(2.03.05) कर्त्रधिकरणम् ।ज्ञातृत्वस्य कर्तृत्वोपयुक्तत्वात् तन्निरूपणानन्तरं कर्तृत्वंनिरूप्यत इति संगतिः । यद्वा आत्मनो ज्ञातृत्वं न संभवति कर्तृत्वस्याध्यस्तत्वेनतद्विशेषज्ञातृत्वस्याप्यध्यस्तत्वावश्यकत्वादित्याक्षेपेण संगतिःअअकर्तैवात्मेति। निर्विकारस्यात्मनः कृतिरूपविकारवत्वासंभवादितिभावः । किं बहुना श्रुतावेवात्मनः अकर्तृत्वमुक्तमित्याह - आत्मनइति । च शब्दः हेत्वन्तरसमुच्चायकः । हन्ता चेदित्यस्य जीवविषयकत्वसंप्रतिपत्त्यै जीवस्येत्यादिकमुक्तम् । श्रुतौ हन्तुमित्येतत्जन्तुं सेतुमितिवत् द्वितीयान्तम् । औणादिकतुमुन्प्रत्ययान्तत्वात्हन्तारमित्यर्थः । “य एनं वेत्तिहन्तारं यश्चैनं मन्यते हत"मितिगीतावचनैककण्ठ्यात् । ततश्चायमर्थः - हन्ता=हननकर्तृत्वाभिमानवान्आत्मानम्हन्तुं=हन्तारं मन्यते चेत् हतः=हननकर्मत्वाभिमानवात् आत्मानम्हतं हननकर्मभूतं मन्यतेचेत् तावुभौ न विजानीतः ।अयमात्मा नहन्ति=नहननकर्ताभवति । नहन्यते = न हननक्रियायां कर्मभूत इति । पर्यवसितमर्थमाह - हन्तारमिति।आत्मनःहननकर्तृत्वादि ज्ञाने आत्मज्ञानमेव तस्य नास्ति । कर्तृत्ववत्कर्तृत्वमपि निषिद्धं इति भावः । सर्वशः=सर्वाणि ।प्रकृतेः गुणैरितिराहोश्शिर इति वन्निर्देशःतन्मते तेषां प्रकृतिधर्मत्वा नभ्युपगमात् । अत्र प्रकृतिरेव कर्त्रीपुरुषस्याहं कर्तेति प्रतीतिः भ्रान्तिरूपेति स्पष्टमुक्तमिति पूर्वपक्षिहृदयम्अत्रोपबृंहणस्पे गीतावचने कर्तृत्वसामान्यनिषेधात् श्रुत्युक्तहननकर्तृत्वनिषेधः उपलक्षणभूतस्सन् सर्वक्रियायामपि कर्तृत्वनिषेधंसूचयतीति तात्पर्यम् । पूर्वपक्षमुपसंहरति - अत इति। अत्र विकल्पेसिद्धान्तिपक्षः प्रथममुक्तः । ज्ञातृत्वस्थापनानन्तरं तद्विशेषकर्तृत्वमस्तिवा नवेत्येव शंकासंभवः । नतु अकर्तृत्वमस्तिवानवेति ।। सत्वरजस्तमोमयीप्रकृतिः तत्परिणामभूतदेहेन्द्रियादिगतमेव कर्तृत्वंदेहः खलु करोति व्यापारम् । इन्द्रियाणि खलु पदार्थं विषयीकुर्वन्तियद्वा प्रकृति परिमाणभूतबुध्यात्मकाहंकाररूपमहत्तत्वगतं वाकर्तृत्वम्इति भावः ।।कर्ता शास्त्रार्थवत्वादिति पदविन्यासपर्यालोचनया उक्तार्थवत्वस्यकर्तृगतत्वमभिसन्धाय सूत्रतात्पर्यार्थमाह - शास्त्राणि हीति। अनेनशास्त्रविहित क्रियाजन्य फलभोक्तृत्वात् जीव एव कर्तेति सूत्रार्थोदर्शितः । अथ शास्त्रपद पर्यालोचनयाऽर्थान्तरमाह - शासनाच्चेति।अनेन यजेत उपासीत इत्यादिविधिरूपशास्त्रस्य साफल्योपपत्तेः आत्मैवकर्तेति सूत्रार्थो दर्शितः । पूर्वत्रात्मनः अकर्तृत्वे फल भोक्तृत्वासिद्धिप्रसंगः । अत्र शास्त्रस्य प्रवर्तकत्वासिद्धिप्रसंग इति भिदा ।