(2.03.07) अंशाधिकरणम्संगतिस्तु - यदि जीवस्य कर्तृत्वं परमात्माधीनं तर्हि राजभृत्यन्यायेनजीवपरयोरत्यन्तभेदापत्त्या अभेदश्रुतीनां नरपतिरेव सर्वलोक इतिवद्औपचारिकत्वं स्यादिति शंकयोत्थानमिति । अत्यन्तभिन्न इति नैयायिकमतम् ।भ्रान्तमित्यद्वैतिमतम् । उपाध्यवच्छिन्नमिति भास्करस्य । ब्रह्मांशःइतीति ।विशेष्यैक देशरूपोंऽशः विशिष्टैकदेशरूपो विशेषणांशोवेति ब्रह्मांश इति विकल्पस्यार्थः । श्रुतिविप्रतिपत्तेरिति । यद्यप्यत्र वादिविप्रतिपत्तिरपि संशयहेतुर्भवति । अथापि तस्या अपि श्रुतिविप्रतिपत्तिमूलत्वात्तथोक्तम् । नानात्वं = भेदः,एकत्वं = अभेदः । ननु भेदाभेदश्रुतीनां घटक श्रुत्या निर्वाहोपि पूर्वमेवकृत इत्यत्राह - ब्रह्मांशत्वोपपादनेनेति । विष्टिवस्तुनो ब्रह्मणःविशेषणां शत्वोपपादनेनेत्यर्थः । एवं विशेषनिर्णयाभावे पूर्वनिर्णीतभेदा भेदौ न प्रतिष्ठितौ भवत इत्याह - यादद्धीति। विशिष्टे ब्रह्मणिचेतनः विशेषणांश इति निर्णये हि चेतनस्यापृथक्सिद्धप्रकारत्व निर्णयेनाभेदव्यपदेशस्य मुख्यत्वोपपत्त्या तयोरभेदनिश्चयः विशेषणत्व प्रयुक्तभेदनिश्चयश्च भवति इत्यर्थः ।।इदमत्र तात्पर्यम् शरीरवाचक शब्दस्य शरीरिपर्यन्तत्वं सिद्धवत्कृत्यभेदाभेद श्रुतिनिवार्ह पूर्वं कृतः ।अत्रचाऽऽकृत्यधिकरणन्यायाविषयतयाशरीरिपर्यन्ताभिधायकत्वं न संभवतीत्याशंक्यांशत्वनिर्णेयेन तत्स्थाप्यतेचचेतनस्यांशत्व निर्णये हि अपृथक्सिद्धत्व प्रकारनिर्णयः तेनचाकृत्यधिकरणन्यायविषयत्वमितिभावः ।इत्यादिभेदनिर्देशादिति। ज्ञत्व - अल्पज्ञत्वादि भेदकाकार नेिर्देशेनभेदस्यावश्यकत्वादिति भावः ।अभेद श्रुति निर्वाह प्रकारं दर्शयति - ज्ञाज्ञयोरिति।औपचारिक्यइतिनरपतिरेव सर्वलोकइतिवत् तादधीन्यविवक्षयात्र राजपुरोहितः राजासंवृत्तइति सादृश्यविवक्षया वा नेतव्याइत्याशयः । अथांशपदस्यान्यथाऽर्थंनिधायांशत्व पक्षं मत्यन्त भेदवादी दूषयति - ब्रंह्मण इति। एकवस्त्वेकदेशवाचीतिविशेष्यभूतं यदेकवस्तु तदेकदेशवाचीत्यर्थः । अशत्वं विशेष्यैकदेशत्वमित्यभि प्रायः । ननु ब्रह्मणः खण्डनासंभवेपि उपाध्यवच्छिन्नब्रह्मप्रदेशस्यैव जीवत्वादंशत्वोप पत्तिस्सुवचैवेत्यत्राह - प्रागुक्तेति।