(2.04.08) संज्ञामूर्तिक्लृप्त्यधिकरणम् ।।संगतिं प्रदर्शयति - भूतेन्द्रियादीनामिति । प्रथमं भूतसृष्टिः पश्चात्जीवकर्तृत्वस्य परायत्तत्वं ततः = इन्द्रियसृष्टिरित्युक्तिक्रमसत्त्वेपिलाघवात् इन्द्रियसमष्टिसृष्टेः प्रथमोपादानम् । समष्टिसृष्टिः = कारणसृष्टिः ।पुरस्तात् = वियदधिकरणे परायत्ताधिकरणे प्राणोत्पत्त्यधिकरणादौ चेत्यर्थः ।अनन्तरं = ज्योतिराद्यधिष्ठानाधिकरणे । या त्वियमिति । व्यष्टिसृष्टिः = कार्यसृष्टिः । भूतेन्द्रियसमष्टिसृष्टिनिरूपणमेतावत्पर्यन्तं कृतमिति ।तृतीयपादादारभ्यैतत् पूर्वमेका पेटिका । अस्मिन् व्यष्टिसृष्टिनिरूपणंक्रियत इति पेटिकान्तरम् । तत्रेन्द्रियादीनामिव व्यष्टेरप्युपकरणत्वाविशेषात्जीवोपकरणनिरूपणपरपादे तत्सृष्टिनिरूपणस्य संगतिः ।एवं समष्टिसृष्टेः परमात्मकर्तृकत्वस्थापनेपि व्यष्टिसृष्टेः तत्कर्तृकत्वंन संभवति । चतुर्मुखजीवकर्तृकतया प्रतीयमानत्वेनैतत्कर्तृकत्वस्यैवसिद्धेरिति शंकयैतदधिकरणोत्थितिः । यद्वा जीवोपकरणभूतेन्द्रियाद्युत्पत्तिनिरूपणे कृते तत्प्रसंगात् जीवस्य तत्संयोगकरणरूपव्यष्टिसृष्टिःनिरूप्यते इति संगतिः ।।संशयमाह - सा किमिति । कर्मेति । क्रियत इति कर्म, कार्यभूतेत्यर्थः ।जीवकर्तृत्वश्रवणादिति । जीवेनात्मनाऽनुप्रविश्येति अनुप्रवेशेजीवात्मनः कर्तृत्वश्रवणात् । क्त्वाप्रत्येन समानकर्तृकत्वावगमात्व्यष्टिनामरूपव्याकरणकर्तृत्वमपि जीवात्मन एव युक्तमिति भावः ।नन्वहं व्याकरवाणीति ब्रह्मण एव व्याकरणकर्तृत्वं प्रतीयते इतिशंकां परिहरति - न हि परेति । शंकते - नन्वेवमिति । अयं भावः । चारेणानुप्रविश्येत्यादौ अनुप्रवेशकर्तृत्वं संकल्पनकर्तृत्वं च चारस्यैव संकलयानीत्युत्तमपुरुषनिर्देशस्तु औपचारिक एव । एवमत्रापि अनुप्रवेशे नामरूपव्याकरणे चजीवात्मविशेषचतुर्मुखकर्तृत्वाभ्युपगमात् व्यकरवाणीति निर्देशः औपचारिक एव स्यात्एवं परमात्मन एव सर्वत्रानु प्रवेशस्य श्रुतिसिद्धत्वात् व्याकरणकर्तुःजीवसमष्टिरूपस्य चतुर्मुखस्यानुप्रलेशायोगात् व्याकरणकर्तृस्थानुप्रवेशरूप क्रियावाचक प्रविशतिरपि लक्षणिक एव स्यादिति । परिहरति - नैवमिति।