अयमत्र निर्गलितार्थ - भोक्तुरेव कर्तृत्वात् चेतनस्यैवच भोक्तृत्वात्कर्तृत्वमात्मनःआवश्यकंशास्त्रस्यच बोधजनन द्वारा प्रवर्तकत्वात् अचेतने च बोधजननासंभवात्चेतनस्यैव कर्तृत्वमावश्यकमिति ।शास्त्र फलमिति। शास्त्रविहित क्रियाजन्यस्वर्गादिफलं तदनुष्ठातर्येवेति कर्तृत्वमात्मन इत्यर्थः । आत्मनःसर्वास्वपि क्रियासु कर्तृत्व (सामान्य) निषेधः नात्रोच्यते । परंतु हननक्रियायामेव निषेधः । आत्मनो नित्यत्वोपपादन प्रकरणात् ।यद्वा शास्त्रजन्य बोधाख्यं फलं अनुष्ठानसमर्थे चेतने एवेति तस्यैवकर्तृत्वमित्यर्थः ।हन्तव्यत्वाभावादिति। आत्मनः कर्तृत्वं प्रतिषिद्धमेवशरीरादिहननकर्तृत्वमपि तथैव । परंतु आत्मकर्मकहननकर्तृत्वं नास्तिआत्मनोनित्यत्वेनतत्कर्मकहननासंभवात् । अत एवहि “यश्चैनं मन्यतेहतं"नायं हन्ति हन्यते इति वाक्येन तदुपष्टभ्यत इति भावः ।आत्मनःऋत्विजः कर्तृत्वं फलभोक्तृत्वं तदन्ययजमाने परिक्रयविधि बलात्स्यापयिष्यतेच । तस्मै हि परिक्रीयते इति । तावतापि त्वदनभिमतंऋत्विगात्मनः कर्तृत्वं सिद्धमेव ।। सांसारिक प्रवृत्तिष्विति ।संसारदशायां या प्रवृत्तिः सा सांसारिक प्रवृत्तिः तास्वित्यर्थःननस्वरूप प्रयुक्तेति। स्वरूप प्रयुक्तत्वे मुक्तस्यापि सांसारिकप्रवृत्तिषु कर्तृत्वापत्त्या तस्यापि तादृशी प्रवृत्तिस्स्यादिति भावः ।प्राप्ताप्राप्तविवेकेनेति । सत्वरजस्तमोरूप प्राकृतगुणसंसंर्गेऽस्यसांसारिक क्रियाकर्तृत्वं तदभावे च न तादृशकृर्तृत्वमित्यन्वयव्यतिरेकनिरूपणेनेत्यर्थःगगुणानामेव कर्तृतोच्यतइति । सांसारिकक्रिया कर्तृत्वस्यैपाधिकत्वप्रदर्शनपरं तद्वचनं न तु कर्तृत्वसानान्यनिषेधपरमिति भावः । अथसांसारिक क्रियाकतृत्वस्य गुणसंगकृतत्वे गीतावाक्यमेवोपष्टम्भयति - तथाच तत्रै वोच्यतेइति । आत्मन एव कर्तृत्वमपि गीतावचनाभिप्रेतमित्याह - तथेति।केवलं=अधिष्ठानादि रहितम्। अथोदाहृतवचनस्य कर्तृत्वनिषेधपरत्वभ्रमव्युदासाय “तत्रैवं सति - केवलमिति पदानामर्थ वैशद्यायच तत्पूर्वतनं वाक्यमुपादत्ते - अधिष्ठानमितिअधिष्ठानादि दैवपर्यन्तसापेक्षे सतीत्यनेन तत्रैवं सतीति विवृतम्आत्मानमेव केवलमित्यनेन केवलशब्दार्थो विवृतः । “शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्यहेतवः"इति अधिष्ठानमित्यादेरपि पूर्वः श्लोकः । तत्र पञ्चानामपि देहात्मादीनांकर्तृत्वं साधारणमित्युक्तम् । ततश्च कर्तृत्वस्यसाधारणत्वेन स्वात्ममात्रस्यकर्तृत्वज्ञानंभ्रान्तिरिति “न सपश्यति दुर्मतिरित्यनेनोक्तमिति भावः । अधिष्ठानं=शरीरम्कर्ताः जीवः । चेष्टा= पञ्चवृत्तिप्राणः । ननु निर्विकारस्यात्मनःकृतिरूपविकारवत्वासंभवात् कर्तृत्वाध्यासमूल एव सर्वोपिव्यवहार इति चेन्न,अध्यासस्यापि विकाररूपत्वेन तस्यापि निर्विकारस्वरूपेऽसंभवात्ततश्च=तन्मूलकस्य सर्वव्यवहारस्यापि विलोप प्रसंगात् । अतः आत्मनःकर्तृत्वंयुक्तमिति भावः । वस्तुतः नाहंकर्ताऽस्मीति अहमः कर्तृत्वनिषेधोपिन संभवति । अहमर्थस्यात्मत्वे तत्रैव कर्तृत्वेन स्ववचनविरोधात्अहंकारस्य तथात्वे च त्वन्मतरीत्या कर्तृत्वस्य निषेधासंभवश्च” ।।
“एवमेष” इत्यस्य जीवविषयकत्वव्यक्त्यै प्रकृत्येति भाषितम् । एतान् = प्राणान्= इन्द्रियाणीति यावत् । गृहीत्वा = उपादाय । परिवर्तते = विहरति । प्रथमंइन्द्रिय प्रेरणेकर्तृत्वम् । द्वितीयं च शरीर प्रेरणेकर्तृत्वम् ।बाह्यविषयेषुदेहेन्द्रियादि व्यापरदर्शनेन तेषामेव कर्तृत्वमितिवदतस्तवापि देहेन्द्रियादि प्रेरणविषये आत्मनः कर्तृत्वमभ्युपगन्तव्यमेव ।।“स यथा महाराजः जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्ततेएवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे…………इति स्वप्नविषयिणीश्रुतिः । शरीरे स्वप्नकालसृष्टशरीरे । अत्र शरीरस्याधिकरणत्वंइन्द्रियाणां कर्मत्वं चोक्तम् । परिवर्तते इति आत्मनः कर्तृत्वंच । अतः इन्द्रियोपादान विहरणादि अत्रोक्तम् ।।
करणविभक्ति निर्देशस्स्यादिति । विज्ञानमिति निर्देशस्यौपचारिकत्वाश्रयणंतु क्लिष्टं संभवन्त्यां गतौतथाश्रयणमयुक्तम् ।यदि विज्ञानशब्दस्यान्तःकरणपरत्वं तदा करणे ल्युट्। करणं च कृति साधनं न तु क्रियायां कर्तृअअतो विज्ञानेन इति वक्तव्यम् । नचान्तः करणस्य ज्ञानविषये साधकतमत्वं"जानात्यनेन’ इति व्युत्पत्त्या क्रियाविषये कर्तृत्वमस्तु इति वाच्यम् । तथाज्ञातृत्वभोक्तृत्वकर्तृत्वादीनां सामानाधिकरण्यमनुभूयमानं हीयेत ।।
आत्मन इति । पूर्वत्र श्रुतिस्मृति बलादात्मनः कर्तृत्व मुक्तम्अथानुपपत्ति बलादपि स्वीकर्तव्यमिति भावः । तद्वदित्यन्तेन उपलब्धिवदितिविवृतम् । अनियममुपपादयति - आत्मनोऽकर्तृत्वे प्रकृतेश्च कर्तृत्वइति। अयं भावः - यदि प्रकृतिरेव कर्त्री तर्हि केन चित्कर्मणा कस्यचिदेवपुरुषस्य सुखदुःखोपभोगो नान्यस्येति नियमो नसिध्येत् । कर्तृ भूतप्रकृतेः सर्वपुरुष साधारणत्वेन तया क्रियमाणकर्मणामपि सर्वपुरुषसाधारणत्वात्यदि च तत्कृतकर्मणां पुरुषभोगजनकत्वं नाभ्युपेयते तर्हि कस्यचिदपिपुरुषस्य भोगाभावः प्रसज्येत । नच प्रकृति परिणामविशेषेण तत्तत्पुरुषनियतेनान्तःकरणेन कर्त्रा क्रियमाणैः कर्मभिः तत्तत्पुरुषस्य भोगः इति व्यवस्थाशंक्याःतेषामपि सर्वपुरुषसाधारण प्रकृति परिणामित्वेन पुरुष व्यवस्थाऽभावात्अतः प्रकृतेः तत्परिणामस्य वा कर्तृत्वाभ्युपगमे न भोगव्यवस्थासूपपादेति ।