उपाध्यवच्छिन्न प्रदेशस्य जीवत्वेपि उपाध्युपहितस्वरूपस्यैकत्वात्ब्रह्मण्येव सर्वदोष प्रसंगः इति भावःपक्षान्तरमाह - यद्वेति। भेदश्रुतिनिर्वाहं दर्शयति - नानात्वेति। मतान्तरमाह - अथवेति।तत एवेति। अनेन प्रमाण व्यवस्थोक्ता ।बन्धेति। उपाधेर्मिथ्यारूपत्वेहि तस्य कार्यकरत्वा भावेन सर्वेषामविशेषेण मुक्तत्वमेव स्यात्न वा कस्यचिदपि । पारमार्थिकत्वेतु यस्य तादृशोपाधिनिवृत्तिः समुक्तः अन्योऽमुक्तः इतिव्यवस्था युक्तेति भावः । अनेन प्रमेयव्यवस्थाचोक्ताअन्यथाचेति व्याख्येयं पदम् । एकत्वेन व्यपदेशादिति तद्व्याख्यानम्नानाव्यपदेशात् अन्यथाचेत्यनयोः पर्यवसितमर्थमाह - उभयथा हीति।नानात्वेनैकत्वेन चेत्यर्थः । सूत्रस्थनानापदं नानात्वपरम् । नानात्वंच भेदः । तद्व्यपदेशश्च भेदकाकार व्यपदेशादित्याशयेन तं दर्शयति - नानात्वव्यपदेशइति। श्रौताभेदव्यपदेशस्य इतरैः अनेकश्रुत्यविरोधेन नयनं नाकृतमितिसूचयितुं स्वमते तथा नयनमस्तीति च द्योतयितु मादरातिशयेन - अन्यथाचेतिसौत्रं पदं पुनरूपात्तम् । सूत्रस्थमपिशब्दं अर्थविशेषयोतनायव्युत्क्रमेणयोजयन् अवशिष्टसूत्रखण्डस्यार्थ माह - अपीतिविवक्षितमर्थविशेषं प्रदर्शयन् तात्पर्यार्थमाह - ततश्चेति। अनेनाभेदस्यतात्विकत्व मेवाभ्युपेयं नत्वौपचारिकत्वमिति सूचितम् । उकृष्टवस्तुनासामानाधिकरण्येऽभेदस्य कथंचिदौपचारित्वसंभवेपि दाशकितवादिनिकृष्टवस्तुनाश्रुतस्य सामानाधिकरण्यस्य नौपचारिकत्वं युक्तमिति भावः । ननु भवतामपिजीवब्रह्मस्वरूपयोर्भेदात् अभेदनिर्देशस्यौपचारिकत्वमेवेति शंकापरिहाराय - सर्वजीवव्यापित्वेनेत्युक्तम्।एतेन नरपनि रेव सर्वलोकः इत्यत्रेव तादधीन्यविवक्षयाऽभेदनिर्देशस्यौपचारिकत्वाश्रयणमपि निरस्तम् । मुख्यत्वे संभवति गौणत्वा संभवात्अत एवहि अभेदस्य तात्विकत्वोपपत्त्यर्थं घटकश्रुत्या जीवपरयोः शरीरात्मभावःउपदिश्यते । अतश्शरीरवाचिशब्दानां शरीरिपर्यन्तत्वस्य देवोऽहमित्यादौदर्शनेनात्रापि तत्संभवात् सामानाधिकरण्यस्य मुख्यत्वमिति न तद्विपरीताश्रयणंयुक्तमिति ।मुख्यत्वसिद्धयइति । उभयव्यपदेशमुख्यत्व सिद्धिरूप श्रुत्यर्थापत्त्याअंशत्व मवश्यं कल्प्यमित्याशयः ।।अन्यथा सिद्धत्वमिति। अन्यथासिद्धत्वशंकेत्यर्थःब्रह्मसृज्यत्वादीति । अनेन भेदकाकारः प्रदर्शितः । यतः इति पूरणीयम्भेदकादारस्य तत्कृतभेदस्य च प्रत्यक्षाद्योगचरत्वेनान्यथा सिद्धत्वाभावात् तच्छकैव न युक्तेत्यर्थःननु प्रमाणान्तरा सिद्धत्वेपि निषेधार्थ तद्बोधनं शास्त्रेणेष्यतेइत्यत्राह - न चाखण्डैकरसेति।