(2.03.03) आत्माधिकरणम् ।।अथोत्तराधिकरणसंगतिमाह - वियदादेरिति। वियदधिकरणे परवादिभिर्नित्यत्वेनपरिगृहीतानां वियदादीनामुत्पत्तिः स्थापिता । अनन्तरंच कृत्स्नस्यापिकार्यजातस्य पूर्वपूर्व तत्वशरीरकात् ब्रह्मणः उत्पत्तिरिति निरूपितम्अत्र तु परवादिभिर्नित्यत्वेनाभिमताकाशादेरिवात्मनोऽप्युत्पत्तिमत्वंस्यादिति शंका परिह्रियत इति भावः । पूर्वमचिदुत्पत्तिप्रकारः चिन्तितःअधुना चेतन स्योत्पत्तिप्रकारः चिन्त्यते इति वा संगतिः । ननुनित्यत्वं तावात् द्रव्यसामान्यस्य साधारण्येन सिद्धमेव सत्कार्यवादाभ्युपगमात्अत एवहि कपालादिसमवायिकारणातिरिक्तस्य घटाद्यबयविद्रव्यस्यभंगःपूर्वं कृतःआगन्तुकावस्थारूपोत्पत्ति विनाशभाक्त्वेपि द्रव्यस्वरूपस्य नित्यत्वात्एवंच सति जीवस्वरूपस्यापि द्रव्यत्वाविशेषेण नित्यत्वसिध्या किमितितत्सिध्यर्थं सूत्रकारस्य पुनरायस इति चेत् । उच्यते । प्राकृतस्यद्रव्यस्य नामान्तर भजनार्हावस्था भाक्त्वं स्वरूपे एवास्ति । अतएव तस्यानित्यत्वं मही घटत्वं घटतः कपालिका इत्यादौच तदेवहि प्रतिपाद्यतेजीवस्वरूपे नामान्तर भजनार्हावस्था भाक्त्वाभावान्नित्यत्वमितिविशेषार्थसाधनतया सूत्रप्रवृत्तेः न वैयर्थ्यमिति । यद्यपि देहविशिष्टवेषेण ब्राह्मणक्षत्रियादिनामान्तर भजनार्हावस्थाविशेषवत्वमस्तिअथापि न तत् स्वरूपानुबन्धि । प्रत्यक्त्वज्ञातृत्वयोरेव स्वरूपानुबन्धित्वात्तत्र प्रत्यक्त्वं=स्वरूपेणैवभासमानत्वम् । परतः (स्वधर्मेण ज्ञानेन)स्वस्मै भासमानत्वं तदितिकेचित् । अन्येतु परतः स्वतश्च स्वस्मैभासमानत्वं प्रत्यक्त्वमिति । परतः =स्वधर्मभूतज्ञानेन स्वतः स्वात्मनेत्यर्थःअअहमहमिति स्वात्मप्रकाशः स्वरूपेण भवति । अत्र सुप्तोऽहमीदृशोऽहमितिविशेषाकारविशिष्टप्रकाशः स्वधर्मभूतज्ञानेनेति तेषां भावः । एवंज्ञातृत्वमपि नित्यमेव न विज्ञातुरिति श्रुतेः । ततश्च प्रत्यक्त्वज्ञातृत्वयोरन्यथाभावाभावान्नजीवस्वरूपस्यानित्यत्वप्रसिक्तिरतिअथ पूर्वपक्षमाह - अस्तीति। आकाशस्यो त्पतिमत्त्वे उक्ताः युक्तयःअत्रापि सन्तीति दर्शयति - एकविज्ञानेनेति।साक्षात् श्रुतिरेवास्तीत्याह - वियदादेरिवेति।