01 तदन्तरप्रतिपत्त्यधिकरणम्

(3.01.01) तदन्तरप्रतिपत्त्यधिकरणम्संगतिमाह - अतिक्रान्तेति। अतिक्रान्ताध्यायद्वयेनेत्यस्य स्थापितःइत्यनेनान्वयः । वेदान्ताः प्रतिपादयन्तीत्यन्तेन प्रथमलक्षणार्थःउक्तः । अयमर्थः इत्यादिना द्वितीयलक्षणार्थः । प्रतिपादयन्तीतिप्रथमाध्यायार्थं संक्षिप्य इत्ययमर्थः एवं स्थापित इत्युक्त्याद्वितीयाध्यायस्य प्रथमाध्यायोक्तार्थ स्थिरीकरण रूपत्वं दर्शितम्स्मृतिन्यायविरोधपरिहारेप्यनेन द्वितीयलक्षणे प्रथमपादार्थः परपक्षप्रतिक्षेपेत्यनेन द्वितीयपादार्थः वेदान्तवाक्यपरस्परविरोध परिहाररूपकार्यस्वरूप संशोधनेत्यनेन तृतीयचतुर्थपादार्थश्च प्रदर्शितःपूर्वमीमांसाया षड्कभेदवदत्रापि द्विकभेदाभ्युपगमेन पूर्वद्विकस्योक्तोपपादनेनपर्यवसितमनुगतमाकारमाह - अतःइति । सिद्धरूपस्यविषयभूतस्य ब्रह्मणप्रतिपादकं पूर्वद्विकमिति सिद्धद्विकं विषयद्विकमित्युच्यते इतिभावः । उत्तरद्विकार्थमाह - उत्तरेणेति ।अध्याय द्वयेनेति शेषः ।उत्तरद्विकं साध्यद्विकं विषयिद्विकमित्युच्यते इति भावः । अथ तृतीयाध्यायार्थानुगताकारमाह - तत्रेति।तत्र= उत्तराध्या यद्वये, इत्यर्थः । घटकत्वं सप्तम्यर्थः । उपायभूतेतिविमर्शक्रमे फलस्य पूर्वभावित्वेऽपि उत्पत्तिक्रमे फलोपायस्यपूर्वभावित्वात् फलविचारात्पूर्व मुपायभूतोपासनचिन्ता क्रियते इति भावः ।नन्वत्र तृतीयपादादावेवोपासनस्योपचिन्तनात् प्रथमद्वितीयपादयोःकथं संगतिरित्यत्राह - उपासनारंभेति। अभ्यर्हितशब्दोऽन्तरङ्गपरः ।मोक्षोपायभूतोपासनस्येव तदुपायभूतस्य “परमात्मनि यो रक्तो विरक्तोऽपरमात्मनी"त्युक्तस्य भगवदितरवैतृष्ण्य तत्तृष्णारूपार्थस्यापि परंपरयोपायत्वात् तत्प्रतिपादकपादयोरपिसाधनाध्यायान्तर्भावो युक्तः इति भावः । “परमात्मनि यो रक्तो विरक्तोऽपरमात्मनीति"क्रमनिर्देशेपि तदितरवैतृष्ण्ये सत्येव तत्तृष्णा जनन स्वाभाव्यादर्थक्रमेण वैतृष्यप्रतिपादकस्य प्रथमं संगतिरित्याशये नादौ प्राप्यवस्तुव्यतिरिक्त वैतृष्ण्यमिति भाषितम् रक्तः इत्यस्य आशंसायां भूतवच्चइति शास्त्रेण रागं आकांक्षमाणः इत्यर्थविवक्षायां न कोपि दोषःअच्युत पदाम्बुजयुग्मरुक्मव्यामोहतः तदितराणि तृणाय मेने । इत्यपिद्रष्टव्यम् । वैतृष्ण्यं = वैराग्यम् । दृष्टानुश्रविकविषय वितृष्णावैराग्यमिति ह्युच्यते । ननु वैराग्यजननायैतत्पादारभ्भो व्यर्थएव, निष्पन्नवैराग्यस्यैवैतच्छास्त्रारम्भाधिकारोक्त्या तत एववैराग्यसिद्धेरिति चेत् न, एतत्पादप्रतिपाद्यवैराग्यस्य शास्त्रारम्भाधिकारभूतवैराग्यापेक्षया विलक्षणत्वेन सार्थक्यात् । एते वै निरयास्तातस्थानस्य परमात्मन इत्युक्तरीत्या स्वर्गादीनां निरतुल्यत्वानुसन्धानंह्यत्रोपदिश्यते ।