03 अनिष्टादिकार्यधिकरणम्

(3.01.03) अनिष्टादिकार्यधिकरणम्एवमधिकरणद्वयेन प्रकृतिसंबन्धस्य, तत्कारणीभूतसकलसांसारिकदुःखनिदानभूत कर्मसंबन्धस्य चावर्जनीयत्वं प्रतिपादितम् ।अथानिष्टादिकारिणां साधकर्मसंबन्धाभावेन “काकमासं शुनोच्छिष्टंस्वल्पं तदपि दुर्लभ"मिति न्यायोनाप्यल्पत्वक्षयिष्णुत्वादि दोषभूयिष्टस्वर्गसुखप्राप्त्यै स्वर्गलोक प्राप्तिः नास्तिप्रत्युत रौखादिनरकेषु यमशासनेनभूयान् यातनानुभावः अतिक्षुद्रजन्तुजन्म प्राप्तिश्चं भवतीति वैराग्यजननायोच्यतेइइति संगतिः । यद्वा रमणीयचरणा इत्याद्युपरितनवाक्येन यावत्संपातमित्यत्र संपातशब्दस्य संकोचः कृतःतद्वत् संकोचक प्रमाणाभावात् चन्द्रमसमेव ते सर्वेगच्छन्तीत्यत्रनसंकोचसंभव इति सर्वेषामप्यविशेषेण चन्द्रप्राप्तिर्दुर्वारेत्याशेनाधिकरणोत्थानात्संगतिः।।अनिष्टादि कारिणामित्यत्र नञः इष्टादिकारिपदेनान्वयस्य इष्टपदेनान्वयस्यच संभवेन विहितकर्माननुष्टातृणां निषिद्धकर्मानुष्टातृणां च तन्त्रेणबोधनं तेन शब्देन भवतीत्यभिप्रेत्याह - ये विहितमिति। वस्तुतः इष्टा=यागादिःआदिशब्देन पूर्ता दिग्रहणम् । इष्टापूर्ते दत्तमित्युपासते इतिश्रुति प्रत्यभिज्ञानात् । इष्टादिकारिणो न भवन्तीन्यनिष्टादिकारिणःयागादिकर्तृभिन्नाः इत्यर्थःनरकादिगन्तृणांपूर्वोत्तरजन्मसु यागादिकृतिसत्वेपि तत्कालावच्छेदेनतादृशकृत्यभावात् तेषां यागादिकर्तृभिन्न त्वोपपत्तिः ।यागाद्यनुष्टातृणांपूर्वोत्तरजन्मसु तादृशभेदसत्वेपि स्वर्गादिगमनदशायां तादृशभेदाभावेनन यागादि कर्तृभिन्नत्वम् । तथा चोक्तयागादिकर्तृभिन्नत्वस्य विहिताननुष्टातृषुनिषद्धानुष्टातृषु च सत्वात्तेन रूपेणोभयविधानामपि अनिष्टादिकारिशब्दबोध्यत्वमिति ।अविशेषेण सर्वेषामेवेति। ये वै के चेति श्रुतौ अस्माल्लोकात्ये प्रयन्ति ते सर्वे चन्द्रमसमेव गच्छन्तीत्युक्त्या व्यापकत्वार्थकसर्वपदस्य अयोगव्यवच्छेदकावधारणस्य च श्रवणेन लोकान्तर गन्तृत्वव्यापकत्वस्य चन्द्रगमने प्रतीत्या अनिष्टादिकारिणामपि एतल्लोकंविहाय लोकान्तरगन्तृत्वात् चन्द्रप्राप्तिरविशेषेण तेषामप्यावश्यकीति भावः ।