जगतः प्रसूतिः यतः परमपुरुषात् प्रसूता जातेत्यर्थः । तोयशब्दोभूतोपलक्षकः । “पुत्रेण सहागतः पिता” इत्यादिवत् तोयेन=तोयेन सहेत्यर्थःतोयं सृष्टम् । तद्वत् जीवा अपि सृष्टाः इत्यर्थः ।। यतः प्रसूताइत्यस्यैवं वार्थः । प्रसूती इतीकारः छान्दसः - व्यससर्ज=विससर्जेत्यर्थःअकारः छान्दसः । जगतः प्रसूतिः=जगदुत्पादकसमष्टिः । यतः=यस्मात्परमपुरुषात् । प्रसूता=जातासः परमः पुरुषः जीवान् भूम्यां तोयेन=भूतसूक्ष्मैः संमेल्य विससर्ज।। वि इत्युपसर्गः देहोन्द्रियादिविशिष्टवेषेण जीवानां विवक्षतिदर्शयति ।। ननु भूतसृष्टिर्युक्ता नतु चेतनस्यापीत्यत्राह - एवमितिन हिंस्यात् सर्वा भूतानि इत्यत्रेव भूतशब्दस्य सचेतनभूतपरत्वात्इमानि भूतानीति चेतनस्य सृज्यत्वं कण्ठोक्तम् ।।एवमिति। अथाद्वैतिमतमपास्यतिः - नच वाच्यमिति। जीवस्य ब्रह्माभिन्नत्वादेव प्रतिज्ञाद्युपपत्तेरितिभावः । तत्त्वमसीति जीवब्रह्मणोरभेदबोधनात् ब्रह्मणश्च नित्यत्वस्यसंप्रतिपन्नत्वात् तदभिन्नजीवस्यापि नित्यत्वमावश्यकमिति भवतामाशयःएवं सति सर्वं खल्विदं ब्रह्मेति अचेतनादेरपि ब्रह्माभिन्नत्वबोधनात्तस्यापिनित्यत्वं युष्माभिः स्वीकर्तव्यं भवेत् । ततश्च वियदधिकरणविरोधइतिभावः । नन्वेचनब्रह्मणोरनन्यत्वं अचेतनस्य मिथ्यात्वादभ्युपगतंन तु ब्रह्मजीवस्वरूपयोरिव । तत्कथं वैषम्यसत्वादेवंदूषण संभवइतिचे दुच्यते । अचेतनस्य मिथ्यात्वात् ब्रह्मानन्यत्वे हि ब्रह्मणोमिथ्यात्वं अचेतनस्य परमार्थत्वं वा प्रसज्यतेति दूषण स्यारंभणाधिकरेणेउक्तत्वात् अन्यथैव स्वरूपैक्यमववलंबनीयमित्युक्तदूषणसांगत्य मित्यभिप्रायात्वस्तुतः तत्वमसीत्यादौ जीवस्वरूप ब्रह्मणोर भेद एव बोधयितुम शक्यःइत्यधस्तात् शतशो निरूपितमेवेतिउपसंहरतिअत इति।उत्पत्तिप्रतिषेधोहि श्रूयते इति। अनेनात्मनः अनुत्पत्तिमत्वे श्रुतिःप्रमाणीकृता । नित्यत्वं च ताभ्यः इत्यनेन ।अनुत्पत्तिमत्वे एवश्रुत्यर्थापत्तिः प्रमाणीकृता । इदमत्र सूत्रतात्पर्यं - आत्मा नोत्पद्यत्तेतथा श्रुति प्रतिपन्नत्वात्, एवमात्मा नोत्पद्यते श्रुतिप्रतिपन्ननित्यत्ववत्त्वात्नच हेतुसाध्योरैक्यं प्रागभावाप्रतिगोगित्वस्य साध्यत्वात् भावत्वेसति ध्वंसाप्रतियोगित्वस्य हेतुपदार्थत्वाच्च । ततश्च भावरूपात्मनःध्वंसाप्रतियोगित्वम् । ध्वंसाप्रतियोगित्वरूपं नित्यत्वमर्थात्साधितंभवतीति ।