28 प्राणाणुत्वाधिकरणम्

(2.04.03) प्राणाणुत्वाधिकरणम् ।एवमेकादशेन्द्रियाणीति निरूपितम् । अथैतेषामणुत्वं स्थाप्यते । विभुत्वमिति ।आनन्त्यस्य देशकालवस्त्वपरिच्छेदरूपत्वेऽपि इदमिदं न भवतीति वस्त्वपरिच्छेदस्यासंभवात् उत्पत्तिमत्त्वस्थापनेन कालापरिच्छेदस्याप्यसंभवात् देशापरिच्छेदरूपंविभुत्वं युक्तं, अस्येन्द्रियस्येदं परिमाणमिति विशेषपरिमितिनियमावचनाच्चेतिपूर्वपक्ष्याशयः ।। उत्क्रान्त्यादिश्रवणादिति । ननूक्तोत्क्रान्तिरूपो हेतुरन्यथासिद्धः । जीवोत्क्रान्तेरिव प्राणोत्क्रान्तेरपि शरीरवियोगरूपत्वसंभवात् । न च विभुत्वे शरीरसंयोगस्याप्यावश्यकत्वेन कथं तद्वियोगसंभवःजीवस्यतु विभुत्वेपि शरीरस्वामित्व निवृत्त्या तावतोत्क्रान्त्युपपत्तिस्सुवचा,नहि तद्वत् प्राणानां स्वामित्वनिवृत्तिर्युक्ते तिवाच्यम्इन्द्रियाणां कार्यकरत्वापादक शरीर संयोगस्य पूर्वं स्थितस्य शरीरवियोगसमयेऽभावेनविभुत्वेऽप्युत्क्रान्त्युपपत्तेरिति चेत् न देशान्तरगमनस्य पुनरागमनस्यचतथाप्यनिर्वाहात् । एतत्सूचनायैव भाष्ये आदिपदोपादानम् । अत्रेन्द्रियाणामणुत्वंपरिच्छिन्नत्वे सति स्वच्छत्व रूपोपलब्ध्यर्हस्थूलताराहित्यम् ।उत्क्रान्त्यादिना परिच्छिन्नत्वसिद्धिः ।उत्क्रान्त्यादिसमये पार्श्वस्थैरनुपलभ्यमानत्वात्स्वच्छत्वसिद्धिः । जीवस्यतु अत्यन्ताणुत्वमेव परिमाणम् । वालाग्रशतभागस्येत्यादि श्रुतेः । इन्द्रियविषये तु न तादृशी श्रुतिरस्तिन चेन्द्रियाणामणुत्वे कथं दूरगतार्थ प्रतीतिरिति चेत् सत्यं, स्वरूपविभुत्वाभावेऽपि आप्यायनार्थभूतब्रह्माण्डोदरवर्ति कृत्स्न वस्तुग्रहणानुरूपविभुत्व संघटनेनादोषात् ।यथा कणादमते चक्षुषो गोलकान्तस्थितत्वेपितत्प्रकाशात् सर्वतोदिक्प्रसरादण्डोदरवर्ति वस्तुग्रहणम् । त्वगिन्द्रियस्यसूक्ष्मशरीरव्यापित्व रूपमणुत्वमिष्यते । सर्व एव समा इति समत्वोक्तिःकार्यकरत्वाभि प्रायेति । नन्विन्द्रियाणामणुत्वे कथं श्रुतावनन्तत्वोक्तिरित्यत्राह - आनन्त्येतिइन्द्रियाणां परिमितत्वेपि प्रतिबन्धकाभावेऽसंख्यातविषयग्राहकत्वसंभवेन स्वकार्यभूत विषयग्रहणानन्ताभि प्रायकं तद्वचनमिति भावः ।।

श्रेष्ठशब्दं व्याचष्टे - प्राणेति । छान्दोग्ये पञ्चमाध्याये “यो हवै ज्येष्ठं च श्रेष्ठं च वेदेत्यादि प्रथमः खण्डः प्राणसंवाद प्रकरणविशेषःतत्रेन्द्रियाणां शरीराद्गमनेपि शरीरस्यस्थितेः मुख्य प्राणस्योत्क्रमणसमयेएव शरीरस्यानवा स्थितेश्च बोधेनेन इन्द्रियापेक्षयापि मुख्यप्राणस्यश्रेष्टत्वं निर्णीतम् । स्वधया=लक्ष्या सहस्वकार्यभूतेत्यादि।प्राणोत्पत्यधिकरणे हि इन्द्रियाणां प्रलये स्वकार्याभावेनानस्थितिरुक्ता । अत्र च मुख्यप्राणकार्यभूतं प्राणनात्मकं जीवनम् आनीदित्यनेनोच्यते ।अन = प्राणने इति हि धातुः ।अतस्तस्य सद्भाव आवश्यकः इति भावः । मुख्यप्राणजन्मपरवचनस्य जीवजन्मपरवचनवदुपपत्त्यसंभवद्योतनायाह - उत्पत्तिनिषेधाभावाच्चेति । नित्यत्वपरवचनाभावस्यापीदमुपलक्षणम् । जैवं=जीवसंबन्धि । अवातमिति तत्रैवश्रवणादिति । ननुवायुरन्यः प्राणश्चान्यः तत्कथं वाय्वभावमात्रेण प्राणासद्भावोनिश्चीयते इति चेत् - उच्यते । अवस्थाविशेषमापन्नो वायुरेव हि मुख्यप्राणशब्दवाच्यः । वायोरभावे तस्यावस्थाविशेषापत्तिः कथं, कथं च प्राणसद्भावः शंकितुमपि शक्यते इति । एवमानीदित्यनेन न मुख्यप्राणकार्यभूत प्राणनमुच्यते ईश्वरस्य प्राणाधीनस्थितिकत्वाभावेन वाक्यार्थासांगत्यात्अप्राणो ह्यमनाः इति हि श्रुतिरिति बोध्यम् । उत्तरचिन्तार्थमिति ।मुख्य प्राणस्वरूपस्योत्तराधिकरणे निरूपणात् पूर्वत्र तत्प्रस्तावार्थमिदं सूत्रम् । अत एव नाधिकरणान्तरं कृतम् । इन्द्रियोत्पत्तिवदस्याप्युत्पत्तेर्निश्चयसंभवात् । न च आनीदिति श्रुत्यवलम्बनेन पूर्वपक्षोदयः । प्राणा वाव ऋषय इतिश्रुत्यवलम्बने नैव पूर्वत्रापि पूर्वपक्षोदयेन तत्तुल्यत्वात् ।अधिकाशंकायाश्चाभावादिति ।। प्राणाणुत्वाधिकरणं समाप्तम् ।।