(3.02.01) सन्ध्याधिकरणम्संगतिमाह - एवमिति । जन्मादीत्यत्रादिपदेन वासादिग्रहणम् । दुःखित्वंख्यापितमिति । यद्यपि - जीवस्य स्वर्ग दशायां सुखानुभव एव अथापि “स्वर्गेऽपिपातभीतस्य क्षयिष्णोर्नास्ति निर्वृति"रिति तत्रापि दुःखप्राचुर्यबोधनात् इष्टादिकारिणस्तत्रापि देवपशुत्वसाम्यबोधनेन च दुःख वत्वमस्त्येवनन्वरोहणदशायां तत्तदचेतन संश्लेमात्रभाक्त्वेन सुखदुःखानु भवोनास्तीतिचेन्न, तदा तदनु भवाभावेऽपि पश्चात् गमनागमनादिपर्यालोचनवतः, अनवधिकानन्दस्यस्वाभाविकज्ञानविकासवतो मम तद्धशायामीषदपि ज्ञानं नास्तीति दुःखस्यावश्यभावित्वेतदुःखित्वावश्यकत्वात्अत एव गमनागमनयोगेन दुःखित्वं ख्यापितमिति भाषितं, नतु तद्दशायामितिसस्वप्नावस्थेति। ननु संसरतो जीवस्य संसारदोषदर्शनेन तत्रजिहासोत्पादनायजाग्रदवस्थायाइव स्वप्नाद्यवस्थाया अपि वैराग्यपादे तदर्थपरे एवहि निरूपणं कार्यम् । अस्मिन् पादे एतन्निरूपणं कथं संगच्छते ।नह्येकस्मिन्नेव पादे अननुगतार्थद्वयनिरूपणं युक्तं, अतः स्वप्नसुषुप्तिमुग्धिरूपजीवावस्था प्रतिपादकभागः वैराग्यपादशेषभूत इति तत्रैवनिरूपणमतिसमञ्ज समिति चेत् । सत्यम् । अथापि तन्निरूपणस्य परमात्मविचित्रशक्तियोगप्रतिपादनरूपत्वेन परस्य कल्याणगुणनिरूपणपरेऽस्मिन् पादे संगत्यतिशय मालोच्यात्रनिरूपणमिति न दोषः । यद्यपिवैराग्यपादेपि तदनुगुणकल्याणगुणवत्त्वबोधनं ब्रह्मणः सिध्यत्येवअथापि जाग्रतोऽस्य स्वप्नाद्यवस्थागतदोषापक्षेया अतीव वैलक्षण्यमस्तीतिविस्तरेण बोधनाय पृथक् निबद्धः वैराग्यपादः ।। अतः प्राधान्येनपरमात्मन एव जीवसर्वावस्थास्वपि सर्वकार्य कर्तृत्वादि प्रतिपादनमितिन जीवस्यात्र प्राधान्येन निरूपणमिति । नन्वथापि ब्रह्मणो निरूपणमप्यत्रासंगतमेव, अस्य साधनाध्यायत्वात् प्राक्तनाध्यायद्वयेन विचारितत्वाच्चइति चेत् ब्रह्मणः सिद्धोपायत्वेन साधनत्वात्साधनाध्याय संगतत्वात् तन्निरूपणस्य ।। वक्ष्यते च उपपत्तेश्च फलमतउपपत्तेरित्यादौ । वस्तुतः साध्योपायभूतोपासनलक्षणसाधनस्यानेकत्वात्तद्भेदस्य परमात्मगुणभेदनिबन्धनत्वात् तद्गुणनिरूपण भावश्यकमेवेतिअत्र परमात्मकल्याणगुणनिरूपणं युक्तमेव । किं चापरमात्मनि वैराग्यजननायवैराग्यनिरूपणस्येव पुरुषस्योपायाधिकारसिध्यर्थं प्राप्यभूतपरमात्मनितृष्णायाः आवश्यकत्वात् । तज्जननाय तद्गतकल्याण गुणनिरूपणमिति सुतरांसंगतमिति बोध्यम् । स्वप्नमधिकृत्येत्यनेन न तत्रेति श्रुतिघटकतत्र शब्दार्थो विवृतः । तत्र = स्वप्नावस्थायामित्यर्थः स्वप्नंपश्यतीति पूर्व प्रकृतत्वात् ।