अयमाशयः - देहावच्छेदेनैवात्मोपलिब्धिः अन्यावच्छेदेन नास्तीत्यनुभवसिद्धम्तत्रोपलब्धिं प्रति अनुपलब्धिं प्रति च किं कारणम् आत्मव्यतिरिक्तस्यतुन कारणत्वम् । आत्मन एवेति तु वक्तव्यम् । तर्हि देहावच्छेदेनापिअनुपलब्धिः कुतो न, अन्यावच्छेदेनोपलब्धिः कुतो न । इति प्रश्नस्यपरिहारो न संभवति । आत्मनो विभुत्वात् । अणुत्वे तु नैवं प्रसञ्जसनंसंभवति । जडरूपत्वमात्मनां अंगीकुर्वतां नैयायिकानां मतेपि विभुत्वांगीकारादेवमापत्तिःस्यादेव । न च स्वयंप्रकाशत्वा भावात् कारणायत्तज्ञानाधीनमेवात्मनःप्रकाशात् बाह्यदेशेकरणाद्यभावात् नैवमापादनं सुशकमिति वाच्यंआत्मनां विभुत्वांगीकारात् सर्वात्मकरणानामपि सर्वसंबन्धित्वं नापह्नोतुंशक्यम् । तत्तत्करणनिष्पाद्यकर्मणामपि सर्वीयत्वमपि नापह्नवार्हम् ।तत्तज्जन्यादृष्टमपि साधारणम् । अत एतदधीनः आत्मानुभवः सर्वकरणावच्छेदेनएकैकस्यापि भवितुमर्हति । अतो बाह्यावच्छेदेनात्मानुभवाभावेपि एकैकदेहावच्छेदेनसर्वस्याप्यात्मनोनुभवः अपरिहार्यः । सर्वेषामपि कर्मणां सर्वपुरुषसाधारमत्वात्भोगव्यवस्थापि न भवति । इदं कर्म अस्यैव पुरुषस्य भोगं जनयतीतिव्यवस्था नैव सेत्स्यति । सर्वकर्मणामपि सर्वपुरुष साधारणत्वात्अदृष्टादेरपि नियामकत्वासंभवात् ।एवं प्रकृतेः कर्तृत्वेपि तस्याः सर्वपुरुषसाधारणत्वेन व्यवस्थान सेत्स्यति । नच प्रकृतिद्रव्यस्य वभुत्वेपि तस्यैकस्य सर्वपुरुषसाधारणत्वेपिन कर्तृत्वमिष्यते । तत्परिणभूत प्रतिनियतपरिणमितान्तः करणस्यैवतततश्च तत्सन्निहितस्यैवतत्कर्तृकक्रियाफल भोक्तृत्वमिति वाच्यम्आत्मनो विभुत्वेन तादृशान्तः करणसन्निधानस्य सर्वात्माविशिष्टत्वेनदोषपरिहारासंभवात् ।। ननु नैतद्युक्तं भवन्मतेपि परमात्मनः चिद्रूपस्यविभुत्वांगीकारात् परवासुदेव रामकृष्णादि देहावच्छेदेनात्मोपलब्धिवत्बर्हिर्देशावच्छेदेनापि आत्मोपलब्धि प्रसंगस्यापरिहारात्परमात्मनः इव लक्ष्म्या अपि विभुत्वांगीकारात् लक्ष्मीदेहावच्छेदेनापिअहमर्थोपलब्धि प्रसंगः । एवं परमात्मनो विभुत्वात् नित्ये मुक्तेबद्धेप्येतत्संबन्धस्य विद्यमानत्वात् तत्तत्करणजन्यव्यापाराणां तत्तत्करणाहेतुकव्यापाराणांवा भगवदीयत्त्वेन साधारणात्वात् तदधीनात्मानुभवस्य सर्वप्रदेशावच्छेदेनापत्तेःदुष्परिहरत्वमेव । एवं जीवस्य तत्कर्मणः अदृष्टस्य देहादेश्च