दृष्टान्तवैषभ्यं प्रदर्शयन् परिहार प्रकारमाहं - तत्रेति। अयं भावःअंशाधिकरणे जीवात्मनः परमात्मांशत्वं निर्णीतम् । तैन च तयोरभेदःसिद्धः ततश्च परमात्मांशभूतजीवकर्तृक प्रवेशव्याकरणं परमात्मन एवेतिन प्रविशतेर्ला क्षणिकत्वं नाप्युत्तम पुरुषानुपपत्तिः । राजचारयोस्तुस्वरूपतएव भेदात् लाक्षणिकत्वंयुक्तमितिनन्वेवं सति परमात्मांशभूतहिरण्यगर्भकर्तृकानु प्रवेशनामरूपव्याकरणयोःहिरण्यगर्भ शरीरकपरमात्मकर्तृकत्वसिध्या तदवस्थब्रह्मकर्तृकैव व्यष्टिसृष्टिरपिइति कथं पूर्वपक्षोदयः इति शंका तु अनुपदमेव परिहरिष्यते । ननुजीवेनात्मनेत्यत्र सहयोगतृतीया विवक्ष्यते । ततश्चपरमात्मन्येवकर्तृत्वप्रतीतिरिति परमात्मकर्तृकैव व्यष्टिसृष्टिरपीत्या शंकामपाकरोति - नचसहयोगेति। पदान्तरसाहचर्यविहितोपपदविभक्तेः पदान्तरपरामर्शसापेक्षतयाविलंबित वृत्तित्वेन पदान्तर योगमनपेक्ष्य कर्तृकरणयोस्तृतीयेतिविहिततृतीयापेक्षया दौर्बल्यात् शीघ्रोपस्थिति विषय कर्तृतृतीयैवावलम्बनीयेति न सहयोतृतीयायाः प्रकृतेऽवकाशः इति भावः । ननु करणे तृतीयाऽस्तु सा च कारकविभक्तिरेवेत्यत्राह - न च करण इति ।साधकतमत्वाभावादिति । ब्रह्मणः अनुप्रवेशे व्याकरणे च स्वत एव कर्तृत्वात् ओदनपाकेकाष्टादीनामिव जीवस्यापेक्षाभावेन करणलक्षणसाधकतमत्वाभावात् न करणतृतीयाःअवकाश इत्याशयः ।ननु श्रुतहानिपरिहाराय प्रवेशे केवलं जीवस्य कर्तृत्वंअहं व्याकरवाणोत्युक्त्या अहमर्थस्य ब्रह्मणः व्याकरणे कर्तृत्वमितिनकश्चिदोषः इति शंकामपास्यति - नच जीवस्येति। ननु जीवस्य परांशत्वेनतत्स्वरूपत्वात् जीवकर्तृकं नामरूपव्याकरणं परमात्मन एवेति पर्यवस्यतीत्यत्राह - जीवस्यस्वांशत्वेनेतिअहमिति प्रत्यक्त्वेन स्वस्य परामर्शः कृतः जीवस्य च अनेन जीवेनेतिनिर्देशात् पराक्त्वेन । तेन च परस्वरूपं साक्षादेव व्यावर्तितम्अतो जीवशब्देन हिरण्यगर्भमात्र प्रतीत्या तस्यैवानु प्रवेशेकर्तृत्वंसमानकर्तृत्वार्थकत्वाप्रत्ययेनच तस्यैव व्याकरणकर्तृत्वमपि । जीवस्यानुप्रवेशकर्तृत्वं न संभवतीत्याशंकायां तु कथं चित् अंशाशित्वेन स्वरूपैक्यादुपपद्यत इति परिहारः कृतः । न तावता परस्यैव व्याकरणादि कर्तृत्वमाशंकनीयम्निर्देशबाधात् । अन्यथा स्वेनात्मनेत्येव निर्देशे सुकरे एवंनिर्देशस्यात्यन्तासंगतत्व प्रसंगादिति भावःउक्तश्रुयुपबृंहण भूतस्मृतिषु चतुर्मुखस्य व्यष्टि सृष्टि कर्तृत्वोक्त्यापिअयमर्थस्सिध्यतीत्याह - अत एवचेति।।