08 तदभावाधिकरणम्

(3.02.02) तदभावाधिकरणम्संगतिमाह - इदानीमिति । जागरस्वप्नसुषुप्तिमुग्धिरूपावस्थासुस्वप्ननिरूपणानन्तरं क्रमप्राप्त सुषुप्ति स्थानं निरूप्यते इतिसंगतिरिति भावः । विषयवाक्यमाह - इदमित्यादिना । नाड्यः = हिताख्याःनाड्यः । पुरीतत् = पुरीतदाख्या नाडी । यद्वा हृदयस्य मध्ये लोहितंमांसपिण्डम् । एतत्पिण्डमभिव्याप्य हिता नाम नाड्यः द्वासप्ततिसहस्राणि वर्तन्ते । निरपेक्षत्व प्रतीतेरिति । अत्र त्रयाणां सुषुप्तिस्थानत्वंश्रुतम् । नहि श्रुतानामेषां परस्परसापेक्षत्वाश्रयणं युक्तम् ।श्रुतित्रयस्यापि निरपेक्षत्वेन तद्बोधितानां सापेक्षत्वकथनासंभवात्निरपेक्षोरवः श्रुतिः इति हि सिद्धान्तः । न ह्येषां परस्परसापेक्षत्वबोधकं श्रुत्यनन्तरमुपलभामहे । येन समुच्चयपक्षः अभ्युपगमार्हः स्यात्इति भावः । नन्वस्तु निरपेक्षत्वप्रतीतिः । अथाप्येतेषां युगपत्सुषुप्तिस्थानत्वमभ्युपगम्यते । एकस्येव जले स्थले च स्थितिवत्अतस्समुच्चय एव संभवति । संभवतिचतस्मिन् विकल्पाश्रयणम युक्तम्तस्याष्टदोषदुष्टत्वादित्यात्राह - युगपदिति । अणुत्वेनेत्यादिः ।जीवस्याणुत्वात् तादृशस्य तस्य युगपत् त्रिषु स्थानेषु शयनासंभवेन समुच्चयपक्षोन युक्तः इति अगत्या अष्टदोषदुष्टविकल्पाश्रयणमेव श्रेयः इति भावः ।सिद्धान्तमाह - इति प्राप्त इति । तदभावः इति व्याख्येयम् । यदा सुप्तस्स्वप्नंन कथं चन पश्यतीति श्रुतिमभिप्रेत्य स्वप्नाभावः इत्युक्तम् । एतेनविकल्पस्य पूर्वोक्तदिशा प्रतिपादिताष्टदोषदुष्टत्वं न संभवति ।भावान्तराभाववादिनामस्माकं दोषचतुष्टयप्रतिपादने एव पर्यवसानात्?इति पक्षो निरस्तः ।। इति व्याख्यातम् । चशब्दार्थमाह - पुरीततीतिननु समुच्चय पक्षे दूषणमुक्तमित्याशयेन पृच्छति - कुतइति । ननुत्रयाणामपिसुषिप्तस्थानत्व बोधकश्रुतीनां विकल्पपक्षेपि समन्वयःसंभवतीत्यत्राह - न चेति । समुच्चयासंभवे हि विकल्पाश्रयणंअत्र च तत्संभवात् न विकल्पपक्षः आश्रयितव्यः इति भावः । विकल्पस्याष्टदोषदुष्टत्वमित्थमाहुःव्रीहिभिर्यजेत यवैर्यजेत इत्यत्र विकल्पाभ्युपगमात् तत्र प्रयोगत्रयात्यवशास्त्रे चत्वारो दोषाः व्रीहिशास्त्रे चत्वारो दोषाः इत्याहत्याष्टदोषदुष्टत्वम् । तथाहि तत्र प्रामाण्यत्यागः अप्रामाण्यस्वीकारः त्यक्तप्रामाण्यस्वीकारः स्वीकृताप्रामाण्यपरित्यागश्चेति दोषचतुष्टयं प्रत्येकमुभयशास्त्रयोरस्तिततथाहि - प्रथमं व्रीह्यनुष्ठाने यवशास्त्रे प्रामाण्यत्यागः