(3.02.05) उभयलिङ्गाधिकरणम्दोषदर्शनादित्यादि भाष्यं संगतिप्रदर्शकम् । अवस्थाविशेषा निरूपिताः इति ।जीवीय तत्तदवस्थानिरूपणेन ब्रह्मणः स्वाप्नार्थ स्रष्टृत्व सुषुप्तिस्थानत्वादिगुणजातं प्रतिपादितमित्यर्थः । निर्दोषत्वकल्याणगुणात्मकत्वप्रतिपादनायेति । पूर्वाधिकरणसिद्धगुणवत्त्वस्य ब्रह्मणि ज्ञातेऽपिनिर्दोषत्वकल्याणगुणात्मकत्वज्ञाने सत्येवप्राप्यभूतब्रह्मणि तृष्णाप्रजायेतइति तत्प्रतिपादनायारंभः । आरभत इति । सूत्रकारः इति शेषः । स्थानेषु तत्तदवस्थास्वित्यर्थःततत्तत्स्थानप्रयुक्ताः = तत्तदवस्थाप्रयुक्ताः । तत्तदवस्थशरीरेऽवस्थानादितिअनेनाक्षेपसंगतिरपि प्रदर्शिता । ब्रह्मप्राप्तौ रुचिजननाय हि जीवस्यसर्वावस्थासु दोषवत्त्वमुपपादितम् । इदं च स्वसदननिहितहुतवहसदृशंभवति । तत्तदवस्थशरीरे परस्यापि सत्वेनानेकदोषदुष्टत्वात् परब्रह्मणःकथमस्मिन् रुचिर्जायेत इति ।। सा सा अवस्था यस्य सः तत्तदवस्थः,जाग्रदाद्यवस्थाविशिष्टो जीवः । तस्य शरीरेऽवस्थानादित्यर्थःयद्वा तत्तदवस्थं च तत् शरीरं च तस्मिन्नवस्थानात् जीवरूपभगवच्छरीरेस्थितेरित्यर्थः । अथवा - सा साऽवस्था येन तत् तत्तदवस्थम् । तच्च तत्शरीरं च जीवगततत्तदवस्थानां जीवशरीरस्यैव हेतुत्वात् तत्तदवस्थत्वंतथा च जीवशरीरेऽवस्थानादित्यर्थः । अधिकरणानुत्थितिमाशंकते - नन्विति ।इदं सूत्रद्वयं भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवदिति सूत्रस्याप्युपलक्षणम् ।अयमाशयः - जीवस्येव परस्यापि ब्रह्मणः एष म आत्माऽन्तर्हृदय इतिशरीरान्तर्वृत्तित्वाभ्युपगमे जीववदेव शरीरसंबन्धप्रयुक्तसुखदुःखोपभोगप्रसंगः शंकितः । शरीरं प्रति जीवस्येव “यः पृथिव्यांतिष्टत् य आत्मनि तिष्ठन्” इत्यादिप्रमाण शतैः जगद्ररूपशरीरं प्रतिपरमात्मनः स्वामित्वोक्तौ अन्यत्र शरीरवत्वस्य सुखदुःखभोगप्रयोजकत्वदर्शनेनजगत्स्वामिनि परमात्मनि शरीरवत्वप्रयुक्त सुखदुःखभोग प्रसंगश्चपूर्वं शंकितःतत्र शरीरान्तर्वर्तित्वं शरीरस्वामित्वं वा न सुखदुःखोपभोगप्रयोजकंकिं तु कर्मवश्यत्वमेव । अत एव मुक्तस्य नानाविध शरीरपरिग्रहेऽपिन सुखदुःखाद्युपभोगः । भगवतश्चाकर्मवश्यत्वं “पिप्ललमनश्न्नन्यः"इति प्रतिपादितम् । अतः शरीरान्तर्वर्तित्व-शरीरस्वामित्वप्रयुक्तसुखदुःखभोगापादनमकर्मवश्ये परस्मिन्न संभवतीति उभयत्र समाधिरुक्तःतथा चोक्तेनैव हेतुना भगवति सुखदुःखानुभवाद्यपुरुषार्थगन्धाप्रसक्तेःपुनश्च शरीरावस्थितिहेतुना दोषसंबन्धोद्भावनं नोत्थितुमर्हतीति ।अनुत्थितिशंकां निरस्यति - इत्थमुच्यत इति । प्रथमतस्तदुपयुक्तांशंप्रतिजानीते - कर्माण्यपीति ।किं ततः इत्यत्राह - तच्चेति । विपक्षे बाधकमाह - इतरथेति। देहसंबन्धस्यापुरुषार्थत्वंनिगमयति - अतोऽकर्मवश्यत्वे सत्यपीति। ननु कर्मजन्य देहसंबन्ध एवापुरुषार्थःनतु स्वेच्छाकृतोपीत्यत्राह - अतस्तन्नियमानार्थमिति। कुतएवमभ्युपगन्तव्यमित्यत्राह - पूयशोणितादीतिइदमत्र शंकाहृदयम् - कर्मणां देहसंबन्धद्वारा तिरो भावरूपापुरुषार्थहेतुत्वं पूर्वत्रोक्तम् ।तत्र कर्मणां स्वत एवापुरुषार्थजनकत्वेदेहसंबन्धापेक्षा व्यर्थैव स्यात् । एवं तत्र द्वार भूतदेह संबन्धस्यस्वतः अपुरुषार्थत्वं अस्ति न वा नो चेत् देह संबन्धद्वारापि कर्मणामपुरुषार्थजनकत्वमपिन स्यात्अस्तिचेत् परमात्मनोपि अपुरुषार्थ भूतदेह संबन्धस्य सत्वेन कथंतस्मिन् अपुरुषार्थासंबन्धः । अपिच राजकोपस्य खड्गप्रकारादिद्वारावधादि हेतुत्वे द्वारभूत खड्ग प्रहारस्यापि सक्षा द्वधहेतुत्ववत्कर्मणां शरीर संबन्धद्वारा अपुरुषार्थ हेतुत्वे द्वार भूत शरीरसंबन्धस्यापिअपुरुषार्थ हेतुत्मंगीकर्तव्यमिति द्वारभूत शरीरसंबन्धस्य भगवत्यपिस्वीकारेण तस्मिन्नप्यपुरुषार्थ संबन्धः एषितव्य एव । नच कर्मकृतदेहसंबन्धस्यैव पुरुषार्थ हेतुत्वं न स्वेच्छाकृतस्येति नियन्तुंशक्यम् प्रमाणाभावात् अनुभवविरोधाच्च दृश्यते हि पूयशोणितादिगर्तमज्जनस्यस्वेच्छा कृतस्यापि अपुरुषार्थ हेतुत्वंअतः देहसंबन्धस्य वस्तुस्वभाव प्रयुक्तापुरुषार्थ हेतुत्वेन भगवतःस्वेच्छाकृतोपि देहसंबन्धः अपुरुषार्थापादक एव । तस्मात् यद्वस्तुस्वतो हेयं तत्र स्वेच्छयाप्यवस्थानं दुःखकरमेव । नहि राजकिंकरस्यपूयशोणितादिमज्जनं हेयं राज्ञस्तु न हेयमिति युक्तमभ्युपगन्तुम्नहि खड्गेन क्रियमाणो वधः सेवकस्य बाधकः न तु राज्ञः इति वक्तुंशक्यम् ।। अन्यथा तस्य वस्तुनः हेयत्वस्यैवासंभवात् इति ।। पूर्वपक्षमुपसंहरति - अतःइति । कल्याणगुणाकरत्वाभ्युपगमे न तावती विप्रतिपत्तिरित्याशयेनाह - यद्यपिजगदेककारणमिति।