भगवदीयत्वेनजीवपरयोः भोगव्यवस्थापि न स्यात् इति चेत् ब्रूमः । विभुत्वप्रयुक्ततयासर्वीयत्वस्येव शरीरात्मभावप्रयुक्तसर्वीयत्व स्यापि अंगीकुर्वतामस्माकंमते क्षत्यभावात्अहमर्थस्य परमात्मपर्यन्तत्वात् बाह्यप्रदेशस्यापि तच्छरीरत्वात्सर्वत्राहं प्रत्ययः इष्ट एव । लक्ष्म्यामपि अहं प्रत्ययः इष्टएव “हन्ताहमिमाः’ इत्यादौ लक्ष्मीविशिष्टपरमात्मन एव हि वाचकः अहंशब्दः । लक्ष्म्याःविभुत्वं परित्यज्याणुत्वं स्वीकुर्वतांमतेपिइयमनुपपत्तिः समाना । भोगस्य व्यवस्था न भवतीत्यापादनं न सुशकम्भोगकारणभूतादृष्टं हि पुण्यपापरूपम् ।तच्च ईश्वर निग्रहानुग्रहरूपम्तच्च ज्ञान रूपत्वात् सविषयकम् । अस्य जीवस्य एतत्कर्मनिमित्तंइदं फलं भवतु त्याकारकम् । न तु स्वस्य फलं भवतु इत्याकारकम् ।अतो भोगाः जीवानामेव न परस्य इति न कस्यचिदपि दोषस्यावकाशः इति ध्येयम् ।।
कर्तुरन्यस्य भोक्तृत्वानुपपत्तेरिति । अकर्तुः पुरुषस्य कर्मफलभोगानुपपत्तेरित्यर्थःततः किमित्यत्राह - भोक्तृत्वं चेति। ततोऽपि किमित्यत्राह - आत्मसद्भावइति। इष्टापत्तावपसिद्धान्तमाह - पुरुषोऽस्तीति ।।
वक्ष्यमाणदूषणोपपत्तये समाधिस्वरूपमाह - स चेति । न चेति । स्वस्य स्वान्यत्वानुसन्धानायोगादितिभावः । पुरुषस्य कर्तृत्वे तु तस्य प्रकृतिविलक्षणत्वेन तथा समाधिर्युक्तः ।ततश्च समाध्यसिध्या तत्साध्य मुक्तेरप्यसिद्धिरिति भावः । इदमुपलक्षणम्अचेतनत्वादपि प्रकृतेः समाधिर्नोपपद्यत इत्यपि द्रष्टव्यम् ।आरोपितज्ञातृत्व भोक्तृत्ववता प्रकृतिपरिणामभूतेन महदारव्याहं कारेणसहैक्यभ्रमवतः आत्मनः अहंक रोमि जानामि अनुभवामि इति ज्ञानमेव बन्धःएतन्निवृत्यर्थं करणभूतैक्य भ्रमनिरासाय प्रकृतेः अन्योऽहमितिसमाधिः । आत्मनः कर्तृत्वा भावात् आत्मैवैवं समाधिं कुर्यात्न तु प्रकृतिः असंभवात् ।।
सर्वदा कर्तृत्वान्नोपरमेत इति । यावद्वागादिकरणसत्त्वमिति भावः । दृष्टान्तपरसूत्रेणसिद्धमर्थ मादौ दार्ष्टान्तिकेऽतिदिशति - वागादीति। सूत्रार्थमाह - यथेति।उक्तशंकायाः तन्मत एव प्रसर इत्याह - बुद्धेस्त्विति। अचेतनायाः इतिहेतुगर्भम् । यद्यपि क्रियाश्रयत्वरूपं कर्तृत्वं चेतनाचेतनसाधारणम्शरीरप्रेरणहेतुभूत बुद्धि विशेषात्मक प्रयत्नाश्रयत्वं चेतनैकान्तंइति सिद्धान्तः । अथापि “गुणैःकर्माणि सर्वशः । नान्यं गुणेभ्यःकर्तारं” । इत्युक्त्या क्रियाश्रयत्वरूपकर्तृत्व वचनं प्रयत्नाश्रयत्वरूप कर्तृत्वस्याप्युपलक्षणंअत एव हि चेतनाचेतन साधारणस्य क्रियाश्रयत्वरूप कर्तृत्वस्या चेतनैकान्त्यमुक्तम् । अन्यथा “पुरुषः सुख दुःखानां कर्तृत्वे हेतुरुच्यते"इत्येव निर्देशस्स्यादिति पूर्व पक्ष्याशयः ।।