नन्वत्र सर्वपदार्थभूतं व्यापकत्वं प्रतियोगिवैयधिकरण्यघटितं भेदघटितंवागृह्यते । ततश्च चन्द्रगमने प्रतियोगिव्यधिकरणलोकान्तरगन्तृत्वसमानाधिकरणाभावाप्रतियोगित्व स्रमस्य लोकान्तरगतृत्वसमानाधिकरणभेदप्रतियोगितान वच्छदकत्वरूपस्य व्यापकत्वस्य प्रतीत्या नरकादिगन्तृषुकदाचित् चन्द्रप्राप्ति सत्वेन तद्वृत्तिचन्द्रगमनाभावस्य प्रतियोगिसमानाधिकरणत्वात् तद्वृत्तिचन्द्रप्राप्तिमद्भेदस्या संभवेन चन्द्रगमनस्यभेद प्रतियोगितानवच्छदकत्वाच्च व्यापकत्वभंग इति चेन्न उक्तव्यापकत्वमेवात्रगृह्यते इत्यत्र नियामकाभावात्उक्तव्यापकत्वग्रहणे यागादिकर्तृनामेव चन्द्रगमानमित्यत्रैवैतच्छ्रुत्यर्थपर्यवसानेनास्यचार्थस्य श्रुत्यन्तरसिद्धत्वादेतच्छ्रुतेर्वैयर्थ्यंच । प्रयोजनाभावादनुवादित्वमप्युक्तम् । केषांचित् कदाचिदपि यागादिकर्माननुष्ठानस्यापिसंभवेन तेषां स्वर्ग प्राप्तेरेवासंभवेन चन्द्रप्राप्तेस्सर्वात्मनाअसंभवात् तेषांविषये भेदघटितस्य प्रतियोगिवैयाधिकरण्यघटितस्यवाव्यापकत्वस्य चन्द्रगमने दुरुपपादत्वाच्च एवंविवक्षणमप्यनुपपन्नम्एवं शरीरारभस्यपंचमाहुत्यपेक्षत्वस्य श्रुतिप्रतिपन्नत्वेन तस्यचचन्द्रप्राप्तिपूर्वकत्वात् ततोपि अनिष्टादि कारिणां चन्द्रप्राप्तेरावश्यकतयाप्रतियोगिवैयधिकरण्यादिघटितव्यापकत्वाभ्युपगमेपि अभिलाषितार्थासिद्धिःअतः यदा यदा लोकान्तरगमनं तदा तदा चन्द्र प्राप्तिरित्यस्मिन्नेवार्थेअस्याः श्रुते स्तात्पर्यमिति अनिष्टादिकारिणामपि चन्द्रप्राप्तिरवर्जनीयैवननुचन्द्रप्राप्तिपूर्वकस्वर्ग सुखस्य यागादिकर्मफलत्वेन यागाद्यननुष्टातृणांकथं चन्द्र प्राप्ति संभवः । अन्यथा यागादीनां वैयर्थ्यापत्तेरितिचेन्न । स्वर्गादि सुखस्य यागफलत्वेपि चन्द्रप्राप्तेस्तत्फलत्वाभावात्तथा कुत्राप्यकथनात् । प्रत्युत यागाद्यननुष्टात्रनिष्ठादि कारिणामपिचन्द्रप्राप्तेरुक्तत्वेन तथा कल्पनासंभवश्च ।।

उत्तरसूत्रशंकामाह - एवं तर्हीति । अनिष्टादिकारिणामपि चन्द्रप्राप्त्यभ्युपगमेइत्यर्थः । अविशिष्टैव गतिरिति । एषामपि चन्द्रप्राप्त्यभ्युपगमेइष्टादिकारिणामिव धूमादिमार्गेनैव गमनस्य वक्तव्यतया स्वर्गसुखानुभवप्रसंगेन दुःखानुभवाभावात् एतदनुष्ठितपापस्य निष्फलत्वमेव प्रसज्येतइति भावः । अनिष्टादिकारिणामिति, पूर्व प्रस्तुतत्वेन इतरेषामित्यस्यइष्टादि कारिणामित्यर्थपरत्वे बाधः, संयमनं अनुभूयेत्यस्यानन्वयात्अतस्तत्पदं व्याचष्टे - इतरेषां = अनिष्टादिकारिणामिति । पूर्वाधिकरणेइष्टादिकारिणां प्रस्तुतत्वात् अत्रानिष्टादिकारिविषय एवेतरच्छब्दः इति भावः ।