(3.01.02) कृतात्ययाधिकरणम्अथ विषयशोधनपुरस्सरं संगतिमाह - केवलेति । केवलत्वं = ब्रह्मज्ञानासमानाधिकरणत्वम्गमनमित्यनन्तरं चिन्तितमित्यध्याहारेण वाक्यपूर्तिः । तेन यावत्संपातमितिश्रुत्योक्तगमनस्यानाम्नातत्वेपि न क्षतिः । यद्वा यावत् संपातमित्यतःप्राक् य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्तीत्यारभ्येत्याध्याहारःएवं संसारकालसामान्यावच्छेदेन प्रकृतिसंबन्धोऽवर्जनीय इति पूर्वमुक्तम्अत्र तद्धेतुभूत कर्मसंबन्धोऽवर्जनीयः इत्युच्यते इति संगतिरुक्ताभवति । पूर्वं श्रुत्येकसमधिगम्येऽर्थे यथाश्रुति प्रतिपत्तव्यत्वमुक्तंतर्हि यावत्संपातमिति वचनबलेन कृत्स्नकर्मोपभोगप्रतीत्या निरनुशयएवावशेहतीत्याक्षेपेण संगतिर्वा । अय संशयमाह - तत्रेति।भुक्तशिष्टंकर्मेति। कर्मचास्मन्मते यागादिजन्यः पुण्यरूपः भगवत्संकल्पः ।सच, अयं स्वर्गं भजतु, तदनुभवानन्तरं विशिष्टयोनिं गच्छतु इत्यवस्थाद्वयविशिष्टज्ञानरूपः । तत्र स्वर्गभोगेनैकावस्थायाः विनाशेपि अवस्थान्तर विशिष्टस्यसत्वमविरुद्ध मित्याशयेन भुक्तशिष्टं इति अनुशयपदं व्याख्यातम्यद्वाऽनुशयपदं स्वर्गफलजनककर्मभिन्नकर्मपरम् । तादृशकर्मणः स्वर्गेऽभुक्तत्वेनभुक्तशिष्टत्व व्यवहारः कथमिति चेत् हतशेषाः निशाचराः इति वदवेहिभोक्तव्यकर्म समुदाय प्रविष्टं अभुक्तत्वेन शिष्टं च यत्कर्म तत्रैवभुक्तशिष्टत्वव्यवहारतात्पर्यात् । भाष्ये कर्मान्तरमित्यनुक्त्वाभुक्तशिष्टमित्युक्क्तिस्तु - कर्मफलमनुभूय ततः शेषेण - कर्मफल शेषेणेतिवक्ष्यमाणस्मृतिवाक्यमभिसन्धायेतिध्येयम् ।ननु स्वर्गार्थ कर्मणः एकदेश एवानुशय शब्दार्थोऽस्तुतेन भुक्त शिष्टं कर्मति भाष्यमप्यतिस्वरसंभवेदिति चेत् न । स्वर्गार्थकर्मैकदेशस्याभुक्तत्वासंभवात् । स्वर्गकामो यजेत इति हि शास्त्रम्नहि तत्रैक देशस्य फलजनकत्वं एकदेशस्य पुनरावृत्तिजनकत्वं प्रतीतम्अतो यथोक्तएवार्थः स्वर्गे भोगानन्तरं सर्वस्यापि कर्मणोभोगेनविनाशः पूर्वपक्ष्यभिप्रेतःस्वर्गार्थकर्मण एव भोगेन तस्यैव विनाशः न तु प्रारब्धस्यापीतिसिद्धान्तः । तच्च = भुक्तशिष्टं कर्म । नावशिष्यते । कर्मजन्यस्य कृत्स्नस्यापिफलस्योपभोगे हि अवशिष्टकर्मसद्भावो न युक्त इति भावः । कृत्स्नोपभोगेकिं मानमित्यत्राह - यावत्संपातमिति । ननु यावत्संपातमुषित्वा इत्यस्यपतनपर्यन्तं स्वर्गे उषित्वा इति ह्यर्थः । तेन कृत्स्नोपभोगस्यकथं प्रतिपत्तिरित्यत्राह - संपतन्तीति । यावन्मरणं जीवतीतिवत् यावत्संपातमुषित्वेत्यस्यपतनपर्यन्तं स्वर्गे उषित्वेत्यर्थकत्वे वैयर्थ्यमेव स्यात् । अतो यावत्कर्मसत्वमुषित्वेत्येवार्थो वक्तव्यः ।