नन्वस्तु त्रिवृत्करणं परस्य, तेन नामरूपव्याकरणस्य - चतुर्मुखकर्तृकत्वेकिं बाधकमित्यत्राह - तस्यैवेति । अनेनोपदेशादिति सूत्रखण्डव्याख्यनम्तथोपदेशमेव स्पष्टयति - त्रिवृत्करणं कुर्वत एवेति । उदाहृत श्रुतौव्याकरणकर्तुः त्रिवृत्कर्तुश्चैक्य प्रतीतेः इति भावः । ननूक्तंत्रिवृत्करणमपि चतुर्मुखस्यैवोच्यते अतो न कश्चिद्विरोधइत्यत्राह - त्रिवृत्करणंत्विति।नन्वस्तुत्रिवृत्करणानन्तर मण्डोत्पत्तिः किं तत इत्यत्राह - चतुर्मुखस्यचाण्डे इति। उपसंहरति - अत इति। त्रिवृत्करणस्याण्डसृष्ट्यर्थत्वात्प्रथमं त्रिवृत्कारणं पश्चादण्डसृष्टिःततश्चतुर्मुखसृष्टिरिति स्थिते कथं चतुर्मुख सृष्टि पूर्व भावित्रिवृत्करणस्य तत्कर्तृत्व संभवः । अतस्तस्य परब्रह्मकर्तृत्वमेवत्रिवृत्करणकर्तुरेव नामरूपव्याकर्तृत्वमिति चाविवादं कर्त्रैक्यप्रतीतेःअतो न व्यष्टिसृष्टिश्चतुर्मुखकर्तृकेत्याशयः । ननु व्यष्टिसृष्टेःचतुर्मुखकर्तृकत्वाभावे जीवेनात्मनाऽनुप्रविश्येति तस्यानु प्रवेशकर्तृत्वंतेन व्याकरणकर्तृत्व प्रतीतिश्च कथमिति शंकते - कथं तर्हीति। अहमात्मनेतिनिर्देशेनात्मशब्दस्य स्ववाचित्वात् तस्य च जीवसामानाधिकरण्येन तत्त्वमसीत्यादाविवजीवशब्दस्य जीववाचक परब्रह्मतया जीवशरीरकेण मयाऽनुप्रतिश्येत्यर्थ लाभात् स्वस्यैवानु प्रवेशकर्तृत्वेन व्याकरणकर्तृत्वमपि स्वस्यैवेति सिद्धेः न तादृशश्रुति विरोधः इत्याशयेनपरिहरति - आत्मनो जीवेनेति । एवमभ्युपगमे स्वारस्यमप्यस्तीत्याह - एवं चेति ।भवद्भिः प्रवेशक्रियायाः जीवकर्तृकत्वाभ्युपगमेन तत्संभवायांशाशित्वादिनानिर्वाहः कृतः । अस्माकं तु साक्षादेव परब्रह्मकर्तृकत्वाभ्युपगमात्न क्लिष्टगत्या निर्वाहः इति भावः । क्त्वाप्रत्ययविरोधोपि नास्तीत्याशयेनाह -प्रवेशेति । उपबृंहणमपि न विरुद्धमित्याह - चतुर्मुखशरीरकस्येति । अथत्रिवृत्करणस्वरूपं तस्याण्डसृष्ट्यर्थत्वं नामरूपव्याकरणस्वरूपं चार्थतो दर्शयन् सेयंदेवेतेत्यादि विशिष्टवाक्यस्यार्थमाह - अतइतितेजोऽन्नरूपाइत्यनेन देवताशब्दो विवृतः । त्रिवृत्करणादिस्वरूपंपूर्वमेवा स्माभिर्दर्शितम् । ननु जीवेनात्मनेत्युक्तस्य जीवशरीरकपरमात्मनःअनुप्रवेशकर्तृत्वं न संभवति नामरूपे व्याकरवाणीत्यत्र लकारेण व्याकरणक्रियाकर्तृरभिधानेनतदुपसर्जनभूत प्रवेशक्रियाकर्तृरप्यभिहितत्वेन कर्त्रर्थतृतीयायाअनुपपत्तेः । अनभिहिते इत्यधिकारीयेण कर्तृकारणयोस्तृतीयेत्यनेनकर्त्रनभिधाने एव तृतीयाविधानादिति चेत्सत्यम् । जीवेनात्मनेत्यत्रकरणतृतीयाया अभ्युपगमेव करणत्वस्य चाभिहितत्वाभावेनानु पपत्त्यभावात्न च कर्तुः परमात्मनः कथं करणत्वमिति शंक्यं, कर्तुरेव तस्य विवक्षातः कारकाणिभवन्तीति न्यायेन साधकतमत्वरूपकरणत्वविवक्षासंभवात् । उक्तं -तेनेशस्तद्विशिष्टस्स्वकरणकतयाऽनुप्रवेशेपि कर्ता इति ।।