स्वतोऽपुरुषार्थत्वस्फोरणाययो रेतसि तिष्ठन्इत्युदाहृतम्राद्धान्तमाह - एवं प्राप्ते प्रचक्ष्महे इति । जीवे जागराद्यवस्थाप्रयुक्तदोषाणामिवपरमात्मन्यपि तत्तदवस्थशरीरावंस्थितिप्रयुक्तदोषाणामाशंकितत्वात्तन्निराकरणपरत्वाय स्थानतः इत्यस्य पृथिव्यात्मादिस्थानतः इत्यर्थःउक्तः । अपि शब्दः स्वतः अपुरुषार्थासंबन्धं सूचयति । जीवानां तुपरतन्त्रचेतनत्वरूपस्वरूपयोचतायाः कर्मपरवशत्वरूपसहकारियोग्यतायाश्चसत्वेन स्वतः स्थानतोपि वा नापुरुषार्थासंबन्धः ।। लक्षणशब्देनलिंगशब्दो व्याख्यातः । लक्षणं = धर्मः । निरस्तनिखिलदोषत्वकल्यामगुणाकरत्वात्मकधर्मद्वयोपतमित्यर्थः । नन्वपुरुषार्थरूपदोषप्रसक्तिशंकायां निर्दोषत्वमेव स्थापनीयं न तुकल्याणगुणाकरत्वमपीति चेत्? उच्यते । नात्र कल्याणगुणाकरत्वस्थापनेव्यग्रता किं तु निर्दोषत्व श्रुतेरिव कल्याणगुणाकरत्वबोधक श्रुतीनामपिदोष शंकानिरासोप योगित्वमभिप्रेत्य तदुक्तिःनहि कल्याणगुणवतः दोषवत्वसंभवः तादृशगुणानां दोषप्रतिपक्षरूपत्वात्इतिससमस्तकल्याणगुणात्मकः इति । आत्मशब्दः स्वभाववाची । समस्तकल्याणगुणःस्वभावः यस्य सः । समस्तकल्याणगुणवानित्यर्थः। कल्याणगुणाकरत्वप्रतिपादनायास्योपादानादेवंव्याख्यातम् । यद्वा = कल्याणशब्दः भावप्रधाननिर्देशः । समस्तकल्याणत्वंगुणः स्वभावः यस्य दिव्यात्मस्वरूपस्य समस्तकल्याणगुणः आत्मा यस्येतिबहुव्रीह्यन्तरम् । अयं च बहुव्रीहिः औपचारिकः । शिलापुत्रकस्य शरीरमितिवत्ततश्चोक्तमात्मस्वरूपस्य कल्याणगुणत्वं हेयप्रत्यनीकत्वमेव ।तेन च निरस्तनिखिलदोषत्वमर्थसिद्धमिति बोध्यम् । निर्गुणवचनस्य हेयगुणाभावपरतयैवयोजना कार्येति सूचनाय समस्तहेयरहितमितिउपबृंहणं प्रदर्शितं तन्त्रेण निरस्तनिखिलदोषत्वमपिदर्शितम् । पदं = प्राप्यम् ।।
उत्तरसूत्रार्थमाह - यथेति । परस्येव जीवस्यापि निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वरूपमुभयलिंगत्वं प्रजापतिवाक्ये श्रुतम् । अथापि देहसंयोगदशायांतस्य तिरोधानेनापुरुषार्थसंबन्धः स्वीकृतः । तथैव परस्यापि देहसंबन्ध दशायां तस्यतिरोधानेनापुरुषार्थं संबन्धः आवश्यकः इत्युक्तशंकांपरिहरति - तन्नेति । प्रतिपर्यायमित्यनेन प्रत्येकमिति पदं विवृतम्अनेनामृतत्ववचनस्य नित्यत्वपरतयार्थवर्णनशंकापि निरस्ता । प्रतिपर्यायंनित्यत्वोक्तेः प्रयोजनाभावेन पौनरुक्यात् । निर्दोषत्वबोधने तुसप्रयोजनता तत्तद्वस्तु निर्दिश्य तत्र तत्रान्तर्यामितया वर्तमानत्वेऽपि तत्तद्वस्तुगतदोषविशेषसंबन्धराहित्यबोधकत्वात् इति ध्येयम्नन्वेवं सत्युभयलिंगत्वेन श्रुतस्य जीवस्य परं कथं दोष संबन्धःइत्यत्राह - जीवस्य त्विति । अस्य परतन्त्रचेतनत्वेन कर्मवश्यत्वात्भगवत्संकल्पतस्तिरोधानमिति अपुरुषार्थयोगः, परस्य तु “न तस्येशे कश्चनेतिपरतन्त्रचेतनत्वनिषेधादकर्मवश्यत्वाच्च न तिरोधानादि प्रसक्तिः ।अत एव जीवविषये उभयलिंगत्व तत्तिरोधान बोधकवचनद्वयं च मिथोऽविरुद्धम्नहि परस्य उभयलिंगत्व तिरोधान वचनं श्रूयते । इदमुपलक्षणम् । जगद्रूपशरीरंप्रति परस्य सर्वदा शरीरित्वेन न जीवस्येवावस्थाभेदमाश्रित्योभयलिंगत्वश्रुतिनिर्वाहः कर्तुं शक्यः तथा सति श्रुतहानाश्रुतकल्पनाप्रसंगादितिजगदाख्यशरीरस्वामित्वात् परस्य सुखदुःखरूपभोगापादनं न युक्तम् शरीरस्वामित्वस्य तत्र कारणत्वाभावात् । घटपटशिलाकाष्ठादिष्वपि जीवसद्भावः अस्माभिः अंगीक्रियते । न हि तेषां शरीरत्वं जीवं प्रतिनास्तीति वक्तुं शक्यते । अपसिद्धान्तप्रसंगात् । यथा प्रलयकालेजीवानां अचेतन प्रकृतिसंबन्धवतां न सुख दुःखानुभवः । तथैव प्रकृतेः शरीररूपेण परिणामानन्तरमपि न तत्स्वामित्व प्रयुक्ततया तेषांछेदनदाहनक्लेदनादिभिः सुखदुःखोप भोगो जायते । तरुगुल्मादीनां तुवृद्धिद्वासादि दर्शनेन सुखदुःखानु भवस्यानुमेयत्वमिव नात्र दुर्घटम्तण्डुलादीनां चन्दनादिभिः अलंकृतत्वे वा वह्न्यादिना क्लेदनकरणेपिवा तच्छरीरस्वामिना जीवेन न सुखदुःखाद्यनुभूयते । स्वर्गादवरोहतांसूक्ष्मशरीरेन्द्रियप्राणसंयुक्तानामपि आकाशादिसंसर्गे न सुखदुःखानुभवः ।। इत्यादि द्रष्टव्यम् ।। अत्र प्राधान्येन स्वीकृतां पूर्वपक्षयुक्तिमनूद्यनिरस्यति - नन्वित्यादिना।