(2.03.06) परायत्ताधिकरणम् -
कर्तृत्वप्रसंगात् तस्य परमपुरुषायत्तत्वं स्थाप्यत इति संगतिः, यद्वा विधिनिषेधशास्त्रानर्थक्यपरिहाराय हि जीवस्य कर्तृत्वमभ्युपेतं, तथापि तस्य परमपुरुषायत्तत्वाभ्युपगमेनानर्थक्यं तदवस्थमेवेत्यक्षेपात्संगतिः । कथमानर्थक्यप्रसंग इत्यत्र तदुपपादयति - यो हीति । नियोज्यः = विधिनिषेध(शास्त्र)नियोगविषयः । अयं भावः - कर्तृत्वस्य स्वातन्त्र्यं हि परानपेक्षप्रवृत्तिनिवृत्त्यनुकूलशक्तिमत्वम् । प्रवृत्तौ वा निवृत्तौ वा कर्तृत्वस्य परापेक्षत्वे इदं न घटते । न हि परतन्त्रं प्रति इदं कुरु इदं मा कुरु इति प्रवृत्तिनिवृत्तिविधानं युज्यते, अन्यथा निगलितपुरुषस्य धावनादेशवदकिंचित्करमेव स्यात् । अतः जीवस्येश्वरपरतन्त्रकर्तृत्ववत्वे करणाकरणविधानं सर्वात्मनाऽनुपपन्नमेव । अत एवेदं सर्वमभिसन्धाय भगवान् पाणिनिरपि “स्वतन्त्रः कर्ता” इत्यसूत्रयत् इति ॥ जीवप्रस्तावात् औचित्याच्च अस्य जीवस्येत्यध्याहृतम् । स्वेच्छानुगुणप्रवृत्तिसामर्थ्ये सत्यनिवार्यत्वं हि = स्वातन्त्र्यम् । इदं च परायत्तकर्तृत्वेप्युपपद्यते ।
अयं पादः कार्यताप्रकारशोधकपादः । अत्र परस्परश्रुतिविरोधः परिह्रियते । आकाशादेः नित्यत्वं कार्यत्वं च श्रुतिभिः प्रतिपन्नम्, जीवात्मनां जन्म, अजन्म च । आत्मनः चिन्मात्रत्वं ज्ञातृत्वं च, तेजआदिभूतानां परमात्मकार्यत्वं तदन्यकार्यत्वं च । एवं परस्परविरुद्धार्थबोधकश्रुतीनां परस्परविरोधः परिहृतः । एवमेव विधिनिषेधश्रुतीनाम् अन्तर्यामिश्रुतीनां च परस्परविरोधोऽत्र परिह्रियते ।
जीवात्मा परमात्मदत्तकरणकलेबरवान् इति सिद्धम् । एवं तत्तत्कृतपुण्यपापानुगुणेश्वरसंकल्पाधीनवैषम्यवान् परमात्मप्रेरितहितकारिपुरुषाद्युपदेशलब्धज्ञानवांश्च । अतो जानाति इच्छति यतते करोति अनुभवति इति रीत्या इच्छन् कर्मणि प्रवर्तते । एवं परंपरया जीवस्य परमात्माधीनत्वं सिद्धमपलापानर्हं च ।
एवं स्थिते अधिकतया अन्तः प्रविश्य नियमनं अन्तर्यामिब्राह्मणे प्रतिपादितम् । इदं च नियमनं जीवमवशं प्रवर्तयति, उत न इति विचारे - यथा च वायुः उदकं च जीवात्मनमवशं प्रवर्तयति तथैवेत्युक्तौ विधिनिषेधयोः वैयर्थ्यमेव अन्यथा चेत् अन्तः प्रेरणं व्यर्थमिति इति पूर्वपक्ष्याशयः । सिद्धान्तिनस्तु जीवपरयोः शरीरात्मभावः श्रुतिप्रतिपन्नः । यथा चास्मच्छरीरव्यापारः सर्वोपि पुरुषान्तराकृतः अस्मत्संकल्पाधीनः तथैवास्माकं भगवच्छरीरत्वात् अस्मदीयकृतीनामपि परमात्मसंकल्पाधीनत्वमवर्जनीयम् । अतः