एतच्छ्रुत्यर्थः उत्तरत्र व्यक्तीभविष्यति । रथयोगाः = रथयुक्ताःअश्वाः । आनन्दाः - अनुकूलविषयजन्याः प्रीतयः । मुदः = स्वकीयत्वबुद्धिजन्याः प्रीतयः । प्रमुदः = तद्विनियोगजन्याः प्रीतयः । वेशान्ताः = पन्वलानिवेशान्ताः इति दीर्घस्तु छान्दसः । ननूदाहुतश्रुतेर्विषयवाक्यतयोपादानमयुक्तम्असंन्दिग्धार्थत्वात् । सन्दिग्धार्थकस्यैव विषयत्वात् । नह्येतावत्पर्यन्तमविद्यमानस्य वस्तुनः स्वप्नदशायां केनचिदपह्नवःक्रियते । तद्दशायां तस्य प्रतीतत्वात् इत्याशंकायाः परिहारं मनसिनिधाय संशयस्वरूपं दर्शयति - तत्र संशय इति ।“स हि कर्तेति” कर्तृत्वेन निर्दिष्टः कः इत्यत्रैव विप्रतिपत्तिः,न तु स्वाप्नार्थस्य विद्यमानतायाम् । एवं संशयस्वरूपप्रदर्शनेनस्वाप्नार्थमिथ्यात्ववादिपक्षोऽपि निरस्तः स्वाप्नार्थसत्यत्वेहि तत्सृष्टिर्जीवकर्तृका परमात्मकर्तृका वेति संशय्य परमात्मकर्तृकत्वेनसिद्धान्तकरणं युज्यते । यथा च स्वाप्नार्थस्य सत्यत्वं तथोपपादितमधस्तात्युक्तं = युक्तिमत् । स्वप्नदृक् जीव एवेति । “सृजते स हि कर्ता” इत्यत्रस्रष्टृकर्तृत्वेनोक्तः तच्छब्दार्थः जीवः । स्वप्नं पश्यतीति स्वप्नद्रष्टुःजीवस्यैव प्रस्तुतत्वात् । न ह्यकाण्डे परमात्मनस्तच्छब्देन परामर्शोयुक्ततरः ।सन्ध्यं तृतीयमिति । एतल्लोकस्थानं प्रथमं परलोकस्थानं च द्वितीयंतृतीयंच स्वप्नस्थानं, अत एव तस्मिन् सन्ध्ये स्थाने तिष्ठन् एते उभेस्थाने पश्यतीदं च परलोकस्थानं चेत्युच्यते ।।
सूत्रस्थ चशब्दमभिप्रेत्य - किंञ्चेति भाषितम् । जीवस्यैव कर्तृत्वेनप्रस्तुतत्वात् एनं जीवमित्यध्याहृतम् । पुत्रादयश्चेति निर्देशस्वारस्यात्निर्मातारमित्यस्य प्रतिसंबन्ध्याकांक्षाबलाच्च कामानामित्यध्याहृतम्निर्मातारमिति पदन्यासमालोच्य “य एषु” इति श्रुतिवाक्यमुपात्तम्निर्मिमाणः इति ह्यत्र श्रूयते । कामं = इच्छविषयभूतमित्यर्थः ।अत्र कामंकामं इति स्मारं-स्मारमिति वन्निर्देशः किं न स्यादित्यत्राह - पुत्रादयश्चेतिककुत इत्यत्राह - पूर्वत्र हीति । हीति हेतुवाची । प्रकृता इति । काम्यमानानांपुत्रपौत्रादीनामेव पूर्वप्रस्तुतत्वात् कामशब्देन प्रत्यभिज्ञानादिति भावः ।