उत्तरसूत्रमवतारयति - अथ स्यादिति । पूर्वसूत्रनिर्णीतार्थमाक्षिपति - नामरूपेति ।कुत इत्यत्राह - त्रिवृत्करणस्यापीति । नन्वण्डसृष्ट्यनन्तरभाविनश्चतुर्मुखस्यकथं तत्पूर्ववृत्ति त्रिवृत्करणकर्तृत्वशंकेत्यत्राह - अण्डसृष्ट्युत्तरकालंहीति । अण्डसृष्ट्यनन्तरं - चतुर्मुखसृष्टेषु पुरुषेषु त्रिवृत्करणस्यश्रुत्यैव प्रतिपादनात् नत्रिवृत्करणस्याण्ड सृष्ट्यर्थत्वमिति भावः ।एवमण्डान्तर्गताग्न्यादिषु चतुर्मुखसृष्टेषु त्रिवृत्करणप्रकारप्रदर्शनादपि त्रिवृत्करणस्याण्डानन्तर भावित्व निश्चयादपि न तदर्थत्वसंभव इत्याशयेनाह - तथेति । अथ व्यष्टिसृष्टि रूपनामरूपव्याकरणोत्तरंत्रिवृत्करणश्रवणेन पाठक्रमात् नामरूपव्याकरणस्य पूर्वत्वात्त्रिवृत्करणस्य पश्चाद्बावित्वमित्यभ्युपेत्यम् नामरूपव्याकरणस्यचतुर्मुखसृष्ट्यनन्तरभावित्वेन तदनन्तरभावित्रिवृत्करणस्य चतुर्मुखकर्तृकत्वेकाऽनुपपत्ति रित्याशयेनाह - नामरूपव्याकरणोत्तरकालं चेति।अथ सूत्रार्थवर्णनाय पूर्वपेटिकामारचयति - अन्नमशितं त्रेधा विधीयत इत्यत्रेति ।आपः पीताः इत्यत्रापीति । इदं तेजोऽशितमित्यत्रापि अस्थिमज्जयोःपार्थिवत्वाप्यत्वप्रसंगस्याप्युपलक्षणे । इष्टापत्तिं निषेधति - न चैवमिति ।सूत्रार्थमाह - मांसादीति । सूत्रे पुरीषादीत्यनुक्त्वा मांसादीतिसूत्रणात् पुरीषस्य पार्थिवत्वसिध्या दृष्टान्तत्वमभिमतमित्याशयेनपुरीषवदिति - भाषितम् । आदिशब्दार्थो मनः । प्रक्रमादिति निषेधहेतुः ।अतः पुरीषमांसमनांसि इति । अयं भावः । अन्नमशितमित्यादेः न पृथिव्यादिभूतत्रयत्रिवृत्करणप्रदर्शनपरत्वं तथा सति अन्नमशितं त्रेधा विधीयते तस्य यःस्थविष्ठो भागस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योणिष्ठस्तन्मनःइत्यस्य पृथिव्याः त्रिवृत्करण प्रदर्शनपरत्वंआपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्टो धातुस्तन्मूत्रंभवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः इत्यस्य जलस्य त्रिवृत्करणप्रदर्शनपरत्वं, तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमस्स मज्जा योऽणिष्ठस्सा वाक् इत्यस्य तेजसस्त्रिवृत्करण प्रदर्शनपरत्वं च सिध्येत् । ततश्च