न ह्यचिद्वस्त्विति। स्वतो हेयत्वस्य कस्मिंचिदपिवस्तुन्यभावेन नापुरुषार्थत्वं वस्तुस्वभावायत्तमित्यर्थः । अचिद्वस्त्वपीत्यपिशब्देनज्ञानैकाकारस्य चिद्वस्तुनः न स्वरूपतः अपुरुषार्थवत्वमिति किंपुनर्न्यायः सूचितःननु किं चिद्वस्त्वनुकूलं, किं चिच्च प्रतिकूलं दृश्यते तत्कथमपुरुषार्थत्वस्यवस्तुस्वभाव प्रयुक्तत्वाभावः इत्यत्राह - कर्मवश्यानांत्विति । अकर्मवश्यस्यमुक्तस्य हि सर्वमपिभगवद्विभूतिभूतं वस्तु सर्वदाऽनुकूलमेव दृश्यतेअतो नवस्तुस्वभाव प्रयुक्तमित्यभिप्रायेण तु शब्दः उक्तः । कर्मस्वभावानुगुण्येनेतिप्रतिकूलत्वानुकूलत्वे हेतुरुक्तः ।एकमेव वस्तु इत्यनेन प्रतिकूलत्वानुकूलत्वयोःस्वाभाविकत्वाभावोदर्शितः । एकस्यैव वस्तुनः कर्मवशादनुकूलत्व प्रतिकूलत्वोभय संभावना प्रकार व्यक्यै कालभेदेन पुरुषभेदेन चेत्युक्तम्च शब्देनावस्थाभेदो विवक्षितः । अयं भावः वस्तुनः अनुकूलत्व प्रतिकूलत्वेन स्वाभाविके, परंतु औपाधिके एव, यथा प्रातरनुकूलमे वौष्ण्यं मध्याहेप्रतिकूलं, मध्याह्ने चानुकूलमेवशैत्यं प्रातः प्रतिकूलम् । एवंशुनकानामनुकूलमुच्छिष्टं मनुष्याणां प्रतिकूलम् । एवं क्षुधितस्यानुकूलमन्नम्मृष्टं मुक्तवतः प्रतिकूलम् । तथा एकस्मिन्ने व बालके तब पुत्रोऽयमित्युक्तेसुखं शत्रु पुत्रः इत्युक्ते दुःखंच । अतः कालपुरुषावस्थाप्रतिपत्तृभेदेनएकस्मिन्नेव वस्तुनि प्रतिकूलत्वानुकूलत्वयोस्सत्वेन न तयोः स्वाभाविकत्वांअतः कर्मोपाधि वशाज्जीवानां सुखदुःखविभागो नानुपपन्न इतिवस्तुस्वभावायत्तत्वे बाधकमाह - वस्तुस्वरूपेति । ताद्रूप्ये=सुखदुःखादिहेतुत्वे इत्यर्थः । एकस्यैव विरुद्धस्वभाववत्त्वस्यासंभवादितिभावः । उक्तार्थे संमतिमाह - तथा चोक्तमिति । पापपुण्ये = पापपुण्यकार्येइत्यर्थः । ईर्ष्यागमाय । ईर्ष्यायै इत्यर्थः । वस्त्वात्मकम् एकरूपमित्यर्थः ।अनेनैकस्यैव वस्तुनः पुरुषभेदेन सुखदुःखादिहेतुत्वमुक्तम् ।तदेवप्रीतय इत्यादि। अनेनैकस्यैव वस्तुनः एक पुरुषंप्रत्येव कालभेदेनसुखदुःखादि हेतुत्वमुक्तम् ।नच किंचित्सुखात्मकमिति। अनुभूयमानकर्मकृतसुखात्मकत्वं नास्तीत्यर्थः ।भगवद्विभूतित्व प्रयुक्त स्वाभाविकानुकूलत्वस्यनिषेधासंभवात् । एवमुपपादनेन फलितं, कर्मवश्ये ईश्वरपरतन्त्रे जीवेअपुरुषार्थ संबन्धं भगवति तदसंबन्धं चोपपादयति - अतो जीवस्येति। ब्रह्मणःशरीरसंबन्ध प्रयुक्तकर्मवश्यत्व शंकानिराकृत्यै स्वधीनस्येति ब्रह्मविशेषणमुक्तम्अअयं भावः - सर्वस्वामिनः सर्वजगन्नियन्तुः ईश्वरस्य कर्मफलरूपसुखदुःखानुभवःनशक्यशंकःकर्मणः ईश्वराज्ञानुपालन तदुल्लं धनजनितगुणविशेषरूपत्वात् शासितुरीश्वरस्यनिग्रहानुग्रहसंकल्परूपत्वाद्वा ।ईश्वरस्येश्वरत्वभंगभिया न तत्समश्चाश्यधिकश्चदृश्यते इति निषेधेन चाज्ञापकेश्वरान्तराभावात् । तच्छासनस्य तत्परिपालनोल्लंघनजनितानुग्रहनिग्रहादेश्चाभावेन तस्यशास्त्रवश्यत्वकर्मसंबन्धाद्यभावात्,स्वाभाविकानुकूलत्ववत्स्वेच्छाकृतशरीरसंबन्धसत्वेऽपि नापुरुषार्थगन्धप्रसक्तिः । प्रत्युत स्वशरीर भूतचेतना चेतनविचित्रनियमनेन लीलारसएवमहान् इति ।।अमेध्यवस्तुनि सदा संचदतोपि कृमिविशेषस्य न तत्संसर्गप्रयुक्तमलादिसंबन्धो दृष्टचरः ।घृतसंसृष्टक्षीरान्नभोजनेपि जिह्वायां न घृतस्य लग्नता । हस्ते तुवर्तते । तन्निवृत्यर्थं लेपकनिवारणवस्तु अपेक्षामः । न तथा जिह्वायाम्तत्तद्वस्तुनः स्वभावः विचित्रः । नखादिषु सूच्या वेधनेपि न पीडाशरीरे तु पीडा जायते । इत्येवं तत्र तत्र द्रष्टव्यम् । अपराधेनकारागृहे वासस्य दोषावहत्वम् । तत्र द्रष्टुः गमनं न दोषावहम् । प्रत्येकंतत्तद्वस्तुनः स्वभावो विलक्षणः । अतोऽन्यदीयस्वभावमवेक्ष्यान्यत्रारोपणंन युक्तम् ।।
उत्तरसूत्रार्थमाह - अपि चेति । एवंशब्दं विवृणोति - एकस्मिन्नेवेत्यादि ।उदाहरिण्यमाण श्रुतेस्स्पष्टार्थकत्वमभिप्रेत्य स्वशब्देनेत्युक्तम्अत्र हि शरीरसबन्धेपि कर्म सबन्धाभावः सुखदुःखाद्युपभोगाभावपूर्वकंअतिरोहित सर्वज्ञत्वादि गुणवत्तया द्योतमानत्वं च स्पष्टमभिधीयते
अनन्तरसूत्रमवतारयति - अथ स्यादिति । परमात्मनः शास्त्रवश्यत्वाभावेनाकर्मवश्यत्वात्देह संबन्धसत्वेपि नापुरुषार्थसंबन्ध इत्येतावतोक्तं न संगच्छते,तस्यापि शास्त्रवश्यत्वेन कर्मवश्यत्वात् । शास्त्रवश्यत्वं हिविधिनिषेधविषयत्वम् । “ब्राह्मणो यजेत” बाह्मणो न सुरां पिपेदित्यादौब्राह्मणादिपदस्य ब्राह्मणादिशरीरकजीव शरीरकपरमात्मपरत्वेन तस्यापिविधिनिषेधविषयत्वावश्यकत्वात् । अत एव हि अनेन रूपेणेत्यादौ परस्यनामरूपव्याकरणं ब्रह्मशरीरभूतजीवानुप्रवेशपूर्वकमित्युच्यतेतस्मात् परस्यैव मनुष्यादिरूपत्व मनुष्यादि नामभाक्त्व सत्वेनब्राह्मण शब्दस्यैव विशिष्ट ब्रह्मपरत्वात् यजेत, न पिबेदित्यादिविधिनिषेधवश्यत्वं सिद्धमिति कर्मवश्यत्वादिप्रसंगःतेन च जीववदपुरुषार्थंसंबन्धोपि प्रसज्यत एवेति