ब्रह्मणेति। अस्य भ्रमितव्यमित्यनेनान्वयःकुर्वाणेन शास्त्रेणोपदिश्यते इत्यन्वयः । उक्तार्थास्य सर्वस्यापिप्रमाणान्तरागोचरत्वात् शास्त्रेण तदुपदेशः पर बोधनार्थ एवेति स्वीकर्तव्यम्तत्वमेवे विद्धीति। ततश्च अपरमार्थभ्रममुपदिशन् वेदं ब्रह्मणाभ्रमितव्यमित्येवोपदेशं कुर्यात् । तथा च भ्रमनिवृत्त्या लोकोज्जीवनप्रवृत्तेन वेदेन ततोप्यधिक भ्रमापादनं व्याहतमित्यर्थः । एवंब्रह्मणः सुख दुःखभागित्वादिकं तदभोक्तृत्वेनान्तर्यामित्वं विरुद्धंबोधयत् वेदवाक्यं उन्मत्तवाक्यमिव च स्यादित्याह - तथा सतीतिअयमत्राभिसन्धिः भेदश्रुतेरन्यथासिद्धत्वे तुल्य युक्त्या अभेदश्रुतीनामपि सोऽयं देवदत्त इत्यादीनामिव अन्यथासिद्धिस्सुवचा ।प्रमाणान्तरागोचरत्वं तूभयत्राविशिष्टम् । अभेदश्रुतिविरोधेन भेदश्रुतेर्बाध्यत्वंअपेच्छेदाधिकरण न्यायस्यात्र प्रवृत्तिश्च न संभवति । प्रत्युतविरोधाधि करणन्याय प्रवृत्त्या विपरीत फलसिद्धिस्चेति पूर्वमेवोक्तमितिभास्करपक्षं दूषयति - उपाधीति । ननूपाधिभेदादेकस्यैव नियन्तृत्वनियाम्यत्वादिकंकुतो न संभवतीत्यत्राह - नहीति । उपसंहरति - अत इति ।।
मन्त्रवर्णाच्चेति । जीवस्यांशत्वे साक्षात् श्रुतिरेव प्रमाणमितिभावः । ननु जीवपरयोरंशाशित्वेन भेदे जीवानामनन्तत्वात्सूत्रे अंशःइत्येकवचनं कथं भवतां संगच्छते । अस्माकंतु अविद्याद्युपहितस्यैकत्वात्तदभिप्रायकं तदिति युक्तमित्यत्राह - विश्वाभूतानीति । जीवबहुत्वमवलम्ब्यैवहि मन्त्रे विश्वाभूतानीति बहुवचनं निर्दिष्टम् । अतस्तत् बहुत्वमावश्यकम्अत एव तद्विचाररूपे सूत्रे अंशः इत्येकवचनतयोपादानेपि जात्यभिप्रायकत्वमेव वक्तव्यम् । अंशवाचकस्य पादशब्दस्य श्रुतावेकवचनान्तयोपादानादपिसूत्रे एकवचनतया निर्देशश्चेत्यभिप्रायःप्रसंगात्पूर्वसूत्रस्थात्म शब्दस्यापि जात्यभिप्रायकत्वमाह - नात्मेतिननित्य इति। नित्यानां बहूनां चेतनानां यो नित्यः एकः चेतनः सःकामान्विदघातीत्यन्वयः ।