अनिष्टादिकारिप्रस्तावात् “प्रभवति संयमने ममापि विष्णु"रिति संयमनपदस्यशासने प्रसिद्धिसत्वाच्च संयमन इत्यस्य यमशासने इत्यर्थः उक्तःयमशासनप्रसंगात् अनुभूयेत्यस्य तत्प्रयुक्तयातना इति कर्मवाचकपदमध्याहृतम्संयमनेइति सति सप्तमी । तदर्थश्च जननं =साचोत्पत्तिः । साच जन्यतासंबन्धेन दुःख रूपयातनाशब्दर्थेऽन्वेति ।अनुपूर्वकभूधात्यर्थोऽनुभवःल्यपः उत्तरकालीनत्वमर्थः । तथा च यमशासनोत्पत्ति प्रयुक्त दुखानुभवोत्तरकालीनावितरेषामाराेहावरोहौइत्यर्थः । यद्वा चर्मणि द्वीपिनंहन्ति इत्यादाविवात्रापि निमित्तसप्तमीततश्च चर्मलाभार्थं द्वीपिहननमिव यमशासन परिपालनार्थं तत्प्रयुक्तयातनानुभवइतियमशासनपरिपलनेच्छाजन्य दुःखानुभवानन्तरकालीनावारोहावरोहौ इत्यर्थःअयं लोकोनास्ति=इहादृष्टजन्यंसुखं नास्ति । न परः=अमुत्रचादृष्टजन्यंसुखं नास्ति । इति मानी = एवंमननशीलः । नास्ति पर इति पाठे - अयमेव लोकोऽस्तिपरलोक एव नास्तीत्यभिमानवान् इत्यर्थः । तादृशसुखार्थं विहितं कर्माकुर्वाणःइत्यर्थः पुनः पुनर्वशमापद्यते मे = पुनः पुनः जन्मजरामरणादि प्राप्त्यामदाज्ञाविषयतां प्राप्नोति । संगमनं = प्राप्यम् ।। लयकारणम् । यमस्यनाशहेतुत्वात् । मृत्युर्यस्योपसेचनमित्युक्तेःयद्वा स्वर्लोकनयनहेतुम् । यमः = विवस्वतः सूर्यस्य पुत्रः ।।

सर्वेषामिति । अनिष्टादिकरिणामित्यादि ।यमवश्यतामिति - दुःखानुभवोपघायकयमाज्ञाविषयत्वमित्यर्थः । अन्यथा केलव यमाज्ञाविषयत्वस्य यमभटेष्विवानिष्टादिकारिविषयेपिसंभवेन पुनःपुनर्वशमापद्यते मे,इति श्रुतेः तदुपबृंहणभूतयाः वशंयान्तीत्यादिस्मृतेश्चाधिकप्रयोजनाभावेन वैयर्थ्यापत्तेः । अतः श्रुतिस्मृत्युक्तं यमवश्यत्वमुक्तरूपमेवग्राह्यमिति । एतत्सूचनायैव स्मरन्तिचेतिसूत्रोपादानमपीतिध्येयम् ।सर्वेचैतइति । “आयुषोन्ते तदा यान्ति यातनास्त्र त्रचोदिताः"इत्युत्तरार्धम् ।अत्र यमवश्यत्वं स्पष्टमेवोप बृंहितमिति भावःयद्यप्यत्र सर्वपदस्वारस्यात् अनिष्टादिकारिमात्रविषयत्वप्रतीतिर्नसंभवति । अथाप्युत्तरत्र भगवद्भक्तानां यमगमनाभावस्य प्रतिपादनात्श्रुतौच अयं लोको नास्तिनपर इति मानीति अधिकारिविशेषनिर्देशाच्चएतद्वचनस्यानिष्टादिकारिमात्रविषयत्वमा श्रयणीयमिति ।।