नित्योनित्यानामितिननु सूत्रे ताभ्यइति पूर्वोक्तपरामर्शिनातच्छब्देन नजायत इति पूर्वप्रस्तुतश्रुति परामर्श संभवेऽपि अप्रस्तुतैतच्छुति परामर्शः कथं घटतेइति चेन्न तच्छब्देन ताभ्य इत्यनेनपूर्वोक्त श्रुतिपरामर्शस्याक्षतत्वात् । नहि सूत्रे न जायत इति श्रुतेरित्युक्तम् । श्रुतेरितिसामान्यत एव ह्युपादानं कृतम् ।अतस्ताभ्यः इत्यस्य श्रुतिभ्य इत्येवार्थःश्रुतित्वाक्रान्तश्च श्रुतिविशेषः पूर्वत्रान्यः अत्रचान्यइतिविशेषः इति नकश्चिद्वोषः । ननु वियदादेरिव जीवस्योत्पत्तिमत्वानुभ्पगमेकथं प्रतिज्ञोपपत्तिः । तथापि प्रतिज्ञोपपादने वियदादेरपि नित्यत्वाभ्युपगमे़पि न प्रतिज्ञाबाधप्रसक्तिरित्याशयेन चोदयति - कथं तर्हीति। वियादादिवज्जीवस्यापिकार्यत्वमभ्युपगम्यत एव । नातः प्रतिज्ञाविरोधइत्याह - इत्थमुपपद्यतइति।ननुव्याहतं भाषसे श्रुतिबलान्नित्यत्वं प्रतिज्ञाऽहानेः वियदादिवदुत्पत्तिमत्वंच जीवस्यास्तीति इत्याशंकते - एवं तर्हीति। नेदं व्याहतभाषणं - उत्पत्तिमत्वकार्यत्वयोस्स्वरूपमजानता तदैक्यभ्रमेण महतामिदं चोद्यमित्याशयेन समाधत्ते - नेत्युच्यतइति । अथोत्पत्तिमत्वकार्यत्वयोरनैक्यसूचनाय कार्यत्वस्वरूपमाह - कार्यत्वंहीतिनामेति वाक्यालंकारे ।। यद्वा हिः प्रसिद्धौ । नामेति वक्ष्यमाणस्यकार्यत्वस्वरूपस्याभ्युपगन्तव्यत्वसूचकः । उक्तावस्थान्तरापत्तिरूपकार्यत्वस्यवियदादेरिव प्रतिज्ञाऽहानेः जीवस्याप्यंगीकर्तव्यमित्याह - तज्जीवस्यापीतिअनेन चेतनाचेतनसाधारणं कार्यत्वस्वरूपमुक्तं भवति । एतादृशकार्यत्वमादायैवप्रतिज्ञाद्युपपत्तिरिति न किंचिद पहीनमिति भावः । ननु - अवस्थान्तरापत्तिर्ह्यन्यथाभावःकार्यत्वरूपः । स एवच वियदादेरपि जीवस्येव वियदधिकरणे स्थापितःइति किमन्योर्वैषम्यं इत्यत्र वियदादेः स्थापितोऽन्यथाभावः अन्यादृशःजीवस्यचान्यादृश इत्याह - इयांस्त्विति। लक्षणशब्दः स्वरूपवाची।।नन्वस्तु जीवस्येव वियदादेरपि स्वभावान्यथाभावरूपमेव कार्यत्वंतावतापि प्रतिज्ञाविरोधाद्यभावेन सर्वंसामञ्जस्यात् । अन्यथा वियदादेरिवजीवस्यापि स्वरूपान्यथा भावलक्षणमेवकार्यत्वमस्तु स्वभावान्यथाभावलक्षणस्यैवकार्यत्वस्याभ्युपगमेप्रमाणाभावादित्यत्राशयभाविष्करोति - एतदुक्तमिति।भोग्यगतमुत्पत्यादिकमिति।अनेन स्वभावान्यथाभावस्योत्पत्तिमत्वस्याचेतने श्रुति प्रतिपन्नत्वादभ्युपगन्तव्यंतदवेति सूचितम् ।