ईष्वराद्भेदस्येति। काम प्रापकत्वेन कामप्राप्यत्वेनचभेदादिति भावः । एवं भेदसिध्यापि बहुत्वमावश्यकमित्याशयः। ननु जीवानांपरस्परभेदस्य प्रत्यक्षसिद्धत्वात् कथमेतच्छुति प्रतिपाद्यत्वमितिचेन्न, स्वाभाविक भेदस्य प्रत्यक्षसिद्धत्वाभावात् । नित्यानामेवहि जीवानां बहुत्वरूपो भेदः शास्त्रेणोच्यते । सच शास्त्रै कसमधिगम्यएवेति । ननु जीवानां ज्ञानस्वरूपत्वेनैकत्वात् संसारे भेदकाकारदर्शनेन भेदसिद्धिवत् मुक्तौ तादृशाकारादर्शनात् कथं बहुत्वमित्यत्राह - एवंनित्यानामितिप्रत्यक्त्वेन पराक्त्वेनच भेदकाकारोऽवगम्यत इत्यर्थः । एवं सूत्रेअंशः आत्मेत्येकवचनतया निर्देशेऽपि तस्यजात्यभि प्रायकत्वं श्रुतिबलात्सिद्धमित्युक्त्वाआत्मबहुत्व बोधक सूत्रान्तरेणापि जात्यभि प्रायत्वं वक्तव्यमित्याशयेनाह -असन्ततेश्चेति ।।
ननु “ममैवांशः” इत्यनेन जीवस्य ब्रह्मांशत्वमेव विवक्षितमिति कथमवगम्यतेइत्यत्राह जीवस्यपुरुषोत्तमांशत्वमिति । अयं भावः - तत्रैव हि पुरुषोत्तमशब्दनिर्वचनंक्रियते । तेन क्षराक्षररूप बद्धमुक्तोभयावस्थजीव वैलक्षण्यं सिध्यति ।अतस्तदनुरोधेनात्रांशशब्दोव्याख्येयः इति जीवस्यास्मदभिमतांशत्वसिद्धिरिति ।।
अंशत्वेऽपीति । विशेष्यभूतमेकं वस्तु तदेकदेशो जीवः अंशः । ततश्चजीवगतापुरुषार्थानां ब्रह्मण्येव प्रसक्तिरिति भावः । प्रकाशशब्दस्यघटादिप्रकाशः इत्यादाविव व्यवहारानुगुण्यरूप प्रकाशार्थकत्व व्यावृत्त्यैभारूपःप्रकाशः इत्युक्तम् । सूत्रस्थादि शब्दमभि प्रयन्नाह - यथेति।गवाश्वशुक्लकृष्णदेवमनुष्यादि देहादयो आदि शब्दविवक्षिताः इति भावःतद्वदिति । अपृथक्सिद्धविशेषणविशेष्यभूतयोः द्रव्यगुणयोः द्रव्ययोश्चांशांशित्वस्यलोकसिद्धत्वादत्रापि तद्युक्तमिति भावः । नन्वेवं सति जीवस्य ब्रह्मांशत्वंकथं, ब्रह्मणः रामकृष्णाद्यवतार इवजीवस्यावताराभावात् रामकृष्णादिमूर्तिषुहिवासुदेवविग्रहादेकदेशस्य प्रादुर्भावः अतस्तत्रैव ब्रह्माशत्वंयुक्तंनतु जीवे इत्यत्रांशत्वस्वरूपं निरूपयति - एकवस्त्विति। एतेन मेरोःकिरीट प्रभृतिवत् जीवः ज्ञानानन्दत्वेन ब्रह्मसाम्यात्स्वयमल्पत्वाच्चब्रह्मणोशः इति पक्षोपि निरस्तः । किरीटस्य मेरूसजातीय द्रव्यान्तरत्वेनतत्स्वरूपैक देशत्वाभावादंशत्वव्यवहारस्य मुख्यत्वेनात्राप्य मुख्यत्वापातात्एकवस्त्वेकदेशत्वरूपांशत्वस्य सर्वस्व संप्रति पन्नस्य जीवे मुख्यतयैवनिर्वाहात् तत्परित्यागासंभवाच्च ।विशिष्टस्यैकस्य वस्तुनःइति ।