22 ज्ञाधिकरणम्

(2.03.04) ज्ञाधिकरणम्तत्प्रसंगेनेति - जीवस्वरूपनिरूपणस्य कार्यता प्रकारविशोधनपरपादेसाक्षात्संगत्यभावेन प्रसंग संगतिरेवेति भावः । जीवस्य स्वभावान्यथाभावरूपकार्यत्वमभ्युगम्यप्रतिज्ञाद्युपपादनं न संगच्छति । स्वरूपातिरकेण ज्ञानरूपधर्मानभ्युपगमात्इत्याक्षेणेणास्योत्थितिरित्याक्षेप संगतिरप्यभिप्रेता । भाष्येप्रसंग संगति मात्र प्रदर्शनंतु वक्ष्यमाणाधिकरणचतुष्टय स्यापिसाधारणं तदिति प्रदर्शनायेति ध्येयम् । संशयमाह - किमिति। चिन्मात्रमितिमात्रचा ज्ञातृत्वं व्यावृत्तम् । अयोगव्यवच्छेदार्थकमवधारणम् ।तेन ज्ञानस्यात्मस्वरूपत्वायोगव्यवच्छेदः उक्तःस्वरूपशब्दस्योत्तर विकल्पानुसारेणासाधारण धर्मपरत्वे चिन्मात्रमित्यत्रचित्पदस्य भावप्रधान निर्देशत्व मभ्युपगम्य ज्ञानमात्रत्वमेव आत्मनःस्वाभाविकधर्मः इत्पर्थो वक्तव्यः । पाषाणकल्पस्वरूपं=पाषाणतुल्यम्अचित्स्वभावम्= स्वाभाविकज्ञानरूपधर्मरहितम् । तर्हि कथं घटंजानामीत्यादिज्ञानाश्रयत्वप्रतीतिरित्यत्राह - आगन्तुकचैतन्यगुणकमितिजज्ञातृत्वमेवेति। ज्ञातृत्वं=स्वाभाविकाकारः ।तथाश्रुतेरिति ।यद्यपिसुगतानां श्रुतिः न प्रमाणं अथापि प्रतिवादिरीत्या श्रुति प्रमाणोपन्यासःककर्तुरात्मनो विज्ञानमेवस्वरूपंश्रूयतइति लौकिकवैदिककर्मकर्तृत्वेनश्रुतस्यात्मत्वावश्यकत्वात् तस्यच विज्ञानमिति शब्दोनोक्तत्वाच्चेतिअपरस्तु=कणादमतानुयायी ।सर्वदासर्वत्रोपलब्धिप्रसंगादिति। अयं भावःयद्ययमात्मा ज्ञानस्वरूपः तर्हि तस्य नित्यत्वेन स्वयंप्रकाशत्वेनचसर्वदा स्वरूपोपलब्धिः स्यात् । एवं यदि ज्ञातृत्वं स्वाभाविकम्तर्हि अस्य विभुत्वाभ्युपगमात् सर्वत्र घटादिविज्ञानोपलब्धिश्चस्यात् इति ।करणानांच वैयर्थ्यादिति। स्वाभाविकज्ञान वत्वाभ्युपगमेइन्द्रियसापेक्षत्वे तदसंभवात् इन्द्रियनिरपेक्षज्ञानवत्व मेवावश्यकमितितदर्थतया क्लृप्तेन्द्रियाणां वैयर्थ्यं दुष्परिहरमिति भावः ।सुषुप्तीति।यद्यात्मनः ज्ञानस्वरूपत्वं तदा सुषुप्त्यादिषु स्वयंप्रकाशत्वेनात्मविषयकज्ञानोपलब्धिरावश्यकीसाचानुपलम्भनिरस्ता । ज्ञातृत्वस्य स्वाभाविकत्वेच ज्ञानस्य सामग्र्यनुविधायित्वमुपलब्धिसिद्धं विरुध्येत । दर्शनानुसारेण ह्यर्थकल्पना । सामग्रीसत्वेएव ज्ञानस्योत्पत्तिरपि प्रतीति सिद्धा । स्वाभाविकत्वे चोत्पत्तिमन्वंव्याहतम् । अतः आगन्तुकचैतन्यवत्वमेवेति भावः ।नापि ज्ञातृत्वमिति।स्वरूपमित्यनुषज्यते । तच्च स्वाभाविकमित्यर्थः अनुषक्तस्यान्यर्थकत्वंन विरुद्धम् । यद्वा ज्ञानं स्वरूपमित्यत्रैव ज्ञानशब्दो भावप्रधाननिर्देशःनन्वात्मनः स्वाभाविकज्ञानत्वेपि न सर्वत्रोपलब्ध्यापादनं सुशकंतस्याणुत्वाभ्युपगमादित्यत्राह - सर्वगतत्वंचेतिआत्मनो ह्यणुत्वे देशान्तरे तज्जीवभोग्यभूत वस्तुनः अदृष्टसंबन्धाधीनोत्पत्तिर्नघटेत निराश्रयधर्मादेः तत्संबन्धानुपपत्तेः । विभुत्वेतु सर्वव्यापित्वेनदेशान्तरेप्यात्मनस्संबन्धात् आत्माश्रयादृष्टसंबन्धस्य सुवचत्वाच्चतत्तद्भोग्यवस्तूत्पत्तेः सूपपादतेतिभावः । युक्त्यन्तरमाह - सर्वत्रकार्योपलब्धेरिति।