भावः । रूपेण = आकारेणशरीरित्वाद्याकारेणेत्यर्थः । समाधानसूत्रार्थमाह - देवादीति । तदिति व्याख्येयम्रूपरहिततुल्यमेवेत्यनेन अरूपवदेवेति विवृतम् । तुल्यत्वार्थकवतुत्प्रत्ययेनलब्धमर्थं तात्पर्यतो व्यनक्ति - जीववदिति । परमात्मनः जीववत् रूपादिभाक्त्वेपिरूपवत्ता प्रयुक्तविधिनिषेधविषयत्व तत्कृत कर्मवश्यत्व तत्प्रयुक्तसुखदुःखादि भाक्त्वंतु नास्तीत्यभि प्रायेण रूपरहिततुल्यत्व मुक्तमित्यर्थः । निर्वहितेति वक्ष्यमाणश्रुतिस्थपदपर्यालोचनया निर्वाहकत्वेनेत्युक्तंअथ परस्य रूपवत्वेऽपि तत्प्रयुक्तकार्यास्पर्शे प्रधानत्वादित्यनेनविवक्षितं श्रुतिवाक्यमुदाहरति - आकाशो हवै इति । नामरूपकार्यास्पर्शेनेत्यनेनते यदन्तरा इति विवृतम् । ननु कणभक्षादिपक्षे ईश्वरस्य धर्माधर्मयोःप्रेरकत्वेन शरीरान्तरावस्थानेऽपि न शरीरित्वं भवतांतु शरीरित्वेनसर्वानुप्रेवशाभ्युपगमात् तेन भगवति तत्तद्बुद्धि शब्द पर्यवसनस्यस्वीकाराच्च कर्मवश्यत्वं तत्प्रयुक्तसुखदुःखाद्यपुरुषार्थवत्वंच कुतो न संभवतीत्या शंकते - ननु तच्छरीरकत्वेनेति। उक्ताशंकां निराकरोति - इत्थमिति।अयं भावः शरीरितया सर्वानुप्रवेशोहि नियमानार्थः न तु सुखदुःखादिकार्यविशेषार्थःते यदन्तरा इत्युक्तेः । अतश्शरीरित्वेपि नामरूपकार्यभूत सुखदुःखाद्यस्पर्शःयोयुज्यत एवेति । अथ पूर्वपक्ष्यभिमतं भगवतोपि विधिनिषेधगोचरत्वमपाकरोति - विधिनिषेधशास्त्राण्यपीति।शुक्ल शब्दस्य गुणिपर्यन्ताभिधायित्वेपि नीलस्य शुक्लइत्यादावर्थानुपपत्त्याधर्ममात्रपरत्ववत् ब्राह्मणो यजेत इत्यादौ ब्राह्मणादिशब्दस्यापिअर्थानुपपत्त्यैव जीवमात्रपर्यन्तत्वमेवेष्यते । अत एवहि यस्य पृथिवीशरीरमित्यादौपृथिव्यादिशब्दानां परमात्मपर्यन्तत्वं नेष्यते । अस्तु वा ब्रह्मपर्यन्तत्वंअथापि विधिनिषेधविषयत्वस्यान्वयानुपपत्त्या जीवमात्रे एवान्वयःस्वीक्रियतेततश्च ब्रह्मणोपि सद्वारकं कर्मवश्यत्वमिष्टमेव ब्रह्मणि कर्मवश्यत्वान्वयानुपपत्तिश्च"ते यदन्तरे"ति कर्मवश्यत्व निबन्धन नामरूपकार्यास्पर्श बोधनात्यथा च बालत्व युत्रत्वादीनां शरीरेऽन्वयः । यथा च स्थूलत्व सूक्ष्मत्वादेःचेतना चेतनयोरेव, न तु ब्रह्मणि । यथा च परमत्वस्य सौन्दर्ये ।अतो रूप संबन्धरहिततुल्यत्वम् । अपि च विध्यादिगोचरत्वं हि ब्रह्मणःआपाद्यते । तत्र कोसौ विधिः । अज्ञातज्ञापनं चेत् न तर्हिभगवतस्तत्संभवतितस्य सर्वज्ञत्वेन तदज्ञातार्थस्यैवासंभवात् । अप्रवृत्तप्रवर्तनमितिचेत् किं सर्वशासितुरीश्वरस्यापि शासिता कश्चिदस्तीतिमन्यसे इतरप्रशासनविषयत्वेहि ईश्वरत्वमेव भज्येतनह्येतदुभयातिरेको विधिः कश्चित् प्रामाणिकपदवीमधिरोहति ।तस्मात्न सर्वथा कर्मवश्यत्वं भगवत्यापादयितुं शक्यमिति । परम प्रकृतार्थमुपसंहरति - ततश्चेति ।अत्रायमभिप्रायः जीवस्मेव तत्तत्स्यानसंबन्धापरस्यापि दोषवत्वशंकासुहृदः गृहे स्थितस्यान्यस्येव परस्य जीवशरीरे विद्यमानत्वेपिन दोषभाक्त्वं इतिवत् न्याय्यम् । शरीरस्वामित्वस्य जीवस्येव परस्यस्वीकारात्तत्प्रयुक्तदोषभाक्त्वस्य कथं परिहारः । कर्म संबन्धएव तत्र कारणं परस्य कर्माभावात् नानुपपत्तिः इत्यपि न संपक् ।कर्मणःदुःखादि हेतुत्वाभावात् न हि प्रलयदशायां जीवानां न कर्मसन्धः इतिवक्तुं शक्यम् । तथाच कर्मसत्वेपि न दुःखाद्यनुभवः । अत शरीर संबन्धएव हेतुरिति वक्तव्यम् । परमात्मनः शरीरसंबन्धः अवर्जनीयः चिदचिदात्मकप्रपंचस्यब्रह्मशरीरत्ववादिनाम्कर्मकृतशरीरसंबन्ध एव भोगहेतुः नतु स्वेच्छा कृतः शरीररसंबन्धःइति न नियन्तुं शक्यम् ।राज्ञापि स्वेच्छाकृतपूयशोणितादि मज्जनस्यापुरुषार्थहेतुत्वदर्शनात् । नहि स्वेच्छया स्वशिरासि निक्षिप्यमाणो असिः स्वशिरंःन हन्तीनि वचनं सांप्रतम् । अतः परमात्मनोपि दोषवत्वं नापह्नोतुंशक्यम् ।।उपनिषदि “अपहतपाप्मा इत्यादिनोभयलिंगत्वस्य कथनात् न निर्दोषताइति चेत् जीवस्यापि तत्कथनात् निर्दोषतैव स्यात् । जीवस्य बन्धमोक्षरूपावस्थाभेदेनापहतपाप्मत्वतदभावयोःनिर्वचनस्येवपरमात्मन अवस्थाभेदनापि निर्वाहस्या संभवाच्च । सर्वदैवपरस्य चिदचिच्छरीरकत्वेन ततो विनिर्मोक्षासंभवात् ।