इदमेव चोपसनारम्भोपयुक्तम् । पूर्वसिद्धं तु शास्त्रारम्भमात्रोपयुक्तम् ।अतो नानुपपत्तिः । एतत्सूचनायैव उपासनारम्भाभ्यर्हितोपायश्चेति भाषितम् ।।ननु फलतयाभिमतायाः मुक्तेः उपायसाध्यत्वे उत्पन्नानां विनाशस्वाभाव्येनानित्यत्वापत्त्या (नश्वरत्वापत्त्या) अभिमतं पुनरावृत्तिशून्यत्वं न सिध्येत् ।निष्पत्त्यनभ्युपगमे चासाध्यत्वेनतत्साधनस्यैव दुरुपपादतया तत्प्रतिपादकाध्यायकॢप्तिरेव व्यर्थेतिचेत् । न । ज्ञानसंकोचविनाशस्यैवोपासनसाध्यफलरूपत्वात् तस्य चनैयायिकाभिमतध्वंसस्येव नश्वरत्वाप्रसक्तेः । भावान्तराभाववादेपिधीविकासस्य स्वाभाविकत्वाभ्युपगमेनोपाधिवशात् जाततत्संकोचस्योपासनादिनानाशे स्वाभाविकस्य विकासस्य तथैवावस्थितेः उक्तदूषणानवकाशात् ।संचरतः इत्येतद्विवरणं जाग्रत इत्यादिकम्तद्रहितता कल्याणगुणाकरत्वं चेति । यद्यप्यतिक्रान्ताध्यायद्वयेपिब्रह्मणः दोषाभाववत्वं कल्याण गुणाकरत्वं च तत्र तत्रार्थात् दर्शितमेव,अत एवातिक्रान्ताध्यायार्थानुवादावसरे निरस्तनिखिलदोषगन्धमपरिमितोदारगुणसागरमितिभाषितम् । न च तत् स्वरूपकीर्तनमात्रपरम् । तथा सति तत्सहपठितयोःनिखिलजगदेककारणं सकलेतरविलक्षणमित्यनयोरपि तथात्वापातात् । वस्तुतःपूर्वं तत्र तत्र तयोः ।प्रतिपादनेन प्रतिपादितार्थानु वादावसरेस्वरूपकीर्तनमात्राभिप्रायेण तात्पर्यवर्णनासंभवाच्च । तथापिसामान्यतः प्रतिपादितयोरेव दोषराहित्यकल्याणगुणाकरत्वयोः आक्षेपपुरस्सरंविशेषतः स्थापनं क्रियते इति न दोषः ।प्रथमद्वितीययोः पादयोरिति । नात्र क्रमो विवक्षितः । द्वितीयपादेऽपिवैराग्यजननाय जीवदोष प्रख्यापनात् । द्वितीयपादे जीवस्वप्नाद्यवस्थानिरूपणेनब्रह्मणः स्वाप्नार्थस्रष्टृत्वादि बहुविधमाहात्म्यसिद्धिर्भवतीतिकल्याण गुणाकरत्व प्रतिपादकत्वमेव तस्येत्याशयो वा ।अथ संशयादिकं प्रदर्शयति - तत्र देहादिति । पूर्वं संज्ञामूर्तिक्लप्तिरित्यत्रमूर्ति प्रस्तावेन प्रसंगसंगत्याऽस्य विचारस्य प्रवृत्तिरित्यधिकरणसंगतिर्बोध्या । सूचयति च स्वयमेव भाष्यकारः सिद्धान्तप्रस्तावेदेहात् देहान्तरं गच्छन् = पूर्वदेहध्वंसाधिकरणीभूतः उत्तरदेहसंबन्धप्रागभावाधिकरणंच यः कालः तादृशकालावच्छिन्नः इत्यर्थः । स्थूलदेहसंबन्धकाले भूतसूक्ष्मसंबन्धस्यानुमतत्वादिदं विशेषणम् । भूतसूक्ष्मैरिति । इन्द्रिद्याश्रयभूतसूक्ष्मैरित्यर्थःतेन भूतसूक्ष्मस्य सर्वत्र सत्त्वेन तत्संबन्धस्यावर्जनीयस्य पूर्वपक्षिणाप्यभ्युपगन्तव्यत्वेनसंशयोत्थितिरेव नास्तीति शंका निरस्ता ।