बुद्धिसुखाद्युपलब्धेरित्यर्थः । अयमाशयः देवदत्ता देः यत्र यत्रदेशे विद्यमानता तत्र तत्र सुखाद्युपलब्धिरनुभवसिद्धा । तत्र यद्यात्मनोऽणुत्वंतदा देव दत्तशरीरादेरिवात्मनोपि तत्र तत्र सुखाद्युपलब्धिनिर्वाहायगमनं वक्तव्यंततश्चोभयोर्गतिः कल्पनीया । विभुत्वपक्षेतु आत्मनस्सर्वत्र सन्निधानात्शरीरगमनमात्रमेवालमितिलाघवम् । अतः लाघवात् पूर्वोक्तयुक्तेश्चविभुत्वकल्पनमेव वरमिति । नन्वात्मनः स्वाभाविकज्ञातृत्वाभ्युपगमेसर्वत्रोपलब्धिप्रसंगरूपदूषणमयुक्तं आगन्तुकज्ञानवत्वाभ्युपगमेऽपिआत्मनोविभुत्वेन तदूषणतादवस्थ्यात् । नच तस्य विभुत्वेपि देहाद्युपाधिविशिष्टत्वेएव ज्ञानोत्पत्ति संभवः इति न सर्वत्रोपलब्धि प्रसंगइति शंक्यं,देहाद्युपाधिविशिष्टत्वे एव स्वाभाविकज्ञानोपलब्ध्यभ्युपगमेनास्मन्मतेऽपिदोषाप्रसक्तेरिति चेत् न । ज्ञानस्यागन्तुकत्वाभ्युपगन्तृमते उत्पत्यंगीकारात्इन्द्रियादिसामग्रीसंपादनाय देवाद्युपाधेरपेक्षानियमसंभवे़पि स्वाभाविकत्वाभ्युपगमे नित्यत्वेनेन्द्रियाद्यनपेक्षणात् तदर्थंदेहाद्यपेक्षायाः कल्पयितु मशक्यत्वादिति । अथ ज्ञानस्यागन्तुकत्वेश्रुतिं प्रमाणयति - श्रुतिरपीति । अहमस्मीति आत्मानं नजानामीत्यर्थःअनेनात्मनो ज्ञानरूपत्वमपि निरस्तम् । इमानि भूतानि नजनामीत्यनेनज्ञानाभावः उक्तः । अनेन ज्ञानस्य स्वाभाविकत्वे सुषुप्तौ तदभावबोधकं विरुद्धमिति कादाचित्कत्व मावश्यकमिति सूचितम् । संज्ञा=ज्ञानमित्यर्थःसर्वसिद्धान्तेष्वपि मोक्षदशायां आत्मनः यत्स्वरूपत्वं तदेव प्रामाणिकम्श्रुतौच मोक्षदशायांः ज्ञानाभावः कण्ठत एवोक्तः अतः कथं तस्यस्वाभाविकत्वमितिभावःनन्वात्मनः न ज्ञानस्वरूपत्वं नापि ज्ञातृत्वस्वभावत्वं तर्हि कथंज्ञानस्वरूपमिति व्यपदेश इत्यत्राह - ज्ञानस्वरूपमिति । तदसाधारणगुणत्वेनेतिज्ञानस्य स्वाभाविकत्वानभ्युपगमेपि आत्मासाधारणगुणत्वं तु न परित्यक्तम्अतस्तदादाय तथा व्यपदेशः उपपद्यत इति भावः ।सूत्रे अतइत्यनन्तरं वर्तमान एवकारः ज्ञ इत्यनन्तरं योज्यइत्याशयेन - ज्ञएवेतिभाषितम् । नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः इति सूत्रात्आत्मपदानुषंगइत्यभि प्रायेणायमात्मेत्युक्तम् । धीरो मनीषी ज्ञःप्राज्ञः इति कोशानुसारेण ज्ञइत्यस्यार्थमाह - ज्ञातृत्वस्वरूपइति।ज्ञातृत्वं स्वरूपं स्वाभाविकाकारः यस्येति विग्रहः । ज्ञातृस्वरूपइतिपाठे ज्ञातृ शब्दः भावप्रधाननिर्देशः । शंखः पाण्ड एवेत्यत्रेवात्रत्यःएवकारः विशेषणसंगतत्वादयोगव्यवच्छेदार्थकः ।ततश्च पाण्डरत्वे शंखत्वसमानाधिकरणाभावा प्रतियोगित्ववत् ज्ञातृत्वे आत्मत्वसमानाधिकरणाभावाप्रतियोगित्वंप्रतीयत इति आत्मनो ज्ञातृत्वाभावव्यावृत्तिरिति भावःएवं सुगतकपिलाभिमतज्ञानस्वरूपात्मनः ज्ञातृत्वोक्त्या न केवलज्ञानस्वरूपमात्रत्वसिद्धिरितितन्मतव्यवच्छेद्यमाह - न ज्ञानमात्रमिति। आत्मा ज्ञ एवेत्युक्ते आत्मनिज्ञाना भावस्य कादाचित्कस्यापि व्यावृत्तेः आगन्तुक चैतन्यगुणकात्मांगीकतृनैयायिमतस्यापि खण्डनं भवतीत्यभिप्रेत्याह - नापि जडस्वरूप इति ।