैतिनांप्रश्ने तन्निषेधार्थं “प्रकृतैतावत्त्वं’ इत्यादेः प्रवृत्तिरितितस्य तदधिकरणशेषता । अत्र तु अचितः ब्रह्मपरिणामित्वे ब्रह्मत्वरूपजातियोगेन ब्रह्मतादाम्ये वा देहादिसर्वतादात्म्यं वक्तव्यमितितत्प्रयुक्तदोषवत्वं ब्रह्मण एव स्यादिति शंकापरिहारमुखेन निर्दोषत्वस्थापनम्अनेन यादवभास्करादि पक्षो व्यावृत्तः । पूर्वत्र प्रपञ्चस्यासत्यत्वमुखेनोत्थापनेतत्परिहारः । अत्र प्रपंचसत्यत्वं स्वीकृत्यैव ब्रह्मतादात्म्यरूपब्रह्मरूपत्वस्वीकारेदोषोद्भावनेन परिहारः इति विवेकः ।अतः न (?) पृथगधिकरणत्वम् ।। समाप्तमहिकुण्डलाधिकरणम् ।।