अत्रायं समाधिः - जीवपरयोः शरीरवत्व अपहृतपाप्मत्वादीनां साधारण्येपिपरस्य सर्वं शरीरं इति बोधक श्रुतौ यस्य पृथिवी शरीरम् । इत्यादौ,अमृतत्ववचनमधिकं प्रतिपर्यायं दृश्यते । न तथा जीवस्यामृतत्ववचनंकुत्रापि दृश्यते । अतो ज्ञायते परस्य सर्वत्रस्थितत्वेपि तत्प्रयुक्तदोषाणांप्रसक्तिर्नास्तीति । ननु विप्रतिषिद्धमिदमभिधीयते हेयवस्तु संबन्धसत्वेपिन दोषवत्वमिति इति चेत् अयमेव परमात्मस्वरूपस्य विशेषः । एकैकस्यापिवस्तुनः स्वभावविशेषो विलक्षणः । न तु सर्वमपि वस्तु एकस्वभावम्भिन्नस्वभावाहि पदार्था दृश्यन्तेभगवच्छरीरत्वे पदार्थत्वे च समानेपि चेतनस्वभावः नाचेतने । न वाऽचेतनस्वभावःचेतने । चेतनत्वाचेतनत्वरूपवैलक्षण्यादिति चेत्? न प्रकृतिजन्येषुभूतेषु अचेतनेषु पृथिव्यादिषु परस्परस्वभाववैलक्षण्यदर्शनात् ।तत्रापि पृथिवीत्वजलत्वादिना भेदकाकारो विद्यते इति चेत्? पृथिवीजन्येष्वेवपदार्थेषु परस्परवैलक्षण्यस्यापनोदनाभावात् । सर्वत्र तज्जन्येषुपृथिवीत्वस्याविशिष्टत्वात् । मृत्पिण्डजन्येष्वेव घटशरावादिकार्येषुपरस्पर स्वभाववैलक्षण्यं दृश्यते । सुवर्णपिण्डजन्येषु स्वस्तिकादिकार्येष्वपि कार्यभेदो दृश्यते । अतस्तत्तत्पदार्थगतस्वभावः विलक्षणइति एकत्रविद्यमानमंशमादायान्यत्रारोपणं न युक्तिमत्पांचभौतिकेष्वेव अस्मच्छरीरेषु विद्यमानानामवयवानां परस्परकार्यवैलक्षण्यंप्रमाणसिद्धं नापह्नवार्हम् । एकेनावयवेन क्रियमाणं कार्यं नान्योऽवयवःकर्तुं प्रभवति? तत्तदवयवजन्यसुखादिकार्यं हि विलक्षणम् । घृतयुक्तक्षीरान्नादिकस्यहस्तेलग्नत्वे हस्तो दुष्टो भवति । अपनोदनाय वस्त्वन्तरापेक्षा विद्यतेन तथा जिह्वा अपेक्षते । अतः तत्तत्स्थानसंबन्ध प्रयुक्तदोषाणांजीवस्येव परमात्मनि नापादनं शक्यम् ।।किं च हेयवस्तुसंबन्धाद्धि ब्रह्मणि दोषः आपाद्यते सच न युक्त वस्तूनांहेयत्वाभावात् । सर्वं हि वस्तुजातं ब्रह्मविभूतिभूत मत्यन्तानुकूलंअतिभोग्यं च । अतः पूयशोणिनादीनामपि अतिभोग्यत्वादनुकूलत्वाच्चन हेयत्वापादकः तत्संबन्धः । कालभेदेनपुरुषभेदेन वस्तुभेदेन चानुकूलत्वप्रतिकूलत्व प्रतिभासः । अयमेवार्थः । “नरकस्वर्गसंज्ञेवै इत्यादिनाप्रतिपादितः ।।अत्र कश्चिदाह - यदि सर्वस्यापि अनुकूलत्वं ततोभोग्यत्वं तर्हि कुतोकलञ्जभक्षणसुरापानादिनिषेधः क्रियतेतस्यापि भगवद्विभूतित्वेनानुकूलत्वात्अमेध्यभक्षणमपि भोग्यं स्यात् । वामदेव्युपासनवत् परतरूणीपरिग्रहोपिन दोषाय भवेत् । सर्वस्यापि भगवद्विभूत्यनुभवरूपत्वात् अतः शास्त्रव्यवस्थैवदूरोत्सारिता भवेदिति ।अयं प्रष्टव्यः - त्वयीव अन्यस्मिन्नपि भगवच्छरीरत्वाविशेषात् त्वयातस्मै त्वदीयधनादिकं सर्वं किमर्थं न प्रदीयते । त्वत्पुत्रस्यालंकारादिकरणमिवशत्रुपुत्रस्य न किमर्थं अलंकारः क्रियते । त्वदीयस्यापहारे क्रियमाणेकिमर्थं कुप्यसि । सर्पदर्शनेन किमर्थं उद्वेगं प्राप्नोषि । एवमादिपश्नानांसमाधानं पर्यालोचनीयमेव ।। कथमिदं? सर्वं इदं मदीयवस्तु । किमर्थमन्यस्मैदेयमिति चेत् नहि वस्तुनि अहंकारमकारवान् भवान् ।तथाच कर्मसंबन्धाधीनैतादृशबुद्धियुक्तस्य अनुकूलत्व प्रतिकूलत्व भोग्यत्वादि न प्रति भायात्यदा कर्मसंबन्धात् विमोचनं तदा एतादृश बुध्यजननात् सर्वस्यापिभोग्यत्वं सुप्रतिष्ठितं भायात्परमात्मनि निरतिशय भक्तिमतामत्रैव प्रातिकूल्यानु कूल्यविचारमन्त्ररासर्वत्र समदर्शित्वं दृष्टम् । यथा जडभरतादेः । सोपि भगवति निमग्नःइदं भक्ष्यं इदं न इति परामर्शं विना सर्वमपि अत्ति स्म । अति भक्तिमतःप्रह्लादस्य भगवति न्यस्तमनस्कस्य सर्पगजादिभि पीडाजनकैरपि न पीडानुभवःततपस्यतां महर्षीणामपि एवमनुभवः दृश्यते । किं बहुना तपस्विनामाश्रमेवसतां अहिनकुलवत् स्थितानामपि जन्तूनां परस्परं वैरं विना स्थितिःअनुभूयते ।“शुण्डालेन सलीलमेष कलभो वक्त्रान्मृणालोज्ज्वलं जृम्भारं भविकस्वरात्मृगपतेः दंष्ट्रांकुरात् कर्षति ।एषा वत्सतरी च मातरि तृणान्यत्तुं गतायां क्वचित् द्वीपिन्या वरकन्दरस्थितिजुषः स्तन्यं पयश्चूषति”।। इति ।।
उत्तरसूत्रमवतारयति - ननु चेति । सत्यं ज्ञानमित्यादिना ब्रह्मस्वरूपस्यज्ञानरूपत्वोक्त्या ज्ञानादिगुणनिषेधः आर्थः ज्ञानरूपस्य ज्ञानाद्याश्रयत्वासंभवात्नेति नेतीत्यादिना ज्ञानादिगुणवत्त्वनिषेधः कण्ठोक्तश्चेति भावः -निरस्तनिखिलदोषत्वमपि निर्विशेषप्रकाशैकस्वरूपत्वबाधकमिति निरस्तनिखिलदोषत्वरूपोभयलिङ्गत्वंकथमित्युक्तम् । सूत्रार्थमाह - यथेति । पराभिमतनिर्विशेषैकस्वरूपत्वस्यानभिमतत्वात्सूत्रे निर्विशेषप्रकाशवदित्यनुक्त्वा प्रकाशवदिति निर्देशाच्चप्रकाशस्वरूपत्वमिति भाषितम् । प्रकाशस्वरूपत्वं = ज्ञानस्वरूपत्वमित्यर्थः ।ब्रह्मणः भवदभिमतज्ञानस्वरूपत्वे किं प्रमाणमित्युक्ते हि सत्यंज्ञानमिति वाक्यमेवादरणीयम् । प्रमाणस्य सत्वेपि ज्ञानस्वरूपत्वंनांगीक्रियते इति चेत् तद्बोधकवाक्यवैयर्थ्यं स्यादिति वक्तव्यम्तर्हि अनयैव रीत्या सर्वज्ञत्वादिबोधकप्रमाणबलात् कल्याणगुणाकरत्वमप्येष्टव्यमेवप्रमाणसत्वेपि गुणानभ्युपगमे वाक्यवैयर्थ्यं दुष्परिहरमिति समानम्वस्तुतः ज्ञानरूपस्य ब्रह्मणः सर्वज्ञत्वाद्ययोगोऽपि न संभवतितादृशव्याप्तेरभावात् । अन्यथा ज्ञानस्य कंचित्प्रति गुणभूतत्वदर्शनेनब्रह्मणोपि ज्ञानरूपत्वेन गुणभूतत्वप्रसंगात् । यदि तु श्रुतिबलात् प्रधानत्वमिष्टं तर्हि सर्वज्ञत्वादीनामपि श्रुतिप्रतिपन्नत्वात् तदभ्युपगम एव वरः ।दर्शितं च ज्ञानस्यैव ज्ञानाश्रयत्वमधस्तादिति भावः ।।