गन्तव्यत्वेन रौरवादीनिति। यमशासन प्रयुक्त दुःखानुभवार्थमेवहिरैरवादि सप्तनरकगमनमिति भावः । अत्र भागवतोक्ताः नानाविधदुः खानुभवहेतुभूताःनरकाः ज्ञेयाः । त्रिजगत्याः अन्तराले दिशि दक्षिणस्यां अधस्तात्भूमेः उपरिष्टाच्च नरकाः1. तामिस्त्राः 2. अन्धतामिस्त्रः 3. रैखः 4.महारैखः 5. कुम्भीपाकः6. कालसूत्रं 7. असिपत्रवनं 8. सूकरमुखं 9. अन्धकूपः 10.कृमिभोजनः11. सन्दंशः 12. तत्रसूर्मि 13.वज्रकण्टकशाल्मली 14. वैतरणी 15.पूयोदः 16. प्राणरोधः 17. विशसनं 18.लालाभक्षः 19. सारमेयादनं 20.अवीचिः 21. अयःपानं 22.क्षारकर्दमः 23. रक्षोगण भोजनः 24. शूलप्रेतः25. दन्दशूकः 26. अवटनिरोधवः 27. पर्यावर्तनः 28. सूचीमुखम् ।।एवंविधेषुनरकेषु पापकारिणां नानाविधोग्रयातनाः भागवते पठिताः ।।

उत्तरसूत्रमवतारयति - नन्विति । अयं भावः - पुराणादिष्वनिष्टादिकारिणांयमसदनप्राप्तिरुच्यते । अत्र च तेषां रौरवादि सप्तलोक (स्थान)गमनमेवोक्तं, न तु यमसदनप्राप्तिरिति विरोध इति । यमाज्ञयैवेत्यनेनतद्व्यापारादिति पदं व्याख्यातम् । अयमर्थः - यमसदनं गत्वा तदाज्ञामूढ्वाक्रमेण रौरवादिनरकादिकं गच्छन्तीति न कश्चिद्विरोध इति । प्रधानपूर्वपक्षमुपसंहरति - अत इति ।।

विद्याकर्मणोरिति व्याख्येयं - विद्याकर्मणोरित्यादितद्व्याख्यानम् ।अयं भावः - इति शब्दो हेतुवाची । संबन्धसामान्ये षष्ठी । स चात्र तादर्थ्यरूपःविद्याकर्मफलभोगार्थत्वात्मकः । तथा च यतः देवयान पितृयाणे विद्याकर्मणोःविद्या कर्म फलानुभवार्थे अतस्तेषां चन्द्रप्राप्ति र्नास्तीत्यर्थःषष्ठ्याः जन्यत्वार्थकत्वोपेक्षणं तु स्वरूपसतोः देवयानपितृयाणयोःविद्याकर्मजन्यत्वविरहमभिप्रेत्य । तद्गमनस्य विद्याकर्मजन्यत्वेपितस्य व्यापारत्वमेवेति बोधनार्थं संबन्धसमामान्यवाचिषष्ट्याः तत्फलभोगार्थत्वरूपार्थःस्वीकृतः । जन्यत्वार्थकत्वाभ्युपगमपक्षेपि संबन्धसामान्यवाचित्वमभ्युपगम्यैवहि विशेषपर्यवसामं कर्तव्यंततो वरं प्रयोजनविशेष प्रदर्शनार्थ पूर्वोक्तपक्षाश्रयणम् ।। अथसूत्रोक्तविद्यापदस्वारस्यं प्रदर्शयन् तात्पर्यमाह - एतदुक्तमितिअयमभिसन्धिः - अनिष्टादिकारिणामपि पितृयाणकल्पने विनिगमनाविरहात्देवयानमपि कल्पयितुं शक्यम् । यदितु देवयानस्य “तद्य इत्थं विदु"रित्यादिनाविद्यावदधिकारिकत्वावगमेन