तत्र तत्र भूतसूक्ष्माणां सुलभत्वादिति । भोग्यभोगस्थानवत् पुरुषस्यदेशान्तरप्राप्तौ अपूर्वभूतसूक्ष्मेन्द्रियादीनां कर्मानुरूपतयासिद्धिसंभवात् न तदर्थमिन्द्रियाद्याश्रयभूतसूक्ष्मपरिष्वक्तस्यगमनं स्वीकर्तव्यं कल्पनागौरवात् तथात्वग्राहक प्रमाणाभावाच्चेतिपूर्वपक्षिहृदयम् । नच भूतसूक्ष्मसंबन्धाभावेकथं जीवस्य गमनसंभवःइति शंक्यम् । परिमितमानत्वस्यैव गमनहेतुत्वेनाणुभूतात्मनि तदंगीकारेणगमनोपपत्तेः । अतः “ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यती"त्युक्तरीत्याप्राणस्येव जीवस्यापि गमनस्य परायत्तस्य संभवात् न तदर्थं इन्द्रियाद्यश्रयभूतसंबन्धोऽपेक्षितः इति । अत्र पूर्वपक्षयुक्तीनां सूत्रकृतैवोपर्युपन्यासात्संप्रति नास्माकं तदुपन्यासोऽपेक्षित इत्याशयेनाह - पश्चादपीति । गच्छतीत्यर्थःइति । रहि गताविति हि धातुरिति भावः । प्रश्ननिरूपणाभ्यामिति व्याख्येयंप्रश्नकृतैव तत्समाधनस्यापि उक्तत्वेन प्रश्नप्रतिवचनयो स्समानकर्तुकत्वद्योतनायप्रतिवचनादिपदमुपेक्ष्य निरूपणपदम् । प्रतिवचन शब्दोपादानेहि शब्दस्वाभाव्यादन्यकर्तृकत्व शंकास्यात् । प्रश्नवचनानन्तरं भूतसूक्ष्मपरिष्वङ्ग पर - स्पष्टतरवचनादर्शनादर्थान्तरव्यवधानशंकानिवृत्यर्थं प्रकरणस्यानेकप्रश्नतत्प्रतिवचनरूपत्वमवगमयन् प्रथमंप्रश्नप्रकारमाह - पञ्चाग्निविद्यायामितिकर्मिणां गन्तव्यदेशमिति। वेत्थ यदितोऽधिप्रजाः प्रयन्तीति, वेत्थयथा पुनरावर्तन्त इति, वेत्थ पथोर्देवयानस्यपितृयाणस्य च व्यावर्तनाइति, वेत्थ यथाऽसौ लोको न संपूर्यत इति, वेत्थ यथा पञ्चम्यामाहुतावापःपुरुषवचसो भवन्तीति, इति क्रमेण पञ्च प्रश्नाः कृताः । व्यावर्तनं - व्यावर्तकाकारःतततः इति। पृष्ठान् प्रश्नान् प्रतिवक्तुमजानन् श्वेतकेतुः पितुस्समीपमागम्यस्वपित्रे न्यवदेयत् । ततः तत्पितापि प्रतिवचनमजानन् पञ्चालराजमागम्ययामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति पप्रच्छ ।ततस्स राजापि स्वकृत प्रश्ननिरूपणंकृतवान्तत्र पञ्चमप्रश्नप्रतिवचनस्येतर प्रश्नप्रतिवचनानुकूलत्वात् प्रथमंअन्तिमप्रश्नप्रतिवचनमेवोक्तवानिति ध्येयम् ।सोमा राजा संभवतीत्यादिनागर्भो भवतीत्युक्त्वा इति तु पंचम्यामाहुतावापः पुरुषवचसोभवन्तीत्याहेत्यन्वयःप्राणाः=मुख्यप्राणाः इन्द्रियाणि च गमनस्य प्राणाधीनत्वेन मुख्यप्राण मात्रपरोवा प्राणशब्दः । श्रुतौ जुह्वतीति श्रवणेपि अत्रप्रक्षिपन्तीति भाषणं प्राणाधीन प्रक्षेपस्यैवहोमत्वेनोपचारः इतिसूचनाय । प्रकृतोपयुक्तायाः “इति तु पंचम्यामिति” श्रुतेरर्थमाह -एवं पञ्चम्यामिति ।