न कदाचिदपि ज्ञानशून्यस्वरूपक इत्यर्थः । एवकारव्यावृत्तिमभिसंघायअत इत्यनेनापि योजयन्नाह - अत एवेति। नन्वतश्शब्दस्य श्रुतिपरामर्शित्वंकथमित्यत्राह - नात्मेति। ननु पूर्वोदाहृता श्रुतिरन्या उदाहरिष्यगाणाचश्रुतिरन्या, तत्कथं पूर्वप्रस्तुत श्रुति परामर्शिना अतश्शब्देनवक्ष्यमाणश्रुतिपरामर्शः इति ? उच्यते, अत इत्येतच्छब्दस्य प्रकृतजातीयार्थपरामर्शित्वाभ्युपगमेनार्थवशादपेक्षितश्रुतिवाक्य विशेषोपस्थापकत्वसंभवेन दोषाप्रसक्तिरितिवस्तुतः अतश्शब्देन श्रुति सामान्यं परामृश्यते । तदेव च स्वजन्यबोधीयात्मत्वसमानाधिकरणाभावाप्रतियोगिज्ञातृत्वज्ञानत्वान्यतरनिष्ट प्रकरतानि रूपितविशेष्यता संबन्धेनहेतुरिति न काचिदनुपपत्तिः । पूर्वत्रापि संबन्धान्तेरेण श्रुतिपदोपस्थापितश्रुति सामान्यमेव हेतुरिति ध्येयम् ।। एवकारघटितश्रुतेरेवात्मत्वसमानाधिकरणाभावाप्रतियोगिज्ञातृत्व ज्ञानत्वबोधकत्वेन एवकाराघटित श्रुत्युपादानंकथं संगच्छते इति न वाच्यं, सर्वं वाक्यं सावधारणमिति न्यायेन तेषामप्यवधारणगर्भत्वात्ममुक्तामुक्तात्मस्वरूपकथनइति । मुक्तावस्थायाममुक्तावस्थायां चोभयत्रापिज्ञातृत्वज्ञानत्वयोर्बोधनात् तदेव स्वाभाविकमित्यभ्युपगन्तव्यमितिभावःउदाहृतश्रुतीनां यथासंभवं मुक्तामुक्तात्मस्वरूपपरत्वमनुसन्धेयम्अन्तर्ज्योतिः =स्वयं प्रकाशः ।जानात्येवायं पुरुषइति। “विशेषणविशेष्याभ्यांक्रियवा च समन्वितः । अयोगं योग मपरैरत्यन्तायोग मेव च । व्यवच्छिनन्तिधर्मस्य निपातो व्यतिरेकतः” इति विवक्षावशात् जानात्येवेत्यत्रैवकारस्यधर्मवाचकपदान्वयेतु त्रिविधावधारणमपि वक्तुंशक्यम् । धर्मिवाचकपदेनान्वयेतुअन्ययोगव्यवच्छेदमात्रमेव । परंत्वत्र नविज्ञातुर्वि ज्ञातेर्विपरिलोपोविद्यतेश्रुति श्रुत्यन्तरानुगुण्यात् ज्ञातृत्वायोगव्यवच्छेद एव धर्मिवाचकपदान्वयेनप्रधानतया विवक्ष्यतेआत्मनो ज्ञानरूपत्वसिद्धिस्तु, श्रुत्यन्तरेणेति ध्येयम् । विज्ञानात्मेत्यनेनज्ञानस्वरूपत्वम् । द्रष्टेत्यादिना विशेषतः बोद्धेति सामान्यतश्चज्ञानवत्त्वोक्तेः ।

उत्तरसूत्रमवतारयति - यत्तूक्तमिति। स्वाभाविकज्ञातृत्वाभ्युपगमात्सर्वदोपलब्धिप्रसंगः सर्वगतत्वेन सर्वत्रोपलब्धिप्रसंग इत्यर्थःस्वाभाविकज्ञातृत्वबोधक श्रूतीनामर्थ विरोधेन आदित्यो यूप इत्यादाविवन तादृशार्थ बोधनेतात्पर्यमिति भावः । स्वाभाविक ज्ञातृत्वाभ्युपगन्तुःविभुत्वांगीकारे एवदोषप्रसरः तदेव नाभ्युपेयते, श्रुत्यर्थापत्तिबलेनाणुत्वस्यैवैष्टव्यत्वादित्याशयेनाह - तत्रोच्यतइति। प्रद्योतेन=भगवतागगतिरपीति। उत्क्रान्त्यनन्तर भाविगतिरपीत्यर्थः ।तस्माल्लोकादिति।“प्राप्यान्तं कर्मणस्तस्य यत्किंचेहकरोत्ययमिति पूर्वार्धम्ततः किमित्यत्राह - विभुत्वे हीति। उक्तश्रुत्युपपत्तिः भवतामपिकथंचित् कार्या । विभुत्वे तु सर्वात्मना भवतामपि न संभवतीति हिशब्दाभिप्रायःननु देशान्तरे भोग्यवस्तुत्पत्तिनिर्वाहाय विभुत्वमवश्यमेष्टन्यमितिवाच्यं अदृष्टस्येश्वरीयफलदित्सारूपत्वेन दूर देशेऽपि उत्पत्तिनिर्वाहादितिनन्वात्मनोऽणुत्वं शरीरस्येव गमनं चेत्यु भयंकल्पनीयमिति भवतोगौरवमिति चेन्न, गमनस्य श्रुतिसिद्धत्वेन कल्प्यत्वासंभवात्, विभुत्वकल्पनस्येवाणुत्वकल्पनस्यश्रुतिविरुद्धत्वाभावेनातिवैषम्यात् । वस्तुतः अणुत्वविषयेपि श्रुतिसिद्धत्वस्यवक्ष्यमाणतयानास्मन्मते कस्याश्चिदपि कल्पनायाः प्रसक्तिरिति न भवतामिव कल्पनाप्रयुक्तगौरवस्यावकाशः इति ।।