त्रिवृत्कृतपृथिवीस्थूलांशस्यपुरीषस्य पृथिवीरूपत्वमिव तन्मध्यमांशस्य मांसस्य जलीयत्वं तदणिष्ठांशस्यमनसः तैजसत्वं, त्रिवृत्कृतजलमध्यमांशस्य लोहितस्य जलीयत्वमिव तत्स्थूलांशस्यमूत्रस्य पार्थिवत्वं तदणिष्ठांशस्य प्राणस्य तैजसत्वं, त्रिवृत्कृतेजोऽणिष्ठांशभूतवाचः तैजसत्वमिव तत्स्थूलांशस्यास्थिविकारस्य पार्थिवत्वंतन्मध्यमांशमज्जायाः जलीयत्वं च प्रसज्यते । अत्रिवृत्कृतानां पृथिव्यप्तेजसांक्रमेण स्थूलत्वाणुत्वाणीयस्त्वस्वभावतया त्रिवृत्कृतानामपि तेषांस्थूलांशस्य पृथिवीरूपत्वस्य, मध्यमांशस्याणोर ब्रूपत्वस्य अणिष्ठोंशस्यतेजोरूपत्वस्य चावश्यकत्वात् । एतदभिप्रायेणैवाणुत्वेनाणीयस्त्वेन चव्यपदिष्टयोः कारणानुविधायित्वादिति भाषितम् । तत्र प्रथमे प्रथमविकारस्यपार्थिवत्वं नानिष्टम् । मध्यमे मध्यमांशस्य जलीयत्वमपि तथा अन्त्येअन्त्यस्य तैजसत्वमपि तथैवअतः मांसमनसोः जलीयत्वतैजसत्वे मूत्रप्राणयोः पार्थिवत्वतैजसत्वेअस्थिमज्जयोः पार्थिवत्वजलीयत्वे चानिष्टे । अन्नमशितं आपः पीताःतेजोऽशितमिति तत्र तत्र प्रक्रमबलेन त्रिवृत्कृततत्तद्भूतानांत्रेधा परिणामश्रवणेन पुरीषमांसमनसां पृथिवीविकारत्वस्य मूत्रलोहितप्राणानां अब्विकारत्वस्य अस्थिमज्जावाचां तेजोविकारत्वस्य च प्रतीतेरितिएवमुक्तरीत्या वाच इव मनःप्राणयोरपि तैजसत्वावश्यकतया मनसः पृथिवीमयत्वबोधकवाक्यशेषस्यप्राणस्यापोमयत्व बोधकवाक्यशेषस्य च विरोधस्स्यादित्याह - अन्नमयं हीति ।विरोधमेवोपपादयन्नुपसंहरति - अत इति ।पूर्वपक्ष्युक्तार्थस्य निरस्तत्वेनोदहृत श्रुतेर्यथावस्थितमर्थमाहप्रागेवेति । अथ त्रिवृत्करणस्याण्डसृष्ट्यर्थत्वंनिषेधति - अण्डसृष्टेरिति।नन्वनेन जीवेनेत्यत्र पाठक्रमात् त्रिवृत्करणस्य नामरूपव्याकरणपश्चाद्भावित्वं प्रतीयते नामरूपव्याकरणं च व्यष्टिसृष्टिः साचाण्डसृष्ट्यनन्तरभाविनीतत्कथं त्रिवृत्करणस्य पश्चात्तनस्याण्डसृष्ट्यर्थत्वसंभव इत्यत्रत्रिवृत्करणस्याण्डसृष्ट्यर्थत्व मुपपादयति - अत्रिवृत्कृतानामिति।त्रिवृत्कृतत्वे वा कथं कार्यारम्भसामर्थ्यमित्यत्राह - अन्योन्येति।ननु तत्तद्भूतानां परस्परासंयोगे कार्यारम्भोनदृष्ट इति अन्योन्यसंयोगपेक्षाऽस्तु तेन कथं त्रिवृत्करणस्यावश्यकतेत्यत्राह तदेव ते चेति ।