पुरुषशब्दाभिलप्याः=इत्यनेन पुरुषवचसः इतीदं विवृतंपुरुषशब्दोहि शरीरविशिष्टस्वरूपपरः नतु शरीरमात्रपरः । पुरुषावात्ममानवावितिकोशात् । स वा एष पुरुषोऽन्नरसमयः इति श्रुतौतु पुरुषशब्दो भाक्तएव । अत्र तु तादृशार्थ व्युदासायैव वचश्शब्दनिर्देशः । ततश्च वचश्शब्दःवाचकपरः पुरुषः वचः यासां ताः पुरुषवचसः । अनेन बहुव्रीहिसमासेनवाच्यवाचकभावरूप संबन्धविशेषो लब्धः । एतदाशयेनैव पुरुषशब्दाभिलप्याःइत्युक्तम् । अनेन भूतसूक्ष्मविशिष्टस्य जीवस्य पञ्चसु अग्निषुहोमप्रकारं पञ्चमाहुत्यनन्तर देहविशिष्टरूपेण भवन प्रकारं च किंजानासीति पृष्ट्वा भूतसूक्ष्मविशिष्टजीवः द्युलोक पर्जन्य पृथिवी - पुरुष - योषिद्रूपेष्वग्निषुक्रमेण संबन्धं प्राप्य योषिदूपाग्निसंबन्धप्राप्यनन्तरं देहविशिष्टोभवतीति प्रतिवचनोक्तेः श्रुत्येकसमधिगम्यस्यार्थस्य यथाश्रुति प्रतिग्नत्तव्यत्वाच्चभूतसूक्ष्मपरिष्वक्तस्यैवगमनमिति स्वीकर्तव्यंअन्यथा भूतसूक्ष्माणां जीवेन सहगमनाभावे पंचानि संबन्धपूर्वकं तदीयदेहात्मनापरिणामो न स्यात् अत्रचापामिति होतव्य द्रव्यस्य सन्निधौपाठेन तद्बोधितभूतसूक्ष्माणां होतव्यत्वप्रतीतेः । अत्र अबादीनामेवहो तव्यत्वंनतु तत्परिष्वक्तस्येति शंकाऽनुपदमेव सूत्रकृता परिहरिष्यते ।अपां पुरुष शब्दाभिलप्यत्वेन पुरुषाकारत्वोक्त्या पुरुषशब्दस्यच शरीरविशिष्टजीवपरत्वात् ।अत शरीरकजीवस्यैव होम्यत्वावश्यकत्वाच्चन तासामेवहोम्यत्वम् । उपसंहरति - अत इति ।

अनन्तरसूत्रमवतारयति - नन्विति । त्र्यात्मकत्वादिति सूत्रतात्पर्यमाह - देहारम्भकेति।देहारम्भकाणां भूतानां मध्ये अपां केवलानां न देहारम्भसंभवः इत्यर्थःआपः पुरुषवचसः इत्यत्र श्रुतानामपां त्र्यात्मकत्वात् तेन सर्वभूतसूक्ष्मपरिष्वंगः एव विवक्षित इत्यर्थः । भूयस्त्वं = आधिक्यम् ।यद्यपि “वैशेष्यात्तु तद्वादस्तद्वाद” इत्यनेनैव भूयस्त्वस्य व्यवहारहेतुत्वमुक्तमथापिदेहे लोहितादि भूयस्त्वेनारम्भकेषु अपां भूयस्त्वमस्तीति ज्ञापनाय भूयस्त्वादितिसूत्रखण्डः इति ध्येयम् । मनुष्यादिशरीरेषु पार्थिवत्वव्यवहारस्तु देहावारकत्वचःपार्थिवत्वात्तेनान्तर्वृत्ति जलभूयस्त्वाग्रहणाच्च ।तस्माद् अपां भूयस्त्वात् घृतप्रचुरमौषधं घृतमेवेति व्यवहारवत् नानाभूतसंघतस्पेतस्मिन् वस्तुनि अबादि शब्देन व्यवहार इति सर्वभूत सूक्ष्म संपरिष्वक्तएव गच्छतीति सिद्धम् । अयमत्र भावः - प्रथमतः समष्टिभूतसृष्टिः ।अनन्तरं पञ्चीकरणं ततो व्यष्टिसृष्टिः । व्यष्टौ ब्रह्माण्डे पंचीकृतभूतानांनिवेशः । पंचीकृतपञ्चभूतमेलनेनैव पांचभौतिकपदार्थ सृष्टिः । अतोऽस्माकंदेहः पंचीकृत पञ्चभूतमयः । अत एव । अन्नमशितं त्रेधा विधीयते इत्यादिषुत्रिवृत्कृतभूतत्रयस्याहारत्वं ततो देहोत्पत्तिश्च प्रदर्श्यत ।