अनिष्टादि कारिणां च विद्याविद्युरत्वात्न तेषां देवयानमिति तर्हि पितृयाण स्यापि “अथ य इमे ग्रामे” इत्यादिनाइष्टादिकार्यधिकारिकत्वागमेनानिष्टादिकारिणां चेष्टादि विधुरत्वाच्चन पितृयाणमिति समानम् । अतोनतेषां पितृयाणकल्पनासंभव इतिदेवयानपितृयाणयोः=देवयानस्य पितृयाणस्यचेतिविभज्यार्थो वाच्यः ।प्रकृतत्वादिति खण्डमवतारयतिदेवयानेति । विद्याविषयत्वमिति।विषयत्वं=फल भोगार्थत्वम् । एवमुत्तरत्रापि ।पितृयाण वचनाच्चेति। उक्त श्रुतिबलात् मोक्षाभिलाषि विद्यावतः देव यानस्य स्वर्गाद्यभिलाषिकर्मवतःपितृयाणस्य चावगमेन देवयानपितृयाणयोः मोक्षस्वर्गादि फलभोगार्थत्वमवश्यमेष्टव्यमिति भावः । अनेनानिष्टादिकारिणां स्वर्गादिफलं नास्तीतिप्रतिवादिनोऽप्यभ्युपेतत्वात् न निष्प्रयोजनचन्द्रप्राप्तिकल्पनंयुक्तमिति सूचितम् ।। अथ कौषीतिक्युपनिषच्छ्रु तस्य सर्वशब्दस्यकथं निर्वाहः इत्यत्राह - ये वै के चेति । उक्तोपपादनात् ये इत्यस्य इष्टादिकारिणइति विशेष्यपदाध्याहारेणवाक्ययोजना कर्तव्येत्यर्थः । एतेन सर्वशब्दस्य न संकोचः आवश्यकःइष्टादिकारिणामेव पूर्व प्रस्तुतत्वेन तत्कार्त्स्न्यपरत्वस्यात्यक्तत्वात्इति भावः । एवमेतच्छ्रुति प्रतिपाद्यमानार्थस्य श्रुत्यन्तरसिद्धत्वेपिन दोषः उपनिषद्भेदात् । पितृयाणस्येष्टादिकर्मकर्तृणामेव नतु सर्वेषामपीतिबोधनमुखेन “काकमांसं शुनोच्छिष्टं स्वल्पं तदपि दुर्लभ"मिति नयेनास्यापिसर्वासुलभत्व द्योतनस्य प्रयोजन विशेषसिध्याऽनुवादित्वेपि न बाधकंकिं चिदिति ।।उत्तरसूत्रमवतारयति - नन्विति । तृतीयस्थानशब्दस्य केवलपापकर्मपरत्वंएतत्तृतीयं स्थानमिति श्रुतिसिद्धमित्याशयेनाह - तृतीय स्थान शब्देनेति।श्रुतिबलात् अनिष्टादिकारिणां पंचमाहुति सापेक्षत्वं नास्तीत्यर्थः।अथानपेक्षत्वमेव श्रुति प्रदर्शन पूर्वकमुपपादयति - वेत्थइति । अथैतयोरितियानि भूतानि उक्तयो र्देवयानपितृयाणयोर्मध्ये न केनापि मार्गेणगच्छन्ति, तानीमानि क्षुद्राणि दंशमशकादीनि जायस्व मित्रयस्वेत्तीश्वरशासनेनासकृदावर्तीनि भवन्ति । एतत्=एतादृशाः पापकर्माणः स्थानशब्दानुरोधादेकत्वंक्लीबत्वं च ।तृतीयंस्थानं=कर्मफलानुभवाश्रयाःतेन=तादृशतृतीयस्थान शब्दितेन पापकर्मणाअसौ लोकः=स्वर्ग लोकः ।