अन्तर्यामिश्रुतीनां न बाधः । न वा विधिनिषेधशास्त्राणां बाधः । नृपनभोव्यावृत्यर्थम् अन्तःप्रविष्टः शास्तेति श्रुतौ पदद्वयम् । परमात्मनः अन्तःप्रवेशपूर्वकं शासितृत्वबोधनात् तत्तत्कर्मसु जीवात्मप्रेरकत्व बोधनाच्च जीवस्य कर्तृत्वं परमपुरुषायत्तमिति गम्यत इति भावः । उदाहृतश्रुतेरुक्तार्थे संवाददर्शनाय तदुपबृंहणरूपां भगवतोक्तां स्मृतिं दर्शयति - स्मृतिरपीति । नच जीवस्य परायत्तकर्तृत्वाभ्युपगमे स्वातन्त्र्यविरोधः । प्रयोज्यकर्तृत्वेऽपि स्वातन्त्र्याविरोधात् । अन्यथा, जीवे भवदभिमत कर्मकालादिपरवशकर्तृत्वस्यापि विलोपप्रसंगात् । यदि कर्मादीनां सामान्यकारणत्वेन जीवस्य तत्परतन्त्रत्वे न विरोध इत्युच्यते, तर्हीश्वरस्यापि साधारणकारणत्वान्न कश्चिद्दोषः नानाविधपरिग्रहः शकटस्थोप्यश्वः धावने शाकटिकाधीनकर्तृत्ववान्भवति इत्यपि दृष्टम् ॥
प्रयत्नमिति व्याख्येयम् । उद्योगमिति तद्व्याख्यानम् । उद्योगमपेक्ष्य प्रवर्तयतीत्युक्त्या प्रथमप्रवृत्तौ भगवतः औदासीन्यं दर्शितम् । अनुमतिदानेन प्रवर्तयतीत्युक्त्या भगवतः प्रवृत्तप्रवर्तकत्वरूपमनुमन्तृत्वं दर्शितम् । ननु स्वयमेवोद्युक्तस्य जीवस्य प्रथमप्रवृत्ताविव द्वितीयादिप्रवृत्तावपि स्वयं प्रवृत्ति संभवेन किमर्थं तत्र परानुमितिरित्यत्राह - परमात्मानुमतिमन्तरेणेति । अन्तःप्रविष्टः य आत्मनीत्यादि श्रुतिभ्यः परस्य प्रवर्तकत्वावगमात्
द्वितीयादिप्रवृत्तौ अनुमतिदानेन प्रवर्तकत्वं स्वीकर्तव्यमिति भावः । ननु अन्तःप्रविष्टः इत्यादिशास्त्रैः सामान्यतः अवगतस्य भगवत्प्रवर्तकत्वस्य संभवः द्वितीयादिप्रवृत्तावेवेति कथमवगम्यते, तत्रापि अनुमतिदानेनेति कथं विशेष्यते प्रथमप्रवृत्तावपि श्रुतानुसारेणाप्रवृत्तप्रवर्तकत्वमेव किं न स्यादित्याशयेन पृच्छति - कुतः एतदिति । विहितं = विधिः, प्रतिषिद्धं = निषेधः । निग्रहः = कोपः, अनुग्रहः = प्रसादः । फलदानमादिशब्दार्थः । अनुमतेः प्रवृत्तप्रवर्तकत्वरूपत्वेन न प्रथमप्रवृत्तौ तत्संभवः । प्रवर्तकत्वस्य सामान्यतोऽवगतत्वेऽपि विधिनिषेधशास्त्रवैयर्थ्यपरिहाराय ईश्वरनिग्रहानुग्रहयोः वैषम्यं विनोपपत्तये च द्वितीयादिप्रवृत्तावेवेति निश्चीयते । द्वितीयादिप्रवृत्तावपि साक्षात्प्रवर्तकत्वाभ्युपगमे ईश्वरे एव अनुष्ठिततत्तत्कर्मजन्यसुखदुःखादिफलप्रसंगस्स्यात् । अतः प्रथमप्रवृत्तौ औदासीन्यं द्वितीयादिप्रवृत्तौ अनुमतिदानेन प्रवर्तकत्वं चावश्यकमिति । नन्वनुमतिदानेन प्रवर्तकत्वे वा कथमीश्वरे फलासंगः