06 अन्याधिष्ठिताधिकरणम्

(3.01.06) अन्याधिष्ठिताधिकरणम्अथोत्तराधिकरणविषयवाक्यमाह - अवरोहन्त इति । अनेनयथेतं आकाशमित्याद्युक्ताकाशप्राप्तेः तत्संसर्गकृततत्सादृश्यापत्तिरूपत्वस्थापनानन्तरं तद्वद् व्रीह्यिवाः इत्यादिव्रीह्यादिजन्मवचनस्यापिन व्रीह्यादि शरीरकत्वपरता किंतु तत्संसर्गमात्रपरतैवेति प्रतिपाद्यतइति सूचिता संगतिः । नातिचिराधिकरणं तु प्रासंगिकमिति बोध्यम् ।संशयमाह - ते किमिति । अत्र व्रीहियवा जायन्ते इत्यनेन व्रीह्यादिभावः अवरोहतामनुशयिनामुक्तः । स च किं व्रीह्यादिशरीरकत्वरूपःउत जीवान्तराधिष्ठितव्रीह्यादिषु संश्लेषमात्ररूपःव्रीह्यादिशरीरकत्वे व्रीह्यादिशरीरावच्छेदेन भोगावश्यकत्वेनतत्काले एव भोक्तृत्वमनुशयिनां अन्यथा तु स्थूलभूत परिष्वंगाभावेनयोनिप्राप्त्यनन्तरमेवेति संशयतात्पर्यम् । नन्वाकाशादि भावरूपाकाशादिप्राप्तेः आकाशशरीरकत्वनिषेधेन केवलतत्सर्गमात्रपरत्वेन पूर्वंनिर्णीतत्वात् तेनैव नयेन व्रीह्यादि भावस्याप्युपपत्ति संभवात्शंकैव नोत्पतुमर्हति । अवरोहतामनुशयिनां व्रीह्यादि शरीरहेतुभूतकर्मान्तराभावेन तदवच्छेदेन सुखदुःखाद्युपभोगरूपप्रयोजनाभावात्न तत्तच्छरीरकत्वमिति वक्ष्यमाण समाधेः अनधिकत्वाच्चेत्या शंकामर्थतः परिहरन् पूर्वपक्षयुक्तिमाह - जायन्त इति वचनादितियद्यपि देवोभूत्वा मनुष्यो भूत्वेत्यादौ देवादि शरीरकत्वस्येव वायुर्भूत्वाघूमो भवति घूमो भूत्वा इत्यादावपि वाय्वादिशरीरकत्वस्यैव प्रतीतिएवं देवो जायते मनुष्यो जायते इत्यादौ देवादि शरीरकत्वस्येव व्रीहियवाजायन्त इत्यत्रापि व्रीह्यादि शरीरकत्वस्यैव प्रतीतिरिति न वैलक्षण्यं,अथापि तत्राभिमानि देवताधिष्ठिताकाशाद्यवच्छेदेनावरोहतामनुशयिनांसुखदुःखाद्युपभोगस्योपलम्भविरोधात् न तत्तच्छरीरकत्वं युक्तं अत्रतु वर्षावस्थानन्तरं तेषां भूलोकप्राप्त्या व्रीह्यादिशरीरकत्वंतत्प्रयुक्तभोगश्च युक्तः । नहि वेदान्तविद्भिः स्थावरणां नैरात्म्यमिष्यते,नापि आकाशाद्यभिमानिदेवताया इव व्रीहिशरीर जीवस्य सृष्टिमारभ्याऽऽप्रलयं एकत्वमिष्यते । अतः अवरोहतां आकाशाद्यभिमानिदेवतात्वाभ्युपगमासंभवस्येवात्रतदसंभवस्यानुपपत्तेः औपचारिकत्वकल्पनाहेतुविरहेण जायन्त इति यथाश्रुतार्थपरित्यागे बाधकाभावेन च संशयोथितिरिति न कश्चिद्दोषः ।राद्धान्तमाह - इति प्राप्ते उच्यत इति । अभिलापादित्यस्य पूर्ववदितिपदस्वारस्येन केवल तद्भावाभिलादित्यर्थः उक्तः । कर्माभिलापं विनातद्भावमात्राभिलापादित्यर्थः । नन्वस्तु कर्माभिलापाभावःअथापि जायन्तेइति वचनेन तच्छरीरकत्वप्रतीत्या तद्धेतुकर्मसंबन्धः आक्षिप्तो भवतीत्यत्राह - यत्रहीति।