जीवेतु न तदभ्युपगमार्हं प्रतिषेधादित्याह - भोक्तरिप्रतिषिध्येति। न जायते म्रियते वा इति श्रुतेरिति भावः । नित्योनित्यानामिति श्रुत्यभिप्रायेणोक्तं - नित्यतांचेतितस्य नित्यत्वेऽपि प्रतिज्ञाद्यविरोधाय ज्ञानसंकोचलक्षणा पुरुषार्थाश्रयत्वमुक्तमित्याह - भोक्तृगतंचापुरुषार्थाश्रयत्वमिति।ननु ब्रह्मणः स्वरूपान्यथाभावानभ्युपगमेऽपि कार्यत्वाभ्युपगमेनस्वभावान्यथाभाव आवश्यकः । इत्थं च जीववत् ज्ञानसंकोचादिलक्षण स्वभावन्यथाभावःतत्प्रयुक्तावद्यत्वादिप्रसंगश्च दुर्निवारःइत्यत्राह - नियन्तरिप्रतिषिध्येति। ननु तत्वमसीत्यादौ स्वरूपैक्यबोधनात्कथमेवं व्यवस्थेत्यत्राहसर्वावस्थयोरिति।एवं घटकश्रुत्यर्थप्रदर्शनेन न स्वरूपैक्यादिकं तत्र विवक्षतमितिव्यवस्थोपपद्यत इति सूचितम्एवं सर्वस्यापि ब्रह्मशरीरत्वेन तत्प्रकारत्वात् शरीरिणो ब्रह्मणःप्रकारित्वाच्चाकृत्यधिकरणन्यायेन सर्वदा चिदचिद्वस्तुशरीरकमेवब्रह्मेत्याह - अतस्सर्वदेति । सर्वदा चिदचिद्वस्तु शरीरित्वेपि कार्यकारणभावभेदाभावोनाशंकनीयइत्याशयेनाह - तत्कदाचिदित्यादिना। नामरूपविभागानर्ह सूक्ष्मदशापन्नचिदचिद्वस्तुशरीरकत्वं कारणत्वम् । वस्तुतः तदर्ह स्थूलदशापन्नचिदचिद्वस्तुशरीरकत्वंकार्यत्वमिति विवेकः ।अथाचेतनचेतनयोरूत्पत्तिमत्वकार्यत्वे च सहेतुकमाह - तत्रकारणावस्थस्येति।भोग्यत्वाय इत्यनेनाचेतनस्य स्वरूपान्यथाभावे हेतुरुक्तःभोक्तृत्वाच्चेत्यनेन चितः स्वभावन्यथाभावे हेतुरुक्तः ।।ब्रह्मणस्तुअचेतनवत् भोग्यत्वाभावात् न स्वरूपान्यथाभावः चेतनवत् भोक्तृत्वाभावाच्चन स्वभावान्यथा भावोऽपि । परंतु स्वरूपस्वभावन्यथाभावरूपावस्थावदचेतनचेतनशरीरकत्वरूपोविकारएवेत्याह - उभय प्रकारेति।ननु स्वरूपान्यथाभावस्य स्वभावान्यथाभावस्य वा विरहे कथं ब्रह्मणःकार्यत्वमित्यत्राह - कारणावस्थायामिति ।अवस्थान्तरापत्तिरेव हि कार्यत्वम्तच्च चेतनाचेतनरूप प्रकारद्वये प्रकारिभूत ब्रह्मणिच तुल्यम्इयांस्तुविशेषः स्वरूपस्वभावान्यथाभावरूपवस्थान्तरापत्तिः पूर्वत्र,उत्तरत्रोक्तान्यथाभावरूपावस्था विशिष्ट तत्तच्छरीरकत्वरूपावस्थान्तरापत्तिःइति । ननु विशिष्टस्य कारणत्वे मृत्पिण्डदृष्टान्तोक्तिः कथं संगच्छतइत्यत्राह - अत एवेति।