प्रथमप्रवृत्ते जीवे च तत्संगः इत्यत्र दृष्टान्तेन समाधिमाह - यथेति । इतरानुमतेः स्वेनैव कृतमिति । इतरानुमत्या स्वेनैव परस्वत्वापादनं कृतमित्यर्थः । इतरानुमतिः स्वेनैव कृतेति पाठोपि सुसंगतः । अयं भावः । द्रव्यं तूभयसाधारणम् । केनचित् परानुमत्या स्वांशमादाय तस्य उपायनतया राज्ञे दाने प्रीतेन तेन राज्ञा दत्तस्य फलस्यान्वयः प्रथमप्रवृत्तस्य स्वस्यैव न त्वनुमतिदातुरपि । तद्वदत्रापि जीवस्यांशे पारतन्त्र्येपि अंशान्तरे स्वातन्त्र्यसत्वात् प्रथमप्रवृत्तस्यैव फलान्वयः नतु अनुमन्तुर्भगवतोऽपि इति । वस्तुतः अन्यसापेक्षत्वेपि रथाकर्षणादिषु विधिनिषेधगोचरत्वदर्शनात् जीवस्य परायत्तत्वेपि विधिनिषेधगोचरत्वसंभवेन न तद्वैयर्थ्यम् । ननु द्वितीयादिप्रवृत्तौ निवर्तनशक्तस्य कारुणिकस्य भगवतः अनुमन्तृत्वे निर्दयत्वप्रसंगः, अतस्तदानीमपि नानुमन्तृत्वसंभवः इति शंकायां पूर्वोक्तं परिहारं स्मारयति - पापकर्मस्विति । व्यतिरेकानवस्थितेश्चानपेक्षत्वादिति सूत्रभाष्ये प्रपञ्चितमित्यर्थः । अयं भावः - कूपे पतन्तं बालकं तन्निवारयितुं क्षमोप्यनुमन्यमानः उदासीनोऽपि वा निर्दयः इति लोकप्रसिद्धम् । अतः भगवतः पापकर्मणि अनुमन्तृत्वे निवारणक्षमत्वान्निर्दयत्वं स्यादिति ह्याशंक्यते । तत्र प्रथमप्रवृत्तौ सत्यां तामनुसृत्यैवानुमतिदानेन द्वितीयादिप्रवृत्तौ प्रवर्तकत्वात् अनुमन्तृत्वेऽपि न निर्दयत्वप्रसंगः । एतेन प्रथमप्रवृत्तावपि जन्मान्तरीयचरमप्रवृत्तिमनुसृत्यैव प्रवर्तयतीति तत्र प्रवर्तकत्वं स्वीकर्तुं शक्यं तस्य सर्वकार्यहेतुत्वस्वाभाव्यात् । तेन विना तृणाग्रमपि न चलतीति प्रमाणाच्च । किं च जीवानां विषमप्रवृत्तेः जीवस्वरूपस्य तुल्यत्वेन तन्निबन्धनत्वासंभवेन प्राचीनकृतकर्मनिबन्धनत्वावश्यकत्वात् कर्मणश्च वेदान्तसिद्धान्ते ईश्वरसंकल्परूपत्वेन कर्मनिबन्धनप्रवृत्तिवैषम्यस्येश्वराधीनत्वे एव पर्यवसानात् सर्वप्रवृत्तावपि ईश्वरस्यैव प्रवर्तकत्वम् अभ्युपेयम् । नन्वेवं सति कथं भगवतः साक्षित्वोदासीनत्वानुमन्तृत्वादिकं इति चेत्? उच्यते । सर्वावस्थायां सर्वद्रष्टृत्वात्साक्षित्वं, स्वतन्त्रत्वात्कर्तृत्वम् । प्रयोज्यकर्तुः जीवस्य कारयितृत्वात्प्रेरकत्वं, प्रवृत्तस्योत्तरोत्तरं प्रवर्तकत्वात् अनुमन्तृत्वं, अङ्कुरादिषु सलिलवत् सर्वेष्वपि कार्येषु सामान्यहेतुत्वादुदासीनत्वं, तत्तत्कर्मानुगणसर्वकार्यकर्तृत्वात् सहकारित्वं चेत्येवं भगवति श्रुत्युक्तानां धर्माणां समावेशान्न दोष इति । उद्योगमपेक्ष्येति पूर्वतनभाष्यग्रन्थोऽपि न प्रथमप्रवृत्तौ प्रवर्तकत्वविरोधी । परन्तु सर्वदा स्वातन्त्र्येण कर्तुरेवेश्वरस्य अनुमन्तृत्वादिधर्मान्तरलक्षणसमावेशनतात्पर्यक एव । प्रवृत्तिप्रवाहस्यानादित्वेन प्रथमप्रवृत्तिरूपदशाया एवाभावात् । तत्रतत्र प्राथम्यकथनं तु तत्तत्कालविशेषावच्छिन्नत्वतात्पर्यकमेव । अतो भगवतस्सर्वदा प्रवर्तकत्वे़नुमन्तृत्वेऽपि वा न निर्दयत्वादिप्रसंगः इति ॥
अयमत्र संग्रहः । जीवीयप्रवृत्तौ इयं प्रथमप्रवृत्तिः इयं द्वितीयप्रवृत्तिरित्येवं प्राथम्यादिकं दुर्वचम् । जीवस्वरूपस्येव कर्मप्रवाहस्येव च संसारस्यानादित्वेन प्रवृत्तिप्रवाहस्याप्यनादित्वात् । अतस्सर्वास्वपि प्रवृत्तिषु भगवतः प्रवर्तकत्वं, उदासीनत्वं, अनुमन्तृत्वं साक्षित्वमित्यादिकमभ्युपेयम् । प्रयोज्यकर्तृः जीवस्य कारयितृत्वात् प्रवर्तकत्वं, सर्वकार्येष्वपि सामान्यहेतुत्वादुदासीनत्वं, प्रवृत्तप्रवर्तकत्वादनुमन्तृत्वं, सर्वद्रष्टृत्वात्साक्षित्वमित्येतेषां धर्माणां युगपत् समावेशात् । अनेन प्रवर्तकत्वोदासीनत्वयोरविरुद्धत्वमप्युपपादितं प्रवृत्तिप्राथम्यस्य दुर्वचत्वेन प्रवृत्तप्रवर्तकत्वरूपानुमन्तृत्वमपि रक्षितम् । द्वितीयादित्वेनाभिमतप्रवृत्तीनां प्रथमप्रवृत्तित्वेनाभिमतप्रवृत्त्यनुसारित्ववत् प्रथमप्रवृत्तित्वेनाभिमतायाः प्रवृत्तेरपि तत्पूर्वतनप्रवृत्त्यनुसारित्वं तस्या अपि क्रमेण जन्मान्तरीयचरमप्रवृत्यनुसारित्वमित्येवं भगवतः प्रवृत्तप्रवर्तकत्वात् । कृतप्रयत्नापेक्षस्तु इत्युक्तिरपि लोकसिद्धाभिमानिकप्रवृत्तिप्राथम्याद्यभिप्रायिण्येव नतु प्रथमप्रवृत्तित्वेनाभिमतप्रवृत्तौ प्रवर्तकत्वं नास्तीत्यभिप्रायिका । तद्वाक्यानुमन्तृत्वादिलक्षणसमावेशतात्पर्यकत्वस्य पूर्वमुक्तत्वात् । न च सर्वत्रापि भगवत एव प्रवर्तकत्वे निर्दयत्वसंभवः । द्वितीयादिप्रवृत्तित्वेनाभिमतासु अनुमन्यमानस्य निर्दयत्वाभाववत्तदनापत्तेः । नच प्रथमप्रवृत्तावपीश्वरस्यैव प्रवर्तकत्वे विधिनिषेधशास्त्रवैयर्थ्यापत्तिः । प्रवृत्तिप्राथम्यस्य दुर्वचत्वात् । न ह्यनादौ संसारे इयं प्रथमप्रवृत्तिरिति काचिद्दशाऽस्ति । सर्वत्र कर्माधीनतयैव जीवस्य प्रवृत्तेः कर्मणश्च ईश्वरनिग्रहानुग्रहरूपत्वेनेश्वरे प्रवर्तकत्वस्याक्षतत्वाच्च । एतेन श्रुत्युक्तप्रवर्तकत्वादीनामसंकोचोऽपि सिद्धः । नन्वीश्वरस्यैव सर्वत्र प्रवर्तकत्वे सर्वजीवस्य परतन्त्रत्वावश्यकत्वेन स्वातन्त्र्यहानेः विधिनिषेधशास्त्रवश्यत्वमपगतमेवेति