अयं भावः=ब्राह्मणयोनिं सूकरयोनि मित्यादिनैव शरीरप्राप्ते रुक्त्या रमणीयचरणाःकपूयचरणाः इति कर्मसंबन्धनिर्देशः किमर्थः इति चेत् शरीर संबन्धप्रतिपादन मुखेन भोक्तृत्वमस्तीति सूचनार्थमिति वक्तव्यम् । तथाच यद्यत्रापि भोक्तृत्व मभिप्रेतं स्यात् अवश्यं कर्मसंबन्धोऽभिलभ्येतैव । अतस्तदभावेन भोक्तृत्वस्यानभिप्रेत्वावगमेन तदवच्छेदशरीर संबन्धो नात्र विवक्षितः इति प्रतीयत इति । नन्वेकत्र शरीरसंबन्धकर्म संबन्धयो बोधनेनान्यत्र शरीर संबन्धमात्र बोधनेऽपिकर्म संबन्धः आक्षिप्तो भवतीत्याशयेनै व तदनुक्तिरिति किं न स्यादित्यत्राक्षेपासंभवमुखेन परिहारमाह - फल प्रदानइति । किमत्र इष्टादिकर्म आक्षिप्यतेउत ब्राह्मणयोन्यादिविशेष प्राप्ति हेतुभूतं कर्म । न तावदाद्यःपक्षः । तादृशकर्मणः स्वर्गोप भोग्यफलकत्वेन स्वर्गोपभोगादेव नाशात्यावत्संपातमुषित्वेति ह्युच्यते । नान्त्यः योनिविशेषप्राप्त्यर्थकर्मणःतदर्थत्वेन व्रीह्यादि शरीरकत्वरूप फलाजनकत्वात् अत एव हि रमणीयचरणा इत्यनेन तत्कर्म अभिलप्यतेअतः स्वर्गादि फलदान प्रवृत्तं प्रारब्धं कर्म नष्टं योनिविशेषप्राप्तिहेतुभूतं कर्म च नारब्धमिति न कर्माक्षेप संभवः इति । ननूभयविघमपिकर्म नाक्षिप्यते अनुपपत्तेः परंतु व्रीह्यादि स्थावर शरीरित्वापादकमन्य देवकर्मेत्यत्राह - मध्ये कर्मान्तराभावाच्चेति। मध्ये=आकाशादिप्राप्तेःमनुष्यजन्म प्राप्तेश्च मध्ये इत्यर्थः । व्रीह्यादि शरीरकत्व प्रापककर्माभावादितिभावः । ननु अन्याधिष्ठित व्रीह्यादि संश्लेषमात्रवादिनां भवतामपिमते स संश्लेषः निर्हेतुकः सहे तुको वा । आद्ये अपसिद्धान्तः ।व्रीह्यादिशरीरकत्वस्यापि तथात्वा पत्तिश्चअन्त्ये स हेतुः कः । संश्लेष जनकं कर्मान्यदिति चेत् कथं कर्मान्तराभावःआस्तां च व्रीह्यादि शरीरजनकत्वमेव तस्य इति चेत् उच्यते मध्येव्रीह्यादि शरीरकत्व प्राप्ति हेतु भूतं कर्म तु नाभ्युपेयते ।मनुष्यादिजन्महेतुभूतस्यैव कर्मणः तथात्वसंपादनाय तदुपयोगिव्रीह्यादिसंश्लेषजनकत्वमात्रं त्वनुपपत्तिबलात् स्वीक्रियते, ननु तस्यैवव्रीह्यादि शरीरकत्व हेतुत्वमपि प्रमाणाभावात् ।अन्यथाहि श्रुतिःमेघो भूत्वा प्रवर्षतीन्यन्तरमेव रमणीय चरणाः इति निरदेक्ष्यत ।