इदमण्डमध्ये त्रिवृत्करणं, अण्डसृष्ट्युत्तरकालं चतुर्मुखसृष्टपदार्थे विषयकम्एकैकां करवाणि “इति पूर्वकालिकम् । अत्र भाष्ये - तासां त्रिवृतंत्रिवृतम् । इति पूर्वकालिकम् । अत्र भाष्ये - तासां त्रिवृतं इतिप्रदर्शनम् कथं संगच्छत इति चेत्? भूतत्रयस्य त्रिवृत्करणमिव, त्रिवृत्कृतभूतत्रयस्यापि परस्परसंमेलनमपि विवक्षितं इति ज्ञापनाय ।। वैशेष्यात्तुतद्वादः इत्यत्र त्रिवृत्कृतं एकैकस्मिन्नपि तत्तत्पद प्रयोगे भूयस्त्वंहेतुः इत्युक्तम् । तदेवात्र भूयस्त्वादित्यनैन विकृतम् ।।

वक्ष्यमाणहेतोः । प्रधानसाध्यान्वयसूचनायाह - इतश्चेति । चशब्दश्रवणात्तेनश्रुति समुच्चयः इत्याशयेन श्रूयतइत्युक्तम् । पूर्वत्रापि प्रश्ननिरूपणाभ्यामितिश्रुतिरेव हि हेतु तया विवक्षितः । अथोक्तश्रुतेः प्राणगतिबोधकत्वंतदुपबृंहणस्मृत्यापि लभ्यते इत्याशयेन तदुपबृंहणभूतां स्मृतिंप्रदर्शयति - स्मर्यते चेति । यच्चाप्युत्क्रमामति = यस्मादुत्क्रामतिईश्वरः = करणाधिपो जीवः । आशयात् = तत्तत्स्थानात् । नन्वस्तु प्राणानामनुगतिःतावता भूतसूक्ष्मपरिष्वक्तस्यैव जीवस्य गमनमिति कथं प्रतीयतेइत्यत्राशयमाविष्करोति न चेति ।।

ननु दृष्टान्ते गन्धस्य गुणत्वेन निराश्रयस्य तस्य गमनं न संभवतीति युक्तं,प्राणानां चागुणत्वेन तेषां कथं निराश्रयत्वे गमनानुपपत्तिः । अन्यथाजीवस्यापि निराश्रयस्य गमनमनुपपन्नं स्यादिति चेन्न, परमात्माश्रितस्यैवजीवस्य गमनस्वीकारात् । द्रव्यभूतस्यापि संस्थानस्यापि निराश्रयस्यवृत्यसंभववत् प्राणानामपि निराश्रयत्वे स्थित्यसंभवोपपत्तेः । औचित्यात्गतिश्रुतिरन्यथा नेयेति अध्याहृतम् । देहत्यागमात्रपरतया नेयेत्यर्थःविनिगमकाभावेनाप्ययश्रवणस्यैव भाक्तत्वमिति को निर्बन्धः इत्याशयेनपृच्छति - कथं भाक्तत्वमिति । समाधत्ते - ओषधीरिति । अनपियद्भिः = अप्ययरहितैः ।ओषधीषु लोम्नां वनस्पतिषु केशानां चाप्ययस्य प्रत्यक्षबाधितत्वेन नप्रतीयमानार्थे तात्पर्यं किंतु लोमकेशाभिमानिदेवतायाः ओषधि वनस्पत्यभिमानिदेवतायामप्ययः इत्यत्रैव ।ततश्च लोमाद्यभिमानित्वं विहाय ओषध्याद्यभिमानित्वप्राप्तिरेव तत्रविवक्षिता । अतश्च तदनुरोधेन तत्सहश्रुतेषु यत्रास्येत्यादिष्वपिभाक्तत्वाश्रयणमेव युक्तम् । तथाच अग्निं वागप्येति इत्यस्यायमर्थः - वागभिमानिदेवताअग्न्यभिमानिदेवतामप्येति । वागभिमानित्वं विहाय केवलाग्निर्भवतीतियावदिति । एवमन्यत्रापि । अत एवहि - अग्निर्वाग्भूत्वा मुखं प्राविशत्,वायुः प्राणो भूत्वा नासिके प्राविशत्, आदित्यश्चक्षुर्भूत्वा अक्षिणीप्राविशत्, दिशश्श्रोत्रं भूत्वा कर्णौ प्राविशत् ओषधिवनस्पतयोलोमानि भूत्वा त्वचं प्राविशत्” अग्न्याद्यभिमानिदेवतानां वागाद्यभिमानिदेवतानां चैक्यं प्रतिपाद्यते ।