ननु स्वप्नदशायां परिकराभावात् जागरदशायां घटादीनामिव रथादीनांसृष्टिः कथं जीवेन कर्तुं शक्या परिकरशून्यस्य तत्करणत्वासंभवात्इत्यत्राह - जीवस्येति । परिकरशून्यस्य परस्य कथं कर्तृत्वमित्याशंकायांसत्यसंकल्पत्वादि युक्तत्वात्संभवतीत्येव वक्तव्यम् । तच्च सत्यसंकल्पत्वादिकंजीवस्यापि यद्यभ्युपगतं तर्हि तादृशेन जीवेनैव सृष्टिसंभवे किमर्थमतिदूरपरमात्मनो गवेषणेन । श्रुतं च प्रजापतिवाक्ये “य आत्माऽपहतपात्माविजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामः सत्यसंकल्पःइत्यादौ सत्यसंकल्पवादिकंजीवस्येति भावः
राद्धान्तमारभते - इति प्राप्त इति । पक्षं व्यावर्तयतीति । अनेन फलितमर्थंपरमपुरुषसृष्टमित्यनेन वक्ष्यति । मायामात्रं = आश्चर्यरूपमित्यर्थः ।अनाश्चर्यरूपं न किंचिदपीति भावः । अस्त्वाश्चर्यरूपत्वं किं ततइत्यत्र पर्यवसितमर्थमाह - परमपुरुषसृष्टमित्यर्थः इति । आश्चर्यरूपत्वेपिजीवकर्तृत्वं कुतो न भवतीति शंका तूत्तरत्र स्वयमेव निराकरिष्यते ।ननु मायाशब्दो हि मिथ्यावचनो दृष्टः । तत्किमिति तस्य आश्चर्यपरतेष्यतेइत्यत्राह - मायाशब्द इति । देवमायेवेति = देवानामाश्चर्यभूता शक्तिर्मूर्तिमतीव निर्मितेत्यर्थः । अत्र यदि मायाशब्दस्य मिथ्यार्थकत्वं,तदा जाता निर्मितेति कथनं सर्वथाऽसमञ्जसमेव स्यात् । तदा कल्पिता इति निर्देशो हि युक्ततरः । एवं"तेन माया सहस्रं तत् शम्बरस्याशुगामिना । बालस्य रक्षता देहमैकैकश्येनसूदित” मित्यत्रापि मायासहस्रस्योक्तं सूदितत्व लक्षणं नाश्यत्वंपरमार्थभूतस्यैवेति न मायाशब्दस्य मिथ्यार्थपरत्वं युक्तम् । अन्यथाप्रतिपन्नोपाधौ निषेध्यत्वलक्षणबाधस्यैव मिथ्यावस्तुनः अभिमतत्वात्माया सहस्त्रस्य बाध्यत्वमेव वक्तव्यं अत एव माया मृगोहतः इति मारीचस्यप्रध्वंस एवोक्तः । एवं मेघनादमायादिष्वपि मन्त्रविशेषसाध्यपरमार्थसर्पाणामेवमायेति व्यवहारः । न च “मायां तु प्रकृतिं विद्यात्” इत्यत्र प्रकृतेःसत्यत्वव्यावृत्त्यै मायात्वविधानात् मायाशब्दस्य मिथ्यार्थत्वमेव युक्तमिति वाच्यम्मायायाः प्रकृतित्वविधान एव तत्परत्वात्तस्य वाक्यस्य । प्रकृतिंविद्यादितिह्युच्यते । अन्यथा प्रकृति मायां विद्यात् इति निर्देर्शोहि स्वरसः । अतः मायाशब्दस्य मिथ्यार्थत्वव्यावृत्त्यर्थमेव प्रकृतिंविद्यादित्युच्यते इत्यवसीयते । अस्तुवा मायात्वविधानं अथापि नमिथ्यात्व बोधनाय तद्विधानम् । उक्त प्रमाण बलेन मायाशब्दस्याश्चयार्थकत्वसिद्धेःनिखिलजगत्कर्तुः भगवतः सृष्ट्युपकरणभूत प्रकृतेराश्चर्यत्वबोधनायमायात्वविधानमिति न दोषः । नच माया तु वयुनं ज्ञानमिति निघण्डुबलात्ज्ञानार्थकत्वेपि कथमाश्चर्यपरत्वमिति वाच्यम्अविवादात् । आश्चर्यसृष्टि वाचकत्वे आश्चर्यसृष्टिहेतुभूत शक्तिविशेषवाचित्वेआश्चर्यसृष्टिनिदान भूत संकल्पविशेषवाचित्वेऽपि न किञ्चदप्यस्माकंबाधकं सर्वथा मिथ्यार्थकत्वं त्वसंभवीति । अत एव “मेघोदयस्सागरसंनिवृत्तिःइत्यारभ्यः विष्णोर्विचित्राः प्रभवन्ति मायाःइति सत्यभूतार्थेष्वेवमायाशब्दप्रयोगः । इत्यादिकमिहादिशब्दविवक्षितमिति । नन्वस्तु मायाशब्दस्याश्चार्यपरत्वम् ।अथापि “न तत्र रथाः” इत्यादि श्रुतौ रथाद्यर्थानां न भवन्तीत्यसत्यत्वबोधनात् स्वाप्नार्थानां मिथ्यात्वमेव अतश्चाश्चर्यरूपत्वानवगमात्न सर्वथा भगवत्कर्तृकत्व मित्यत्राह - अत्रापीतिअयमाशयः - नात्र स्वाप्नपदार्थानां पूर्वकाले अभावः उच्यते तस्यलोकसिद्धत्वेनन भवन्तीत्युपदेशानपेक्षणात् तद्वाक्यवैयर्थ्या पत्तेः । नापि प्रसिद्धरथाद्यनुभवस्यप्रतिषेधः स्वप्ने तेषामननुभूतत्वस्य, जाग्रत्स्वप्नदृष्टयोरन्यत्वस्यच लोकसिद्धत्वेनतत्प्रतिषेधस्य व्यर्थत्वेन वाक्य वैयर्थ्यापत्तेःनापि स्वाप्नार्थानां मिथ्यात्वमत्रोच्यते । सृजते इति धात्वर्थास्वारस्यापत्तेः । तस्मात् प्रसिद्धरथादिसद्भाव प्रतिषेधेन विजातीयविचित्ररथाद्यर्थसृष्टिरेवोच्यते इति स्वीकर्तव्यम् । तत्र स्वाप्नार्थस्य वैजात्यंचस्वेतरसकलाननुभाव्यत्व तत्त्कालमात्रस्थायित्व रूपमेवौचित्यात्अत एवचाश्चर्यरूपत्वं चेति । ननु तत्तत्कालावस्थायितत्तत्पुरुषमात्रानुभाव्यार्थाः एव न प्रामाणिकाः अदर्शनादिति चेन्न तादृशस्थ जलबुद्धुदादेःक्षुधाजृम्भणादेश्च जागरेऽपि दर्शनात् ।अतः ईश्वरसंकल्पविशेषात्एकपुरुषानुभाव्यत्वंतत्कालमात्रस्थायित्वं वस्तुनः जागरावस्थाया मिव कर्मवशाद्युक्तमेव।।