तदर्थं च योगव्युत्पत्त्या संपातशब्दस्य कर्मपरत्वमेष्टव्यमिति भावः । अथसंपातशब्दस्य कर्मपरत्वे कृत्स्नकर्म फलोपभोगेन तत्सामान्यनाशानन्तरमेवावरोहणमित्यत्र च श्रुत्यन्तरं प्रमाणयति श्रुत्यन्तरं चेति । कर्मणे = कर्मसंपादनाय ।इयं कर्मभूमिः सा तु भोग भूमिरिति भावः ।कृतात्यये = कृतस्य पुण्यकर्मणः अत्यये नाशे इत्यर्थः । श्रुतिंपश्यन्ति मुनयः स्मरन्ति च तथर्षयः इत्यनुसारेण स्मृतिशब्दसाहचर्येणच दृष्टशब्दः श्रुतिपरतया व्याख्यातः । यत् = तर्हि अभ्याशः = अभ्यागन्तारःअभि आङित्युपसर्गद्वयम् । गन्तारः । यत् = यदि । यदि साधुकर्मकारिणःतर्हि ते रमणीयां योनिमापद्येरन्नित्यर्थः । कपूयां = कुत्सिताम् ।।अभ्याश इतीदं प्रत्यवरूढवाचीत्याशयेन प्रत्यवरूढानित्युक्तम् । एतच्छ्रुत्यर्थमाह - अमुष्मादिति।पुण्यपापकर्मयोगंदर्शयतीति । श्रुतिरिति शेषः । अथ स्मृतिमुदाहरति - स्मृतिरपीति ।वर्णाः इत्यादि गौतमस्मृतिःततः परिवृत्तौ इत्याद्यापस्तम्बस्मृतिः । वर्णाः=वर्णिनः । आश्रमाः=आश्रमिणःविशिष्टशब्दः देशादिषु सर्वत्रान्वेति । एवमुदाहुतश्रुतिस्मृतिभ्यांअनुशयवतामेवावरोह प्रतीतेः न तद्विरुद्धार्थस्वीकारो युक्त इष्याशयःअथ यावत्संपातमिति श्रुतेः श्रुत्यन्तरस्यचानेन विरोधं परिहरति - यावदितिसामान्यवाचकयोः संपातकर्मशब्दयोः उक्तस्मृत्युपबृंहित श्रुतिबलेनवस्तुतः संपतत्यनेन स्वर्गं लोकमितिव्युत्पत्त्या तस्य स्वर्गलोकप्राप्ति हेतुभूत कर्ममात्र परत्वमेवेत्यपि बोध्यम् । प्रारब्धकर्मव्यतिरिक्त स्वर्गजनक कर्मविशेषबोधकत्वात् नोत्सर्गापवादन्यायेनविरोधः इत्याशयःहेत्वन्तरमाह - अभुक्तेति । ज्योतिष्टोमादिसुकृत जन्यफलानुभवार्थंहि इष्टादिकारिणाऽनेन स्वर्गशरीरं प्राप्तम् । तत्र स्वर्गानुभवेचतादृशकर्मण एव क्षयः युक्तः । न तु ना नाविधदेव मनुष्य पक्षिसरीसृपादिदेहभोगार्थ प्रारब्धकर्मणामिति तज्जन्यफलाननुभवात् तत्प्रायश्चित्ताननुष्ठानाच्चाब्रह्मविद्यानुष्ठाने तु मुमुक्षुं प्रति पुण्यपापयोरू भयोरपि पापत्वाविशेषेणब्रह्मविद्यायास्तत्प्रायश्चित्तरूपत्वेनसर्व कर्मक्षयो युक्तः । अतः संपातादिशब्दः विशेषपरतयैव व्याख्येयःइति भावः ।दक्षिणायन षण्मास इत्येकम् । इतमनतिक्रम्य यथेतंइतं इण्गतावितिधातुः । यथा गतमित्यर्थः ।ननु यथेतमित्यनु पपन्नंअवरोहणक्रमस्यारोहणविलक्षणत्वात् । नहि घूमरात्र्यादि क्रमेणैवावरोहणमपियदितु प्रातिलोम्येन क्रमबोधनाय यथेतमिमयुक्तमिति मन्यसे तर्हिअनेवमित्येतदनुपपन्नं भवेत् । वस्तुतः वाय्वादि क्रमोक्त्या प्रातिलोम्येनक्रमोऽप्यनुपपन्नःइत्यत्र पदद्वयसूचितमाशयमाहतत्राकाशावरोहणादिति। यद्यपि यथेतमाकाशमाकाशाद्वायुरितिश्रुत्यैवा वरोहण क्रमस्य स्फुटं प्रतीतेः तद्बोधनार्थं न्यायनिबन्धनात्मकसूत्रेयथेतमनेवं चेत्युक्तिः व्यर्थैव । अथापि यावत्संपातमिति श्रुतस्यसंपातशब्दस्य कर्मविशेषपरत्वज्ञापनाय दृष्टान्ततयोक्तिरिति न दोषःअयं भावः ।अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेत मित्युपक्रमे यथेतमित्यनेनयथागतमित्यर्थ प्रतीत्याधूमादिमार्गे अवरोहणदशायंप्रतिलोभ्येन क्रमप्रतीतावपिआकाशाद्वायुमित्याद्युपरितन बहुवाक्यानुरोधात् यथेतमित्यस्य आकाशमात्रावरोहणेएव तात्पर्यम् । तद्वदत्रापि उपरितन तद्य इहेत्यादिवचनानुरोधात्उपक्रमस्थ संपात शब्दस्य स्वर्गजनककर्ममात्रपरत्व स्वीकरणमेव युक्तमितियद्यपि संपात शब्दस्योत्सर्गाप वादन्यायेन उपसंहारस्थबहुवाक्यविरोधपरिहारन्यायेन वा कर्मविशेषपरत्व बोधनार्थ मिदमधिकरण मनारम्भणीयमेवअथापि उपक्रमस्थ चरणपदस्याचारपरत्व व्युदासायाधिकरणारम्भः सफलःअन्यथा हि विरोधाभावात् संपात शब्दस्य विशेष परत्वनिर्णयस्यनपेक्षितत्वप्रसंगः इति ध्येयम् ।।
भेदेन व्यपदिश्येते इति । पृथङ्निर्देशस्य भेदसाधकत्वादिति भावः ।अत एव हि न वायुक्रिये पृथगुपदेशादिति सूत्रेण श्रेष्ठप्राणस्यानिन्द्रियत्वमुक्तमिति । ततश्च कर्मशब्दः यागादिपरः सुचरितशब्दश्चाचारपरः इतिचरण शब्दस्याचारपरत्वमेव । तथा चाचारचरणयोः पर्यायत्वात् कर्माचारयोर्भेदेननिर्देशाच्चचरणशब्दस्य कर्मव्यतिरिक्ताचारपरत्वमेवेति उक्तश्रुत्या स्मृतिविहितसन्ध्यावन्दनाद्याचारस्यशुभयोनिहेतुत्वंअशुभाचारस्याशुभयोनिहेतुत्वं चोच्यतइति न कर्मप्रसक्तिगन्धोऽपिअन्यथा सन्ध्यावन्दना देरानर्थैक्यापत्तिश्च ।ननु चरणशब्दस्यसन्ध्यावन्दनाद्याचारपरत्वे तस्यावरोहणदशायाम भावेन रमणीयचरणाःइत्यादिनिर्देशः कथमुपपद्यत इति चेत्न । स्वजन्यापूर्ववत्ता संबन्धेन तस्य सत्वे विरोधाभावात् । पुण्यपापरूपकर्मपरत्वेपि हि तद्दशायामभावेनापूर्वपर्यन्तस्य वा भगवत्प्रीतिपर्यन्तस्यवा विवक्षणमावश्यकमिति पूर्वपक्षिणः आशयः । चरणादिति व्याख्येयम्शीलादिति व्याख्यानम् । आचारादित्यर्थः ।कर्मोपलक्षणार्थेति।कर्मणि लाक्षणिकीत्यर्थः । कुतइत्यत्राह - केवलादिति । केवलात् पुण्यपापरूपकर्मासमानाधिकरणादित्यर्थःसुख दुःखयोर्वा कुतो न आचारसाध्यत्व मित्यत्राह - सुखदुःखेति।आचारांगकानुष्टितपुण्यपापरूपकर्मजन्यत्वात्सुखदुःखयोरित्यर्थः । शुभाशुभयोनि प्राप्त्याहि सुख दुःख प्राप्तिःअस्याश्च पुण्यपापरूपकर्मफलत्वात् तद्धेतुभूतशुभाशुभयोनि प्राप्तिरपिकर्माधीनेवेतिश्रुतिस्थः आचारपरोपि चरणशब्दः कर्मणि लक्षणिक इत्येवांगीकार्यमितिभावः ।।
