(2.04.06) ज्योतिराद्यधिष्ठानाधिकरणम् ।संगतिमाह - सश्रेष्ठानामिति । श्रेष्ठः = मुख्यप्राणः । प्राणानां = इन्द्रियाणाम्इयत्ता = संख्या । परिमाणं = संख्यातानां प्रत्येकं परिमितिः । पूर्वपक्षसंघटनायप्रथमतः विषयशोधनमाह - तेषामिति । “अग्निर्वाग्भूत्वा मुखं प्राविशत्,आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत् । वायुः प्राणो भूत्वानासिके प्राविशदि"त्यादिभिः वागाद्यभिमानिदेवतात्वेनाग्न्यादीनामनुप्रवेशबोधनात् इन्द्रियादीनां अग्न्यादिदेवताधिष्ठितत्वसिद्धिरितिभावः । अनेन अग्न्यादिदेवतानां इन्द्रियाद्यधिष्ठातृत्वमुक्तंभवति । अथ जीवस्यापीन्द्रियाधिष्ठातृत्वं लोकश्रुतिसिद्धमित्याह - जीवस्य चेति ।पूर्वपक्षमाह - तदिदमिति । प्राणविषयमिति । प्राणशब्दः इन्द्रियमुख्यप्राणपरःइदं शरीरस्याप्युपलक्षणम् । अयं भावः । सामान्येन सर्वेषामेव चेतनानांज्ञानचिकीर्षा प्रयत्नादि प्रदानेनेश्वरः स्वातन्त्र्यमापादयतिअतश्च तद्दतस्वातन्त्र्याः जीवाः करणकलेबराद्यधिष्ठाने स्वयमेवप्रवर्तन्ते इत्येव युक्तम् । तस्मात् भोक्तृजीवादिकर्तृकं अग्न्याद्यभिमानिदेवताकर्तृकंच प्राणाद्यधिष्ठानं राजसामन्तनयात् स्वायत्तमेति ।सिद्धान्तमाह - इति प्राप्तइति ।प्राणवतेति सहयोगे तृतीयेत्याशयेनजीवेन सहेत्युक्तम् । तच्छब्दः बुद्धिस्थ परामर्शीत्यभि प्रेत्य - तस्य=परमात्मनः=इतिव्याख्यातम् । शब्दादिति सूत्रखणुं व्याचष्टे - इन्द्रियाणामिति ।परमपुरुषसंकल्पायत्तत्वशास्त्रमुदाहरति - यथेति । एवं शरीरत्व बोधकान्तर्यामिश्रुतिमुदाहृत्य अग्न्यादिदेवतानां विशिष्य परमात्मायत्त स्वकार्य कर्तृत्वबोधकश्रुतिमुदाहरति - यथा च भीषेति ।।
उत्तरसूत्रार्थमाह - सर्वेषामिति । अग्न्यादिस्वरूपसत्तैव परमात्माधीना चेत्तत्कर्तृकेन्द्रियाधिष्ठाने का कथेति भावः । तस्येत्यस्य व्याख्यानं सर्वेषांपरमात्माधिष्ठितत्वस्येति । नित्यत्वादिति व्याख्येयम् । स्वरूपानुबन्धित्वेननियतत्वादिति व्याख्यानम् । पूर्वसूत्रे इन्द्रियाद्यधिष्ठानस्य परायत्तत्वमात्रंस्थापितम् । तच्च देवतादिस्वरूपस्य स्वतस्सिद्धत्वेऽप्युपपद्यते ।अत्र स्वरूपसत्तायाः तदधीनत्वं तेन तत्कर्तृकाधिष्ठानस्य परायत्तत्वं चस्थाप्यव इति भिदा । सर्वचिचिद्वस्त्वनुप्रवेशः स्वरूपानुबन्धी श्रूयते इति ।अयमाशयः - सर्वेषामपि जीवानामीश्वरशरीरत्व बोधनात् शरीरस्य च नियताधिष्टेयत्वात्नियतविधेयत्वात् नियतशेषत्वाच्च जीवानां नियमेनेश्वर परतन्त्रत्वामवश्यकम्अत एव हि जागरावस्थायामिव सुषुध्यवस्थायामपि ईश्वरप्रेरित जीवस्योच्छ्बासादौप्रवृत्तिः अन्यथा सुषुप्तस्योच्छ्वासाद्यभाव प्रसंगात् । तस्मान्नस्वातन्त्र्य गन्धस्य मनागप्यवकाशः । एतेन राजसामन्तनयोऽपि प्रकृतेनिरस्तः । उच्छ्वासनिश्वासचिन्तितनिमिषितादिस्वकार्येषु स्वतन्त्राएव सामन्ताः=राजाज्ञामनुवर्तन्ते । अत्रतु सर्वदा सर्वत्रे श्वरपरतन्त्रत्वात्न क्वचिदपि स्वातन्त्र्यम्स्वशक्यविषये जीवस्य प्रभुत्वोक्तिरपि परमात्मपरतन्त्रत्वेन प्रयोज्यकर्तृत्वाभिप्रायैवतत्रापि ईश्वरस्यैव प्रयोजककर्तृत्वादिति । यद्यपि परात्तु तच्छुतेरित्यनेनैव सर्वेषामपि चेतनानां स्वस्वकार्येषु परमात्माधीन कर्तृत्वंसाधितम् । अतस्तेनैवनयेन जीवाग्न्यादि देवता कर्तृकेन्द्रियाधिष्ठनस्यापिपरायत्तत्वं सिद्धमेव । अथापि चेतनानां स्वरूपसत्तायाः तत्तत्कर्तृकाधिष्ठानस्य चपरायत्तत्वबोधनेन राजसामन्तनयव्यवच्छेदमुखेन पूर्वोक्तार्थ स्थिरीकारणायैतदधिकरणप्रवृत्तिः । अत एव भाष्यकृतैव संज्ञामूर्तिक्लृप्त्यधिकरणारम्भेजीवानां स्वेन्द्रियाधिष्ठानं च परायत्तमिति इति च, अनन्तरं स्थिरीकरणायस्मारितं, इति स्वयमेव भाषिष्यते इति ध्येयम् ।।ज्योतिराद्यधिष्ठानाधिकरणं समाप्तम् ।।