अतः उत्तरत्र विषयविशेषे कर्मसंबन्धस्य स्पष्टमुक्तत्वात् तत्पूर्वतनविषयेषुयावत्संपातमुषित्वेत्यनन्तरं प्रतिपादितेषु तत्तच्छरीरकत्वापादककर्मसंबन्धाभाव प्रतीत्या अनारब्धकर्मणएव तज्जनिष्यमाणशरीरविशेष प्राप्तिहेतुत्वोप योग सिध्यै ततत्संश्लेषमात्र हेतुत्वाभ्युपगम एव युक्ततर इतितस्मादन्याधिष्टि व्रीह्यादि शरीर संश्लेष मात्र मेवानुशयिनांव्रीह्यादीनां लवनदशायां तु तच्छरीरिभूतात् जीवाः अपसर्पन्ति ।अतः लवन शोषणपेषणपचनाभ्यवहाराद्यवस्थासु न तेषामनुवृत्तिः तत्संश्लिष्टजीवानामेवेवानुवृत्तिरिति सिद्धम् ।।

जन्म इतीति । अस्य नैतदस्तीति पूर्वेणान्वयः।कुतो नेत्यत्राह - भोक्तृत्वेतिहेतुसद्भावमेव विवृणोति - स्वर्गेति।पापमिश्रमिति । अशुद्धशब्दःअशुद्धियुक्तवाची । अशुद्धिश्च पापमेवेति भावः । ननु विरुद्धमिदंयत् स्वर्गाद्यभ्युदय फलकमिष्टादिकर्म, तदेव पाप मिश्रं चेति, तत्राह - अग्नीषामीयादीति।किं तत इत्यत्राह - हिंसा चेति । उत्सर्गापवादन्याय प्रवृत्तिमाशंक्यनिषेधति - न चेति । अत्रेति । न हिंस्यादित्यनेन हिंसात्वावच्छेदेनबलवदनिष्टाननुबन्धित्वाभावरूपबलवदनिष्टानुबन्धित्वबोधने अग्नीषोमीयादिश्रुतिविहिताग्नीषोमीयहिंसायाः अपि बलवदनिष्टानुबन्धित्वप्रसंगेनअग्नीषोमीयं पशुमालभेत इति श्रुतिबोधितस्य तादृशहिंसायां बलवदनिष्टाननुबन्धित्वस्य बाधप्रसंगः ।अतः न हिंस्यादित्यनेन विहितहिंसाव्यतिरिक्तहिंसात्वावच्छेदेनैवबलवदनिष्ठानुबन्धित्वंबोध्यते इति स्वीकर्तव्यम् । अन्यथा हिंसानिषेधशास्त्राननुष्ठान गर्भ विहित हिंसानुष्ठानपरिग्रहरूपविरोधस्यापरिहारात्अअतः उत्सर्गापवादन्यायेनैव विरोध शान्तिः कर्तव्येति शंकाशयः ।भिन्नविषयत्वादिति । व्याप्यधर्मावच्छिन्न विधिव्यापकधर्मा वच्छिन्ननिषेधसत्वस्थले एवहि उत्सर्गापवादन्यायस्य प्रवृत्तिः । अत्र च निषेधशास्त्रं प्रत्यवाय फलविषयं पशुमालभेत इति तु हिंसायाः क्रतूपकारकत्वविषयम्यदि तु वाक्यद्वयस्यापि प्रत्यवायफलत्व तदभावपरत्वं स्यात् तदाविरोधो युक्तःतत् यदि अग्नीषोमीयमित्यस्य हिंसाविशेष विधायकत्वं स्यात् तदाहिंसा विशेषस्य प्रत्यवाय फलकत्वाभावः सिध्येत् । केवलयागविधायकत्वस्यैव स्वीकारात् । अतो भिन्नविषयत्वात् क्षीरं पित्तोपहृतस्यरक्षकं, प्रमेहोपहतस्यतु बाधकमित्यादाविव नात्र विरोधः इति न तन्त्यायप्रवृत्तिरिति ।