चेन्न, कर्माधीनप्रवृत्तिमत्व प्रयुक्तपारतन्त्र्यस्य स्वेच्छानुगुणप्रवृत्तिसामर्थ्ये सत्यनिवार्यत्वस्य स्वातन्त्र्यस्य च परस्पराविरोधेनोभयोपपत्तेः । जीवस्य चिच्छक्तियोगात्, कस्मिंश्चित् कर्मणि पूर्वकर्माधीनस्वेच्छायाः ईश्वरदत्तकरणकलेबरबुध्यादिसत्वेन सामर्थ्यस्य च सत्वात् भगवताऽनिवारणाच्चोक्तस्वातन्त्र्योपपत्तेः । ननु जीवस्य कर्माधीनस्वेच्छानुगुणप्रवृत्तिमत्वे कर्मणश्चेश्वरनिग्रहरूपत्वेन ईश्वराधीनप्रवृत्तिमतः कथं दण्ड्यत्वं दण्ड्यत्वानुगुणस्वातन्त्र्याभावात् । इतरनिरपेक्षापथप्रवृत्तिमत्वं हि दण्ड्यत्वानुगुणं इति चेत्, कर्मणो निग्रहानुग्रहरूपत्वेपि तज्जनकपुण्यापुण्यादीनां पूर्वं जीवेनैवानुष्ठितत्वेन परंपरया स्वकृतकर्मण एवापथप्रवृत्तेः दण्ड्यत्वसिद्धेः । कर्मणश्चानादित्वं शास्त्रसिद्धम् । अतो जीवकृतकर्मानुगुणतयैवापथप्रवृत्तेः भगवता तदनुगुणं फलप्रदानं युक्तमिति, न कस्यचिदपि चोद्यस्यावकाशः । एतद्विषये सूक्ष्मतत्त्वार्थविज्ञानं न सुलभम् । ज्ञातेपि आग्रहवशात्पौनःपुन्येन चोद्यकरणे अनभिज्ञत्वमेव दृढीकृतं भवति ॥
अधिकरणसारावलीतद्व्याख्यानादौ स्पष्टमयमर्थः प्रदर्शितः इति दिक् ।
ननु भगवतस्सर्वत्रापि कर्माधीनप्रवर्तकत्वे उन्निनीषयाऽधोनिनीषया च तन्निरेपक्षरूपस्य भगवतः प्रवर्तकत्वबोधकनैकश्रुतेः का गतिरिति शंकते - नन्वेवमिति । स्वयमेव = कर्मनिरपेक्षमेव, एतच्च श्रुतिवाक्यं न सर्वपुरुषसाधारणं, अपि तु यत्तच्छब्दघटितत्वेन व्यक्तिविशेषाभिप्रायकम् । तत्रापि पुरुषस्य साधुकर्मरुच्युत्पत्तिजननं अतिमात्रस्वानुकूल्यव्यवस्थितत्वफलं, असाधुकर्मरुच्युत्पत्तिजननं स्वप्रातिकूल्यव्यवस्थितत्वफलं, नतु परमात्मनः = स्वेच्छाकृतम् । अतो भगवत्कर्माधीनप्रवर्तकत्वेऽपि न कश्चिद्विरोधः इत्याशयेन समाधत्ते - उच्यत इति । अथोक्तार्थां श्रुतिमुपबृंहयति - यथोक्तमित्यादिना ॥ सर्वस्या अपि प्रवृत्तेः तदधीनत्वेन इदं कुरु इदं मा कुरु इति तेनोपदेशः कथं क्रियते? शरीरभूतानां जीवानां चेतनत्वादिवैलक्षण्यात् इति चेत्, तर्हि चैतन्यप्रयुक्ततया शुभाशुभकार्येषु स्वयमेव प्रवृत्तेः तदन्तर्यामिकत्वमस्य निष्प्रयोजनमिति चेत्, अत्र समाधानमेवं वदन्ति
- भगवतः सर्वावस्थास्वपि अन्तर्यामित्वस्य श्रुतत्वेपि जीवप्रेरणं तृतीयादिप्रवृत्तावेव । प्रथमप्रवृत्तौ औदासीन्यं द्वितीयायामनुमन्तृत्वमिति स्वीकारात् । तृतीयादावेव कारयितृत्वमिति संकोचनीयमिति ।