अनन्तरसूत्रार्थमाह - किंचेति । अयं चशब्दार्थः । सूत्रस्थमात्रशब्दलब्धमर्थमाह - नान्यदिति।गुणान्तरनिषेधवाचकशब्दाभावादितिभावः । गुणनिषेधः आर्थः सिध्येदिति शंकापरिहाराय - वाक्यान्तरावगतमित्युक्तम्नहि गुणवत्वस्यवाक्यान्तरेण प्रतिपत्तौ आर्थनिषेधः अत्र कल्पयितुंशक्यः इति भावः । ननु साक्षाद्गुणनिषेधस्य किं समाधानमित्यत्राह - नेतिनेतीति ।।
गुणानां वाक्यान्तरावगतत्वमुत्तरसूत्रेण प्रदर्श्यते इत्यभिप्रयन्तदर्थमाह - दर्शयति चेति । मंगलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथोऽथइति प्रमाणबलादत्र अथोशब्दः कार्त्स्न्यपर इत्याशयेन वेदान्तगणःइत्युक्तम् । गुणनिषेधपरवचनस्योपपत्तिसूचनाय निष्कलमित्याद्युपात्तम्अयं भावः - अत्र हि गुणविशेषनिषेधः कृतः तेन सामान्यनिषेधः गुणविशेषनिषेधपर्यवसायीभवति । एवं गुणविशेषविधानं च कृतम् । तेन च सामान्यनिषेधः विहितव्यतिरिक्तविषय एव न्याय्यः इति भावः । अत्र वक्तव्यं सर्वं जिज्ञासाधिकरणभाष्यव्याख्यानेसुस्पष्टमुक्तमित्यत्रोपरम्यते ।अपि स्मर्यत इति सूत्रखण्डं व्याचष्टे - स्मर्यते चेति । अनेनोपबृंहणबलादपिउदाहुतश्रतीनां गुणवत्त्वे एव तात्पर्यमंगीकर्तव्यमिति सूचितम् ।सर्वज्ञ इत्यादि । सर्वकृदिति पाठः । अनादिमान् इति पदच्छेदे न बहुव्रीहिःअन्यथा तु आदिमान् नेत्यर्थः । प्राप्तेः परः = उपायः इत्यर्थः । प्राप्य इतिवाऽर्थः । उक्तार्थस्य परमसाध्येनान्वयमाह - अतस्सर्वत्रेति ।।
अनन्तरसूत्रार्थमाह - यत इत्यादि । अनेन अत एवेति पदं विवृतम् । जलाधारेष्वितिलक्ष्यमाणपर्यालोचनया जलदर्पणादि प्रतिबिम्बितेत्युक्तम् । आदिशब्देनचन्द्रग्रहणम् । तत्रतत्रावस्थितोऽपि इत्यनेन स्मृतौ अनेकस्थः इति । निर्दोषइत्यनेन एक इति च विवृतम् । एकः = एकस्वभावः । निर्दोष इति यावत् ।।
उत्तरसूत्रस्थतुशब्दस्वारस्यात् शब्दस्वारस्याच्च शंकापरत्वमित्याशयेनाह - अत्रचोदयतीति । अम्बुवदिति प्रथमान्तात् वति प्रत्यये अर्थवाध इत्यभिप्रेत्यसप्तम्यन्ताद्वतिरित्युक्तम् । अम्बुनीवेत्यर्थः । दृष्टान्तप्रसिध्यतिशयात्दर्पणादिष्वित्युक्तम् । अम्बुनि सूर्यादीनामिव पृथिव्यादिषु परमात्मनःअग्रहणमेवोपपादयति - अम्ब्वादिषु हीति । किं ततः इत्यत्राह - अत इतिन दृष्टान्ततुल्यत्वमिति । अयं भावः - यदि परमात्मनः पृथिव्यादिस्थानेषुपरमार्थतः स्थितिरिष्यते तर्हि न दृष्टान्ततुल्यत्वं, यदि च स्थितेःअपरमार्थत्वं तर्ह्यपसिद्धान्तः इति ।।
सूत्रस्थवृद्धिह्रासपदं दोषसामान्योपलक्षणमित्याशयेन वृद्धिह्रासादिदोषभाक्त्वमात्रमित्युक्तम्उउभयसामञ्जस्यादिति शब्दस्वारस्येनास्य सूत्रस्य सिद्धान्तपरत्वमित्यभिप्रेत्यसूर्यादिदृष्टान्तेन निवर्त्यत इत्युक्तम् । पृथिव्यादिगतदोषभाक्त्वनिवर्तनमात्रे प्रतिपाद्ये समञ्जसं भवतीति । अयमाशयः - परस्यपृथिव्यादिषु सर्वत्र स्थितेः परमार्थत्वे जलसूर्यादि दृष्टान्तःअनुपपन्नः । तस्याः अपरमार्थत्वे आकाशदृष्टान्तः अनुपपन्नः । अतःउभयदृष्टान्तसामञ्जस्याय दृष्टान्तद्वयानुयाप्याकारभूत वृद्धिहासादिदोषाभाव एव प्रतिपाद्यते इत्यभ्युपेत्यमितिनन्वत्रांशुमत इवाकाशस्य न दृष्टान्तयोपादानं, यथैकमाकाशं घटादिषुपृथग्भवेत् तथाऽत्मा अनेकस्यः इति परस्यानेकस्थत्वे एव दृष्टान्ततयोपादानात्अतः नाकाशदृष्टान्त सामञ्जस्यायापि दोषभाक्त्वनिवृत्तितात्पर्यकत्वकथनंयुक्तमित्यत्राह उदाहृतस्मृति वचनस्यस्वयमर्थमाह - घटकरकादिष्विति।अयं भावः - यथा घटादिषु पृथक् भवनाश्रयमाकाशंमेकं, यथा च जलाधारेषुवर्तमानः अंशुमान् एकः, तथाऽनेकस्थोपि आत्मा एक एवेत्येव स्मृतिवचनस्यार्थःन हि आत्मनः अनेकस्थत्वमात्रे दृष्टान्तत्वकथनं सप्रयोजनमिति ।नन्वस्तूभयदृष्टान्तसामञ्जस्यसंपादनं, अथापि जलचन्द्रस्य वस्तुतः स्थित्यभावात् न दोषवत्वं परमात्मनश्चसर्वत्र वस्तुतः स्थित्यभ्युपगमात् कथं नदोषवत्वमित्यत्र कः समाधिरुक्तःइत्यत्रपूर्वोक्तमेवार्थं शिष्यबुद्धिवैशद्याय भङ्यन्तरेण विवृणोति - एतदुक्तंभवतीतिइदमत्राकूतं दोषसंस्पर्शे देशसन्निकर्षः कालसन्निकर्षः स्वभावसन्निकर्षश्चेत्येतत्रितयसमुदायःहेतुः । एतत्समुदायाभावश्चदोषासंस्पर्शे हेतुः । आकाशदृष्टान्तेदेशसन्निकर्षसत्वेपि स्वभावसन्निकर्षाभावात् न हेतुसत्वम् । जलचन्द्रदृष्टान्ते देशसन्निकर्षाभावात् न हेतुसत्वं एवं च परमात्मनि देशसन्निकर्षसत्वेपिस्वभावसन्निर्षाभावात् हेत्वभावेनन दोषसद्भावः इति । एवमित्यस्यमध्यमणिन्यायेनोभयत्रान्वयमभिप्रेत्य दृश्यते चैवमित्युक्तम् ।उपसंहरति - अत इति । दोषाभावहेतुभूत स्वभावविप्रकर्षभावाच्च - स्वभावतोनिरस्तेत्याद्युक्तम् ।।