अन्योन्यसंयुक्तत्व मेवत्रिवृत्करणमित्यर्थः । अथ कार्यारम्भायसप्तीकरणापेक्षाया एव स्मृत्युक्तत्वात् त्रिवृत्करणस्य कैमुत्यन्यायेनापेक्षायांका कथेत्याशयेनाह - तथा चेति । परस्पर समाश्रयाः = विभागार्हसंयोगवन्तःअन्योऽन्यसंयोगं समेत्य = विभागानर्हसंयोगं प्राप्येत्यर्थः ।अतो नपौनरुक्यम् । महदाद्याः विशेषान्ता इत्यनेन सप्तीकरणमुक्तम्एवं पञ्चीकरणमप्यन्यत्र प्रसिद्धम् । श्रुत्युक्त त्रिवृत्करणमेतदुभयोपलक्षणमिति ध्येयम् । अथ पाठक्रमविरोधः अग्निहोत्रं जुहोतियवागूं पचतीत्यादाविव परिहार्यः इत्याशयेनाह - अत एव चेति ।अत एव = त्रिवृत्करणस्याण्डसृष्ट्यर्थत्वस्य स्थापितत्वादित्यर्थः ।यद्यपि फलं पश्चाद्भावि साधनं तु पूर्वभावीति तथैव निर्देष्टुंशक्यं, अथापि संकल्पे फलमेव पूर्वं भावि, साधनं तु पश्चाद्भावि ।स्वर्गका मो यजेत इति हि व्यपदेशः । वेदान्तेऽपिहि बहुस्यां प्रजायेयइति हि बहुभवनस्य फलस्य पूर्वंनिर्देशः श्रूयते । तस्मादनेन जीवेनेत्यत्रापिफलरूपस्य नामरूपव्यापकरणस्य पूर्वप्रतिपत्त्यर्थं प्रथमं निर्देशः इति नासंगतंकिचिदित्याशयः । ननु त्रिवृत्करणस्याण्डसृष्ट्यर्थत्वे कथमण्डान्तर्वर्त्यग्न्यादिषु त्रिवृत्करणप्रदर्शनं योयुज्यते इत्यत्राह - अण्डान्तर्वर्तिष्विति ।शुश्रूषोः श्वेतकेतोः अण्डान्तवेर्तित्वेनाण्डन्तर्वर्तिषु तेषु त्रिवृत्करणप्रदर्शनमित्यर्थः । नन्वस्तु शुश्रूषोरण्डान्तर्वर्तित्वं, तेन कथमण्डान्तर्वर्तिषु त्रिवृत्करणप्रदर्शनस्य युक्ततेत्यत्र हेतुं प्रदर्शयन्नुपपादयति -तस्येति । बहिष्ठवस्तुषु = अण्डबहिष्ठवस्तुष्वित्यर्थः ।।
उत्तरसूत्रशंकामाह - स्यादेतदिति । नात्र त्रिवृत्कृतभूतानां त्रेधापरिणामःउच्यते तथासति एकैकस्यापि त्र्यात्मकत्वेन पृथिव्यादिशब्देनव्यपदेशासंभवादितिभावः । वैशेष्यशब्दं व्याचष्टे - वैशेष्यमिति। विशेषस्य भावः वैशेष्यम्विशेषशब्दस्य धर्मपरत्ववत् धर्मिपरत्वास्यापिदृष्टत्वादत्र धर्मिपरःततश्च विशेषभावः इत्यर्थः आधिक्यमिति यावत् । अन्नादिशब्दव्यपदेशस्योपपत्तिमाह - एकैकस्मिन्निति।द्विरुक्तेः प्रयोजनमाह - द्विरुक्तिरिति ।नन्वेतावता अनेन जीवेनेत्यत्र जीवसमष्टिभूतचतुर्मुखशरीरकब्रह्मपरतयाजीवशब्दोव्याख्यातः । एवं च सर्वशब्दानां तत्तच्छरीरक जीवद्वारापरमात्मपर्यन्तत्व मभिमतं नसिध्येत् तदनुप्रविश्य सच्चत्यच्चाभवदित्यनेनभगवतः संर्वचेतनाचेतनयोरनुप्रवेशे सिद्धेपि जीवानामचेततानु प्रवेशस्यासिद्धत्वात्,अत्रत्यजीवशब्दस्यच चतुर्मुखमात्र परत्वेन तस्यैव