अत्रेदमवधेयं - सांख्यमते प्रकृति परिणामभूतबुध्यपरपर्यायमहतत्त्वेएव कर्तृत्वं भोक्तृत्वं च नत्वात्मनि ।तस्य निर्लेपत्वात् । नन्वेवंसति अहं कर्ता अहं भोक्ता इति कथ मात्मनि कर्तृत्व भोक्तृत्व व्यवहारःइति चेत्? इत्थम् ।बुद्धितत्वमेव अहंकार शब्देन महतत्व शब्देन चाभिधीयतेतच्च प्रकृति परिणामरूपम् । चैतन्यस्वरूपस्यात्मनःतेन संनिधानात्तत्र चैतन्य मध्यस्तम् । तादृशाहंकाररूप महतत्वाभेदेन आत्मनः ग्रहणात्तथा प्रतीति रूपपद्यते ।ततश्च बुद्धिगतयोरेव कर्तृत्व भोक्तृत्वयोःआत्मन्यारोपः इति तथोपलब्धिः । एवमारोपेण लोकव्यवहार सिध्यर्थमेवपुरुषस्य कल्पनंअमुमाशयं मनसिनिधायैव पुरुषोऽस्ति भोक्तृभावादिति तैरुक्तम् ।नतु पुरुषे वस्तुतो भोक्तृत्वमभ्युपगम्य । अयमभि प्रायः रचनानुपपत्यधिकरणभाष्येस्पष्टः “एवं भूतेऽपि तत्त्वे मूढाः प्रकृतिपुरुष सन्निधिमात्रेणपुरुषस्य चैतन्यं प्रकृतावध्यस्य प्रकृतेश्च कर्तृत्वं स्फटिकमणाविवजपाकुसुमस्यारुणिमानं पुरुषेऽध्यस्य अहं कर्ता भोका इति मन्यन्तेएवमज्ञानात् भोगः तत्वज्ञानाच्चापवर्गः “इति भाष्यम् । अथमर्थोदर्पणेपि विस्तृतः” अनेन कर्तृत्व भोक्तृत्वयोः महत्तत्वैक निष्टत्वरूपंसामानाधिकरण्यं तैरभ्युपगतमिव । एतादृशमहत्तत्वाभेदस्य आत्मनि ग्रहणात्पुरुषस्यात्मनि कर्तृत्वभोक्तृत्वारोपःएवं च प्रकृतिः गुणमयी । तस्या एव कर्तृत्वं कर्तृभूतांहकारः गुणमयःतत्तत्त्वाभिन्नतया पुरुषः स्वस्वरूपम् मोहात् गृह्णीति । अतःस्वात्मनि कर्तृत्वमरोपयति अहं जानामि, अहमनु भवामि अहंकरोमितिसर्वापि प्रत्ययो भ्रान्ति मूलः इति ।।सिद्धान्ते जानाति इच्छति यतते करोति अनुभवति इत्युक्तज्ञातृत्वादीनांसमनियतत्वात् एकनिष्टत्वं वाच्यम् ।य एव जानाति । स एवेच्छति यःइच्छतिस एव यतते? यो यतते स करोति यः करोति स एवानुभवति । भवन्मते निष्क्रियेपुरुषे भोक्तृत्वं वस्तुतो नास्ति । अतोऽचेतन महत्तत्वे एव एतेषांधर्माणा मस्तित्वं वक्तव्यम् ।अचेतनभूत महत्तत्वरूप बुद्धौ ज्ञातृत्वंतु नास्ति । ज्ञातृत्वादीनां सर्वेषां ज्ञानावस्थाविशेष रूपत्वात्कर्तृत्वादीनां नैव प्रसक्तिः । यद्यपि प्रकृति पुरुषसन्निधान प्रयुक्ततयाअचेतने महत्तत्वे चैतन्य मारोप्य तदनुसारेण ज्ञातृत्वकर्तृत्वादीनांमहत्तत्वे अभ्युपगःतथापि तस्य वास्तविकत्वं न संभवति । तथाप्यभ्युपगमे कर्तुरचेतनस्यमहत्तत्वस्य विनाशेन कालान्तरभावि स्वर्गादिफलानुभोक्तृत्वं नैवसुवचम् । अतः कर्तुरन्यस्यैव भोक्तृत्वं वाच्यम् । ततश्च शास्त्रस्यार्थवत्त्वंन संभवति ।