26 प्राणोत्पत्त्यधिकरणम्

(2.04.01) प्राणोत्पत्त्यधिकरणम्ब्रह्मव्यतिरिक्तस्येत्यादिकं संगति प्रदर्शकम् । ज्ञातृत्वादिनिरूपणपराधिकरणानां प्रासंगिकत्वात् जीवोत्पत्ति निरूपणाधिकरणेनास्य संगतिःआकाशाद्यचेतनानां चेतनस्य च कार्यताप्रकारशोधनानन्तरं जीवोपकरणभूतेन्द्रियादीनामुत्पतिप्रकारो विशोध्यत इति संगतिरिति भावः ।इति चिन्त्यतइति । शिष्यानुग्रहार्थमेवसूत्रकारप्रवृत्या श्रुतिविप्रतिपत्त्या कस्यचिन्मन्दस्याप्रतिपत्तिविप्रतिपत्यन्यथा प्रतिपत्ति निरासाय एषामब्रह्मकार्यत्व निराकरणमुखेनब्रह्मकार्यत्वस्थरीकरणाय च इन्द्रियादीनायुत्पत्तिचिन्ता क्रियत इत्यर्थः ।।जीववदेवेति । ननु जीवस्य स्वधर्मभूत ज्ञान संकोचविकासलक्षणान्यथाभावरूपकार्यत्वमुक्तम् नहीन्द्रियादिषु एवं संभवः । अन्यथाभावाश्रय धर्माभावात्तत्कथं जीववद् इत्युच्यते? नचस्वरूपान्यथा भाववत्स्वभावान्यथाभोवोऽपीन्द्रियाणां नाभ्युपेयत एवेतिवाच्यं, तथा सति प्रतिज्ञाविरोधाद्यापत्तेःअत एव जीववदेवेति पूर्वपक्षिणाऽऽशंक्यते, उच्यते, जीवस्यकार्यत्वंहिज्ञानसंकोचादिकर देहसंबन्धः । तद्वदिन्द्रियादीनामुत्पत्तिरपि इन्द्रियकार्यकरदेहसंबन्धएवा सचेन्द्रियाणां जीववन्नित्यत्वेऽप्युपपद्यते इति पूर्वपक्षिणोऽभिप्राय इति । सूत्रस्थ तथा शब्दः प्रेमेयाति देशार्थक इत्याशयेनाह - यथाजीवइति। हेतुजिज्ञासामुत्थापयति - कुतः इति। ननु श्रुतेर्हेतुत्वंसूत्रे न कण्ठोक्तम् । तत्कथं श्रुतेरित्युच्यत इत्यत्राह - तथेति।तथा शब्दः प्रमाण प्रमेयोभ यातिदेशार्थकः इति भावः । ननु श्रुतौप्राणशब्दः परमात्मनि प्रसिद्धः ऋषि शब्दश्च मन्त्र दृष्ट्रर्थकःतत्कथमिन्द्रियपरत्वनिर्णयः इत्यत्राह - प्राणशब्द इति । इदं ऋषिशब्दस्याप्युपलक्षणं, ब्रह्मण एकत्वात् तत्र प्राणा इति बहुवचनतयानिर्देशोऽसंगतः अतस्तस्य प्रसिद्धेन्द्रियपरत्वमेव वक्तव्यंऋषि शब्दस्य मन्त्र द्रष्टरि प्रसिद्धावपि प्राणशब्दविशेषितत्वात्बहुवचनान्ततया निर्दिष्टत्वाच्च न तस्यापि परमात्मपरत्व संभवः ।