अवधारण इति । स्वात्मनैवेत्यत्र तात्पर्यमिति भावः । स्थितस्यापि = विभुत्वेनस्थितस्यापीत्यर्थः । कथंचिदित्यनेन तथा निर्वाहस्यास्वरसत्वं सूचितम् ।अपसर्पणरूपोत्क्रमणस्याणुत्वे एव संभवात् । विभुत्वाभ्युपगन्तुःउत्क्रान्तेः शरीरवियोगरूपत्वाभ्युपगमावश्यकत्वात् ।स्वात्मनैवसंपाद्यइति। उत्क्रान्तेः मरणाख्यशरीरवियोग रूपत्वाभ्युपगमेन विभूभूतात्मनश्चलनाभावेऽपिशरीरे सतः कर्मक्षयेन देहस्वामित्वनिवृत्त्योपपत्ति संभवेऽपिगत्यागत्योःचलनरूपयोःअन्यथोपपत्त्यसंभवेनात्मनैव संपाद्यत्वात् । विभुत्वेचतदसंभवादणुत्वमावश्यकमिति भावः ।।

स वा एष महानजः इत्यस्य जीवविषयकत्वदार्ढ्यार्थं योऽयं मित्याद्युक्तम्पूर्वसूत्रेऽणुत्वस्थापनात् तच्छब्दः अणुत्वपरामर्शीत्याशयेन"अतच्छ्रुतेरित्यस्य महत्व श्रुतेरित्यर्थः उक्तः । जीवस्य प्रस्तुतत्वात्इतरशब्दस्य अधिकारात्=प्रस्तुतत्वात् प्राज्ञपरत्वमुक्तम् । उपक्रमविरोधंपरिहरति - यद्यपीति। सवा एषः इत्यस्याव्यवहितपूर्वं परमात्मनः प्रस्तावेनजीवप्रकरणस्य विच्छिन्नत्वाद् तत्रापि स एव प्रत्यभिज्ञाप्य इतिमहत्वश्रुतिस्तद्विषयिणीति भावः । यस्य - जीवस्य । अनुवित्तः = उपास्यःविद ज्ञाने इति धातुः । यद्वा प्राप्य इत्यर्थः ।विदिर्लाभे इति धातुः । प्रतिबुद्धः = प्राज्ञः । ननु बुद्धेरात्मामहान्परः इत्यस्य कथमुपपत्तिः । महच्छब्देन विभुत्वबोधनादिति चेन्नतस्यपूजावाचित्वेन प्राधान्यपरत्वात् । अन्यथा श्रुत्यर्थापत्तिविरोधापत्तेःअणुत्वकण्ठोक्तेर्वक्ष्यमाणत्वेन तद्विरोधापत्तेश्च ।।

उन्मानबलात् अणुत्वसिद्धौ अत्रान्यथानयनमप्रयोजकमित्यभिप्रायेणोन्मानंविवृणोति - सूत्रस्थस्वशब्दस्य प्रस्तुताणुत्वाक्षेपकशब्दभ्रमनिवृत्यैसाक्षादणुत्वबोधकशब्दस्यैव श्रुतिषु दृश्यमानत्वेन तदनुक्तिप्रयुक्तन्यूनतापरिह्रत्यै च - साक्षादणुशब्दपरतया व्याख्यानं कृतम् । यस्मिन् =जीवात्मनि । अत्र पंचवृत्तिप्राणाश्रयस्य जीवस्याणुशब्देन व्यपदेशात्अणुत्वमिति भावः । नन्वत्र, “एषोऽणुरात्मेति परमात्मन एवेन्द्रियजन्यज्ञानाविषयत्वात्मकत्वरूपंदुर्दशत्वरूपमणुत्वं प्रतिपाद्यते चेतसा वेदितव्य इति विशुद्धमनोग्राह्यत्वलिंगादितिचेन्न, यस्मिन् प्राण इति यच्छब्दयोगेन एतच्छब्दस्य वक्ष्यमाणजीवपरामर्शित्वावश्यकत्वात्नच तत्रापि परमात्मैव प्रतिपाद्यते । “यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतंमनः प्राणैश्च सर्वैरित्या"दाविव प्राणाधारत्वस्य परमात्मन्यपिसंभवादिति वाच्यम् । यस्मिन् द्यौरित्यादेरिवास्य वाक्यस्य सर्वाधारताप्रतिपादनपरत्वाभावात्जीवासाधारणप्राणचित्तेन्द्रियाधारत्वमात्रं हितत्र प्रतिपाद्यतेअतोजीवपरत्वमेव युक्तम् । परमात्मपरत्वे प्राणानां पञ्चधा सन्निवेशकथनमप्यनुपयुक्तम्ननु कथं विशुद्ध मनोग्राह्यत्व रूपवेदितत्वोक्तिः?नियन्तृनियाम्यवैलक्षण्यज्ञानस्यामृतत्वसाधनत्वाभिप्रायेणतथोक्तेः । उदिप्युपसर्गमभिप्रेत्याह - उघ्दृत्येतिननु प्रतिघातानर्हत्वरूपसूक्ष्मत्वमेवोक्तमिति किं तस्यात्, यद्वामहतोप्यात्मनः फलविशेषार्थम् । अणुत्वे न वेदित व्यत्वमिति किंन स्यादित्यत्र उन्मानबलात् अणुत्वसिद्धौ अत्रान्यथानयनमप्रयोकमित्यभिप्रायेणोन्मानंविवृतम् ।। श्रूयते=प्रदर्श्यत इत्यर्थः । अनेन उद्धरण प्रदर्शनयोर्वेदकर्तृकत्वात्समानकर्तृकत्वोपपत्तिःवाला = धान्यविशेषः । भागः = भागसदृशः । आरा = चर्मप्रभेदक सूची ।।