कर्ता अन्यः भोक्ता चान्यः इति लोकानुभव विरुद्धम् ।वस्तुतो भवन्मते पुरुषसन्निधानात् महत्तत्वे आरोपितमेव चैतन्यादिकम्एवमारोपित चैतन्य कर्तृत्वादीनां महत्तत्वाभेदग्रहणेन आत्मनिचारोप इति सुदूरगमने न अहंकर्ता भोक्ता इत्यादि प्रतीति निर्वाहःअत्यन्तमपहास्यः । अतोऽविनाशिनः आत्मन एव भोक्तृत्वात् तस्यैवकर्तृत्वं वाच्यंन चात्मनः अविनाशित्वेपि शरीरेन्दियादिष्वेव कर्तृत्वस्य प्रत्यक्षसिद्धत्वात्तद्विरोध इति वाच्यम् । शास्त्रनियोज्यत्व भोक्तृत्वान्यथाऽनुपत्त्यैवजीवस्य कर्तृत्वावश्यकत्वात् । शरीरादिषु क्रियाश्रयत्व रूपकर्तृत्वस्यप्रत्यक्षसिद्धत्वेपि प्रयत्नाश्रयत्वरूप कर्तृत्वस्य प्रत्यक्षबाधात् । नच सांसारिक व्यापारेषु पुरुषस्य शरीर संबन्धरूपोपाधिवशेनकर्तृत्वदर्शनात् अन्वयव्यतिरेकाभ्यां प्राप्ताप्राप्तविवेकेन चउपाधिभूत शरीरस्यैव कर्तृत्वं स्वीक्रियताम् । सलिलगतौष्ण्यस्यवह्नि संपर्क कृतत्वेन वह्नावेव औष्ण्य स्वीकारवत्नहि प्रलयदशायां देहविरहिणः कर्तृत्वं संभवतीति वाच्यम् ।मोक्षदशायामपितस्य कर्तृत्वस्वीकारेणानुपपत्त्यभावात् । अतः कर्तृत्वं स्वरूपकृतंउपाधिकृतंच । संसारदशायां उपाधिकृतं मुक्तौ स्वरूपप्रयुक्तम् ।न च मुक्तामपि अप्राकृत शरीर संबन्धोपाधिकत्वेन न कर्तृत्वं स्वरूपकृतम्अतः उपाधावेव कर्तृत्वं स्वीक्रियतामितिवाच्यम् । मुक्तस्य शरीरसंबन्धतदभावयोः स्वीकारात् । अशरीरस्यापि कर्तृत्वांगीकारात् । न च शरीराभावेकथं कर्तृत्वं इति वाच्यम् । जानामि इति ज्ञान क्रियाश्रयत्व रूपकर्तृत्वस्य तदानीं सत्वात् । ननु रथो गच्छति आत्मा जानाति अनुभवतीत्यादौक्रियाश्रयत्वरूपसामान्य कर्तृत्वस्य चेतनाचेतन साधारणत्वात् जीवस्यैवकर्तृत्वमिति कथं सिद्धान्तः युष्माकं संगच्छते इति चेत्? शरीरादिप्रेरणहेतुभूत बुद्धिविशेषारव्यप्रयन्ताश्रयत्वरूपकर्तृत्वस्य जीवे़स्माभिः स्वीकारात् । हेतुत्वं त्रिषु कर्तृभाव उभयोः इत्यत्रापिएतादृशकर्तृत्वस्यैव विवक्षणात् । क्रियाश्रयत्वरूपकर्तृत्वस्याचेतनेसत्वेपि क्षतिविरहात् । नचैतादृशस्य कर्तृत्वस्य अप्राकृत प्राकृतशरीरहेतुत्वात्सोपाधिकत्वमेव अतः प्राप्ताप्राप्तविवेकन्यायेन अचेतने एव कर्तृत्वाभ्युपगमःउचितः इति वाच्यम् । निरुक्त प्रयत्नाश्रयत्वरूप कर्तृत्वस्याचेतनेशरीरे प्रत्यक्षविरुद्धत्वेनासंभवात् । सलि लौष्ण्हेतुभूतवह्नौतुऔष्ण्यं प्रत्यक्षसिद्ध मविरुद्धम् ।