ननु जीवमरणकाले अग्न्यादीनां वागाद्यभिमानित्व परित्यागाभ्युपगमेकथं प्राणानां श्रूयमाणोत्क्रान्तिचन्द्रसंवादादिकार्यास्योपपत्तिःअधिष्ठानदेवतासहितानामेव तेषां कार्यकारित्वात् । अन्यथा देवताधिष्ठानस्यैवव्यर्थत्वापातादिति चेन्न - म्रियमाणतादशायामिन्द्रियकार्यादर्शनेनतत्कालावच्छेदेन कार्योत्पत्त्यनुकूलाभिमानविशेषपरित्यागाभ्युपगमात्मरणानन्तरं श्रौतकार्योपपत्तये अभिमान परित्यागानभ्युपगमाच्चोक्तदोषाप्रसरादिति

पूर्वपक्षसूत्रखण्डस्यार्थमुपपादयति - यदुक्तमित्यादि । कुतो नोपपद्यतेइत्यत्राह - द्युलोकेति । आपः पुरुषवचसः इत्युक्त्या अपां पुरुषाकारपरिणामप्रतीतेः कथंचित् पंचमाहुतौ अपां होम्यत्वसंभवेपि ततः पूर्वंतनाहुतिषुन होम्यत्वप्रतीतिः । ततश्चाप् शब्देन भूतान्तरोपलक्षकेन सर्वभूतसूक्ष्मपरिष्वक्तस्यैवहोम्यत्वमिति कथं सिध्येदिति भावः । ननु होतव्यद्रव्यविशेषाकांक्षायांसन्निहितत्वेनापामेव सर्वाहुतिष्वप्यनुवृत्तिस्स्वीक्रियते इति नानुपपत्तिरित्यत्राह - तस्मिन्नेतस्मिन्निति ।प्रथमत एव श्रद्धाशब्देन होतव्यद्रव्यविशेषस्य समर्पणात् न चरमश्रुतानामपांपूर्वत्राप्यनुवृत्तिर्युक्तेति भावःननूप क्रमोपसंहारपर्यालोचनया श्रद्धाशब्देनाप एव विवक्ष्यन्तइत्यत्राह - श्रद्धा नामेति । यद्यपि श्रद्धा = ज्ञानावस्थाविशेषः एव,अथापि कामस्संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीःभीरित्येतत्सर्वं मन एवेति श्रुत्यनुरोधेन मनोवृत्तिविशेषत्वेनप्रसिद्धेत्युक्तम् । श्रुतौ तथोक्तिश्च श्रद्धावस्थज्ञानस्य मनोहेतुत्वाभिप्रायेणेति पूर्वमेव स्पष्टम् । उपपत्तेरित्येतत् प्रकरणौचित्येनप्रश्न प्रतिवचनोपपत्तेरिति व्याख्यातम् । प्रश्नः कः तत्प्रतिवचनंच किम् । कथं च श्रद्धाशब्देनापामेवाभिधाने तदुपपत्तिरित्यत्रोपपादयति - वेत्ययथेति । वेत्थ यथा पंचम्यामाहुतावापः पुरुषवचसः इत्यत्रापां पञ्चमाहुतौशरीरात्मना परिणामप्रकारः प्रश्नः कृतः । तेन अपामेव पञ्चस्वप्याहुतिषुहूयमानत्व प्रकारविषयः प्रश्नः स इति सिद्धम् । ततश्च प्रतिवचनेतासां हूयमनत्वानुक्तौ प्रतिवचनासंगतिरेव स्यादिति भावः । प्रतिवचननिगमनमप्येतदनूकूलमित्याह - इतित्विति । तदेवोपादयति - वेत्थ यथा इतिहीति। अपां पुरुषाकारपरिणामःकथमितिपृष्ट्वा एवमित्युक्तेहि