नन्वस्तु स्वाप्नार्थानां सत्यत्वं तत्सृष्टेराश्चर्यरूपत्वंच अथापि जीवकर्तृकत्वमेव किं नस्यात् उपकरणाद्यभावेपि स्रष्ट्टत्वोपपादकसंत्यसंकल्पत्वादीनांप्रजोपतिवाक्ये जीवस्यापि श्रुतत्वादित्यात्राह - एवंविधाश्चर्यरूपेतिकार्त्स्न्येन= सर्वकालावच्छेदेन । सत्यसंकल्पत्वादियुक्तस्वस्वरूपस्यसंसारदशायां सर्वदापि अनभिव्यक्तत्वेन तद्दशायां सत्यसंकल्पत्वादिप्रयुक्त सृष्ट्यसंभवादिति भावः । स्मारं स्मारं कारंकारमितिवत्अथ पूर्वपक्ष्युदाहुत श्रुत्यन्तरमन्यथयति - कामं काममिति । कामंकामं=कामयित्वाकामयित्वेत्यर्थःसंकल्प्य संकल्प्येति यावत् । णमुलन्तमिदं पदम् । कुतइत्यत्राह - यएष्विति । शुक्रं=शुद्धम् ।तदु नात्येति कश्चन । न कश्चिदपि एतत्ब्रह्म नातिक्रामतीत्यर्थः । उः अवधारणे । परमपुरुषासाधारणस्वभावप्रतीतेरिति - सर्वेषुसुप्तेषु जागरणस्य सर्वकामाश्रयत्वादेश्च परमपुरुषासाधारणत्वात्तस्यैवोपक्रमोपसंहारयोः प्रतीत्या कामं कामं पुरुषो निर्मिमाणःइत्यनेनापिपरामर्शः युक्तइति भावःअथापि सहिकर्तेत्यत्र स्वप्नदुष्टुर्जीवस्यैव प्रकृतत्वमित्युक्तमित्यत्राह - अथेति।।श्रुत्यैकार्थ्यादिति । उक्ताश्चर्यविधसृष्टेः भगवन्मात्र कर्तृकत्वसंभवात् अन्यत्र श्रुतौ भगवत्कर्तृकत्वस्य कण्ठोक्तत्वात् श्रुत्यन्तप्रसिद्धस्वाप्नपदार्थकर्तृःपरस्य स इत्यनेन परामर्श संभवाच्च स हि कर्ता इत्यनेन परमपुरुषस्यैवकर्तृत्वं बोध्यते इत्युपेयम् । अन्यथा हिशब्दास्वरस्यं चेति भावः ।।
उत्तरसूत्रशंकामाह - स्वाभाविकमिति।कुतस्तन्नाभिव्यज्यत इति। स्वाभाविकत्वेनश्रुतस्य हेतुनिरपेक्षानभिव्यक्त्यसंभवादिति भावः । रूपंतिरोहितमित्यन्तेनतिरोहित मित्यन्त सूत्रस्थाक्षरार्थः उक्तः । अथतात्पर्यार्थमाह - अनादिकर्मेति।कृतापराघस्यहीति।अनेन भगवतः वैषम्यनैघृण्यादि दोषः परिहृतः । ततइति व्याख्येयम्ततत्संकल्पादेवेतिव्याख्यानम् । अस्येति व्याख्येयं जीवस्येति व्याख्यानम्बन्धमोक्षौ इत्यनेन बन्धविपर्ययौ इति विवृतम् । हि शब्दं प्रयुञ्जानेनसूत्रकृता उक्तार्थस्य श्रुतत्वं विवक्षितमित्याशयेन यदा ब्रह्मैवेषइत्यादिषु बन्धमोक्षौ श्रुतावित्युक्तम्ततश्च मोक्षस्य बन्धस्य भगवत्संकल्पायतत्वेन बन्धान्तर्गततिरोधानस्यापितत्संकल्पायत्तत्वं सिध्यतीति भावः ।। सूत्रे बन्धशब्दस्य प्रथमोपादानेऽपिश्रुत्यानु पूर्व्याः