उत्तरसूत्रमवतारयति - अथ स्यादिति । वेदना = दुःखानुभवः । इदं सुखानुभवस्याप्युपलक्षणम्ननोपपद्यत इति । जीवस्याणुत्वे अणुभूतस्य तस्य शरीरैकदेशे एव स्थित्यावश्यकतयाशरीरे सर्वावयवावच्छेदेनानु भवसिद्धस्य सुखदुःखादिप्रति सन्धानस्योपपत्तिःविभुत्वमन्तरा अनुपपन्नेति भावः । इदं चैकस्य जीवस्यानेकशरीरावच्छेदेनसुख दुःखादिप्रतिसन्धानानुपपत्तेरप्युपलक्षणम् । गुणाद्वाऽऽलोकवदित्युत्तरसूत्रेकल्पान्तरसूचकवाशब्दश्रवणादस्य सूत्रस्य मतान्तरेण परिहार परत्वमित्याह - तत्रमन्तान्तरेणेति। ओदनामनुभवतीति आदेनपाकं पचतीनिवदौपचारिकः प्रयोगःयद्वाऽत्र वेदनाशब्दः दुःखपरः न तु तदनुभवपरः ।।

वैशेष्यं = विशेषः । अवस्थितेः वैशेष्यं च देशविशेषावच्छिन्नस्थितिरेवेत्याशयेनाह - देहदेशविशेषावस्थितिविशेषादिति।अत्र विशेषपदं स्पष्टार्थम् । तथाभावः=सकलदेहव्याप्याह्लादजनकत्वभावःन केवलं कार्यकरत्वमात्रेणात्मनो देशविशेषे स्थितिरभ्युपगम्यते,श्रुत्या तथास्थिति बोधना दपीत्याशयेनाह - हृदयदेशे इति।तत्रैकशतंनाडीनामित्यधिकोपादानं आत्मनः हृदयस्थदेशविशेषमात्रसत्वेपि नाडीद्वारासकल शरीरव्यापिकार्यकारत्वमुपपद्यते इति बोधनार्थम् । यद्यपि चन्दनस्यहृन्नासिकाश्रोत्राद्यनेकमर्मप्रदेशस्थत्वेपि कार्यकरत्वमनुभवसिद्धमितिआत्मन इव न देशविशेषापेक्षासंभवः इति अवस्थितिवैशेष्यादिति शंकनम् मन्दम् ।अथापि आत्मनो हृन्मात्र देशविशेषापेक्षाऽस्तीति बोधनार्थं तथाशंकनमात्रमित्याह - आत्मन इति। वस्तुतः चन्दनस्य मर्म प्रदेशापेक्षाऽस्येव,तत्र मर्मप्रदेशाः अनेके आत्मनितु हृदयमात्रम् मर्मप्रदेशः इतिविशेषः । अतः मर्म प्रदेशापे क्षत्वमुभयत्र समानमिति च बोध्यम् ।।

स्वमतेनेति । एकदेशस्थितस्यात्मनोऽणुभूतस्य नाडीद्वारा शरीर सर्वावयवाच्छेदेनकार्य करत्व संभवेऽपि सौभरि प्रभृतीनीमिवानेक देहावयवेषु नाडीद्वारासंबन्धासंभवात् देशविशेष स्थित्या कार्यकरत्वमनुपपन्नमिति । पूर्वस्मिन्मतेऽस्वारस्यमितिस्वमतेन परिहारान्तरमुच्यते इति भावः । वस्तुतस्तु चन्दनदृष्टान्तोऽनुपपन्नः,अणुभूतस्यावय वैकदेशस्थितस्यात्मनः सकलदेहावच्छेदेने सुख दुःखानुभवयत्वंकथं? इति चोद्ये क्रियमाणे एकदेशस्थितस्य हरिचन्दनादेः यथा सकलदेहव्यापिसुख जनकत्वं तथा इति समाधिः कथं संगच्छेत । वस्तुनः सकलदेहव्यापिसुखादिजनकत्वं कथं कण्टकादेः तत्तद्देशावच्छेदनैव दुःखादिजनकत्वात्इति चोद्ये सति हि हरि चन्दनस्य तथात्वमनुभवसिद्धं इति वक्तुं शक्यतेआत्मनः अन्यत्र सन्निधानाभावात् अन्यदेशावच्छेदेन कथं सुखाद्यश्रयत्वम् इति हि चोद्यते कण्टकादिष्विव हरिचन्दनेपि विशेष देशस्थितेएकदेशस्थि तस्यात्मनः कथं सकल देहव्यापि तज्जन्य सुखानुभवाश्रयत्वंआत्मनः अन्यत्रासन्निधानात् इति शंकायाः तावतापि परिहाराभावात्इति बोध्यम् ।व्याप्य वर्तत इति। एकदेशस्थितस्यापि दीपस्य स्वप्रभयादेशान्तरव्याप्तिवत् अणोः हृदय देशस्थस्यापि जीवस्य स्वगुण भूतज्ञानेनसर्वस्वदेहावयवेषु व्याप्तिसंभवात् सर्वावयवावच्छेदेन सुखदुःखाद्युपलब्धौन काचिदनुपपत्तिरिति भावः ।