ननु आलम्भः स्पर्शहिंसयोरिति आङ्पूर्वलभ धातोरन्यार्थकत्वेपि यागपरत्वार्थंलक्षणायाः आवश्यकतया तत्र च केवलयागे लक्षणामनभ्युपगम्य हिंसापूर्वकत्वविशिष्टयागेलक्षणास्वीकारात् हिंसायां यागेच अग्नीषोमीयपशुकर्मकत्वस्यान्वयात्अग्नीषोभीयपशुकर्मक यागस्येव अग्नीषोमीय पशुकर्मकहिसायाः अपि विधेयत्वमस्तीतिअस्यैववाक्यस्य प्रत्यवाय फलत्वाभावविषयत्व सिध्या विरोधस्य सूपपादत्वेनतादृशन्यायप्रवृत्तिः युक्तैवेति चेन्न, अग्नीषोमीयपशुकर्मकत्वस्यहिंसापूर्वकत्वविशिष्टयोगेऽन्वयेपि विशेषणीभूत हिंसायां अन्ययाभ्युपगमेपिच विशिष्टस्य आलभेत इत्यनेनोक्तस्य अग्नीषोमीयपशुकर्मकत्वविशिष्टहिंसापूर्वकत्वविशिष्ट यागस्य विधेयत्वासंभवात्अग्नीषोमीयपशुहिंसायाः विधेयत्वसिध्यर्थं हि विशिष्टलक्षणा स्वीकृताअथापि तादृशपशुकर्मकहिंसायां बलवदनिष्टाननुबन्धित्वरूपविध्यर्थस्यबाधेन विध्यर्थानन्वयेन विधेयत्वानुपत्तेः असति बाधके एव विशिष्टान्वयिनःविशेषणेऽप्यन्वयात् । तत्र बाधश्च नहि स्यादित्यनेन बलवदनिष्ठाननुबन्धित्वाभावबोधनात् । नहि “नहिंस्यादित्यस्य विहितहिंसाव्यतिरिक्तहिंसायाःअनिष्टसाधनताबोधकत्वं अन्योन्याश्रयात् । अग्नीषामीयमित्यादेर्विध्यर्थान्वयाबाधेनविशिष्टविधित्वे सिद्धे न हिंस्यादित्यस्य विहितव्यतिरिक्तविषयत्वंतस्य विहितव्यतिरिक्तविषयत्व सिद्धावस्यवशेषणान्वया बाधेन विशिष्टविषयत्वसिद्धिरितितस्मात् सवर्थापि उत्सर्गापवादन्यायस्य प्रकृते न प्रवृत्तिरितिनन्वेवं सति उत्सर्गापवादन्यायस्य कुत्रापि न प्रवृत्तिः स्यात्अभिन्नविषयत्वेन विरोधोपपादने अन्योन्याश्रयात् भिन्नविषयत्वे चविरोधाभावादिति चेन्न पदाहवनीयस्थले एव तत्प्रवृत्तेः । तत्रहिएकहोमविषयवाक्यद्वये अन्यतराननुष्ठानगर्भान्यतरपरिग्रहविरोधो जागरूकःनहि तत्रान्योन्याश्रय प्रसक्तिः । श्रुतार्थोपपत्तये अन्यतरपरिग्रहेअन्यतराननुष्ठानस्यावश्यकत्वेन सामान्यविधेः विशेषव्यतिरिक्तविषयकतयासंकोचस्यावश्यकत्वात् । प्रकृतेतु अग्नीषोमीयपशुकर्मकयागमात्रस्यविधेयत्वाभ्युपगमे विरोधाभावात् एकविषयत्वेन विरोधसंपादनाय आङ्पूर्वकलभघातोविशिष्टार्थकत्वमभ्युपगम्य विशिष्टस्य विधेयत्वं च स्वीकृत्य अग्नीषोमीयपशुकर्मकहिंसायाअपि विधेयत्वसिध्यै तत्रापि विध्यर्थान्वयस्वीकारात् न हिं स्यात्इत्यनेन विध्यर्थान्वया प्रसक्तेः तत्प्रसक्यर्थं निषेधस्य संकोचकरणमप्रामाणिकमेवनहि निषेध संकोचकरणाय विशिष्ट विधित्वश्रयणं युक्तं, तदा उभयाश्रयस्यमिथस्सापेक्षत्वेन मिथः संश्रयस्य जागरूकत्वात् । एवं सोमपानविधितदुच्छिष्टनिषधस्थलेपि उत्सर्गापवादन्यायस्य प्रवृत्तिः सुशका - एकत्रोच्छिष्टस्यनिषिद्धत्वं अपरत्र तस्य विधेयत्वं च बोधयत इति उच्छिष्टदोष तदभावपरत्वेनविरोधादुभयशास्त्रयोः । तस्मात् तन्नयायस्यान्यत्र संभवेपि नात्रतत्संभव इति इष्टादिकर्मणः पापमिश्रत्वं युक्तमेवेति ।।