(2.04.04) वायुक्रियाधिकरणम्एवं श्रेष्ठप्राणस्योत्पत्तिमत्त्वं निरूपितम् । अत तत्स्वरूपं निरूप्यते ।इति विशय इति । श्रुतिलोकप्रसिद्धिपृथगुपदेशादिबलात्संशयः इति भावः । अथ तस्यवायुरूपत्वे श्रुतिमाह - यः प्राण इति । प्राणत्व प्रसिध्यभावात् = लोकप्रसिध्यभावादितिभावः । अस्मिन्पक्षे यः प्राणस्स वायुरिति व्यपदेशः औपचारिकः इत्याशयः ।क्रियायां लोकप्रसिद्धिरस्तीत्याह - उच्छ्वासेति । सिद्धान्तमाह - इतिप्राप्त इति । क्रियाशब्द साहचर्येण वायुक्रियापरः इत्याशयेन - तक्रियेत्युक्तम्न वायुमात्रं नापि तत् क्रिया किंतु मुख्यप्राणः इत्यर्थः । अवस्थान्तरापन्नवायुरूपत्वस्य प्राणस्य सिद्धान्ते वक्ष्यमाणत्वात् मात्रपदं"एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च खं वायुरिति" वायुप्राणयोःपृथगुपदेशात् न मुख्यप्राणस्य वायुरूपत्वमित्यर्थः । अथ तत्क्रियात्वनिषेधेपिसूत्रोक्तं पृथगुपदेशरूपहेतुं योजयति - तत एवेति । ननु स्वस्पैक्येपृथगुपेदेशोऽनुपपन्नः । न तु प्राणस्य क्रियारूपत्वेपि । वस्तुतःस्वस्य पृथक्त्वादित्यत्र सूत्रोक्तं हेतुं घटयति - न हीति । यदि मुख्यप्राणस्य वायुक्रियारूपत्वं तर्हि पार्थक्येन तदुपदेशो व्यर्थःएव । वायूपदेशेनैव तत्क्रियोपदेशस्यापि सिद्धप्रायत्वात् । अन्यथातेज आद्युपदेशेपि तत्तत्क्रियोपदेशस्याप्यावश्यकत्वापत्तेःननु द्रव्योपदेशप्रकरणत्वात् न तत्तक्रियायाः उपदेशो युक्तः इतिचेत्? किं त्वं वायुक्रियां द्रव्यमभिमन्यसे । अतः द्रव्यप्रकरणपठितत्वात् तत्तत्क्रियायाः पृथगनुपदिष्टत्वाच्च वायुना सहोपदिष्टस्यप्राणस्य वायुरूपत्वमिव तत्क्रियारूपत्वमपि न योयुज्यते इति भावः ।ननूभयनिषेधे तृतीय पक्ष एव युक्त इत्यवशिष्यते सोऽप्ययुक्तइत्येवाभाति । श्रुति लोकप्रसिद्धिविरोधात् इत्यत्राह - यः प्राण इतियो घटः सा मृदित्युक्ते हि घटस्य न तत्त्वान्तरत्वप्रतीतिः नापिअवस्थान्तरापन्नमृदः घटत्वाप्रतीतिः तद्वदत्रापीति भावः । प्राणस्स्पन्दते इति ।स्पन्दत इत्यनेन हि क्रियाश्रयत्वमेव प्राणे प्रतिपन्नं न तु क्रियारूपत्वम्अतो लोकप्रसिद्धिरपि क्रियारूपत्वे नास्तीत्यर्थः ।।