उक्तयुक्त्यैवैकस्मिन् देहे स्थितस्यापि बहुषु देहाववच्छेदेनापितदीयधर्मभूतज्ञानस्य विलक्षणयोगमाहात्म्यात् व्याप्तिसंभवेन सर्वदेहाववच्छेदेनापिकार्यकरत्वमप्युक्तमिति चाभिप्रायः । नन्वात्मापृथक्सिद्धस्य ज्ञानस्यकथं देशान्तर वृत्तित्व संभव इत्यत्र प्रभादृष्टान्तेन पूर्वं स्थापितत्वंस्मारयति - ज्ञातुरित्यादिना।। ननु आत्मधर्मभूतज्ञान व्याप्ति संयोगद्वाराएकस्य बहोर्वा शरीरस्य धारणेनाणुत्वेपि आत्मनः कार्यकरत्वोपपादनेऽपिसुषुप्ति दशायां धर्म भूतज्ञाने प्रसरणाभावेन शरीर धारणा नुपपत्तिरित्रिकथमात्मनः ज्ञानद्वारा शरीरधारकत्वंअतो विभुत्वमेव स्वीकार्यम् । अत एव “अस्य सोम्य महतो वृक्षस्ययदेकां शाखां जीवो जहाति अथ सा शुष्यतीति श्रुतौ जीवस्य संकोचविकासोक्तिःअतः कथमणुत्व संभवः इति चेत् न सुषुप्तिदशायां धर्मभूतज्ञान प्रसरणाभावेनविषयतारूपविजातीय संयोगस्य ज्ञानेऽनंगीकारेपि धर्मभूतज्ञानसंयोगस्यशरीरेऽभ्युपगमात् ज्ञानस्यात्मस्वाभायिकधर्मत्वेन सर्वदा विद्यमानत्वेनतत्संयोगस्य शरीरेपि सर्वदा संयोगावश्यकत्वात् । नहि मनुष्यसंचरणरहितापवरकेआरोपितदीप प्रभायाः घटादिविषयाप्रकाशकत्वेपि तस्या देशान्तरव्यापित्वंनास्तीति वक्तुं शक्यंअतः तमोगुणाभिभवेन निद्रादिदोषदशायां विषया प्रकाशेऽपि न शरीरेज्ञानसंयोगानु पपत्तिरिति तदानीमपि तत्संयोगेन धारणं युक्तमेवेतिअस्य सोम्य महतो वृक्षस्येत्यादि श्रुतिरपि धर्मभूतज्ञानसंकोचविकासयोरेवशरीरशोषणाशोषणप्रयोजकत्वमेवावगमयति । शरीरादौ भोगावच्छेदकता प्रयोजकादृष्टनाशाधीनधर्मभूतज्ञान विभागानु कूलव्यापारस्यैव जहात्यर्थत्वावश्यकत्वात्अन्यथाऽणुत्वाक्षेपकतद्वाचकश्रुतीनां सर्वात्मना विलोप प्रसंगात्तदुक्तं - मैवं शाखासु भोगायतनियतिकरोपाधिनाशात्प्रहाणंक्षेत्रादिन्यायतोऽसावभिमतिविरहात् स्यादधीतो जहातिरिति ।स्वाश्रयादन्मत्र वृत्तिः मणि प्रभावदिति । नन्वेकस्मिन् देहरूपावयविनिधर्म भूतज्ञानस्य वृत्तिः युक्ता, सौभर्यादीनां अनेकशरीरे वृत्तिस्तस्यकथम्, विच्छेदात् न हि मणिप्रभापि अन्यत्र वर्तमाना विच्छिद्य विच्छिद्यवर्तते इति चेदुच्यते, प्रभायाः स्वाश्रयादन्यत्र वृत्तिः अनुभवसिद्धा,तथा धर्मज्ञानस्यापि इत्यत्रैव प्रभादृष्टान्तोपादानम् । मणिप्रभायाःजडाश्रितत्वदर्शनेन ज्ञानस्यापि जडाश्रितत्वमेवेति न हि कश्चिन्मन्येतविच्छेदेपि धर्मभूत ज्ञानस्य प्रसरणं युज्यते योगमहिम्ना । योगीहि स्वयोगशक्त्या अनेकदेहं परिगृह्णाति, तत्र तत्र देहे अहमात्माभवामि इति संकल्प्य सर्व शरीरमधितिष्टति, दूरस्थः एव हि कश्चिद्विलक्षणःपुरुषः योगशक्त्या ज्ञानद्वारेण (संकल्प्य वस्त्वन्तरं चालयतिइति दृष्टं अतः परमात्मानुग्रहरूप सुकृतविशेषात् सिद्धं समीहितंभवतीत्याशयः रत्नविशेषे प्रभापि विच्छिद्य स्वाश्रयादन्यत्र प्रसरतीत्यपि दृष्टम् ।।

ननूक्तमिति । अयं भावः - यद्यपि उक्ताभिः श्रुतिभिः आत्मनः ज्ञानस्वरूपत्वंज्ञातृत्वं चोक्तमेव । अथापि न ज्ञातृत्वबोधने श्रुतेः तस्याः तात्पर्यम्ज्ञानस्यात्मस्वरूपत्वेन तद्व्यतिरिक्तगुणत्वासंभवात् । नह्येकमेवधर्मिस्वरूपं तद्गत गुणकं च भवितु मर्हतीति । । नहिवयं स्वरूपभूतमेवज्ञानं तद्गतगुण भूतमिच्छामः येनेय माशंका स्यात् । परं तु स्वरूपभूतंज्ञानमन्यत् । गुणभूतं च ज्ञानमन्यत् ज्ञानस्वरूपस्यैवात्मनः ज्ञानस्यच जानामीति धर्मिधर्मतया प्रतीतेः इत्याशयेनोत्तरमाह - यथेति ।।