एवं अग्नीषोमीयपशुहिंसास्थले भाट्टोक्तस्य मृषावाद्यभिमतस्य चोत्सर्गापवादन्यायस्याप्रवृत्तिमुपपद्य तत्रोवोक्त दूषण परिहारत्वेन प्राभाकरोक्तं परिहारमपिदूषयितुमुपन्यस्यति - अथोच्येत इति । तस्य = निषेधविधेः । रागप्राप्तहिंसानिषिध्यत इति हि भवतां मतं अग्नीषोमीयादिस्थलेपि पशुहिंसा रागप्राप्तैवेतिन किंचिद्वैलक्षण्यमित्याशयेन दूषयति - नैवमित्यादिना । रागप्राप्तत्वमेवोपपादयति - स्वर्गकामइतिराग प्राप्तत्वव्यक्त्यै कामिनः इत्युक्तम् । ननूभयत्र रागप्राप्तत्वेपिशास्त्रीयहिंसायां फलभूतस्वर्गजनकयागाद्युपकारकत्वस्य प्रमाणप्राप्तत्वेन वैलक्षण्यमित्यत्राह - अग्नीषोमीयादिष्वपीति । अग्नीषोमीयादिसंज्ञपनेष्वित्यर्थः । तेषां = संज्ञपनानामित्यर्थः । प्रमाणप्राप्तत्वमपिउभयत्राविशिष्टमिति भावः ।ननु फलरागं विनापि नित्यकर्मसु प्रवृत्ति दर्शनात् तादृशकर्मोपकारकनित्यहिंसायाःसंवत्सरपश्वालम्भनरूपायाः दोषत्वाभावेन न हिंस्यादित्यत्रोसर्गापवादन्यायस्यप्रवृत्तिरस्त्येवेत्यत्राह - तथेति। सर्ववर्णानां स्वधर्मानुष्ठानेपरमपरिमितं सुखमित्यापस्तम्बसूत्रम् । तथा च नित्यकर्मणामपि अपरिमितसुखरूपफलजनकत्वेन तत्रापि प्रवृत्तेः राग प्राप्तत्वात् नित्यहिंसापिहिंसैवेति भावः । वस्तुतः नित्यकर्मानुष्ठाने प्रत्यवाय परिहारस्यफलत्वेन राग प्राप्तेरेव तत्रापि प्रवृत्तिरिति बोध्यम् । नन्वस्तुइष्टादीनामशुद्धियुक्तत्वं तावताअवरोहतां व्रीह्यादिशरीरकत्वं किमायातमित्याशंकांपरिहरन् पूर्वपक्षमुपसंहरति - अत इति ।अतः उक्तोपपादनात् । ननु पापमिश्रेष्टाद्यनुष्ठाने अवरोहणसमये व्रीह्यादिशरीरकत्वमेवेप्यत्रकोनिर्बन्धः इत्यत्राह - स्थावरभावं चेति । शरीरजैरिति । वाचिकैः पक्षिमृगतांमानसैरन्त्यजातितामिति पूर्वार्धम् । अत्रवाचिक मानसकायिकभेदेनकृतपापानां विशिष्यतत्तत्फलस्योक्ततया पशुहिंसादि पापकर्मणः शरीरजत्वात्व्रीह्यादिशरीरकत्वरूपस्थावरभाव एव युक्तः इति भावः ।।एवमुपपादितंसांख्यमतं निरस्यति - तन्नेति। स्वर्गलोकप्राप्तीति । पशोरित्यादिःननूक्तपशुहिंसायाः पशोः स्वर्गलोकप्राप्ति हेतुत्वेपि तस्याःदुःखजनकव्यापाररूपत्वेन हिंसात्वमप्यावश्यकमेवेत्यत्राह - अतिशयितेति ।ननूक्तव्यापारस्यैवाहिंसात्वे किं प्रमाणमित्यत्राह - तथा चेति ।