(3.02.04) मुग्धाधिकरणम्जाग्रत्स्वप्नसुषुप्त्यवस्थानिरूपणानन्तरं मूर्च्छावस्थानिरूप्यते इति संगतिः । मुग्धं = मुर्छितमित्यर्थः । सुषुप्त्यादिष्वित्यादिपदेनजागरस्वप्नमरणानि विवक्षितानि सुषुप्तिजागरस्वप्नोष्वन्यतमावस्थात्वमेवमूर्च्छायाः नत्ववस्थान्तरत्वमित्यत्र किं निबन्धनं विलक्षणमूर्च्छाशब्देनहीयमवस्था व्यपदिश्यत इत्यत्राह - मूर्च्छाप्रसिध्युपपत्तेरिति।मूर्च्छाशब्दप्रयोगोपपत्तेरित्यर्थः। यद्वा सुषुप्त्यादिष्वन्यतमावस्थेत्यत्र उक्तावस्थासुअन्यतमभूतसुषुप्त्यवस्था अन्यतमभूतमरणावस्था वेत्यर्थः जागरस्वप्नयोःकिंचिज्ज्ञानसत्वेन तद्रूपत्वशंकनासंभवात्न तावत् जागरस्वप्नौ ज्ञानाभावादिति सिद्धान्त भाष्यं तु दृष्टान्तार्थम्यथा च पुरुषस्य जागरस्वप्नयोः ज्ञानसत्वेन मूर्च्छायां च ज्ञानाभावेनन मूर्च्छायाः जागरस्वप्नावस्थारूपत्वं तथैव निमित्त भेदात् न सुषिप्तिरूपत्वंआकारभेदान्न मरणरूपत्वमित्यर्थः । अत एव जाग्रदादिष्वन्यत मेत्यनुक्त्वासुषुप्त्यादिष्विति निर्देशः कृतः । मरणावस्थायाः एतावताऽनिरूपितत्वेऽपिसूत्रेअर्धसंपत्तिरिति अर्धमरणरूपत्वेन वक्ष्यमाणत्वात् तदनुसारेणऔचित्याच्च मरणरूपत्व शंकापि पूर्वपक्षे योजिता ।ततश्च सुषुप्त्यवस्थायांमरणावस्थायां च ज्ञानलोपस्य दर्शनात् मूर्च्छावस्थायां च तथात्वदर्शनात् मरणसुषुप्त्योः मूर्च्छाशब्द प्रयोगपपत्तेः मूर्च्छा मरणावस्थासुषुप्त्यवस्था वा भवितुमर्हति, न तदर्थं अवस्थान्तरतया स्वीकरणमुचितंप्रमाणाभावादिति पूर्वपक्ष्याशयः ।सिद्धान्तमाह - इति प्राप्त इति । मुग्धपदस्य विशेष्यसाकांक्षत्वात्पुरुषे इति योजितम् । निमित्तेत्यादि ।निमित्तवैरूप्यं सुषुप्तिव्यावर्तकम्आकारवैरुप्यं मरणव्यावर्तकमिति विवेकः । प्रथमं विवृणोति - निमित्तंहीति।आदिशब्देनानिष्टश्रवणादिविवक्षितम् । सुषुप्तेश्चेदं न निमित्तमिति भावः । आकारवैरुप्यस्यसूत्रस्थार्ध संपत्तिविवरणदशायां व्यक्तीभावमभिप्रेत्य पूर्वं परिशेषात्अर्धसंपत्तिरिति साध्यांशं व्याचष्टे - पारि शेष्यादिति। मूर्च्छायाःअर्धमरणरूपत्वमेवोपपादयितुंमरणमूर्च्छयोराकारवैलक्षण्यमाह - मरणंहीति।अयं भावः सुषुप्तौ प्राणः भूयिष्टमुपलभ्यते मूर्च्छायां अल्पः प्राणःकिंचिदेवमरणे तु न किंचिदपीति । अनुभवानुरोधेन स्वीकर्तव्यत्वात् नोक्तावस्थान्तर्गतत्वमितितथा च बाह्येन्द्रियोपरतिः स्वप्नः । सर्वेन्द्रियोपरतिस्सुषुप्तिःसर्वप्राण देहसंबन्धोपरतिः मरणं सूक्ष्मप्राणदेह संबन्धावस्थितिःमूर्च्छा इन्द्रियाद्यनुपरतिरेव जागरः इत्येवं तत्तदवस्थास्वरूपंज्ञेयम्एतेनैव मरणावस्थापिचिन्तिता सूत्रे संपत्तिशब्देनः वाङ्मन सिसंपद्यते इत्यादि संपत्तिश्रुतिर्ज्ञापिता । करणग्रामस्य मनसि संपत्तिःमनसः प्राणेसंपत्तिः प्राणस्य पुरुषे संपत्तिरित्येवं क्रमेण मरणावस्थाजायते । तत्र प्राणस्य यदा जीवे संपत्ति र्न भवतिप्राणश्च बाह्यवाय्वादिनाप्यायितो वर्तते । तदा मूर्च्छावस्या ।इयंचावस्था क्रमेण मरणपर्यवसायिनी । अतो मरणं फलम् । तदपि मरणंप्रबलप्रतिबन्धक रुद्धंचेत् कराचित्प्रतिबध्यते । अत एव प्रतिबुध्यतेइति विवेकः ।। मुग्धाधिकरणं समाप्तम् ।