30 श्रेष्ठाणुत्वाधिकरणम्

(2.04.05) श्रेष्ठाणुत्वाधिकरणम् ।श्रेष्ठश्चेत्यनेन मुख्यप्राणस्य तुल्यन्यायसिद्धं ब्रह्मकार्यत्वंप्रतिपादितम् । न वायुक्रिये इत्यनेन तत्स्वरूपविशेषनिर्णयः कृतः ।अधुना तस्याणुत्वमपि तुल्यन्यायसिद्धमुपपादयति - अणुश्चायमिति ।नन्वस्याणुत्वं जीवाक्षन्यायादेव सिद्धं तत्किमिति तदर्थमधिकरणान्तरमितिशंकापरिहारायाधिकाशंकामाह - अधिकेति । लोकत्रयसाम्यकीर्तनात् अस्मिन्सर्वस्यापि प्रतिष्ठितत्वश्रवणात् सर्वस्याप्यनेनावृतत्वश्रवणाच्चविभुत्वशंकेत्यर्थः । उत्क्रान्त्यादि श्रवणादिति । श्रुतोत्क्रान्त्यादेःअणुत्वं विनाऽन्यथोपपत्त्यसंभवात् परिच्छिन्नत्वनिश्चये अन्यथासिध्यर्हविभुत्ववादस्यान्यथानयनमेव कार्यमित्यर्थः ।प्राणापानव्यानोदानसमानरूपेण नागकूर्मकृकरदेवदतधनञ्जय रूपेण दशधा विभक्तस्यमुख्यप्राणस्य प्राणिजातादिधारणाद्यनल्पोपकारकत्वातिशयात् तदभिप्रायेण स्तुतिपरा सर्वसाम्यादिपरश्रुतिरिति नेयम् । तथा प्राणाइति सूत्रे पूर्वपक्षोत्थानाविशेषेऽपि श्रुतौ प्राणशब्दस्य परमात्मपरतयाअर्थनिर्णयः कृतः । अणवश्चेति सूत्रे आनन्त्यश्रवणस्य उपासनार्थतयानिर्वाहः कृतः । श्रेष्ठश्चेति सूत्रे उत्पत्तिमत्वनिश्चयेन श्रुतेःब्रह्मास्तित्वमात्रबोधकतया निर्वाहः, अत्र चानन्त्यश्रवणस्य स्तुतिपरतयानिर्वाहः इति भेदः । सिद्धान्तिपरामर्शे वस्तुतो विभुत्वशंकाअतिमन्देति सूचनाय विभुत्ववादोपपत्तिरित्यनुक्त्वा वैभववादोपपत्तिरित्युक्तम् ।श्रेष्ठाणुत्वाधिकरणं समाप्तम् ।।