अपामेव तथा परिणामः इति सिद्धम्ततश्चापामेव हूयमानत्वं पञ्च स्वग्निष्विति विज्ञायत इति भावःपपरिणाममुक्त्वा हीति। अपां श्रद्धा सोमादिरूपेण पूर्वं परिणामकथने हि एवमापः पुरुषवच सो भवन्तीति निगमनं कर्तुं शक्यमित्याशयःनन्वस्तु अपां होम्यत्वं अथापि श्रुतस्य श्रद्धा शब्दस्य का गतिःन हि तस्याब्वाचकत्वं मनोवृत्तिविशेषे प्रसिद्धेरित्यत्राह - श्रद्धाशब्दस्यचेति।प्रणयनस्यश्रद्धाकार्यत्वात्प्रणयन कर्मभूतापामेव श्रद्धात्वेन व्यवहारः श्रद्धा वा आपः इत्यनेनोक्तःअतः श्रद्धाशब्दस्याप्सु समाख्यादर्शनादत्रापि तेनाप्विवक्षणेन बाधकं किंचित् । अथ उपपत्तेरित्येतदन्यथा योजयति - श्रद्धां जुह्वतीत्यादिअपामेव प्रथमाहुतिकर्मत्वमवश्यंस्वीकर्तव्यम् । आहुतिकर्मणः सोमाकारपरिणामस्योक्तत्वात्नहि मनोवृत्तिविशेषस्य सोमाकारेण परिणामः संभवति कार्यकारणवैरुप्यात्अपां तु तत्संभवो युक्तः । कार्यभूतसोमस्य वर्षोपादानत्वादिनाप्त्त्वात्कार्यकारणयोस्सारुप्यसत्वात् । अतःश्रद्धां जुह्वतीत्यस्यआपः जुह्वतीत्यत्रैवतात्पर्यमिति निश्चीयत इति । इदमुपलक्षणं वर्षाद्यकारेणापि अपामेवपरिणामसंभवाद्सर्वत्रापामेव होम्यत्वमिति बोध्यम् ।।

नतु जीवस्तत्परिष्वक्त इति । उक्तश्रुत्या भूतसूक्ष्माणां गमनं सिद्धम् ।जीवस्यचोत्क्रान्त्यादि बोधक श्रुति बलाद्गमनं च सिद्धम् । अथापिभूतसूक्ष्मविशिष्ट जीवस्य गमनं तु न सिध्येत् । उक्त पंचाग्निविद्यायांश्रद्धा शब्दविवक्षितानां केवलाचेतनानामेव होम्यत्वश्रवणात् । तादृशशब्दस्यविशिष्ट वाचकत्वे प्रमाणाभावाच्च । आपः पुरुषवचसः इति तु पश्चमाहुतिजन्यगर्भेजीवसंयोगमात्रतात्पर्यकम् । अतो न पूर्वाहुतिषु जीवसंयोगसाधकम्अत एव हि सप्तमे मासे जीवेन संयुक्तो भवति अष्टमे मासे सर्वसंपूर्णोभवतिपितृरेतोऽतिरेकात् पुरुषो भवति इति गर्भोपनिषदि श्रूयते इतिभावःसिद्धान्त खण्डं व्याचष्टे - तन्नेत्यादि।अस्मिन्वाक्ये=महावाक्येइत्यर्थः । हिः प्रसिद्धौ । वाक्यान्तरान्वेषण प्रयास राहित्य बोधनायावधारणम्ससोमराजानः= अमृतमयदिव्यदेहविशिष्टाः। “एष सोमो राजे"त्येकवचनान्ततयोपादानेपितज्जात्यभिप्रायकम् । ते धूममभिसंभवन्तीति पूर्वं निर्देशादितिसूचनायसोमराजानःइति बहुवचनतयाऽत्रनिर्देशः कृतः । सोमो राजा इत्यस्यकेवलाचेतन परत्व व्यावृत्तये इष्टापूर्तदत्तकारिणः इत्युक्तम् ।ब्रह्मज्ञानवतां इष्टापूर्वदत्तादिकर्मानुष्ठाने द्युलोकप्राप्त्यभावात् ब्रह्मज्ञानविधुरेत्युक्तम्अथोक्तार्थ संवाददार्ढ्याय तद्बोधक श्रुतिं व्याचष्टे - अथ य इमेग्राम इत्यादि। इष्टा=यज्ञादिःपूर्तं=खातादि ।