अफलत्वात् = शुभाशुभयोनिप्राप्त्यर्थत्वाभावात् । तदपेक्षत्वात् । तच्छब्दःआचारपरः बहुब्रीहिः । कर्मणः आचारापेक्षत्वमेव विवृणोति - आचारवत एवेति ।सन्ध्यावन्दनादि स्मृति विहिताचारवतः । इत्यादि वचनेभ्यः प्रतीयतेइत्यर्थः । अयं भावः । न केवलकर्मानुष्ठानमात्रात् स्वर्गादिसिद्धिःआचाराद्यतिवृत्तौ उत्तरकर्माधिकारस्यैवासंभवेन कर्मानुष्ठानविलोपप्रसंगात् । अत एव हि शुचिना कर्म कर्तव्यमित्युच्यते । अतः पुण्यकर्माधिकारयोग्यापादकत्वंसन्ध्यावन्दनाद्याचारम्येतिनाफलत्वम् । यद्वा “पापमकार्ष"मित्यादिभिः प्राचीनपापविनाशोऽपि हि फलतया पठ्यते । अतः कर्मसाध्यत्वेपि सुखदुःखयोः नाचारवैयर्थ्यंशंका संभवः इति ।
पुण्यं कर्मेति । अयं भावः - सन्ध्यावन्दनमाचरतीति प्रयोगबलाद्धि चर्यतेऽनुष्ठीयते इति व्युत्पत्त्या आचारशब्दस्य चरणशब्दस्य वा सन्ध्यावन्दनाद्याचारपरत्वमिष्यते । तथैव कर्माचरतीति प्रयोगात् चर्यत इति व्युत्त्पत्त्यैवकर्मचरण शब्दस्य कर्मवाचकत्वं युक्तमभ्युपगन्तुम् । ततश्च चरणशब्दस्याचारेकर्मण्युभयत्र शक्तिसद्भावात् न केवलाचारमात्रपरत्वाभ्युपगमो युक्तःनन्वेवं सति रमणीयचरणाः इत्यादौ सुकृतदुष्कृतमात्रपरत्वाभ्युपगमेकि विनिगमकमिति चेत् उदाहृतस्मृति वचनद्वयमेवेत्यवेहि । अतः उभयत्रशक्तस्य चरणपदस्य उपबृंहणस्मृत्यनुरोधात् कर्ममात्रपरत्वाश्रयणमतिसमञ्जसमेवेतिअथ पृथङ्निर्देशस्योपपत्तिमाह - पृथङ्निर्देशस्येति । यान्यनवद्यानिकर्माणीत्यत्र कर्मपदंप्रत्यक्षुश्रुतिसिद्धकर्मपरम् । “यान्यस्माकंसुचरितानी"त्यत्र आचारानुमित श्रुतिसिद्धकर्मपरमित्याशयः ।एवं विषयव्यवस्थापने नियामकमाह - गोबलीवर्दन्यायेनेति। अत्र गोशब्दस्य स्त्रीव्यक्ताविवपुरुषव्यक्तावपि प्रसिद्धिप्राचुर्यमस्तीत्याशनेयेयमुक्तिः । अन्यथास्त्रीव्यक्तावेव प्रचुरप्रसिध्यभ्युपगमेन गामानय बलीवर्दमानयेत्यादौपुंव्यक्ति बोधकासाधारणलिंगाभावात् गामित्यनेन स्वरसतः स्त्रीव्यक्तिबोधने बाधकाभावात् न्यायापेक्षां विनैवाभिमतार्थं सिद्धेःसामान्यवाचक शब्दस्य समभिव्याहृतपदवैयर्थ्य परिहाराय बलीवर्देतरस्त्रीव्यक्तिबोधनाय हि एतन्न्यायस्यात्र प्रवृत्तिरिति वक्तव्यम् । अपवादकाभावदेवगामित्यनेन प्रचुरप्रसिद्धि सिद्धस्त्रीव्यक्ति बोधनस्य स्वतःएव संभवात् तादृशन्यायापेक्षैवात्र नास्तीति । अस्मिन्पक्षे गोबलीवर्दन्यायेनेत्यस्यब्राह्मणपरिव्राजकन्यायेनेत्यत्र तात्पर्यमिति ध्येयम् । स्वमतमिति । लक्षणांविना निर्वाहात् अन्ते उपदिष्टत्वाच्चेति भावः । कार्ष्णाजिन्याचार्योक्तांशेऽभिमतिरप्यस्तीत्याह - आचारानुमितेति । सन्ध्याहीनः इत्यादि वचनस्यस्वमतेऽपि प्रामाण्यात्, लक्षणया निर्वाहांशस्यैव दूषितत्वाच्चेति भावः ।उपसंहरति - अत इति ।। कृतात्ययाधिकरणं समाप्तम् ।।