विशेष्य भूतं यदेकं वस्तु। तदेकदेशे एवांशत्व व्यवहारः इति न परंतुविशेषणविशिष्टस्यापि वस्त्वैक्यात्तदेकदेशेपि अंशत्व व्यवहारो युज्यतेइति भावः ।विशेषणस्याप्यंशत्वमस्तीत्यत्र प्रामाणिक व्यवहारमपि प्रदर्शयति - तथाचेति । विशिष्टे विशेषणमिति कश्चिदंशः विशेष्यमिति कश्चिदंशः विशेष्यंप्रति विशेषणमश एव विशेष्यंतु विशेषण प्रत्यंश्येव । नतुकदाचिदप्यंशःइति भावः । एवं विशिष्टैकवस्तुनः विशेषणस्यांशत्वादेव प्रकाशगोत्वनीलदेहादी नामप्यं शत्वोपपत्तिः अंशांशित्वस्योक्त प्रकारणोपपादनेअंशिभूत ब्रह्मणि दोषसांकार्य नास्तीत्याह - विशेषण विशेष्ययोरितियथा भारूपप्रकाशस्यांशत्वेपि तद्वत बहुलत्व संकुचितत्वादीनांअंशिभूताग्न्यादिषु न सांकर्यम् । यथा च देहस्य देह्यंशत्वेपि देहधर्माणांन देहिनि सांकर्यं तथात्रपीति भावः ।एतदाशयेनैव “नैवं परः” इति सूत्रखण्डस्य प्रवृत्तिरित्याशयेनाह - तदिदमिति।अथोभयनिर्देशस्य निर्वाहप्रकारं निगमयति - एवमिति। ननु जीववाचकत्वमादिशब्दैःसामानाधिकरण्यस्य कथं मुख्यत्वमित्यत्राह - तत्वमसीति। भानुः ज्योतिःतेजः इत्यादीनामपि विशेष्य पर्यन्ताभिधायित्वं दृष्टमिति अत्रापिजीववाचकशब्दस्य विशेष्यपर्यन्ताभिधायित्वं युक्तमेवेति भावः ।।
उत्तरसूत्रार्थमाह - एवमिति । अग्नेर्ज्योत्स्नेत्यभिप्रेत्य प्रभाप्रभावद्रूपेणेत्युक्तम्ब्रह्मणश्शक्तिरित्यभि प्रेत्य शक्तिशक्तिमद्रूपेणेत्युक्तम्हरेस्तनुरित्यभिसन्धाय शरीरात्मभावेनेत्युक्तम् । उक्तस्थलेषुअंशाशि भावस्य नैयत्यमभिप्रेत्याह - अंशांशिभावमिति। यद्यपि जीवस्यांशत्वं"अपि स्मर्यत इति" सूत्रेणैवोक्तमथापि विशिष्टे वस्तुन्येकदेशरूपविशेषणांशत्वंतत्र नोक्तमिति वैषम्यम् ।चकारात् श्रुतयोऽपीति। यद्यपि सूत्रेश्रुतिवचनं चकारेण स्मृतिविवक्षणंच युक्तम् । अथापि श्रुतेरुप बृंहणस्मृति सापेक्षत्वेन श्रुत्युक्तार्थ विशदीकरण स्मृतेः प्राबल्यमभिसन्धायविपर्येयेण सूत्रितमिति ध्येयम् ।।