अप्रामाण्यस्वीकारश्चेतिदोषद्वयम् । अनन्तरं कदाचित् यवानुष्ठाने व्रीहिशास्त्रे प्रामाण्यत्यागःअप्रामाण्यस्वीकारश्चा तस्मिन्नेव यवानुष्ठानसमये यवशास्त्रे त्यक्तप्रामाण्यस्वीकारः स्वीकृताप्रामाण्यपरित्यागश्चअतः परिवृत्त्यव्रीहिशास्त्रानुष्ठानरूपे तृतीये प्रयोगे व्रीहिशास्त्रेव्यक्तप्रामाण्य स्वीकारः स्वीकृताप्रामाण्यपरित्यागश्चेति । यद्वा - व्रीह्यनुष्ठानेयवशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाधः इति चत्वारो दोषाः ।एवं यवानुष्ठाने व्रीहिशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाधइति चत्वारो दोषाः इति अष्टदोषदुष्टत्वमिति । द्वयोर्विकल्पाभ्युपगमेएवाष्टदोषदुष्टत्वे अत्र त्रयाणां विकल्पाभ्युपगमात् ततोपि दोषाधिक्यमित्याशयेनसामान्यतः पाक्षिकबाधगर्भविकल्पः इति भाषितम् ।।ननु किं कुर्मः । यद्यप्यष्टदोषदुष्ट एव विकल्पः अथापि अणोर्जीवस्ययुगपदनेकस्थानवृत्त्यसंभवात्समुच्चयपक्षोऽसंभवीत्यत्र पूर्वोक्तंकार्यभेदेनेत्येतद्विवृणोति - संभवति चेति । नाडीपुरीतताविति । हिताख्यनाडी प्रासादस्थानीया । पुरीतन्नाडी खट्वास्थानीयेत्यर्थः । ब्रह्म पर्यंकस्थानीयं=शयनस्थानीयमित्यर्थः।एतेनोक्तशंकायाः कः परिहारः उक्त इत्यत्राह - अत इति । ब्रह्मैव साक्षादितिसुषुप्तौ शयनस्थानीये साक्षात्ब्रह्मण्येव स्थित्यभ्युपगमात्जीवस्याणुत्वेपि न क्षतिरिति भावः ।।

उत्तरसूत्रार्थमाह - यतः इति । अस्मादित्यस्य ब्रह्मण इति व्याख्यानम् ।सत इति । परब्रह्मणः आगत्य तस्मादेवागच्छामहे इति स्वागमनप्रकारंन विदन्तीत्यर्थः । अयं भावः । अत्र सत आगम्येति परब्रह्मण एव साक्षात्जीवस्य प्रबोध श्रवणात् ब्रह्मण एव साक्षात् सुषुप्तिस्थानत्वमावश्यकम्यदि पुरीतन्नाड्यादीनां साक्षात्सुषुप्ति स्थानत्वं स्यात्तर्हितेभ्य एव साक्षात् जीवस्य प्रबोधः आवश्यकः । अत्र च ब्रह्मण एवजीवस्य प्रबोधः उक्त इति । एतेन निरपेक्षत्व प्रतीतेरिति पूर्वपक्षयुक्तिरपिनिरस्ता । उदाहृतश्रुतौ साक्षात् ब्रह्मणः सुषुप्तिस्थानत्वावगमात्न निरपेक्षत्वप्रतीतिरपीति ।अत एव हि “ताभिः प्रत्यवसृत्य पुरीतति शेते” इति सुषुप्तौ नाडीद्वाराह्रदयान्निष्क्रम्य पुरीतति शयनमुच्यते, प्रत्यवसृत्येति श्रवणात्अतो नाडीनां साक्षात्सुषुप्तिस्थानत्वं न भवताप्यभ्युपगन्तुं शक्यम्एवं ब्रह्मरूपस्थानात् प्रबोधश्रवणादपि नाड्य इव पुरीततोपि नसाक्षात्सुषुप्तिस्थानत्वमित्यवगम्यत इति ।। समाप्तं तदभावाधिकरणम् ।