नेति । हे पशो अभिमन्त्रणपूर्वकं क्रत्वर्थं हन्यमानस्य तव नैतन्मरणम्नापि हिंसा । रिङ् क्षये इति धातुः । शोभनैः मार्गैः देवान्प्राप्त्स्यसिपापिनामप्राप्यः सुकृतिनां प्राप्यश्चयो लोकः तत्र सविता देवस्त्वांप्रापयतु इति श्रुतेरर्थः । अत्र चाहिंसात्वस्य कण्ठोक्त्या बलबद्धिताजनकतीव्रवेदनाजनकव्यापारस्यैव हिंसालक्षणत्वावश्यकतया अतिशयिताभ्युदयसाधनभूतस्यअत्यल्पदुःखदस्य व्यापारस्याहिंसात्वं श्रुतिसिद्धमेवेति भावः ।एवं हिंसालक्षणस्याऽस्थेयत्वे लोकसंमतिमप्याह - चिकित्सकं चेति । अन्यथाचिकित्सकव्यापारस्यापिहिंसात्वापत्त्या अनुभवसिद्धं तत्पूजनमेव न घटेत प्रत्युत तत्ताडनमेवच सिध्येदिति भावः । ननूक्तरीत्या उक्तपशुहिंसायाः दोषत्वाभावेइतिहासपुराणादिषु पिण्डपश्वादिकल्पन कथनस्य का गतिः । साक्षात्पशुहिंसाया एवादुष्टायाः करणसंभवात् इति चेन्न कृतादिकालविशेषेशुद्धयाजिप्रभृत्यधिकारिविषये तादृशव्यावस्थायास्तत्रोक्तत्वेनतादृशाचारस्य कालान्तरे अधिकार्यन्तरेषु प्रसक्त्यनवकाशात् ।एवमुक्तहिंसास्थलेउत्सर्गापवादन्यायपरित्यागे शरदि पशुमालभेत इत्यादिनित्यहिंसैवन सिध्येत्तत्र हिंसाया नित्यप्राप्तत्वेन रागजन्यत्वाभावात् रागजन्यत्वेहि भवतामग्नीषोनीय पशुहिंसाया इवाहिंसात्वसिध्योत्सर्गाप वादन्यायस्याप्रवृत्तावपिन क्षतिरिति वक्तुं शक्यम् । ततश्चाग्नीषोमयपशुकर्मकयागस्येवा निष्टजननसमर्थहिंसान्वितत्वेन नित्यहिंसायाः अननुष्ठानलक्षणाप्रामाण्यपराहतत्वप्रसक्तिः । ननु तत्रापि सर्व धर्माणां स्वधर्मानुष्ठाने परमपरिमितंसुखमित्यादि सुखप्राप्तिवचनात् रागत एव प्रवृत्तिरिति तत्रापि हिंसायाःरागजन्यत्वमविशिष्टमेवेति चेन्न - तथा सति नित्यकाम्यविभागस्यैव लोपप्रसक्तेःएतेन स्वधर्मानुष्ठानस्य प्रत्यवायफलकत्वेन नित्यहिंसायां रागतः प्रवृत्तिरितिपक्षोऽपि निरस्तः । प्रत्यवायफलकत्वेपि भगवत्प्रीत्यैकप्रयोजनतया तदनुष्ठानात्रागतः प्रवृत्तेर्दुर्वचत्वात् । न च पिष्टपश्वादिकल्पनेन नित्यहिंसास्वरूपसिद्धिरितिनात्रोत्सर्गापवादन्यायस्यावश्यकतेति वाच्यम् । तस्याधिकारिकालविशेषनियतत्वस्योक्तत्वात्अनियतत्वेपि पिष्टादिपेषणदेरपि पंचसूना गृहस्थस्य वर्तन्तेऽहरहस्तथाखण्डनी पेषणी इत्यादिभिः हिंसात्वकथनात् तस्याश्च रागतः प्राप्तेरेववक्तव्यतया तदनुष्ठानानुपपत्तेस्तदवस्थत्वात् । ननु उत्सर्गापवादन्यायाभ्युपगमेपिअग्नीषोमीय पशुहिंसायाः निषिद्धत्वमपि स्वीकर्तव्यमेव ।