(3.01.05) नातिचिराधिकरणम्एवमाकाशवायुधूमाभ्रमेघवर्ष सादृश्यरूपः तत्पृथगभिलपनानर्हत्वलक्षणः तद्भाव अवरोहतामनुशयिनामुक्तः । प्रसंगात् अथ तेषामेवाकाशादिनासह पृथगभिलपनानर्हसंयोगः नातिचिरकालावच्छिन्नः उत नेति विचार्यनिर्धार्यत इति संगतिः । नातिचिरं = किंचित्कालम् । अत्रातिचिरकालावच्छिन्नत्वंतादृशसंयोगस्य सामानाधिकरण्येन नातिचिरकालावच्छिन्नत्वं तु अवच्छेदकावच्छेदेननियमेन नातिचिरकालावच्छिन्नत्वस्य सिद्धान्तसिद्धत्वात् । ततश्चाकाशादिप्राप्तिः अतिचिरकालावच्छिन्नापि भवति । उत नातिचिरकालावच्छिन्नेतिवेति संशयाभिप्रायः । एतदाशयेनैव - नातिचिरं तिष्ठति उतानियमः इति भाषितम् ।नियमहेत्वभावादनियमः इति । आकाशादिप्राप्तिः कदाचित् कस्यचित्नातिचिरकालावच्छिन्ना कदाचिच्च कस्यचित् अतिचिरकालावच्छिन्नापिसंभवति । नातिचिरकालावच्छिन्नैवेत्यत्रातिचिरकालावच्छिन्नैवेत्यत्रवा विशेष हेतु निर्देशाभावेन नियमासंभवात् । ननु अतो वै खलु दुर्निष्प्रपतरमितिव्रीह्यादि भावविषयश्रुतौ व्रीह्यादितो निष्क्रमणस्य चिरकालीनत्वरूपकृच्छत्वस्यबोधनात् तत्पूर्वकालीनाकाशादि प्राप्तौ चिरकालावच्छिन्नत्वाभावप्रतीत्या नानियमशंकनं युक्तमिति चेन्न - आकाशादिप्राप्ताविव व्रीह्यादिप्राप्तावपिअनियमतश्चिरकालीनत्वस्यैव स्वरसतः प्रतिपन्नत्वेन तद्व्यावृत्त्यर्थचिरकालावच्छिन्नत्व नियमस्यैव तद्वाक्येन बोधनीयतया तन्नियमस्यैवाकाशादिप्राप्तौ व्यावृत्ति संभवेन चिरकालावच्छिन्नत्वा भावमात्रा प्रतीतेःउक्तानियमस्य तदवस्थत्वात् ।एवं अतो वै खल्वित्यादौ उत्तरदेशसंयोगानुकूलव्यापाररूपनिष्क्रमणेदुरित्यनेन दुःखजनकत्वरूपस्य चिरकालीनत्वरूपस्य वा कृच्छ्रत्वस्यबोधनसंभवेपि व्रीह्यादिप्राप्तौ कृच्छ्रत्वबोधनासंभवेन तदप्रतीत्यातत्पूर्वकालिकाकाशादिप्राप्तेः चिरकालीनत्वरूपकृच्छ्रत्वाप्रतीतिश्च ।अतो जीवस्याकाशादौ संसर्गविशेषरूपस्थित्यात्मकावस्था मातृशरीरप्रविष्टशुक्लावस्थावत् अनियतैवेति अतिचिरकालावच्छिन्नापि भवितुमर्हतीति ।राद्धान्तमुपक्रमते - इति प्राप्त इति । इष्टादिकारिणां आकाशादिसादृश्यापत्तिरूपतत्प्राप्तिः नाति चिरकालावच्छिन्ना अतो वै खल्वित्यादि श्रुत्याव्रीह्यादि प्राप्तेः चिरकालावच्छिन्नत्व प्रतीतेः तत्पूर्वकालीनाकाशादिप्राप्तेः तदभावरूपविशेषसिद्धेः इत्यर्थः ।कृच्छ्रनिष्क्रमणत्वाभिधानादिति।नचोत्तरदेशसंयोगानुकूलव्यापाररूपनिष्क्रमणस्यकृच्छ्रत्व प्रतीतावपि न व्राह्यादिप्राप्तेः कृच्छ्रत्वसिद्धिःइति वाच्यम् ।यतः तादृशव्यापाररूपनिष्क्रमणस्य कृच्छ्रत्वं चिरावस्थानोत्तरकालीनत्वमेव । नरकात्निर्गमनमति संकटमित्युक्तौ नरके चिरा वस्थानोत्तरकालीनत्वरूपसंकटत्वस्य निर्गमने प्रतीतेःनहि तत्र निर्गमनस्यैव कृच्छ्रत्व प्रतीतिरिति न कश्चिद्विरोधःननु दुरुपपदात् निर्प्रेत्युप सर्गद्वयपूर्वकपत्लृघातोः कर्त्रर्थे"अन्येभ्यो पिदृश्यते" इत्यनेन प्रत्यये दुर्निष्प्रपतमिति रूपंततः आतिशायिनिके तरप्प्रत्यये दुर्निष्प्रपततरमिति रूपम् । तथाच दुर्निष्पपत्तरमिति कथं निर्देशः इत्यत्राह - दुर्निष्प्रपत्तरमितीतिउक्तव्युत्पत्तिसूचनाय तदर्थमाह - दुर्निष्प्रपततरमिति । ननु अतोवैखल्वित्यादि श्रुतेः व्रीह्यादिप्राप्तेः चिरकालावच्छिन्नत्वनियमबोधकत्वेनतत्पूर्वकालीनाकाशादि प्राप्तौ तादृशनियमव्यावृत्रावपि अनियमव्यावृत्तिःकथमिति - चेदुच्यते - उक्तवाक्यस्य तादृशनि यमपरत्वाभावात्दुर्निष्प्रपतरमिति विषयविशेषे दुर्निष्प्रपततरत्वं हि अभिहितंतेनेतरत्र दुष्प्रपततरत्वनिषेधेन सुप्रपततरत्वमवगम्यते । न चाकाशादिप्राप्ताविवव्रीह्यादिप्राप्तावप्यनियतश्चिरकालवच्छिन्नत्वप्रतीत्या तद्वव्यावृत्त्यैतन्नियमपरत्वमेव तस्य वाक्यस्यावश्यकमिति वाच्यम् ।आकाशादि प्राप्तावेवानियमतश्चिरकालावच्छिन्नत्वेएव विवादात् तन्न्यायेन व्रीह्यादि प्राप्तौ अनियमावस्थाप्राप्तेरसंभवात्आकाशादिप्राप्तावेव हि संप्रति संशय्यते । तस्मात् आकाशप्राप्तिबोधक वाक्य प्रभृति व्रीह्यादि प्राप्त्यन्तवाक्यपरामर्शे व्रीह्यादिप्राप्तौविशेषवचनसत्वेन तेनचापाततः व्रीह्यादिप्राप्तौ चिराकालावच्छिन्नत्वप्रतीत्या तत्पूर्वकालीन प्राप्तिषु तदभाव सिध्या नानियमस्याप्यवकाशःइति दिक् ।अत्र न चिरेणेत्यनिर्देश्य नातिचिरेणेति निर्देशात् आकाशादौ किं चिद्विलम्बःव्रीह्यादौ त्वतिविलम्बः इति सूचितम् ।। नातिचिराधिकरणं समाप्तम् ।।