उत्तरसूत्रं चोद्यमुखेनोत्थापयति - अथ स्यादिति । अथोत्तरत्र सूत्रार्थंवर्णयिष्यत् उक्तशंकानिरसनद्वारेण हिशब्दाभिप्रेतं तदुपयोग्यर्थंशिक्षयति - नैतदुपपद्यते इति । इति प्रतिषिध्यते इति यत् नैतदुपपद्यतेइत्यन्वयः । अथ भेदस्याप्रत्यक्षसिद्धत्वेन तमनूद्य शास्त्रेण निषिध्यतेइति शंकां परिहरन् भ्रान्तिजल्पितायमानत्वमेव व्यतिरेकतः विवृणोति - नहीति ।प्रमाणान्तराप्रज्ञातमित्यनेनानुवादासंभवे हेतुरुक्तः । उक्तेषुकेषांचिदर्थानांप्रमाणान्तरज्ञातत्व मस्त्येव, अथापि तेषां ब्रह्मप्रकारत्वमप्रज्ञातमित्याशयेनविशेषणतया प्रमाणान्तराप्रज्ञातमित्युक्तम् ।अयमर्थः यद्यपीतिभाष्येण स्वयमेव विवरिष्यति ।उन्मत्तस्याप्येवंजल्पनं कदाचित् संभवेदपि । अनुन्मतस्यतु न कदाचिदपीत्याशयेन न ह्यनुन्मत्तःप्रतिषेधतीतित्युक्तम् । एवं हिशब्दसूचितमर्थं प्रदर्श्य सूत्राक्षरार्थमाह - यस्मादेवमित्यादिना।इयत्ता इत्यनेन सूत्रस्थेयत्तापदार्थो दर्शितः । उक्तरूप्रतिषेधस्यावश्यांगीकार्यत्वसूचनाय कर्मणि प्रयोगः । इति शब्दोहि प्रकृतपरामर्शी, अत्रच रूपाकारावेवपूर्व प्रस्तुतौ तत्कथमितिशब्देनेयत्तापरामर्श इति तन्निषेधः इत्यत्राह - उक्तप्रकारमात्रेति।अयं भावः - रूपाकारयोः प्रकृतत्वेपि तद्विशिष्टं ब्रह्मेत्युक्तेकस्यचिन्मन्दधियः उक्त प्रकारमात्रविशिष्टमेव ब्रह्मेति संशयोदयात्वस्तुतस्ततोप्यधिकारविशिष्टत्वेन तन्निवृत्तेरावश्यकत्वात् तात्पर्यतःउक्त प्रकारमात्रविशिष्टत्वस्येयत्तापि प्रकृतैवेति इतिशब्देन तत्परामर्शेनतन्निषेधो युक्त इति ।ननु इयत्ताया इव रूपाकारयोरपि प्रकृतत्वात् तयोरेवेतिशब्देन परामर्शःकुतो न संभवतीत्यत्र अनुवादासंभवेन निणेधानुपपत्तेरुक्तत्वेपि हेत्वन्तरपरंसूत्रखण्डमाह - यतश्चेति । तत इत्यस्य विवरणं निषेधानन्तरमिति ।भूयः - भूयिष्ठम्पुनरित्यर्थो वा । निषेधानन्तरं पुनरपि भूयोगुणजातं कुत्रोच्यतइत्यत्र स्वयं वाक्यमुदाहरति - व्रबीति हीति । ननूदाहृतवाक्ये निषेधएव श्रूयते नतु गुणविधानं, एवं अथ नामधेयमित्यादिना स्वरूपस्यैवसत्यत्वमात्रं चोच्यते नतु सविशेषत्वमित्यत्रोदाह्रतश्रुतेरर्थमाह - अयमर्थः इति ।अयं भावः - एतस्मात् अन्यत् परं = उत्कृष्टं न ह्यस्तीत्युक्त्या एतच्छब्दोब्रह्म परामर्शीति वक्तव्यंयथा च तस्य ब्रह्मपरामर्शित्वं तथा “इति न” इत्यस्यार्थो वर्णनीयः ।तथा च नेति नेति इत्यत्र इति न इति यत् गुणविशिष्टं ब्रह्म प्रतिपादितंतस्मादेतस्मात्ब्रह्मणः अन्यत् उत्कृष्टं नास्तीत्यर्थः पर्यवसितःनहि निर्विशेषब्रह्मणः इतिशब्देन परामर्शः युक्तः । तस्योत्कृष्टत्वाभावात् । स्वरूपतः गुणतश्च हि कस्यचिदुत्कृष्टत्वम् । नहि निर्विशेषस्यस्वरूपतः गुणतश्चोत्कर्षः संभवति । उपरि विशेषबोधनादपि तत्परामर्शासंभवादितिस्वरूपतो गुणतश्चोत्कृष्टं नास्तीत्यनेन अचेतनजीवव्यावृत्तिरुक्ता ।सत्यस्य सत्यमिति ब्रह्मणो नामधेयनिर्वचने प्राणा वै सत्यं तेषामेषसत्यमित्यस्मिन् सत्यभूत प्राणशब्दवाच्याचेतनव्यावृत्तिलाभेपिजीवव्यावृत्तिः कथमित्यत्राह - प्राणशब्देनेति ।प्राणसहचरितजीवव्यावृत्तिबोधनेऽर्थादचेतनव्यावृत्तिरपि सिध्यतीतिभावः । जीवस्य सत्यत्वप्रकारमुपपादयति । वियदादिवदिति । ततोपिपरस्य सत्यत्वमाह - तेभ्योऽप्येषः इति । तथाचाचेतनस्य स्वरूपान्यथाभावःजीवस्य स्वभावान्यथा भावश्चेति तद्विलक्षणस्य ब्रह्मणः निरूपाधिकसत्यत्वमितिअचेतनजीवापेक्षयापि उत्कृष्टत्वमिति भावः । यथा च ब्रह्मापृथक्सिद्धाचेतनान्यथाभावरूपस्वभावन्यथा भावपरिहारेण ब्रह्मणः सत्यत्वं तथोपपादितमधस्तात् ।स्वभावान्यथाभावो हि ज्ञानसंकोचविकासरूपान्यथाभावः । स च न परस्यब्रह्मणः । एतदभिप्रेत्यैव ज्ञानसंकोचविकासौकर्मानुगुण्येन जीवस्य विद्येतेइत्युक्तमिति । निगमयति - अतश्चैवमिति । उक्तार्थस्य परमप्रकृतार्थेनान्वयमाह -अतः उभयलिंगमेवेति ।।