अतस्तत्रोपाधिगतत्वाभ्युपगमःक्रियाश्रयत्वरूपकर्तृत्वं त्वविरुद्धं चेतन इवाचेतनेपि स्वीक्रियतएव, अत एव गीतायां अधिष्ठानं तथा कर्ता इत्यादिनाक्रियाश्रयत्वरूपस्यकर्तृत्वस्य सर्वसाधारण्योक्तिःनचात्र अधिष्ठानं=करणं - चेष्टा इत्येतेषां कर्तृत्व प्रतिपादानमेवक्रियते न तु जीवस्यापीति वाच्यम् । अधिष्ठानादिवत् जीवस्यापि कर्तृत्वप्रतिपादनार्थत्वस्यप्रकृतत्वात् । अन्यथा पंचमं इति संख्याप्रतिपादनस्यानु पपन्नत्वापत्तेःअत्र जीवशब्दप्रयोगं विना कर्तृशब्द प्रयोगेणापि कर्तृत्वं सुदृढंस्थापितं भवति । शरीरादि प्रेरणहेतुभूतबुद्धि विशेषाख्य प्रयन्नाश्रयत्वरूपकर्तृत्वं अचेतनापेक्षया अधिकमिति सूचनायैव कर्तृशब्दप्रयोगः ।सर्वमिदं रहस्यत्रयसारचरमश्लोकाधिकरे सुस्पष्टमिति । यदत्र दर्पणे,कर्तृत्व भोक्तृत्वयोः वैयधिकरण्यं सांख्येष्ट मसम्भावितं इति,तदपि,पुरुषोस्ति भोक्तृभावादिति तदुक्तकारिकामवलम्ष्येति ध्येयंप्रकृति पुरुषसन्निधानेन चैतन्याध्यासं वदतां तेषां मते महत्तत्वेएव कर्तृत्व भोक्तत्वयोः स्वीकारः । एवं महत्तत्वाभेद ग्रहेण आत्मनिअहं कर्ता भोक्ता ।। इति कर्तृत्व भोक्तृत्वयोः सामानधिकरण्यं तैःस्वीकृतम् । पूर्वत्राध्यासेन महत्तत्व रूप बुद्धौ तयोः स्वीकारःपरत्रात्मनि महत्तत्वाभेद ग्रहेण तयोः आरोपः इति विशेषः ।।ननु ज्ञानाश्रयत्वरूप क्रियाश्रयत्वस्यात्मनि स्वीकारे आत्मा जानातिन जानाति इति प्रयोगसत्वात् ज्ञानवत्वतदभावयोरुक्तौ आत्मनः सविकारत्वंस्यात् इति चेत्? न । ज्ञानस्य धर्मस्यैव संकोच विकासवत्वाभ्युपगमेनसविकारत्वापादनासंभवात् । संकोचविकासरूप विकारो हि ज्ञानस्यैव,न तु धर्मिणः आत्मनः । धर्मस्य धर्मिणश्च नत्यत्वात् कदाचित् संकोचार्हज्ञानवत्वं कदाचिच्च विका सार्हज्ञानवत्वमित्यंगीकारे न धर्मिणोविकारित्वसिद्धिः ।आत्मभूत द्रव्यगत धर्मज्ञानरूप द्रव्यगत संकोचविकासादीनांआत्मन्य प्रसक्तेः । नहि भूतल द्रव्यवृत्ति घटादेः विकारे जातेतेनाश्रयस्य भूतलस्य सविकारत्वंनच पृथ क्सिद्धस्थले तदसभवेपि अपृथक्सिद्ध द्रव्यस्थले एव मापादनंसंभवतीति वाच्यम् । चेतनाचेतनायोः परमात्मापृथक्सिद्धत्वेपि तद्गतविकाराणांपरमात्मन्यसंभवस्योपपादनात् । नहि देवदत्त शरीरगत स्थूलत्वादीनांजीवे संभवः । नच परस्येव जीवस्यापि न संसारित्वापत्तिः इति वाच्यम्शरीरसंबन्ध प्रयुक्तसंसारित्वस्य स्वामित्व प्रयुक्तस्यानिवारणात्परमात्मनितु स्वामित्व प्रयुक्त सुख दुःख भागित्वरूप संसारित्वंतु “कर्म वैशेष्यात्” न स्थानतोऽपी त्यादि ना परिहृतम् । वस्तुतःस्वाभाविक ज्ञाने हेय संकोचविकासवत्वयोर स्वीकृतत्वात् संसारित्वापादनासंभवःइति ध्येयम् ।।