सर्वाचेतनानुप्रवेशसिद्धेः । एवं सर्वशरीरेऽपि चतुर्मुखस्यैवावस्थानात् एकजीववादएव प्रसजति । सर्वजीवानां चतुर्मुखाख्यजीवव्याप्यत्वं वाप्रसज्यतइति । उच्यते । अत्रत्य जीवशब्दः न चतुर्मुखमात्र विषयःकिं तु जीव समष्टिविषयः । ततश्च जीवसमष्टि शरीरकब्रह्मपरतया जीवसमष्ट्यन्तर्गतानांसर्वेषा मेवजीवानां तत्तदचेतनानुप्रवेशसिध्यान तत्तच्छब्दानां ब्रह्मपर्यन्तत्वहानिःअत एव हि - अनेन जीवेन=जीवसमष्टि विशिष्टेनात्मनाऽनु प्रविश्यनामरूपेव्याकरवाणिःदेवादि विचित्र सृष्ठि तत्तन्नामधेयानिच करवाणीतिसामान्येन एतच्छुत्यर्थ उक्तः । एवं बहुस्थले जीव शब्दं जीवसामान्यपरतयैवव्याख्याय जीवद्वारा अचेतनेषु ब्रह्मंणः अनुप्रवेशश्चोक्तः । संशयकोटिनिक्षेपावसरेजीवसमष्टिरूपस्य हिरण्यगर्भस्य कर्मेतिभाषणंतु समष्टि सृष्टेः प्रस्तावात्तदनन्तरभाविदेवादिव्यष्टि सृष्टेरव प्रसक्त्या तस्य च चतुर्मुखमात्रकर्तृकत्वसन्देहादुपपन्नं ।न ह्यद्यतनघटादिव्यष्टिसृष्टिः चतुर्मुखकर्तृका न वेति संशयः कस्यचिज्जायतेएवं देवादिव्यष्टिसृष्टेः हिरण्यगर्भशरीरक ब्रह्मकर्तृकत्वस्थापनेनदेवादि तत्कार्य सृष्टेरपि तत्तत्कुलालादि जीव शरीरकपरब्रह्मकर्तृत्वमपिस्थापितं भवति । जीवशब्दस्य सामन्यतः जीवसमष्टि विशिष्टार्थक व्याख्यानावसरेदेवादिविचित्रसृष्टिरित्यनेन सर्ववस्तुसृष्टिरेव विवक्षिता ।आदिशब्दोपादानात् । एतेन सर्वजीवानां चतुर्मुखव्याप्यत्ववादः सर्वशरीरेषुचतुर्मुखजीवैक्यवादश्च निरस्तः ।। जीवशब्दस्य जीवसामान्यपरत्वमभ्युपगम्यतद्वारा ब्रह्मणः सर्वत्रानु प्रवेशाभ्युपगमेन तत्तच्छरीरेषु तत्तज्जीवानामेवावस्थितेःइति । एतदधिकरणविशेषविचारः अस्मदीये ब्रह्मसूत्रविमर्शे विस्तरेण प्रदर्शितः ।तत्रैव द्रष्टव्यः ।। इदमत्र तात्पर्यं - शरीरं चतुर्विंशतितत्वमयम्त्रयोदशै तत्त्वै शरभ्यते च । तस्मिन् एकादशेन्द्रियाणि निक्षिपतिततानि चेन्द्रियाण्यधिष्ठाय कार्यकरोति जीवः । अस्येन्द्रियाधिष्ठातृत्वंनामस्पृश पश्य शृणु इत्येव इन्द्रियाणि प्रवर्तयति तत्तत्कार्येषुएवं प्रवृत्तिकर्तृत्वमेवाधिष्ठानम् । एवमिन्द्रियाधिष्ठातृत्वरूपव्यापारविनाशरीरद्वारा बाह्यविषये व्यापरणकाले जीवस्य कर्तृत्वं परमात्माधीनंइत्यत्र न सन्देहः शरीरेन्द्रियाद्यधिष्ठानविषये अस्यैव स्वातान्त्र्येणकर्तृत्वमस्तुएवमेवैषः एतान्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्ततेइति