स्वशब्देनैवेति । न विज्ञातुरिति श्रुतौ विज्ञाति शब्दोक्तस्य ज्ञानस्यविज्ञातृशब्द निर्दिष्टादात्मनः षष्ठ्या व्यतिरेकनिर्देशाच्च व्यतिरेकइत्यर्थः । पूर्वसूत्रे जानामीति विशिष्टवाचिशब्देनैव विशेषणविशेष्योर्व्यतिरेकःउक्तः । अत्र तु विशेषणविशेष्योः पृथग्वाचक शब्देनेति वैषम्यम् ।।

ननु धर्म्यपेक्षया ज्ञानस्य धर्मत्वेन व्यतिरेक्तत्वे कथं विज्ञानशब्देन श्रुत्यादिषु धर्मिणो व्यपदेशः । इति सौगतादिमतनिराकरणपरमुत्तरसूत्रं योजयति - यत्तूक्तमिति । विज्ञानगुणसारत्वादिति । तच्छब्दः प्रस्तुतविज्ञानपरामर्शीतिभावः । सारभूतो गुणः=प्रधानभूतः । प्राधान्यं च यावदात्मभावित्वरूपम् । प्राज्ञवदित्येत द्विवृणोति - यथा प्राज्ञस्येति। ननु प्राज्ञस्यज्ञानानन्दगुणकत्वं आनन्दस्य सारभूतत्वं च प्रमाणसिद्धं चेत् सारभूतानन्दगुणवाचिशब्देन प्राज्ञव्यपदेशो युक्तः तदेव कथमित्यत्राह - प्राज्ञस्यह्यानन्दइति। ब्रह्मणः आनन्दः इति निर्देशेनानन्दस्य तद्गुणत्यं सिद्धंब्रह्मणः आनन्दं विद्वान् नबिभेति कुतश्चनेति गुणभूतानन्दविज्ञानस्यभयनिवृत्ति हेतुत्वेनोक्तं सारतमत्वमिति भावः । अथ सूत्रे ज्ञानवदर्थकप्राज्ञशब्दनिर्देशपर्यालोचनया दार्ष्टान्तिकस्य ज्ञानांशे एव दृष्टान्तानुगुणत्वसंपादनायच प्राज्ञवदित्येतदन्यथा व्याचष्टे यथावेति । अथ ज्ञानस्यगुणत्वं सारभूतत्वंच व्यञ्जयितुमाह - सह ब्रह्मणेति। स्वरूपनिरूपकधर्मत्वादपि आनन्द ज्ञानयोः गुणयो=सारतमत्वमिति भावः ।।

अथोक्तमेवार्थं प्रयोजनविशेषाभिव्यक्यै उक्तेनैव हेतुना प्रकारान्तरेणोपपादकस्ययावदात्मभावित्वादिति सूत्रस्यार्थमाह - विज्ञानस्येति। न दोषः= नलाक्षणिकत्वादिदोषावहः इत्यर्थः । अनेन गुणवाचिशब्देन गुण्यभिधानस्यन लाक्षणिकत्वमित्येतद्दर्शितं भवति । तद्दर्शनादित्येत द्व्याचष्टे - तथाच खण्डादय इति। अथ गोत्वादीनां यावदात्मभावित्वाभिव्यक्त्यै जीवगताणुत्वादीनामपियावदात्मभवित्वेन तेन तद्व्यपदेशस्य मुख्यत्व भ्रमनिवृत्त्यै चस्वरूपनिरूपणधर्मत्वादित्युक्तम् । अनेन सूत्रस्थात्मशब्दः स्वरूपपरतयाव्याख्यातः । यदा यदा धर्मिस्वरूपस्य प्रतीतिः तदा तदा यद्धर्मप्रतीतिः तेषां स्वरूपप्रतीति विषयत्वस्यानुभाविकत्वात् धर्मिस्वरूपविषयकत्वव्यापकप्रतीतिविषय धर्मत्वरूपं स्वरूपनिरूपकधर्मत्वमिति भावःज्ञानस्य स्वरूपनिरूपक धर्मत्वोपपादनेन स्वाभाविकत्वं सिद्धं गोत्वादीनामिवएतेनागन्तुक चैतन्यवादिमतदूषणमप्यर्थात् सिध्यति ।। तद्गुणसारत्वादितियावदात्मभावित्वादिति चोक्तस्यैकहेतुत्वेन हेत्वन्तरत्वाभावेन सूत्रस्थसमुच्चयार्थकचशब्दस्यान्यथोपपत्तिमाह - चकारादिति। नहि वयं धर्मिस्वरूपस्यात्मनःज्ञानस्वरूपत्वं नाभ्युपगच्छामः ।ज्ञानपद प्रवृत्तिनिमित्तस्वप्रकाशत्वस्यधर्म धर्मिसाधारण्यात् श्रुतिसिद्धत्वाच्च । अतो न विज्ञानशब्देनधर्मिव्यपदेशः दोषावहः इति भावः ।।