इन्द्रियाणामर्थज्ञानकरणत्वेन ज्ञापकत्वमादाय तेषु ऋषित्व व्यपंदशःइति नासंगतमिति भावः । आकाशादिनित्यत्वपर श्रुतिवदस्या श्रुतेःअन्यथासिद्धिमाशंक्य निराकरोति - न चेयं श्रुतिरिति । असद्वा इत्यादिश्रुतिः वायुश्चेत्यादि श्रुतिवत् नान्यथासिध्यर्था । चिरकालस्थायित्वेनअन्यासिद्धिर्वक्तव्या । वाय्वादीनां कृत्स्न प्रपञ्च प्रलयवेलायांअवस्थितिः न केनापि बोध्यते । अत्र तु अनेनैव वाक्येनेन्द्रियाणांअग्रे इति प्रलयकालं निर्दिश्य तत्राप्यवस्थिति बोधनात् सदास्थायित्वमेवबोध्यते नतु चिरकालस्थायित्वमात्रंअतो वैषम्यान्नान्यथानयन मस्याः श्रुतेः संभवतीत्याशयः । नन्वेवंसति “एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे"ति इन्द्रियोत्पत्तिपरश्रुतेःकागतिरित्यत्राह - उत्पत्तीति।इन्द्रियाणामुत्पत्ति श्रवणाचेति। आकाशादितुल्योत्पत्तिश्रवणादित्यर्थःप्रतिज्ञाविरोधापत्तिश्चशब्दार्था । नियदादीनामुत्पत्तिमत्वानभ्युपगमेयद्वाधकं तदत्रापि तुल्यमिति कथं प्रागवस्थान संभवः इत्याशयः ।नचेति।आत्मनः उत्पत्तिनिषेधः नित्यत्वं च कण्ठत एवोक्तम् । अतस्तद्बलात्उत्पतिपरवाक्यस्यान्यथा नयनं कृतं नह्येवमिन्द्रियविषये उत्पत्तिनिषेधःनित्यत्वं च श्रूयते । अतो दृष्टान्त वैषम्यमिति भावः । ननु नित्यत्वबोधक श्रुतिर्दर्शिता । तथाहि प्रलयकाले ऽप्यवस्थितिर्बोध्यतेतेनोत्पत्तिप्रतिषेधोऽप्यर्थसिद्ध एवेत्यत्राह - असद्वा इतिश्रुति प्रसिद्धिमाह - सर्वाणीति। ऋषिशब्दस्वारस्यमप्यत्रैवेत्याह - प्राणावाइति। दर्शनकरणे हि तत्कर्तृवाचिऋषि शब्दः अस्वरसः इति भावः ।।

बहुवचनश्रुतिर्गौणीति । अदितिः पाशानितिवद् बहुत्वमौपचारिकमित्यर्थः ।पाशाधिकरणे हि पाशैकत्वस्य प्रमाणसिद्धत्वेन पाशबहुत्वं पाशावयवबहुत्वपरमित्युक्तम् ।तद्वदेव ब्रह्मणः एकत्वस्य प्रमाण सिद्धत्वात् चेतनाचेतनविशिष्टब्रह्मांशविशेषणानां बहुत्वादत्र बहुवचनं युक्तमिति भावः ।बह्वर्था संभवादिति।ननु प्राणादिशब्दस्य ब्रह्मपरत्वनिश्चयेहि तद्बहुत्वासंभवेन बहुवचनश्रुतेःगौणत्वोक्ति संभवः । तदेव न निश्चितम् । बहुवचनानुरोधेन तस्य ब्रह्मपरत्वासंभवस्यपूर्वपक्षितत्वात् । नचर्षिशब्दस्वारस्यात् श्रुति प्रसिद्धिस्वारस्याच्चप्राणशब्दस्य परमात्मपरत्व निर्णयो युक्तःबहुवचनान्त प्राणशब्दस्येन्द्रियेष्वेव झटिति प्रतीत्या प्रसिध्यतिशयात्ऋषिशब्दस्यचान्यथानीतत्वात् प्राण शब्दोत्तर बहुवचनस्यैव गौणत्वंन तु ऋषिशब्दस्येत्यत्र नियामकाभावाच्चेति चेत् उच्यते । ऋषिशब्दस्तावत्परमात्मन्येव स्वरसः नत्वचेतने । प्राणशब्दस्येन्द्रियेषु प्रसिध्यतिशयेपिऋषिशब्दसमभिव्याहृतत्वेनन झटिति इन्द्रियोपस्थापकत्व संभवः । उदाहुत श्रुतौच ऋषिशब्दोपादानमेवप्राथमिकम् ।