अन्यथा सामान्यतो निषिद्धस्यानृतकथनस्य विवाहादानुमतस्योस्सर्गापवादप्रवृत्तौ अदुष्टत्वसिद्धे” अनाक्रोश्यमाक्रुश्यानृतं वोक्त्वा त्रिरात्रमक्षारलवणभोजनमिति विहितानृतकथनप्रायश्चितस्यानुपपन्नत्वापातात् । तत्र हि विवाहादौविहितस्याप्यनृतकथनस्य तत्प्रायश्चित्तविधानात् निषिद्धत्वमवगम्यतेइति चेत् - सत्यं - तत्र हि प्रायश्चित्तविधानान्यथानुपत्तिबलात् निषिद्धत्वाश्रयणंअत्र तु विहितहिंसाकरणस्य प्रायश्चित्ताविधानान्न तत्समत्वाश्रयणंयुक्तम् । अगतिकत्व तदभावाभ्यां वैषम्यात् । वस्तुत स्तत्रविहितानृतकथने दोषसद्भावेन न प्रायश्चित्तविधानंकिंतु जातेष्टिवत् नैमित्तिकमेव प्रायश्चित्ते विधीयते । अतः पुत्रजननवत्निमित्तमात्रमेवानृतकथनमिति न विधिविषयानृतकथनस्य निषेधविषयत्वसंभवः इति । अतः उत्सर्गापवादन्यायस्य नित्यहिंसास्थले भवतामपिपरित्यागासंभवात् न हिंस्यादित्यस्य विहितव्यतिरिक्तविषयतयैव संकोचावश्यकत्वात्तत एव अग्नीषोमीयादिहिंसायाः निषेधाविषयत्वमिति नेष्टादि कर्मणःअशुद्धिमिश्रत्वमिति । नच भिन्नविषयत्वेन तन्त्यायाप्रवृत्तिः शक्यशंकाः तथा सति शरदि पशुमालभेत इत्यादिनित्याहिंसा स्थलेपि पश्वलंभनस्यक्रतूपकारत्वेन भिन्नविषयत्वापत्त्या तत्राप्यप्रवृत्त्यापत्तेःननु सुहुद्भावेन पृच्छामः । अत्रोत्सर्गापवादन्यायप्रवृत्त्यै कथमेकविषयत्वोपपादनमिति?श्रणु उत्सर्गापवादन्यायोहि विरोधपरिहाराय सामान्यशब्दस्योपात्तविशेषव्यतिरिक्तविषये संकोचरूपः । तत्राग्नीषोमोयमित्यादिना अग्नीषोमीययागस्य विधानात् तस्य चाग्नीषोमीयपशुकर्मकहिंसांविनाऽसंभवात् तस्याःअपि विहितत्वापत्या सर्वभूतहिंसानिषेधेन सहास्य विरोधात् तादृशनिषेधस्याग्नीषोमीयपशुहिंसाव्यतिरिक्तविषयकतया संकोचः सिध्यति । भवदुक्तंतु व्याप्यधर्मावच्छिन्नविधिव्यापकधर्मावच्छिन्न निषेधस्थले एवतन्न्याय प्रवृत्तिरिति नैव युक्तंपदाहवनीयस्थले न्यायाप्रवृत्ति प्रसंगात् । तत्रहि होमसामान्यस्याहवनीयस्थानकर्तव्यत्वंबोध्यते एकेनवाक्येन । अन्येन च पदस्थानकर्तव्यत्वं तत्रैकशास्त्रानुष्ठानेअन्यशास्त्रस्य परित्यागाद्विरोधः दुष्परिहरः अतः आहवनीयहोमस्यपदहोमव्यतिरिक्तविषयतया संकोचः क्रियते । न हितत्र निषेधः श्रूयतेतस्मादेवमुत्सर्गापवादन्यामाभ्युपगमे न किंचिद् कस्यचिदपि बाधकम्वस्तुतः उक्तहिंसास्थले अस्माकं तन्न्यायाप्रवृत्तावपि न किंचित्बाधकम्पशुहिंसायाः हिंसात्वा संभवस्य स्थापितत्वेन न हिं स्यादिति निषेधस्यविहित व्यतिरिक्त विषय तया संकोचानपेक्षणात् । भवतां तु हिंसात्वाभ्युपगमात्अग्नीषोमीयहिंसायाइव नित्यहिंसायाः अपिराग प्राप्तत्वेन हिंसात्वकण्ठोक्यांच हिंसात्वात् तादृशन्याय परित्यागेच नित्यकर्मानुष्ठानादिकमेवन सेत्स्यतीति महदसामञ्जस्यमित्यलं विस्तरेण ।।