उत्तरसूत्रमवतारयति - एवमिति । ब्रह्मणोंऽशत्वमेतदधिकरणे स्थापितम् ।ब्रह्म प्रवर्त्यत्वं च परायत्ताधिकरणे ।ज्ञत्वं ज्ञाधिकरणे ।केषांचित्=ब्राह्मणादीनाम् । केषांचित्=स्त्रीशूद्रादीनाम् । परिहारः=निषेधःसूत्रोक्तदेहसंबन्धस्य सर्वाविशिष्टत्वात् तस्यचानुज्ञापरिहारनियामकत्वाभावाद्व्या चष्टे - ब्राह्मणक्षत्रियेति। सूत्रस्थादिपदंअन्नादिपरिग्राहकमित्याशयेनाह - यथा चान्नादिति । अभिशश्तः=अपवादग्रस्तःइदमत्र तात्पर्यम् । सर्वे जीवाः अणवः ज्ञानरूपाः ज्ञातृस्वभावाःभगवच्छेषभूताः आनन्दरूपाः ब्रह्मांशवः । जीवेषु वैलक्षण्यं नास्तिएवं सति ब्राह्मण क्षत्रियवैश्यानामेव वेदाधिकारः तत्रापि न स्त्रीणाम्शूद्रजातेः सर्वथानास्ति । अध्ययन अध्यापन दान प्रतिग्रह यजनयाजनरूप षट्कर्मसु ब्राह्मणा नामेवाधिकारः नेतरेषाम् । चण्डाल जातिप्राप्तस्य त्रिशंकोः विश्वामित्रेण यागकरणरूपयाजनसमये" क्षत्रियोयाजको यस्य चण्डालस्य विशेषतः कथं सदसि भोक्तारः इत्यादिभिश्च वसिष्टपुत्राःनाभ्यनन्दन्त । इति वाल्मी किः । चण्डाल बहिष्टास्त्रीदर्शन स्पर्शनभाषणनिषेधःतथाकरणे “संभाष्य पुण्यकृतो मनसा ध्यायीत इति प्रायश्चिन्त विधानम्"तद्भृत्यगात्रेष्वंगसंगमः"भागवत स्पर्शे विशेषः । भागवतगृहेषुभोजनाभ्यनुज्ञा, असतां च प्रतिग्रहं स्वाहा’ इति श्रोत्रियान्नभोजनमेवअसद्ग्रहप्रायश्चित्तं इति विधिः । शूद्रनिकटात् आमग्रहणेपि पक्वान्नग्रहणरूपत्वेनदोषकथनम् । इत्यादिनियमाः कथं संगच्छेरन् । सर्वेषां आत्मानां एकरूपत्वेनवैलक्षण्याभावात् । शुनि चैव श्वपाकेच पण्डिताः समदर्शिनः इति हिगीतावचनमिति पूर्वपक्ष्याशयः ।सिद्धान्तसारस्तु - आत्मसामान्यस्य पूज्यत्व मिष्टमेव तत्तत्कर्मविंशेषप्रयुक्त शरीरसंबन्धमादाय तेषामेव पूज्यत्वापूज्यत्वे । नहि शास्त्रेषुअनुज्ञा परिहारौ केवलमात्मानमुद्दिश्य प्रवृत्तौ । ब्राह्मण क्षत्रियादिवैषम्यमादायैव । अतोपि ज्ञायते शरीरसबन्ध मूलकमेव विधिनिषेधादिकमितिसर्वत्र समदर्शित्ववाद्यपि नहि स्वपुत्रविवाहार्थंतिर्यक्जातिस्त्रियंपरिगृह्णाति । नवा स्वसुतां तिरश्चे ददाति । नापि स्वपुत्री मेवस्वपुत्राय भार्यात्वेन स्वीकरोति । आत्मनामेक रूपत्वं तदा क्वगतम् । तिरश्चामाहारं कुतः स्वयं न खादतिएवमादि बहुविधप्रश्ने नैव समाधिं वक्तुं प्रभवति । अपिचैकरूपकदलीफलेष्वेवबहुविध वैजात्यं वर्तते । आम्रादि स्थावरेषु । सर्पादितिर्यक्षुवैजात्यं बहुधा दृश्यते । ब्रीहिषु वयं प्रतिदिनं पश्यामः । अतःएकजातीष्वेव एवंदर्शने भिन्नजातिषु का कथा । अनुभोक्तुःकर्मवशात्अनुभाव्यवस्तुष्वपि विभिन्नत्वं इति ।।