विलक्षणत्वात् तदनुसारेणैवोदाहृतम् । बन्धस्यप्रथमोपादानं तु मोक्षस्य तद्विपर्ययत्वबोधनार्थम् । यद्यपि मोक्षविपर्ययौइत्यपि निर्देष्टुं शक्यं अथापि मोक्षश्चक इति शंकायां तन्निरूपणार्थंसूत्रप्रणयनस्यावश्यकता स्यात् । बन्धस्यतु प्रत्यक्षसिद्धत्वेनतन्निरूपणस्यानपेक्षितत्वात् तद्विपर्ययत्व बोधनेनैव मोक्षस्वरूपमप्युक्तंभवतीत्याशयेनैवं सूत्रितमितियद्वा बन्धरूपाविद्यानिवृत्ते मोक्षत्वेन तज्ज्ञाने प्रतियोगिभूतबन्धज्ञानापेक्षाऽस्तीति प्रथमं बन्धपदोपादानम् ।।
उत्तरसूत्रार्थमाह - सोऽपीति। अनेन कर्मवशात् भगवत्संकल्पः तेन प्रकृतिसंबन्धः ततस्तिरोभावः इति क्रमः दर्शितः । वाशब्दार्थमभिप्रेत्याह - सूक्ष्माचिदितिशक्तिः भगवदपृक्सिद्धविशेषणम् । सूत्रे वाशब्देन न समविकल्पोऽभिप्रेतःकिंतु व्यवस्थितविकल्पः इति सूचयन् उक्तार्थमुपपादयति - सृष्टिकालेइति । अथोक्तसूत्रयोः पर्यवसितं परमं साध्यमाह - अतइति । इत्यादिनामायामात्रमिति सूत्रभाष्ये भाषित परमपुरुषा साधारणस्वभावप्रतीतेरितीदंविवृतम् । नन्वीश्वरस्य स्वाप्नसृष्ट्टत्वे किमर्थमत्यल्पकालस्थायिपदार्थसृष्टिः क्रियते सर्वशक्तस्य तस्यातिस्थिरपदार्थ सृष्टृत्वसंभवादित्याशंका मुपसंहारव्याजेन परिहरति - अत इतिकर्मानुगुण्येनैव हीश्वरसृष्टिः कर्मणश्चाल्पत्वे तज्जन्यफलानुभवोऽप्यल्पएव । नैतावता सृष्टेरेवान्यकर्तृकत्व शंका युक्ता । अन्यथा जागरेपितत्तत्कालमात्रावस्थितार्थ दर्शनात् तत्सृष्टेरप्यभिमतं भगवत्कर्तृकत्वंहीयेत । अतो नैवं शंक्यमिति ।।
उत्तरसूत्रार्थमाह - इतश्चेति । पूर्वत्रोपकरणनिरपेक्षस्वाप्नार्थसृष्ट्टत्वानुगुण सत्य संकल्पत्वादीनां कार्त्स्न्येना नभिव्यक्तत्वात्जीवस्य स्वाप्नार्थसृष्ट्टत्वं न संभवतीत्युक्तम् । अत्र तु स्वप्नावस्थायांकेवलं सत्यसंकल्पत्वाद्यार्विर्भावाभ्युपगमेपि जीवस्य न स्वाप्नार्थसृष्टत्वसंभवइत्युच्यते इति भिदा । यद्वा पूर्वत्र जीवस्य स्वाप्नार्थ सृष्टत्वेअनुपपत्तिः प्रदर्शिता । अत्र तु जीवस्य तत्सृष्ट्टत्वाभ्युपगमेऽनिष्टमुच्यतेशुभस्य सूचकमेव सृष्ट्वा पश्येदितिहि भाषिष्यते । यतः इत्यनेनहिशब्दोव्याख्यातःसूचकशब्दस्य विशेष्यसाकांक्षत्वात् प्रकरणौचित्याच्च स्वप्नः इतियोजितम् । सूचनस्य प्रतियोग्यपेक्षया अविशेषात् प्रमाणबलाच्च “अभ्युदयानभ्युदययोरित्युक्तम्सस्वप्नाध्यायविदः=स्वप्नवाचिवेदवाक्यविदः । पुराणगत स्वप्नाध्यायविदःइति वार्थः ।