अनन्तरसूत्रोक्तं परमसाध्येन योजयति - इतश्चेति । एतत्सूत्रोक्तस्यव्रीह्यादि जन्मवचनौप चारिकत्वे कथं हेतुत्वमिति शंकां परिहरन्तद्भूय एव भवतीत्युक्तस्य अनुशयिनां रे तस्सिक्पुरुषभावस्य रेतस्सिक्पुरुषशरीरकत्वरूपत्वासंभवस्य प्रत्यक्षसिद्धत्वात् तत्स्वाभाव्यापत्तिरुपपत्तेरितिसूत्र सिद्धन्यायेनैव तत्संसर्गमात्र परतायाः सिद्धत्वाच्च तत्साधनमात्रपरतया सूत्र प्रवृत्तेर स्वारस्यं मनसिनिघाय दृष्टान्तपरतया व्याचष्टे - व्रीह्यादिभाववचनानन्तरमिति।अनन्तरमित्यनेन सूत्रस्थाथ शब्दो विवृतः । भूयः = पश्चात् स इत्यध्याहार्यइष्टादिकरीति तदर्थः ।तद्भवति रेतस्सिक् भवतीत्यर्थः । अत्रोक्त रेतस्सिक् भावः उपचरितः एवासंभवात्तद्वदेव व्रीह्यादिजन्मवचनमपि । औपचारिकप्रकरणस्याविच्छिन्नत्वादिति भावः ।।

उत्तरसूत्रार्थमाह - योनिप्राप्तेरिति । योषिद्योनिप्राप्तेरित्यर्थकम् ।तत्रानुक्तमप्यभिप्रेतं हेतुमाह - तत्रैवेति । एतत्सूत्रोक्तार्थस्यअन्याधिष्ठित व्रीह्यादि शरीरेणानुशयिनां संश्लेषमात्रमेव व्रीह्यादिभावःइत्येतावतोक्तार्थेन सह संबन्धमाह - ततः प्रागिति । योषिद्योनिप्राप्त्यनन्तरमेवसुखदुःखाद्युपभोगात् ततः पूर्वं तदभावेन तत्तच्छरीरकत्वकल्पनमयुक्तमितितत्तद्योगमात्रमेव विवक्षणीयमिति एतत्सूत्रतात्पर्यमिति भावः ।इदमत्रतत्वं - इष्टादिकारी घूमादिमार्गेण अग्नित्वरूपितद्युलोकं प्राप्यामृतमयदिव्यदेहंलब्ध्वा स्वर्गसुखमनुभूय तेन तादृशकर्मनाशे आकाशादि क्रमेणान्याधिष्टिताकाशादिसंसृष्टस्सन्नन्वारुह्य अग्नित्वरूपितपर्जन्य पृथिवीपुरुषान् क्रमेणप्राप्य तत्र तत्रान्याधिष्टित वर्ष व्रीह्यादिलक्षणान्नरेतस्संश्लिष्टःअग्नित्वरूपितयोषिद्योनिं प्राप्य स्वसंबन्द्धभूतसूक्ष्माणां प्रारब्धकर्मवशात्ब्राह्मणादिशरीररूपेण परिणामेनार्भकात्मकतत्तच्छरीरीसन् भवतितत्र प्रथमचरमयो रेवाहुत्योः देहवत्वम् । मध्ये सर्वत्र अन्यधिष्ठिततत्तच्छरीर संश्लेषमात्रमेव । तत्र श्रद्धावस्थस्य प्रथमाहुत्यनन्तरंअमृतमयदेहविशिष्टतया परिणामस्य चरमाहुत्यनन्तरं ब्राह्मण्यादिशरीरविशिष्टतया परिणामस्यचोक्तत्वात् मध्ये तदुपादानभूतभूतसूक्ष्माणामप्यनुवृत्तिसिध्या तत्तच्छरीर संश्लिष्टतेष्यत इति । संसरतो जीवस्य तापवत्वबोधनाय पंचानामग्नित्वेन रूपणम् ।। समाप्तमन्याधिष्ठिताधिकरणम् ।।श्रीमते रामानुजाय नमः । तृतीयाध्याये द्वितीयः पादः ।