(3.01.04) तत्स्वाभाव्यापत्त्यधिकरणम्अथ संगतिमाह - इष्टादिकारिण इति । यथेतमनेवं चेतिपितृयाणमार्गविषय विचारस्य प्रस्तुतत्वात् तादृशमार्गघटकाकाशादिभावोविचार्यते इति कृतात्ययाधिकरणेन साक्षात्संगतिः । अनिष्टादिकार्यधिकरणंतु प्रसक्तमार्गस्यानिष्टादिकारिविषयत्वाभाव स्थापनार्थं प्रवृत्तमितिप्रासंगिकम् । अनिष्टादिकारिणां कर्माभावात् पितृयाणं नास्तीत्युक्तंअथ शरीरस्य सुखादिभोगार्थत्वात् आकाशादिशरीरेणानु भोक्तव्यफलभावात्अनुशयिनां आकाशादिशरीरकत्वं नास्तीत्युच्यते इति च संगतिर्बोध्या ।यथेतमनेवंचेति, यथेतमनेवं च भवतीति कृतात्यये इति सूत्रे उक्तमित्यर्थः ।अन्यथा क्लीबनिर्देशास्वारस्यात् । द्विगुरेकवचनमितिवद्वा तथा निर्देशः ।संशयमाह - तत्रास्येति । आकाशादिभावः = आकाशशरीरकत्वम् । आदिपदेन वाय्वादिग्रहणम् ।तत्सादृश्यापत्ति मात्रं = पृथगभिधानानर्हत्वमात्रम् । पूर्वपक्षमाह - श्रद्धावस्थस्येति ।अयं भावः - इष्टादिकारिणां भूतसूक्ष्मपरिष्वक्तानामेव द्युलोक प्राप्तिरित्युक्तम्तत्र द्युलोकगमनमार्गश्च “अथ य इमे ग्रामे इत्यादिना इष्टादिकारिणःनिर्दिश्य धूममभिसंभवन्तीत्यादिना धूमरात्र्यपरपक्षदक्षिणायनषड्मासपितृलोकाकाशचन्द्रक्रमेणोक्तः ।अनन्तरं इष्टादि सुकृत फलानुभवार्थं एष सोमो राजा इत्यमृतमय दिव्यदेहप्राप्तिरुक्ताफलदान प्रवृत्त स्वर्गजनककर्म नाशे तस्मियावत्संपात मुषित्वेत्यादिनाचन्द्रमसः स्थानात् अवरोहण प्रकारश्चोक्तः । आकाशवायुधूमाभ्रमेघक्रमेणोक्तःतदनन्तरं प्रवर्षतीत्यादिना पूर्वोक्तः अग्नित्वेन रूपितेषु पर्जन्यादिषुप्राणाधीननिक्षेपः तेन वर्षान्नरेतोगर्भरूपेण परिणामप्रकारः संक्षिप्तःतत्राकाशमित्यारभ्य मेघो भूत्वा प्रवर्षतीत्यन्तेनोक्तः आकाशादिभावः आकाशशरीरकत्वरूपः एव । “एष सोमोराजा’ इत्युपक्रमे श्रद्धावस्थस्यसोमशरीरकत्वरूपसोमभावाभ्युपगमेन तदनुरोधादत्रापि आकाशादिशरीरकत्वस्यैवयुक्तत्वात् । नच यथेत माकाशमित्यत्र सोमो राजा भवतीत्यादिवत् आकाशोभवतीत्यनिर्देशेन केवलाकाशप्राप्तिरेवोच्यते नत्वाकाशभावः इति वाच्यम्उपक्रमे सोमो राजाभवतीति निर्देशस्य वायुर्भूत्वा धूमो भवतोत्याद्युपरितनस्फुटतरनिर्देशस्यच सत्वेन तत्र सोमवाय्वादिभावस्यैव स्वीकर्तव्यतया तन्मध्येप्याकाशभावएव प्रतीपाद्यते इत्यवश्याभ्युपगन्तव्यत्वात् । सोमशब्दस्य सोमशरीरकत्वार्थकत्वमिववाय्वादिपदस्यापिवाय्वादि शरीरकत्वपरत्वसिध्या तन्मध्योक्ताकाशपदस्यापि आकाश शरीरकत्वार्थस्यैवयुक्तत्वात् ।