तत्राहेति । ज्ञानस्य स्वरूपानुबन्धित्वानभ्युपगन्तृनैयायिकमत खण्डनपरमुत्तरसूत्रमिति भावः । सुषुप्यादिष्वित्यत्रादि शब्देन मूर्च्छादिपरिग्रहःजागर्यादिष्वित्यत्रादि शब्देन स्वप्नपरिग्रहः । सूत्रस्थपुंस्त्वादिशब्दःतदसादाधाराण धातुतात्पर्यकः इत्याशयेनोक्तं - पुंस्त्वाद्यसाधारणस्यधातोरिति।आदिपदं स्त्रीत्वपरम् । ननु पुंसः बाल्यावस्थायां न तादृशघातुमयत्वमिष्यत इत्यत्राह - सप्तघातुमयत्वमिति। पुंस युवत्वदशासंबन्धे स्थितस्यैवधोतोरूपलब्धिवत् स्थितस्यैव ज्ञानस्य विषयसंबन्धे सत्युपलब्धिरितिघातूपलब्धेः युवत्वसंबन्धसापेक्षत्ववत् ज्ञानोपलब्धेरपि विषयसंबन्धसापेक्षत्वमितिभावःननु स्वयं प्रकाशभूत धर्मज्ञानोपलब्धेः विषयसंबन्धसापेक्षत्वे स्वयंप्रकाशाहमर्थस्यपितथात्वमेवस्यादिप्यत्राह - सुषुप्त्यादिष्विति। एतेनात्मनः ज्ञानरूपत्वंन संभवति । तथात्वेतस्य स्वयंप्रकाशत्वेन सुषुप्त्यादिष्वनुपलब्धेर्हेत्वभावादितिनैयायिक दूषणमप्यपास्तम् ।जागर्यादावुपलभ्यतइति ।अनेन विषयसंबन्धार्हत्वंप्रकाशार्हत्वं च सुषुप्त्यादिष्वप्यस्तीति न स्वयं प्रकाशत्वहानिरितिसूचितम् । उत्तरसूत्रवक्ष्यमाण दूषणस्य स्वमतेऽलग्नत्वायाह - सचायमितिअथ परेण मुक्तौ ज्ञानाभाव बोधनपरतयोदाहृतां श्रुतिं सप्रमाणमन्यथयति - नप्रेत्येति । तन्मुक्तस्य न विद्यत इति । देहात्माभिनभ्रमो मुक्तस्य नास्तीतिपर्यवसितमिति भावः । अन्यथा श्रुत्यन्तरविरोध इत्याह - न पश्य इत्यादि ।।

ज्ञानात्मवाद इति । आत्मनो ज्ञानस्वरूपत्वं विभुत्वं च यद्यभ्युपेयतेतदा वक्ष्यमाणदूषणस्य न कथंचिदपि परिहारः । अस्माभिस्तु ज्ञानरूपत्वाभ्युपगमेऽप्यणुत्वस्वीकारान्न दोष प्रसरः । अतः ज्ञानस्वरूपत्वाभ्युपगमे विभुत्वं वापरित्याज्यं विभुत्वाभ्युपगमे ज्ञानस्वरूपत्वं वा परित्यज्यमितिनोभयमपि स्वीकर्तुं शक्यमिति भावः । अनेन कापिलमते इदं दूषणमुक्तंभवति । सूत्रार्थमाह - अन्यथेत्यादिना। अथ त्रिप्रकारेण दूषयितुंशिरस्त्रयात्मक विकल्पं प्रदर्शयन् नित्योपलब्ध्यादिकमुपपादयति - एतदुक्तमिति।ज्ञानस्वरूपस्यात्मनः देहे उपलब्धिः अन्यत्रानुपलब्धिश्चानुभवसिद्धातत्रात्मनस्सर्वगतत्वे देहे इव सर्वत्राप्युपलब्धिप्रसंगो दुष्परिहरःयद्यस्यात्मनोऽनुपलब्धिस्वभावत्वं तर्हि देहेऽप्यह मित्युपलम्भोनस्यात् । यदि चोपलब्ध्यनुपलब्ध्युभयस्वाभावत्वं तर्हि सर्वत्रयुगपदेव उपलब्ध्यनुपलब्धिप्रसंगः इति प्रघट्टार्थः । अणुत्ववाद्यस्मन्मतेतु नोक्त दूषण प्रसरः इत्याह - अस्माकमिति। नन्वात्मनः ज्ञानस्वरूपत्वेविभुत्वेपि नोक्तदूषणस्यावकाशः आत्मनः उपलब्ध्यनुपलब्ध्युभय - स्वभावत्वाभ्युपगमात्उपलब्धेश्चकरणाधीनत्वात् देहे करणादिसंपत्त्या अहमित्युपलब्धिःअन्यत्र तदसंपत्त्या नाहमित्युपलम्भः इति निर्वाहसंभवादित्यत्रोक्तदूषणंसंकोचेनोपपादयति - करणायत्तेतियथाकस्यचिदात्मनः देवदत्तशरीरे अहमित्युपलम्भः तथैव तस्यैवात्मनःसामान्यतः अन्यत्रोपलम्भापादनासंभवेऽपि यज्ञदत्तशरीरे तथोपलम्भस्स्यादित्यात्पादने तद्वारणं न संभवति । यज्ञदत्त शरीरेपि करणादिसत्वात्नच तच्छरीरस्थ करणानां नैतदात्मसंबन्धः इति कतुं शक्यम् । आत्मनोविभुत्वाभ्युपगमात् । न च तच्छरीस्थकरणानामेतदात्मसंबन्धेपितत्तदुपलब्धिहेतु।दृष्टाधीनविलक्षणसंयोगो नास्तीति वाच्यम् । अदृष्टस्यापि सर्वात्म संबन्धेन तेनतन्नियमासंभवात्अदृष्टहेतुभूततत्तत्कर्मानुष्ठान हेतुभूत शरीर संबन्धो हि सर्वात्मसाधारणःकथं अदृष्टस्यनियमः ।तेन च कथं तरां करणसंयोगनियमः । अतः उक्तदूषणमनपोद्यमेवभवताम् । इदं च दूषणं आत्मनः जडत्वमभ्युपगम्य विभुत्वं स्वीकुर्वतांनैयायिकानामपि समानम् ।। इति ज्ञाधिकरणम् ।