32 इन्द्रियाधिकरणम्

(2.04.07) इन्द्रियाधिकरणम्अत्रोक्तानां सर्वेषामपि प्राणानामिन्द्रियत्वमुत नेति विचार्यनिर्धार्यते । संशयनिर्देशपुरस्सरं पूर्वपक्षमाह - किमिति । अयंभावः - इन्द्रियाणां च चक्षुरादीनां प्राणशब्दवाच्यत्वं दृष्टम् ।मुख्यप्राणेपि प्राणशब्दवाच्यत्वाविशेषात् इन्द्रियत्वमावश्यकम् ।एवं जीवोपकारकत्वमिन्द्रियाणां स्वभावः स च मुख्यप्राणे बहुलमेवोपलभ्यतेअतोऽपीन्द्रियत्वम् । इन्द्रियेषु मुख्यः प्राण इति मुख्यत्वव्यपदेशादपितथात्वमिति । सिद्धान्तमाह - इति प्राप्त इति । सूत्रार्थमाह - श्रेष्ठव्यतिरिक्ता इति । तच्छब्दार्थं तद्व्यपेदशं च प्रदर्शयन्नुपसंहरति(चक्षुरादिष्विति?) ।।

उत्तरसूत्रार्थमाह - एतस्मादिति । इन्द्रियत्वमवगम्यत इति । प्राणस्यापीन्द्रियत्वेसर्वेन्द्रियाणि चेत्यनेनैव तस्यापि ग्रहणसंभवेन प्राण इत्यस्य पौनरुक्त्यापत्तेरिति भावः । ननूक्तयुक्त्यैव मनसोपीन्द्रियत्वं त्यज्यतां स्वीक्रियतांवा प्राणस्येन्द्रियत्वमित्यत्र वैषम्यमाह - मनस इति । मनःषष्ठानीन्द्रियाणीत्यत्रविप्रोऽर्धपंचमानित्यत्रेव मनः षष्ठं येषामिति व्युत्पत्त्या इन्द्रियाणांमनसा षट्त्वपूर्तिकथनात् मनसः इन्द्रियत्वं युक्तमेव । अत एव हि - इन्द्रियाणांमनश्चास्मीति भगवद्वचनमप्युपपद्यते । प्राणस्येन्द्रियत्वं तु न कुत्रापि ।अतः श्रुतहानिपरिहाराय इन्द्रियत्वावश्यकतया ब्राह्मणपरिब्राजकनयेनपौनरुक्त्यं परिहार्यमिति भावः । यत्तु मनस इन्द्रियत्वाभावेऽपिमनष्षष्ठानीन्द्रियाणीति संगतमेव । अत एव भारतस्य वेदत्वाभावेपिवेदान् भारतपंचनान्" इत्युच्यते । अत एवहि व्यासः पञ्चमाम्नायदर्शित्वेनतत्र तत्र गण्यते । इति तन्मन्दम् । सर्वथा निर्वाहासंभवस्थले अन्यथोपपत्तिसंभवेपि अत्रेन्द्रियत्वेनैव मनसो निर्वाहे अन्यथानयस्यासंगतत्वात्भारतस्यापि वेदतुल्यत्वेन वेदत्वात् तत्रापि स्वरसतयैव निर्वाहाच्चइन्द्रियाणि दशैकं इतीन्द्रियत्वकण्ठोक्तेस्तावतापि च “इन्द्रियाणांमनश्चास्मि इत्यस्य अपरिहार्यत्वात् ।अथेन्द्रियवैलक्षण्यादपि न प्राणस्येन्द्रियत्वमित्याशयेनाह - वैलक्षण्यंचेति । कथं वैलक्षण्यस्योपलब्धिः कुत्रचेत्यत्राह - सुषुप्तावितिअनेन वृत्त्युपलम्भवैलक्षण्यं दर्शितम् । अथ कार्यवैलक्षण्यमाह - कार्यंचेति ।प्राणाधीनधारणत्वादिति। अनेनेन्द्रियेषु प्राणशब्दव्यपदेशोलाक्षणिक एव, प्राणेतु स मुख्य इति प्राण शब्द प्रवृत्ति निमित्तवैलक्षण्यंचदर्शितम् । प्राणशब्दवाच्यत्वमात्रेणेन्द्रियत्वशंका तु न युक्तातथा सत्यक्षशब्दवाच्यतामात्रेण विभीतकादीनामपि इन्द्रियत्वापातात्ततनैवेन्द्रियाणां वृक्षविशेषत्वापताच्चउपकरणत्वरूप हेतुर प्रयोजकः । अनिन्द्रियत्वेपि उपकरणत्व संभवात्तथाभावस्य श्रुतिप्रमितत्वाच्च । एवं सात्विकाहं कारविकृतित्वरूपोन्द्रियलक्षणस्यमनसीव प्राणेऽभावाच्च नेन्द्रियत्वशंकेति बोध्यम् । ब्राह्मणानांमध्ये एव कश्चित् मुख्यब्राह्मण इत्युक्तौ ब्राह्मणत्वं मुख्यत्वंच यथा प्रतीयते एवं “य एवायं मुख्यप्राण इत्युक्तौ प्राणशब्दवाच्येषुअस्य प्राणस्य श्रेष्टस्य मुख्यत्वोक्तेः इन्द्रियत्वमवगम्यते इतिपूर्वपक्ष्याशयः । सिद्धान्ते मुखेभवत्वं मुख्यत्वमित्यर्थ स्वीकारात्न दोषः । अत एव “अथ हेममासन्यं प्राण मुचु इत्युच्यतेतत्र हि आस्ये भवः आसन्यः इत्यर्थः । आस्यशब्दस्य” पद्दन्नोमास्इति आसन्नादेशः । नच मुख्यत्वरूपप्रधानार्थकत्वाभावे कथं “श्रेष्ठश्च” इति सूत्रविन्यासः इति वाच्यम् । प्राणसंवादे मुख्योऽभिधेयःइत्यर्थात् प्राणः प्राणशब्दस्य मुख्योऽभिधेयः इत्यर्थात् । अन्येप्राणाः इन्द्रियाणि न मुख्यार्थाः । अपि तु लक्षणयैव प्राणशब्देनाभिधीयतेइत्यर्थः । “त एतस्यैव सर्वे रूपमभवन् तस्मादेते एतेनाख्यायन्ते । इतिश्रुतिस्वारस्यं च ।। इन्द्रियाधिकरणं समाप्तम् ।