श्रुतिरपि अमुमर्थं बोधयति । स्वभोगसाधनेन्द्रियाधिष्ठातृत्वंच लोकसिद्धमपि । नच तत्तत्कर्मविशेषाधीनत्वेन जीवस्य शरीरेन्द्रियाद्यधिष्ठातृत्वरूपफलप्रदानकर्तुःपरस्य सर्वदा अन्तःप्रविष्टः इति रीत्या अन्तः स्थित्वा प्रवर्तकत्वस्यसिद्धत्वेनकथं जीवस्य स्वातन्त्र्य संभवः शरीर द्वारा वस्त्वन्तरव्यापरणमपिइन्द्रियादिप्रेरणं विनानान्यत् किंचिदस्ति ।इति वाच्यम् । एवमपिजीवस्येन्द्रियाधिष्ठातृत्वस्येव अन्यादीनामपि इन्द्रियाधिष्ठातृत्वस्यस्वीकारात्तत्र तेषां स्वातन्त्र्येणाधिष्ठातृत्वमस्तु । देवतानां चक्षुराद्यधिष्ठातृत्वंनाम जीवप्रवृर्त्येन्द्रियाणां तत्तद्ध्यापारानुगुणशक्ति संपादकत्वमेवइदं च देवताः भगवन्तमाराध्य अलभन्त । ईश्वरदत्तैश्वर्यमिदम् ।अतः ईश्वरवत् वरदायित्व फलप्रदत्वसंभवात् एतदधिष्ठातृत्वं परायत्तंमाभूत् ।दातृनिकटे अमोधैश्वर्यं प्राप्तवतः तन्मूलं कार्यकरणे नदातृनियमनापेक्षा स्वतन्त्र एव स करोति । एवमत्रेश्वरस्यापि प्रवर्तकत्वेइन्द्रियाद्यधिष्ठातृत्वं जीवस्य, अभिमानिदेवतायाः ईश्वरस्यचेतिअधिष्ठातृत्रयं कल्पनीयम् । मनुष्यविषये इन्द्रियाधिष्ठातृत्वस्यपरमात्मायत्तत्वेपि अभिमानि देवतानां आराधितेश्वरप्रत्तैश्वर्याणांविषये तदधिष्ठातृविषये परापेक्षा मास्तुमनुष्यादिभ्यो विशेष सत्वात् इति पूर्वपक्ष्याशयः ।सिद्धान्तसारस्तु - देवस्यापि मनुष्यवत् भगन्नियाम्यत्वस्य सर्वदासत्वात् । स ईशोऽस्य जगतः नित्य एवेत्यविशेषात् देवतापद प्राप्तेःपूर्वं यथा भगवन्नियाम्यत्वं तथैव तदन्तरमपि तन्नियाम्यत्वस्यानपायात्परायत्तमेव देवतानामपि तदधिष्ठातृत्वम् । जीवानामिन्द्रियाधिष्ठातृत्वेसत्यपि कदाचित् देवतानुग्रहाभावे कार्यकरं न भवतीति दृष्टमस्माकम्एवमेव देवतानां निरुक्ताधिष्ठातृत्वं भगवदनुग्रहाभावे कार्यकदंन भवति । इदं च केनोपनिषदि प्रसिद्धम् तत्र हि यक्षनिकटे तृणविषयेअग्निवाय्वादयः स्वस्वकार्यकरणासमर्थाः इति प्रसिद्धम्यथा मनुष्याणां तत्तच्छरीरेन्द्रियाधिष्ठानं तथा देवानामपि स्वस्वशरीरेन्द्रियाधिष्ठानसत्वात्तत्र भगवन्नियाम्यत्वानपयात् । अतो भगवता देवानामैश्वर्य प्रदानेपिस्वाधिकार परित्यागपूर्वकं दानादिष्विव न स्वाधिकारं त्यजति न केवलमिन्द्रियाधिष्ठानविषयेइन्द्रशिवचतुर्मुखपदवीप्रदानविषयेपि न भगवान् स्वायत्तत्वं परित्यजति ।।श्रीमते रामानुजाय नमः । तृतीयाध्याये प्रथम पादः ।