(3.02.03) कर्मानुस्मृतिशब्दविध्यधिकरणम् ।सुषुप्तिस्थाननिरूपणानन्तरं प्रसंगात्सुषुप्त्यनन्तरमुत्थितस्य सुषुप्तादन्यत्वमाशंक्य निराक्रियते इतिसंगतिः । अस्याः स्पष्टत्वात् संशयादिकमाह - किं सुषुप्त एवेति । “तंन कश्चन पाप्मा स्पृशति” इति श्रुत्यर्थमालोच्य सकलोपाधिविनिर्मुक्तस्येतिभाषितम् । सता सोम्य तदा संपन्नो भवतीति श्रुत्यर्थाभिप्रायेणाह ब्रह्मणिसंपन्नस्येति । उक्तं विशेषणद्वयं हेतुगर्भम् । अयमभिप्रायः - सुषुप्तस्यसता सोम्येत्यादिना सच्छब्दितब्रह्मसंपत्तिरुक्ता । सा च ब्रह्मणिलयरूपैव स्वमपीतो भवतीति तत्रैवोक्तेःतथा “तं न कश्चन पाप्मा स्पृशती"ति सुषुप्तस्य सर्वपापास्पर्शःउक्तः । एवं च सर्वकर्मविनिर्मोकपूर्वकं ब्रह्मणि संपत्तिप्रतिपादनात्सकलोपाधिनिनिर्मोकपूर्वक ब्रह्मसंपत्तेरेव मुक्तिपदार्थत्वात् । सुषुप्तस्य मुक्तताप्रतीत्या उत्थितस्य तस्मादन्यत्वमेव स्वीकर्तव्यम् ।राद्धान्तमाह - इति प्राप्त इति । तत्त्वज्ञानात्प्राक् तेनैव भोक्तव्यमितिसुषुप्तेः प्राक् सुषुप्तेन कृतानामभुक्तफलानां पुण्यपापरूपकर्मणांब्रह्मोपासनादिना विना नाशो न संभवति । अन्यथा अकृताभ्यागमकृतविप्रणाशादिप्रसंगात् । अतः स्वकृतकर्मानुभवस्य प्रायश्चित्ताभावे तेनैव भोक्तव्यत्वनियमेनसुषुप्तस्य च मुक्तत्वे तदसंभवइति उत्तिष्टतः नतदन्यत्वमिति भावः।यद्यद्भवन्ति तथा भवन्तीति । सुषुप्तेः पूर्वं ये यथा भवन्ति यादृशरूपाभवन्ति । सुषुप्त्यन्तरमपि ते तादृशरूपा एव भवन्तीत्यर्थः । यद्वातत् आभवन्तीति । अनर्थकाः स्युरितिपुरुषस्य सुषुप्तिमात्रेणैव मुक्ति संभवे तत्प्राप्तये श्रमसाध्यब्रह्मोपसनादिविधिवैयर्थ्यं स्यादिति भावः । पूर्वपक्षयुक्तिं द्यति - नचासाविति । नो एवेमानि भूतानीत्यन्तेन ज्ञानसामान्याभावः उक्तः विनाशमेवापीतइत्यनेन ज्ञानसंकोचो विवक्षितः । नाहमत्र भोग्यं पश्यामीत्यनेनसुषुप्तेर्भोग्यात्वाभावः उक्तः । आविर्भूतस्वरूपस्य मुक्तस्य ब्रह्मगुणाद्यनुभवेनमुक्तेः भोग्यत्वात् सर्वज्ञत्वाच्च सुषुप्तस्य सुषुप्तेर्भोग्यत्वाप्रतीतेःज्ञानाभाववत्वाच्च वैलक्षण्येन नाविर्भूतस्वरूप मुक्तादविलक्षणत्वंयुक्तमिति भावःअथोक्तदिशा वैलक्षण्यमेव ज्ञापयितुं मुक्तस्य सर्वज्ञत्वादौ प्रमाणमाह - मुक्तस्यचेतिननु सुषुप्तस्य मुक्तविलक्षणत्वे सर्वपाप्मासंस्पर्शवचनस्य ब्रह्मसंपत्तिवचनस्यच कथमुपत्तिरित्यत्राह - अतस्सुषुप्त इति । पापासंस्पर्शवचनं कर्मणांफलप्रदानाभावमात्रप्रतिपादनपरं कर्मानुष्ठानाशक्तिप्रतिपादनपरमेववानतु सर्वोपाधिविनिर्मोकपरम् । उक्तरीत्या मुक्ति सुषुत्त्योः अतिवैलक्षण्यस्यसिद्धत्वात् । एवं ब्रह्मसंपत्तिवचनमपि जाग्रद्दशाया मिन्द्रियादिप्रेरणेनश्रान्तस्य श्रमनिवृत्तये शरीरेन्द्रियाधिष्ठातृत्वादिव्यापारान्तरराहित्येन विश्रमस्थान प्रतिपादन परमेवन तु ब्रह्मप्राप्तिपरम् । तस्या ब्रह्मणि स्थिति मात्रम् ।तस्मात् सुषुप्तस्य तद्दशायां सुखदुःखानु भवादिकालुष्यरहितत्वात्विश्वमार्थं ब्रह्मसंपत्तेः ।मुक्तिसुषुप्त्योरत्यन्त विलक्षणत्वात्कर्मानुस्मृति शब्दविधिभ्यः नोत्तिष्ठतः सुषुप्तादन्यत्वं युक्तमितिसिद्धम् ।अतस्तदभिमतमुक्तेः सुषुप्ति प्रायत्व ज्ञापनेन तत्र जिज्ञासासिध्यैपुनरत्रैवं विचारः कृतः ।।यद्यपि पूर्वाधिकरणेषु जीवस्य अनादित्व स्थायित्वादेरुपपादितत्वात्नात्र सुषुप्तादुद्बुध्यमानस्यस्थायित्वाद्युपपादानार्थमिदमधिकरणमावश्यकम्अथापि धर्मभूतज्ञानातिसंकोचेन प्रलयतुल्यायाःसुषुप्तिरूपदुर्दशायाःदृढतरहेयतानिश्चय सिध्यर्थमेतदारम्भः । यद्वा नैयायिकाभिमतपाषाणप्रायमुक्तिनिन्दया तत्र वेदान्तिनां जिहासासिध्यर्थमिदमधिकरणम् । मोक्षस्यपाषाणप्रायत्वे हि नाहमत्र भोग्यं पश्यामि विनाशमेवापीतो भवतिइति निन्दितायाः सुषुप्तेरपि मुक्तित्वे न किंश्चित् बाधकम् । नचेष्टापत्तिः, मनीषिभिः मुक्तित्वेन तदप्रार्थनात् ।।इति कर्मानुस्मृतिशब्दविध्यधिकरणम् ।।