सूचकत्वं चेति। ननु स्त्रीस्वप्नदर्शनेपि फलसिद्धिर्ननियता,कर्माकर्तुरपि तथाविधस्वप्नदर्शनात् कर्मकर्तुरपि तथाविधस्वप्नाभावेपिफलदर्शनात् । यदितु अन्यत्रेव तत्कालमात्रानुभाव्यस्त्रीस्वप्नादिकंअत्यल्पकर्मवशादुत्पद्यत इत्युच्यते तर्हि स्वाप्नसृष्टेर्जीवकर्तृकत्वेऽपिनानुपपत्तिः जीवेन शुभसूचक तादृशस्वप्नसृष्टेः करणेपि शुभफलानन्वयोपपत्तेरितिचेन्नः सार्वकालिकस्त्र्यादि स्वप्नदर्शनस्य न नियमेन कर्म समृध्यादिसूचकत्वं ब्रूमः किंतु काम्य कर्तुः तादृशस्वप्नदर्शनस्यैवयस्य च यथावद् कर्मानुष्ठानेपि न तादृशस्वप्नदर्शनं तस्य फलसिद्धौन काचिदप्यनुपपत्तिः परं तु सूचकस्वप्नदर्शनानुकूल सुकृत विशेषाभावेनन तादृशस्वप्नस्य दर्शनमिति तस्य मनसि यथावदनुष्टितं न वेति अत्यल्पसंशयमात्रमेवततश्च यदि स्वप्नसृष्टि र्जीवकर्तृका तर्हि शुभसूचकस्वप्नमेवसृजेत्सः, तमेव च पश्येत् फलसिद्धिरस्तु वा मावा । अनुभवसिद्धं दुस्स्वप्नदर्शनमेवकदाचिदपि न स्यादित्याशयात् ।एतदाशयेनैव शुभस्व सूचकमेव सृष्ट्टापश्येदितिभाषितम् । नतु शुभफलं स्यादिति । नच शुभ सूचकत्वाज्ञानात् तथाविधसृष्टिरूपपद्यत इति वाच्यं सूचकत्वपरिज्ञानवतामपितथाविधस्वप्नदर्शनात्तदानींतना निष्टादिकारिचोरव्याघ्रादिस्वप्नदर्शनादपि न जीवकर्तृकत्वसंभवः ।।ननु परमात्मपरतन्त्रस्य जीवस्य जाग्रदृशायामपि कर्मवशात्स्वेनैवानिष्टजनकव्यापारकरणवत् स्वप्नदशायामपि अशुभस्यानिष्टत्वेऽपिकर्मवशात् अशुभसूचकस्वाप्नार्थ सृष्टिर्युक्तैवेति चेत्? उच्यतेजाग्रद्दशायामनिष्टजनकव्यापारस्येष्टजनकत्वाभिनिवेशेनोन्मत्तस्यतथाविधव्यापारकरणेपिअप्रमत्तस्येष्टजनकत्वाभि निवेशाभावेपि अशुभसूचक स्वप्नदर्शनेनजीवकर्तृकत्वा संभवात् यस्तु अशुभस्येष्टत्वमभिसन्धाय अशुभसूचकमेवस्वप्नं सृजेयमिति शेते, तस्य शुभसूचक स्वप्नस्य, यस्तु शुभस्येष्टत्वमभिसन्धायशुभसूचकमेव स्वप्नंसृजेयमिति शेते तस्याशुभ सूचकस्वप्नस्य च जायमानत्वेनतयोः तत्कर्तृकत्वासंभवाच्च ।अतो न स्वाप्नार्थसृष्टिः जीवकर्तृका । परंतु निरुपाधिकसत्यसंकल्पत्वादिगुणयुक्तस्य परस्य पुंस एवेति भावः ।। समाप्तं सन्ध्याधिकरणम् ।।