नसंपूर्यते=न प्राप्यत इति श्रुत्यर्थः । यद्वाअसकृदावर्तीनि भवन्ति=गमनागमनवन्तिभवन्ति । जायस्व म्रियस्व, जायन्ते म्रियन्ते चेत्यर्थः । अनेनपौनः पुन्यं दर्शितम् । क्रिया समभिव्याहारे एवं प्रयोगः । लोट्मध्यमपुरुषः । अनेन प्रयन्तःसर्वे चन्द्रारोहिणः इति नियमो नास्तिशरीरं सर्वं पंचमाहुतिजन्यं इति नियमोपि नास्ति । इति सूचितम्एवं पञ्चमाहुतिसंबन्धेनात्रागन्तारः सर्वेपि स्वर्गलोकादेवागन्तारःइति नियमश्च सूचितः ।। अथवा असकृदावर्तीनीत्यनेन वर्तमानकालावच्छेदेनजननमरणे उक्ते जायस्व म्रियस्वेत्यनेन भूत कालावच्छेदेन जननमरणे उच्येत ।ततश्च जज्ञिरे मम्रिरे इत्यर्थः । एवमेव हि भूतार्थविवक्षया - पुरीमवस्कन्दलुनीहि नन्दनं मुषाण रत्नानि हरामरांगनाः इति प्रयोगः ।।न पंचमाहुत्यपेक्षेति।अत्र मार्गद्वयेनागच्छतां संसारावर्तनजननमरणादेः “तेनासा"वित्यादिनास्वर्गलोकाप्राप्तेश्चोक्त्या तेषामनिष्टादिकारिणां दृष्टशरीरम्भायपञ्चमाहुत्यनपेक्षत्वं ज्ञायतेइति भावः । ननु पञ्चम्यामाहुतावापःपुरुषवचसो भवन्तीति पञ्चमाग्निसंबन्धस्यैव पुरुषवचस्त्व हेतुत्वप्रतिपादनात् चन्द्रप्राप्त्यभावे च पञ्चाग्निसंबन्धाभावेन कथमेषांशरीरारम्भः इति शंकां परिहरति - पञ्चम्यामिति ।शरीरारम्भं प्रति पञ्चमाग्निसंबन्धो हेतुरित्येव तत्र प्रतिपादितं,नतु तद्व्यतिरिक्तस्याहेतुत्वमपि । नहि व्यतिरिक्तहेतुत्वनिषेधकमवधारणादिकंश्रूयते येनेयमाशंका स्यात् । न च सर्वंवाक्यं सावधारणमिति न्यायबलकल्प्यम्बाधकाभावस्थले एव तन्नयाय प्रवृत्तेः । प्रवृत्तावपि वा न्यायसिद्धावधारणस्योक्तानुपपत्तिबलत्अत्यन्तायोगव्यवच्छेदार्थकत्वमेव नत्वन्ययोगव्यवच्छेद कार्थकत्वम्ततश्चाग्निं प्रति तृणारणिमणीनामिव शरीरारम्भं प्रति पञ्चमाग्निसंबन्धस्य तद्व्यतिरिक्तस्य च हेतुत्व संभवात् अनिष्टादिकारिणांचन्द्र प्राप्ति तत्पूर्वकपञ्चमाग्नि संबन्धाद्य भावेपि न शरीराम्भानुपपत्तिःनन्वस्तु शरीरारम्भं प्रति अन्यस्यापि हेतुत्वं, अथाप्यनिष्टादिकारिविषयेपंञ्चमाग्निसंबन्ध रूपहेत्वभावेपि कारणान्तरेण शरीरारम्भ दर्शनात्व्यतिरेक व्यभिचारस्त दवस्थः इति चेत् न इष्टादिकारिणां शरीरारंभंप्रत्येव पञ्चमाहुतेः हेतुत्वाङ्कीकारात् । अत एव “ह्यश्रुतत्वा"दितिसूत्रे पञ्चाग्निविद्यायाः इष्टादिकारिविषयत्वं व्यवस्थापितम् ।वस्तुतस्तृणारणिमणिस्थले इवात्रापि अव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौ निवेशेन न व्यभिचार इत्येव परिहारः । अत एवहि पुण्यकर्मणामपिदेहारम्भे पञ्चमाहुत्यनपेक्षत्वं वक्ष्यते ।।