दत्तं=वैश्वदेवादौबहिर्वेदिनि दत्तम् । इष्टां पूर्तं दत्तं चोक्तप्रकारेण य उपासतइत्यर्थः । अभिसंभवन्ति प्राप्तुवन्ति ।सत्तार्थक एव भूधातुः उपसर्गबलात्प्राप्त्यर्थकः । धूमाद्रात्रिं रात्रे रपरपक्षमपरक्षाद्यान्षद्दक्षिणैतिमासांस्तात् नैते संवत्सरमभिप्राप्नुवत्ति । मासेभ्यः पितृलोकमितिआरभ्य शब्दार्थः । ननु सोमो राजेत्यस्यैकवचनस्वारस्यात् चन्द्रार्थकत्वंकिं न स्यादिति चेन्न चन्द्रमसमेवेति तस्योक्तत्वेन पुनरुक्तत्वापातात्चन्द्रप्राप्त्यनन्तरं दिव्य देहप्राप्यर्थकत्वस्यैव युक्तत्वात्ततदेकार्थत्वादिति। उभयत्र सोमराज शब्द प्रत्यभिज्ञानेनैकार्थ्यावश्यंभावादिति भावः । अतश्च पञ्चाग्निविद्यायामेवोत्तरत्रेष्टादिकारिप्रतीतेः अत्रापि सोमराजशब्दप्रत्यभिज्ञानात् श्रद्धा शब्दस्यचतस्य सोमदेहविशिष्टतया परिणामश्चेति तदवस्थजीविशिष्टार्थकत्वं भूतसूक्ष्मविशिष्टजीवस्यैवतत्रतत्रगमनं युक्तमितिभावः । सप्तमे मासे जीवेन संयुक्तो भवतीतिश्रुतिस्तु शरीरचलनादिहेतुभूत जीवसंयोगाभिप्रायिणी । अन्यथा श्रुतहानप्रसंगात्इति ध्येयम् । ननु श्रद्धादि शब्दस्य विशिष्टपरत्वे लक्षणा स्यादित्याशंकामपास्यति देहस्येतिश्रद्धादिशब्दस्य शरीरादि शब्दवत् निष्कर्षकशब्दत्वा भावात् अनिष्कर्षकशब्दानां विशेष्य पर्यन्तपरतायाश्च व्युत्पत्तिसिद्धत्वादिति भावः

अनात्मवित्वादिति पदसामर्थ्येन इष्टादिकारिणः इति योजितम् । भक्षयन्तीतिभक्ष्यत्ववचनस्य भोक्तृत्वोपपादनाय तदुपयोग्यर्थमाह - स देवानामिति।नन्विहस्थस्य कथं भोगोपकरणत्वमित्यत्राह - इहेति । ननु आराधनप्रीतदैवैर्दत्तपरलोकंप्राप्तस्य तत्समानभोगत्वेन कथं तद्भोगोपकरणत्व मित्यत्राह - आराधनेति।तदुपकरणमिति।तत्सेवकत्वादिति भावः । अथेष्टादिकारिणस्तत्सेवकत्वे प्रमाणं प्रदर्शयन्तथाहि श्रुतिरिति सूत्रखण्डं व्याचष्टे - यथा पशुरिति। अत्र पशुसादृश्योक्त्यासेवकत्वमिति भावः । उक्तार्थे स्मृतिमर्थ प्रदर्शन पूर्वकमुपबृंहयति - स्मृतिरपीतितथाहि दर्शयतीति सूत्रकृतः स्मृतिरपि विवक्षितेति भावः । भोगोपकरणत्वेपिअवस्थाविशेषेण भोग्यत्वमप्यस्तीतिज्ञापनाय देवभोग्यत्वमिति भाषितम्ननन्वस्तु इहामुत्रच भोगोपकरणत्वं, तेनप्रकृतभक्ष्यत्ववचनस्य भाक्तत्वेकिमायातमित्यत्राह - अतः इति । भाक्तं = देवतृप्तिहेतुभूत दर्शनविषयत्वरूपभोगोपकरणत्वावच्छिन्ने लाक्षणिकमित्यर्थः । स्वरूपतोऽनदनीयानां जीवानामुक्तरीत्यादेवभक्ष्यत्वोपपादने श्रुत्यन्तस्वारस्यमप्यस्तीत्याशयेनाह - तेन तृप्तिरेवेति ।अधिकरणार्थमुपसंहरति - तस्मादिति । तदन्तरप्रतिपत्त्यधिकरणं समाप्तम् ।।