ऋषिशब्दवाच्याः के इत्याशंकायां प्राणा वाव ऋषयः इतिपश्चादुक्तम् । ततश्चर्षिशब्दस्वारस्यात् तत्समभिव्याहुतप्राण शब्दस्यझटिति इन्द्रियोपस्थापकत्वाभावात् तस्य परमात्मनि श्रुतिप्रसिद्धेःसदेवेत्यादि श्रूतौ सृष्टेः प्राक् परमात्मनोऽवस्थिति बोधेन तदैकार्थ्येनात्रापि परमात्मन एवावस्थिति प्रतीतेश्चप्राणशब्दस्य परमात्मपरत्व निर्णयसंभवः । ततश्च प्रत्ययार्थापेक्षयाप्रकृत्यर्थस्वारस्यमवलम्ब्य घञ् प्रत्ययस्य कर्तरि लक्षणा च आदेशशब्देस्वीकृता । तस्मात्ऋषिशब्दानुरोधेन तत्समभिव्याहुत शब्दानुरोधेनचतदुत्तरवृत्तिबहुवचनस्य गौणत्वकल्पनमेव शोभनतममिति ।।तत्प्राक्श्रुतेरित्येकंपदम् ।

वाचः इति व्याख्येयम् । नामधेयस्येति तद्व्याख्यानम् । तच्छब्दःबागादिविषयभूत वियदादि सृष्टिपरः । अयं भावः ।स्वकार्यबलेनहि इन्द्रियाणिकल्पनीयानि । यथा चात्माऽदृष्टसंस्कारस्थितिरूपकर्मबलेन प्रलयेकल्प्यते । तत्रेन्द्रियकार्यव्यवहाराभावात् तदानीं नेन्द्रियसद्बावःकल्प्यः । व्यवहार एव कुतो नास्तीति चेत् । वियदादि व्यवहर्तव्याभावात्वियदादीनां प्रलयकालेऽनवस्थितेः त्वयाप्यभ्युपगतत्वात् । अतएवहि सृष्ट्यनन्तरं नामरूपव्यापकरण मुच्यते । यद्यप्येकत्वावधारणप्रतिज्ञादिभिरेवात्रेन्द्रियाणा मुत्पत्तिस्थापनात् वियदादिन्यायेनैवचरितार्थताअसंभवस्तु सतोऽनुपपत्तेरिति ब्रह्मव्यतिरिक्तस्य सर्वस्याप्यनुत्पत्तिमत्वेअनुपपत्तिरपि विशिष्योक्ता । अथापि प्राणा वा ऋषयः इति श्रुति निर्वाहार्थमेवैतदाधेकरणं प्रवृत्तम् । अत एव प्रथक्सिद्धान्त सूत्रम कृत्वाश्रुतिनिर्वाहार्थमेवगौण्यसंभवादिति सूत्रद्वयं कृतवान् । तत्पूर्वकत्वाद्वाचइत्यपि प्राणशब्दस्य परमात्मपरत्वतात्पर्यकमेवेति भाष्य एव स्पष्टम् ।तथा प्राणा इति तु पूर्वपक्षसूत्रमेव । भाष्यकृता तथा व्याख्यातत्वात् । केचित्तुतथा प्राणा इति सूत्रमावृत्य पूर्वपक्षोत्तरपक्षोभयपरत्वमपि व्याचक्षते इति ।।प्राणोत्पत्त्यधिकरणं समाप्तम् ।