उत्तरसूत्रमवतारयति - किमयमिति । वायुत्ववायुक्रियात्वाभावेपि तत्त्वान्तरत्वंस्यात् यथाऽऽकाशविकारस्य वायोस्तत्त्वान्तरत्वं तद्वत् । तत्त्वपरिगणनेपठितत्वाच्चेत्याशयः । चक्षुरादिवत्तु इति सूत्रखण्डं तद्वलसिद्धपदाध्याहारेणव्याचष्टे - नायमित्यादिना । कुतः उपकरणत्वमित्यत्र सूत्रांशमाह - तच्चोपकरणत्वमिति । सहशिष्टिबोधकश्रुतिबाहुल्यमभिप्रेत्य प्राणसंवादादिष्वित्यत्रादिपदंबहुवचनं च । अस्तु प्राणस्य चक्षुरादिना सहशिष्टिः किं तत इत्यत्राह - तत्सजातीयत्वे इति । अयं भावः । अग्र्यप्रायन्यायात् चक्षुरादिबहुलोपकरणैः सहपठितस्यअस्यापि उपकरणत्वं युक्तं, एवं प्राणसंवादे अस्य चक्षुरादिभ्योपि मुख्यत्वबोधनात् अस्याप्युपकरणत्वमेव युक्तं, सजातीयेष्वेव मुख्यामुख्यत्वयोर्युक्तत्वादिति । सूत्रोक्तादिशब्दमाह - प्राणशब्देति ।अत्र करणानां प्राणशब्दवाच्यत्वं श्रेष्ठप्राणस्य मुख्यत्वं च बोधितमितिप्राणस्यापि उपकरणत्वमावश्यकमिति भावः । ततश्च चक्षुरादिवदस्याप्युपकरणत्वाविशेषात् न तत्त्वान्तरत्वसंभवः । कथं तर्हि वायुविकारत्वमिति चेत् वायुत्वावस्थाऽपरित्यागेन तदुपपत्तेः । यथा च वायुत्वावस्थापरित्यागेन तेजस्त्वावस्थाप्राप्तिरेवं वायुत्वावस्थापरित्यागेन प्राणत्वावस्थाप्राप्त्यभावेन नतत्त्वान्तरत्वसंभवः । भूतत्वाप्रहाणेन शरीरत्वावस्थावत् वायुत्वाप्रहाणेनजीवोपकरणस्वरूपावस्थान्तरस्य संभवेन विकारत्वम् ।अयमेव विकारः यः प्राणस्स वायुरिति श्रुत्या चोच्यत इति । तत्त्वपरिगणनमपिनास्ति । इन्द्रियादिना सहपाठादिति ।।
अथ चक्षुरादिकरणवैषम्यशंकापरिहारकमुत्तरसूत्रमवतारयति - चक्षुरादिवदिति ।अकरणत्वाच्चेति सूत्रखण्डस्य न दोष इत्यनेनान्वयभ्रमव्युदासाययो दोष उद्भाव्यते इत्युक्तम् । उक्तं शरीरेन्द्रियधारणप्रकारमुपपादयन्नुपसंहरति - अत इति । “हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः ।उदानः कण्ठदेशस्थः व्यानस्सर्वशरीरगः” इत्युक्तेरिति भावः ।एवमवस्थायोपकारं कुर्वतः मुख्यप्राणस्य कथमुपकरणत्वनिषेधः ।चक्षुरादिभ्योप्यधिकोपकारकत्वात् इत्याशयः ।।
सूत्रोक्तदृष्टान्तमुपपादयति - यथेति । कुत इत्यत्र श्रुतिमाह - काम इति ।कामः इच्छादि । चिकित्सा संशयः । श्रद्धा = त्वरा । धीः = चिन्ता ।अत्र कामादीनां ज्ञानावस्थाविशेषरूपत्वात् तत्तदवस्थज्ञानहेतुत्वेनमनसः तत्तच्छब्देन व्यपदेशः । दार्ष्टान्तिके उक्तार्थमतिदिशति - एवमिति ।ननु वचनबलात् दृष्टान्ते उक्तोऽर्थः उपपन्नः अत्र नतु तादृशवचनमुपलभ्यतेइत्यत्राह - प्राणोऽपान इति ।। वायुक्रियाधिकरणं समाप्तम् ।