- प्रथमप्रवृत्तावपि कर्म-काल-अक्ष-प्रकृतिपरवशत्वमस्य स्वीक्रियते । तदा तत्र विधिनिषेधशास्त्रगोचरत्वम् अभ्युपगम्यते । तथैव परमात्माधीनत्वेपि शास्त्रपरवशत्वस्य न विरोधः, अतो न संकोचः कार्यः ।
- अनादिसंसारे इयं प्रथमा इयं द्वितीया इति प्रवृत्तेः नैव विभागः अतः सर्वास्वपि प्रवर्तकत्वाभ्युपगमे न विरोधः ।
- सर्वपरिकरबन्धयुक्तस्याप्यश्वस्य परापेक्षप्रवृत्तिमतोपि स्वातन्त्र्येण कर्तृत्व, तत्प्रयुक्तसुखदुःखभागित्वादीनां दर्शनवदत्रापि संभवात् ।
- परप्रेरणेन हिंसाकर्तुरपि हि दण्डवत्वादिकमालक्ष्यते । नच कारयितुः परस्यापि शिक्षणं दृश्यते इति वाच्यम् । अत्र कारयितुः परस्य शासकान्तराभावात् वैषम्यात् । कारयिता परमात्मा हि तत्तज्जीवीयकर्मानुसृत्य कारयति । न तु स्वेच्छया ॥ कर्म च पुण्यापुण्यरूपं ईश्वरनिग्रहानुग्रहरूपमेव, अतो न भगवतो दोषापत्तिः ।
एवं तत्रतत्र श्रुतिपरस्परविरोधपरिहारवत् इन्द्रियविषयेपि परस्परविरोधपरिहारः उत्तरत्राधिकरणेपि क्रियते ॥
वेदाः अनन्ताः उपनिषदोऽप्यनन्ताः । तासु परस्परविरोधाभावेपि विरोधसद्भावं मन्यमानाः सन्दिह्यन्ते । तेषां विरोधाभावोद्धाटनमुखेन सामारस्यमवश्यं कार्यम् । निर्गुणत्वसगुणत्वश्रुत्योः, सविकारत्वनिर्विकारत्वश्रुत्योः, भेदाभेदश्रुत्योः, मुक्तस्य देहसद्भावासद्भावश्रुत्योः, परमात्मनः शरीरवत्वशरीरनिषेधश्रुत्योः, वियदादेः नित्यत्वकार्यत्वश्रुत्योः, जीवात्मोत्पत्ति, तन्निषेधश्रुत्योः, आत्मनां चिन्मात्रत्व, ज्ञातृत्वश्रुत्योः, अणुत्वविभुत्वश्रुत्योः, तेजआदेः आत्मकार्यत्व,तदन्यकार्यत्वश्रुत्योः, आत्मनां कर्तृत्वाकर्तृत्वश्रुत्योः, विधिनिषेधश्रुति-अन्तर्यामिश्रुत्योः, स्वतन्त्रत्वपरतन्त्रत्वश्रुत्योश्च परस्परविरोधे आपाद्यमाने तद्विरोधः सूत्रकारेण परिहृतः । तत्र परायत्ताधिकरणे जीवानां स्वातन्त्र्येण कर्तृत्वस्य तस्य परायत्तत्वस्य च न विरोधः इति स्थापितम् । शरीरात्मभावस्थले अस्मच्छरीरव्यापारस्य सर्वस्य अस्मदात्मसंकल्पाधीनत्वेन अचेतनशरीरगतव्यापाराश्रयत्वरूपकर्तृत्वस्य तस्य च यथा न विरोधः, तथैव अस्मदादिचेतनगतप्रयत्नाश्रयत्वरूपकर्तृत्वस्य शरीरिभूतभगवत्संकल्पाधीनत्वेन न तयोः परस्परविरोधः । अतोऽन्तर्यामितया नियमनकर्तृत्वं भगवतः स्वतन्त्रकर्तृत्ववतो जीवस्य न विरुद्धमिति । ननु अस्मदादिशरीरव्यापाराणां जीवात्मसंकल्पाधीनत्ववत् अस्मदादिजीवव्यापाराणामपि परमात्मप्रेरणाधीनत्वात् विधिनिषेधशास्त्राणां कथमर्थवत्वं? अस्य परिहारः पूर्वमेवोक्तः ॥
इति परायत्ताधिकरणम् ॥