उत्तरसूत्रार्थमाह - पुण्यकर्मणामपीति । देहारम्भे पञ्चमाहुतिसंबन्धनियमस्यपुण्यकर्मस्वपिभंगेन पापकर्मसुकिमु वक्तव्यमित्यभिप्रायः । अपिशब्दःप्रसिध्यतिशयद्योतनार्थे । लोक इति सूत्रांशः । प्रसिद्धिस्थलमाह - द्रौपदीति ।।

तेषां खल्विति । बीजानां त्रिविधत्वात् तत्कार्यमपि त्रिविधमित्याशयेन अण्डजंजीवजमुद्भिज्जमिति श्रुतिनिर्देशः । अण्डात् जायतइत्यण्डजम् । आण्डजमितिछान्दसो दीर्घः । जीवजं = जरायुजम् । जरायुः गर्भावारकश्चर्मविशेषः ।उत्तरसूत्रानुरोधेन उद्भिज्जशब्दः उद्भिज्जस्वेदजपरः इत्याशयेन उद्भिज्जस्वेदजयोरित्युक्तम् ।।

त्रोण्येव बीजानीति वचनादिति । बीजत्रैविध्यं ह्युक्तं तत्कथं कार्यचातुर्विध्यसंभवः इति पूर्वपक्षिणः आशयः । तृतीयेनोद्भिज्जशब्देनेति । अयं भावः -उद्भिज्जमित्यनेन एकमेव बीजमुच्यते । तद्धि अयोनिजत्वावच्छिन्ने लाक्षणिकम् ।ततश्च पञ्चमाहुतिनिरपेक्षं तरुगुल्मादीनां स्वेदजानां चोत्पत्ति सत्वेनाविशेषेणोभयोर्ग्रहणम् ।अण्डजं जीवज मुद्भिज्जमित्युक्त प्रकारं विनाऽन्यथा कस्यचिदुत्पत्यभ्युपगमेहिबीजत्रैविध्य विरोधस्स्यात् । ननु कार्यचतुर्विधत्वेब्रीजत्रैविध्यकथनंबाधितमेव भवेदिति चेत् न जरायुजानामपि विलक्षणकार्याणां सत्त्वेनब्रीजत्रैविध्यस्य बाधितत्वापत्तेः ।कार्यवैलक्षण्येपि सर्वेषामविशेषेण जरायुजत्वरूप जीवजत्वमविशिष्टमितिचेत् अयोनिजत्वरूपोद्भिज्जत्वस्यापि तरुगुल्मस्वेदजेष्वविशेष्टमेवेतितुल्यम् । उद्भिज्जशब्दस्योक्तार्थ परत्वंतु पंचमाहुत्यनपेक्षत्वपापोत्तरत्वायोनिजत्वादि साम्यादभ्युपगम्यत इति । अधिकरणार्थं निगमयति - अतइति ।। भूयिष्ठादृष्टजन्मनां द्रौपदीधृष्टद्युम्नादीनां भूयिष्ठपापजन्मनांउद्भिज्जस्वेदजादीनां च पंचमाहुत्यनपेक्षमे वशरीरारम्भदर्शनात् धूमादिमार्गस्यसार्वत्रिकत्वाभावात् नानिष्टादिकारिपापकर्मणां चन्द्र प्राप्तिसंभवः । अत एव हि सुकृतविशेषात् स्वतस्सिद्धदिव्य देह विमानादिपरिग्रहेणस्वर्गलोकादिकं केचित् सुकृतः प्रयाताः इति भारतादिषूच्यतेइति भावः ।। अनिष्टादिकार्यधिकरणं समाप्तम् ।।