च शब्दसमुच्चितं हेतुमाह - जीवानामन्योन्य भेदादिति।अणुत्वेनेति।समन्तात्ततिः सन्ततिः विभुत्वं तदभावः असन्ततिः अणुत्वमित्यर्थःपप्रतिशरीरं भिन्नत्वाच्चेति। आत्मनः अणुत्वं प्रमाणसिद्धं साधितंचततश्च तस्य भेदोऽप्यावश्यकः । अन्यथाऽणोरेकस्मिन् शरीरे विद्यमानत्वेनशरीरान्तरे तद्विरहेण तत्त सुखदुःखादि प्रतिसंन्धानानुपपत्तेः ।अतः अणुत्वे तस्य भेदोऽपि सिध्यति । एतेनाणुत्वपरासंततिशब्दः तत्साध्यप्रतिशरीरभिन्नत्व लाक्षणिकः इत्युक्तं भवति । व्यतिकरः=अव्यवस्थास्वपक्षे भोगव्यतिकराभावोक्तेस्तात्पर्यमाह - भ्रान्तेतिइदमत्राकूतम् - एकस्मिन्नेव देहे बाल्येऽनु भूतसुखादेः यौवने प्रतिसन्धानमनुभवसिद्धम् । अत्र चैक्य मेव नियामकमिति सर्व संप्रतिपन्नम् ।एवं च अज्ञत्वावस्थापन्नं ब्रह्म जीवः=इति पक्षे उपाध्युपहितं ब्रह्मजीव इति पक्षेचात्मन एकत्वात् नानाशरीरावच्छेदनोत्पन्नानां सुखादीनांसर्वस्मिन्नपि शरीरे प्रतिसन्धानापत्या भोगव्यवस्था न कथंचिदपिसिध्यति । स्वमते च जीवस्वरूपस्य प्रति शरीरं भिन्नत्वात् कस्यचित्पूर्वं तदनुभूत सुखादिप्रति सन्धानं कस्यचित् नास्तीति व्यवस्थासिध्येत् । नानाशरीरावच्छेदनोत्पन्नानां सुखदुःखादीनां सर्वस्मिन्शरीरे प्रतिबन्धकाभावेऽपि आत्मैक्यव्यापक प्रति सन्धाना भावात् नैक्यं युक्तमिति । अतःपक्षद्वयमपि इष्टमेवेति ।।
अविद्याकृतोपाधिभेदादिति । भ्रान्तब्रह्मजीववादे अविद्यातिरोहितस्यब्रह्मणः अविद्या कल्पितैरपरमार्थैः परस्परभिन्नैः अन्त करणरूपोपाधिभिःप्रति संबन्धाभ्युपगमात् उपाधि भेदेन भोगव्यवस्था संभवतीत्याशयःउपाधि संबन्धादौ स्वरूपतिरोधानस्यावश्यकत्वद्योतनाय स्वरूपतिरोधानपूर्वकेत्युक्तम् । एतेन स्वरूपतिरोधानस्यैवा संभवात् तत्कृतोपाधिभेदेनभोगव्यव स्थोपपादनमसंववीति दर्शितम् । स्वरूपतिरोधानमेव कुतो नसंभवतीत्यत्राह - प्रकाशौकस्वरूपस्येति। च शब्दार्थमाह - चकारादिति।एवं तिरोधानाद्यनुपपत्या व्यवस्थानुपपत्तिरुक्ताअथ विरोधाद्यभ्युपगमेऽपि अनुपपत्तिस्तदवस्थेत्याह - अविद्येति ।।
अनन्तरसूत्रमवतारमति - पारमार्थिकेति। एतन्मते उपाधीनां पारमार्थिकत्वंतद्भेदहेतुभूतादृष्ठानां चानुज्ञानमित्याशयेन शंका । ब्रह्मस्वरूपाश्रयत्वेनेतितत्तदुपाधि हेतुभूता दृष्ठानामाश्रयस्यात्मनः एकत्वादिति भावः।ननु तदुपाधिसंयुक्तब्रह्मप्रदेशः भिन्न एवेत्यत्राह - उपाधिभिरिति।उपाध्याश्रयस्यैकत्वात् तस्याच्छेद्यत्वाच्च व्यवस्थायाः नोपपत्तिरिति भावः ।।