एवं प्रथमचरमयो राहुत्योः सामोराजा, पञ्चम्यामाहुतावापःपुरुषवचसो भवन्तीति निर्देशेनेष्टादिकारिणा मनुशयिनां तत्तच्छरीरकत्वस्यैवस्वीकर्तव्यतया तन्मध्योक्ताकाशादिभावस्यापि स्वरसतस्ततच्छरीरकत्वपरतायाएव युक्तत्वाच्चननु धूमात् रात्रिमित्याद्युक्तानां भूलोकात् इष्टादिकारिणः द्युलोकारोहणार्थंपितृयाणमार्गातिवाहिकत्ववत् तस्यैवानुशयिनः द्यूलोकात् भूलोकावरोहनार्थंपुनर्निवर्तन्तन्तेयथेतमाकाशमित्युक्तानामपि केवलमार्गातिवाहिकत्वात्अनुशयिनस्तस्यतच्छरीरत्व शंकैऽवानुपपन्ना । अन्यथा इष्टादिकरिणः घूमरात्र्यादिशरीरकत्व शंकाया अपि संभवात् ।तत्रापीयं शंकाऽभिप्रेतेति चेत्न तादृशवाक्यस्य प्रथमश्रुतत्वेन प्रथमं तद्विषय शंकाऽनु पेक्षणेबीजाभावात् । नच त तोपि प्रथमश्रुते “ये चेमे” इत्यादिवाक्ये ब्रह्मप्राप्तिमार्गनिर्वाहकत्वेनोक्तानामर्चिरादीनां तत्तदभिमानि देवतानामेवाति वाहिकत्वात् अर्चिरादिशरीरस्यतत्तदभिनिदेवताधिष्टितत्वेन यथा विद्यावदधिष्टितत्वं न संभवतीतितथैव धूमाद्रात्रिमित्याद्युक्तानां धूमाद्यभिमानिदेवतापरत्वात्घूमादिशरीरस्य च तत्तदभिमानिदेवताधिष्ठितत्वात् नेष्टादिकर्त्रधिष्ठितत्वसंभव इति नेय माशंका तत्र प्रसरतीति वाच्यम्अत्रापि आकाशादि शरीरकाभिमानिदेवतायाएवावरोहणे आतिवाहिकत्वेन तत्तदधिष्ठिताकाशादिशरीरस्य अनुशय्यधिष्टितत्वासंभवस्य समानत्वेन वैषम्यासिद्धेः ।अतोऽनुशयिनामवरोहतामाकाशादिशरीरकत्व शंकनं न योयुज्यते वर्ष व्रीह्यन्नादीनां तु अनुशयिशरीरकत्वंशंकनं तु युक्तं तेषामातिवाहिकत्वाभावेन तत्तदभिमानिदेवतापरत्वासंभवात्अत एवान्याधिष्टिताधिकरेण ब्रीह्यादिभावेन जायन्त इति श्रवणेनावरोहतांव्रीह्यादि शरीरकत्वांशंकनं कृतम् । एवं श्रद्धावस्थस्य प्रथमाग्नौप्राणाधीननिक्षेपे सोमशरीरकतया परिणामस्योक्तत्वेन तस्यैव तदनन्तरपर्जन्याद्यग्निष्वपिप्रणाधीननिक्षेपे तत्तच्छरीकतया परिणामावश्यकत्वेन शंकायाः तत्रयुक्तत्वाच्चेति चेत् उच्यते, देवयानमार्गे ते़र्चिषमभिसंभवन्तीतिवत्तेधूममभिसंभवन्ति=प्राप्तुवन्तीति श्रवणेनधूमाद्यभिमानि देवता प्राप्तेरेवोक्त्या तत्र शंकाऽनुत्थितेः ।