सूत्रसंगतिप्रदर्शनपूर्वकमुत्तरसूत्रकृत्यमाह - ब्रह्मणः इत्यादिना ।प्रायशो मूर्तामूर्तादिरूपमप्रज्ञातं केषांचित् ज्ञातत्वे ब्रह्मणःप्रमाणान्तराविषयत्वेन तत्संबन्धित्वमप्रज्ञातमित्यर्थः। अव्यक्तशब्दस्यप्राधानवाचित्वव्युदासाय प्रमाणान्तरेण न व्यज्यते इत्युक्तम् ।आह इत्यस्य शास्त्रमिति कर्तृवाचकपदमध्याह्रतम् । हिशब्द सूचितांप्रसिद्धिं तद्वाक्यप्रदर्शनेन द्रढयति - न सन्निति । दृशे इति चतुर्थ्यन्तम्सन्तिष्ठतीत्यन्वयः । न तिष्ठति इत्यनेन ब्रह्मणः दर्शनाविषयत्वेवस्तुस्वभावः उक्तः । न चक्षुषेत्यनेन करणासामर्थ्यमुक्तमिति भिदाननु मनसा तु विशुद्धेनेति विशुद्धमनोग्राह्यत्वोक्तेः कथं प्रमाणान्तराविषयत्वम्उच्यते विशुद्धमनोग्राह्यत्वं हि योगजन्यत्वं तस्यच भावनाप्रकर्षपर्यन्तजन्मनःपूर्वानुभूतविषयस्मृति मात्रत्वात् न प्रामाण्यं पूर्वानुभावश्चशब्देनैवेति न प्रमाणान्तरगोचरत्वमिति ।।
पूर्वसूत्रे प्रमाणान्तरागोचरत्वं कण्ठतः एवोक्तम् । उत्तरसूत्रे निदिध्यासकमात्रगम्यत्वोक्त्या प्रमाणान्तरावेद्यत्वमेव दृढीकृतमित्याशयेनाह - हेत्वन्तरमितिसूत्रार्थमाह - अपि चेति । अनेन सूत्रस्थापिशब्दो विवृतः । संराधनेइति व्याख्येयम् । संयगिति समित्युसर्गार्थः । राधृ धातोः पूजनार्थकत्वात्प्रीणन इत्युक्तम् । प्रीणनस्य संयक्त्वं किंरूपमित्यत्रोक्तम्भक्तिरूपापन्ने निदिध्यासन इति । सर्वं वाक्यं सावधारणमिति न्यायस्यबाधकाभावमभिप्रेत्य एवेत्युक्तम् । श्रुतिं पश्यन्ति मुनयः इत्यनुसारेणप्रत्यक्षशब्दः श्रुतिपरतया व्याख्यातः ।स्मृतेः श्रुत्यनुमानत्वात् श्रुतिसहपठितानुमानशब्दः स्मृतिपरतयाव्याख्यातः । श्रुतौ निदिध्यासनातिरिक्तस्य साक्षात्काराहेतुत्वमार्थिकम्स्मृतौ तु कण्ठोक्तम् । विशुद्धसत्वः = विशुद्धमनाः । ननूदाहृतवाक्यात्निदिध्यासनापरपर्याय भक्तेस्साक्षात्कारहेतुत्वावगमेऽपि संराधनस्यतथात्वं कथमित्यत्राह - भक्तिरूपापन्नमेवेति ।पूर्वमेवोक्तमिति ।अथैतत्सूत्रद्वयस्य प्रकृतैतावत्त्वमिति सूत्रोपसर्जनत्वमभिप्रयन्नुपसंहरति - अतोनिदिध्यासनायेति ।।
अथानन्तरसूत्रस्य साध्यनिर्देशपुरस्सरमर्थमाह - इतश्चेति । प्रकाशादिवदितिव्याख्येयं पदम् । ज्ञानानन्दादिस्वरूपवदिति तद्व्याख्यानम् । सूत्रस्थादिशब्दस्यानन्दादिपरत्वमित्यमनेन दर्शितंच । ज्ञानानन्दादिस्वरूपवत् = ज्ञानत्वानन्दत्वादिवदित्यर्थः । अहंमनुरभवमित्यादि । मन्वादिशरीरकः अस्मच्छरीरकश्चैकः इत्यर्थः । अनेनवामदेवादिसाक्षात्कारे प्रपञ्चवैशिष्ट्यविषयकत्वमुक्तम् । नन्वत्रमूर्तामूर्तादिप्रपञ्चवैशिष्ट्यविषयकत्वं भ्रान्तिकृतमिति शंकायामाह - ब्रह्मस्वरूपेति । संराधनस्यापि ज्ञानसन्ततिरूपत्वेन साध्यत्वात् कर्मशब्देन व्यवहारःइत्याशयेनाहसंराधनात्मके कर्मणीति । प्रकाशादीत्यत्रादिपदोपादानात् प्रकाशश्चेत्यत्रतदनुपादानेऽपि तदर्थस्य विवक्षितत्वमस्तीत्यभिप्रायेण - आनन्दादिश्चेत्युक्तम्।अथ वामदेवादीनां साक्षात्कारे ब्रह्मगतज्ञानत्वानन्दत्वादिप्रतीतेःहेतुजन्यत्वेन परमार्थत्वकथनं प्रपञ्चविशिष्टत्वप्रतीतेः भ्रान्तित्वशंकायांकथमुपकारकमित्यत्र तस्य दृष्टान्तत्वमभिप्रयन् समाधानमाह - तद्वच्चेति ।अयं भावः - वामदेवादीनां ब्रह्मसाक्षात्कारे ज्ञानत्वानन्दत्वादीनामिवमनुसूर्यादिप्रपञ्चवैशिष्ट्यस्यापि विषयत्वोक्तेः ज्ञानत्वादीनामिवोक्तवैशिष्ट्यस्यापि अभ्यासबलेन साक्षात्कृतत्वात् भ्रान्तिसिद्धत्वाभ्युपगमोन युक्त इति परमार्थत्वस्यैवांगीकर्तव्यत्वात् ब्रह्मणः मूर्तामूर्तादिविशिष्टत्वस्यमहतां ब्रह्मसाक्षात्कारबलेनापि सिद्धेः “अथात अदेशो नेति नेतिइत्यत्र न तन्निषेधो युक्तः इति तस्येयत्तानिषेधपरत्वमेवाभ्युपगमार्हमिति ।।
ब्रह्मणः उभयलिंगत्वं स्वीकर्तव्यमिति पूर्वपक्षस्य निराकरणमत्रोच्यतेइति वदतां मतमुभयलिंगत्वोपसंहारादनुपपन्नमिति तात्पर्यतो दर्शयन्उत्तरसूत्रमवतारयति - उक्तमिति । अत इति व्याख्येय पदनिर्देशः । अनन्तेनेतिवैशिष्ट्ये तृतीया इत्याशयेनाह - कल्याणगुणगणेन विशिष्टत्वमिति ।तथाहि लिंगमित्येतद्वयाचष्टे - तथाहीति। नेतिनेतीत्यस्य इयत्तानिषेधपरत्वाभ्युपगमेनोभयलिंगत्वाबाधमात्रं, किं तु उभयलिंगत्वोपपादनमपि भवतीत्यर्थः । यद्वाब्रह्मणः कल्याणगुणविशिष्टत्वस्याप्यभ्युपगमे हि श्रुत्यादिप्रसिद्धमुभयलिंगत्वमुपपादितं भवति ।अन्यथा निर्दोषत्वमात्रमेव सिध्येत् । अतः निर्दोषत्वेनाभ्युपगतस्यब्रह्मणः श्रुत्यादिसिद्धमुभयलिंगत्वमपि यथोपपादितं भवेत् तथाअनन्तगुणवत्त्वमप्यभ्युपगन्तव्यमित्यर्थः ।। समाप्तमुभयलिंगाधिकरणम् ।।