अभिसन्धिः = संकल्पः । ततश्च तदुपाधिहेतुभूतादृष्टजनक संकल्पस्यापिउक्तदिशा आश्रयस्यात्मनः एकत्वात् अनियमस्तदवस्थ इत्यर्थः । सूत्रस्थादिशब्देनोद्योगानुष्ठानादिकंविवक्षितम् । सूत्रस्थ च शब्दःअवधारणार्थः । ततश्च एवमेवेत्यर्थःतदेव विवृतं उक्तादेवहेतोरनियम एवेति । हेत्वतिदेशः विषयाति देशश्चचैवमिति सूत्रखण्डेन क्रियते इत्याशयः । तथा च सर्वप्रदेशानामपिब्रह्मस्वरूपभूत प्रदेशत्वात् ब्रह्मणः अच्छेद्यत्वाच्च न नियमसंभवः इत्यर्थः ।।
प्रदेशभेदादित्येतद्व्याचष्टे - यद्यपीति । अयमाशयः - आत्मनः एकत्वेऽपितत्तदुपाध्यवच्छिन्नानामात्म प्रदेशानां घटाद्यवच्छिन्नाकाशस्येवभेदात् संकल्पादृष्टादि व्यवस्थया भोगव्यवस्था युक्तेति । दूषयति - तन्नेतिअयं भावः । अन्तः करणरूपोपाधीनां संचरणस्वभावत्वेन तत्र तत्रगमन दशायां सर्वैः ब्रह्मप्रदेशैः संबन्धात् अन्तः करणरूपावच्छेदभेदेन जीवभेद एव न सिध्यति । तत्कथं भोगव्यवस्था । एकान्तःकरणस्योपाधिसंयुक्तब्रह्मप्रदेशे एव तदुपाधेरन्यत्र गमने अपरान्तः करणस्योपाधि संयोगसंभवेनतत्र पूर्वानुभूतसुखादेः अपरान्तः करणरूपोपाध्यवच्छिन्न जीवेप्य़नुसन्धानस्य दुर्वारत्वादिति । उपाधिभेदेऽप्युपहितस्यात्मनः एकत्वात्जीवगतापुरुषार्थाः ब्रह्मण्येव च प्रसज्यन्त इत्याह ।प्रदेश भेदेनेति।पूर्वत्रेत्यादि।वेदबाह्यपक्षे जीवानां विभुत्वाभ्युपगमे पूर्वं दोषः उक्तः । अत्रवेदावलम्बिपक्षेआत्मैकत्वादिमते दोषः इति भेद इति भावः । एवं पौनरुक्त्यपरिहारःअधिकरणान्तरेष्वपि संभवे योज्यः । एतेन, असन्ततेश्चाव्यति करः इत्यादिसूत्राणांसांख्यादि व्युदासपरत्वं पराभ्युपगतं निरस्तम् । पौनरुक्त्यस्यतेषां परिहारासंभवादिति ध्येयम् । यद्यप्येतच्छास्त्राद्यपादे एवकर्मकाण्डे मीमांसारंभे जीवस्वरूपं शोधितम्,अथापि देशान्तर कालान्तरादि फलानु भवयोग्य स्थायि स्वरूपतयैव तत्रप्रसाधितं नतु ज्ञातृत्वकर्तृत्व भोक्तृत्व परमात्माधीनत्वादिभिः इति विशेषः ।।इत्यंशाधिकरणम् ।श्रीः । श्रीमते रामानुजाय नमः । द्वितीयाध्याये चतुर्थः पादः ।