अत एव देवयानमार्गे । तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयति इतिअर्चिरीदीनांब्रह्मप्राप्तिहेतुत्वमुच्यते । न चा चेतनानां गमयितृत्वंयुक्तं, अतः अर्चिराद्यभिमानि देवता परमेव तत्तत्पदम् ।अतस्तत्साहचर्यात्धूममभिसंभवन्तीत्यादावपि द्वितीयान्तधूमादि पदश्रवणेन तत्प्राप्तिश्रवणेनच च तत्तभिमानि देवतापरत्व निश्चयश्चयुक्तः ।एवमत्राकाशंवायुमिति द्वितीयान्तपदश्रवणेपि प्राप्त्यश्रवणात् वायुर्भूत्वामेधो भवतीत्याद्युपरितन स्फुटतरवाक्य पर्यालोचनया अवरोहतामनुशयिनांतत्तच्छरीरकत्व शंका संभवःअतो आकाशादीनां मवरोहणार्थाति वाहिकत्वनिश्चयाभावात् भगवत्संकल्पबलेन"तत्तच्छरीरी स न्न्नयं अवरोहतिइतिअस्य वाक्यस्योपपत्तेश्च, संशयोत्यितिरितिएएवं प्रथमाहुतिष्विवेतराहुतिष्वपि श्रद्धावस्थस्य तत्तच्छरीरकत्वेनपरिणामो युक्तःइति शंकायाः इवात्राप्येतच्छकासंभवमभिप्रेत्यैवभाष्येमेघो भूत्वा प्रवर्षतीत्यन्तमुपात्त्तम् । अनेन जीवस्य वर्षशरीरकत्वमुच्यतेइति पूर्वपक्ष्याशयः वर्ष शरीरकजीवान्तरसादृश्यस्य वर्षशरीरकत्वमादायवक्तव्यत्वमित्यभि प्रायेण प्रवर्षवीत्युक्तेरिति ।सिद्धान्तमाह - इति प्राप्त इति । तत्सादृश्यापत्तिरित्यर्थः इतिस्वस्य भावइव भावः यस्य सः स्वभावः सदृश इत्यर्थः स्वभावस्य भावः=स्वाभाव्यंसादृश्यम् तस्यापत्तिः स्वभाव्यापत्तिः । सादृश्यमेवेति भावः ।स्वसादृश्यापत्तेरेवोपपद्यमानत्वात् श्रुतौ आकाशादि भाव प्राप्तिःआकाशादिसादृश्यापत्तिरेवेति सूत्रार्थः । यद्वा उपपत्तेः=आकाशादिशरीरावच्छेदेन सुखदुखादि भोगा भावोपपत्तेरित्यर्थः। एतदेवोपपादयति - सोमभावेतितद्वावः=सोमादिभावः सोममनुष्यादिशरीरीवच्छेदेन सुखदुःखानुभवार्थंजीवस्य तच्छरीरकत्वं, अत्र च सुखदुःखानुभवाभावेन नाका शादिशरीरकत्वमित्यर्थःननूक्ताकाशादि भावापत्तिवचनस्य कागतिरित्यत्राह - तदापत्तिवचनमितिआकाशात् भेदकाकार प्रहाणेन ततः प्रथम प्रतीत्यनर्हत्वरूपतत्सादृश्यापत्तिपरंतद्वचनामिति भावः । ननु अवरोहतो जीवस्यानुशयिनः आकाशादि शरीरावच्छेदेनानुभाव्यसुख दुःखाद्यभावात् आकाशभावापत्तिवचनस्यान्यथानयनं न संभवति । स्वरसतःप्रतीयमानाकाशशरीरकत्वरूपोर्थोपपत्तये प्रयोजनस्य कल्पनीयत्वात्श्रुत्येकसमधिगम्यार्थे प्रयोजनविचारस्य मन्दत्वाच्च । अन्यथाद्युलोकं गच्छतः जीवस्य गमनदशायां प्रयोजनाभावेन श्रुत्युक्तस्यापिभूतसूक्ष्मपरिष्वंगस्यानंगीकार प्रसंगात्इति चेत् - न - प्रतिक्षणम वरोहतां मनुशयिनां मनेकेषां आकाशादि शरीरकत्वाभ्युपगमेसर्गाद्यकालमारभ्या प्रलयं अनुशयिभ्योन्यस्यैकैकस्याकाशाद्यभिमानिदेवता रूपस्य शास्त्रक्लप्तत्वेन तद्विरोधापत्तेः । अतः आकाशादिशरीराभिमानिदेवताशरीरभूता का शाधिष्ठातृत्वमनुशयिनाममुपपन्नमेवेति अभिमानि देवताशरीरभूताकाशाद्यवच्छेदेनावरोहतां सुखा दुःखाद्यसंभवेन प्रयोजनाभावात्तच्छरीरकत्वकल्पनमनुपपन्नमेव । एवं प्रतिक्षणमनेकानुशयिना मवरोहात्तेषां चाकाश शरीरकत्वे एकस्मिन्नेव शरीरे अनेकभोक्तृसमवेश प्रसंगश्चनचेष्टापत्तिः अनुभवविरोधात्एतेना वरोहतामेवा काशाद्यभिमानिदेवतात्वाभ्युपगमपक्षोपि निरस्तःतस्मात् प्रयोजनाभावात्, प्रयोजनकल्पनेऽपि अनेकभोक्तृसमावेशेनैकस्मिन्नेवक्षणेइच्छाभेदेन परस्परविरोधात् भोगादि प्रयोजनस्य दुर्वाचत्वात्, पृथगभिलपनानर्हसंयोगमात्र मेवावरोहतामनुशायिनामिति तादृशसंसर्ग प्रयुक्त सादृश्याभिप्रायंतद्भावापत्तिवचनमित्येवाभ्युपेत्यमिति । अत्र श्रुतौ अभमित्यनेनजलधारणावस्थापन्नं वस्तु उच्यते । अपो बिभर्ति इति व्युत्पत्तेःममेघशब्देन वर्षोन्मुखत्वावस्थापन्नं तदेवम् ।मिह सेचने इति घातोःअतो न पौनरुक्यशंका । पूर्वाप्रतिपन्न योगार्थस्यात्र प्रति पादनात्एव मेव “इन्दो महेन्द्रः सुरनायको वा इत्यादावपि बोध्यमिति । यथेतमाकाशंइत्यादौ आकाशवारव्वोः न जीव शरीरत्वं अभ्रमेघादीनां तु जीवशरीरत्वंव्रीह्यादिवदस्ति । समष्टितत्वान्तर्गतत्वात् पर ब्रह्मशरीरत्वमात्रमेवाभ्युपेत्यंअत एव न्यायसिद्धाञ्जने जडद्रव्यपरिच्छेदे “विवरणेपि हि तमः प्रवृतीनामपिशरीरत्व निर्देश विरोधपरिहाराय आदिसृष्टौतु इत्यादिना समष्टितत्वानांसाक्षात्परशरीरत्वमुक्तं तेजोबन्न सृष्टि समनन्तरभाविदेवमनुष्यादिनामरूपव्याकरणमात्रेएव अनेन जीवेन इत्यादि श्रुत्यनुरोधेन सद्वारकत्वं इति आचार्यैःप्रतिपादितम्योनिप्राप्तेः पूर्वमाकाश वायु धूमाभ्रमेधवृष्टि व्रीहयादिरेतस्सिक्षुअन्यशरीरेषु संसर्गामात्रम् । इति पूर्वतनग्रन्थे अन्यशब्देः अवरोहज्जीवप्रति योगिक भेदवत्परः सचः आकाशवाय्वोः परमात्मा अन्यत्र जीवः इतिविवेकः ।। तत्स्वाभाव्यापत्यधिकरणं समाप्तम् ।।