अवस्थान्तरापत्तिरूपविकारापेक्षयेति। अवस्थान्तरयोगरूपविकारमात्रविवक्षयेत्यर्थःअयं भावः यथा मृत्पिण्डदृष्टान्तेन नाचेतनत्वपार्थिवत्वाद्यपेक्षातथैव चेतना चेतनाविशिष्टत्वस्य स्वरूपाद्यन्यथाभावरूपविकारा भावस्यब्रह्मणि सत्वेपि स्वरूपाद्यन्यथाभावाद्य पेक्षाया अभावेन न दृष्टान्तसंगत्यमितिननु जीवस्य नित्यत्वे जीवोत्पत्यादिबोधकश्रुतीनां कागतिरित्यत्राह - ईदृशेति।स्वरूपान्यथात्वाभावाभिप्रायाइति। जीवस्य स्वभावान्यथाभावरूपकार्यत्वाभ्युपगमेपि स्वरूपान्यथाभावानभ्युपगमादितिभावः ।अयमाशयः उत्पत्तिर्हिआद्यक्षणसंबन्धरूपा । साच स्वसमभिव्याहृतपदार्थतावच्छेदक धर्मावच्छिन्ननिरूपिताधिकरणतावत्क्षण ध्वंसा नधिकरणक्षणसंबन्ध लक्षणान तु स्वाधिकरण क्षणध्वं सानधिकरण क्षण संबन्धमात्ररूपा । तथा सतिद्रव्यस्वरूपस्य सिद्धान्ते नित्यत्वेन घट उत्पद्यते इत्यादौ घटादिद्रव्योपादानासंभवात्सर्वस्यापिक्षणस्य घटात्मक द्रव्याधिकरणत्वेन स्वाधिकरणक्षणध्वंसानधिकरणक्षणाप्रसिद्धेः । निरुक्तविवक्षणेतु स्वसमभिव्याह्रितपदार्थतावच्छेदकीभूतघटत्वरूपधर्मावच्छिन्न निरूपिताधिकरणतावत्क्षणध्वंसानधिकरणक्षणस्य प्रसिद्धि स्संभवति ।तथाच घटः उत्पद्यते जायत इत्यादौघटत्वावच्छिन्ननिरूपिताधिकरणता - वत्क्षणध्वंसानाघिकरणक्षणसंबन्धीघट इति बोधः । देवदत्तो जातः इत्यादावपि एवमेव बोधःआत्मा जायते इति व्यवहारस्तु न संभवति । स्वसमभिव्याहृत पदार्थतावच्छेदकीभूतात्मत्वावच्छिन्ननिरूपिताधिकरणतावत्क्षणध्वंसानाधिकरणक्षणा प्रसिद्धेः । अत एव श्रुतावपिजीवान् व्ससर्ज इत्येतावन्मात्रं विहाय तोयेन (सह) जीवान्व्यससर्जभूम्यामित्युक्तम् । एवं क्वचिदुपदेशाभावेपि उक्तयुक्ते स्तथा विवक्षणंचावश्यकमेव । तस्मात् देवदत्तो जातः इति व्यवहारः मुख्यः । आत्मान जायते इति व्यवहारोपि मुख्यः । अत एव नतु दृष्टान्तभावादित्यत्रभाष्येदेवोजातो मनुष्यो जातः तथा स एव बालो युवा स्थविरश्च इति व्यपदेशश्चमुख्यः इति भाषितम्एवमेव मृतः इत्यादि स्थलेपि निर्वाहः । एवंचोत्पत्यादिबोधकश्रूतीनांउत्पत्तिनिषेधादि बोधक श्रुतीनां च सर्वासामैकरस्यं मुख्यतयैव संभवतीति।। जीवस्य ज्ञानरूपस्वभावान्यथा भाववत् परमात्मनस्स्वभाव भूताचेतनान्यथाभावसत्वेनतद्व्यावृत्तये ज्ञानसंकोचविकासरूपेत्युक्तम् । “सोऽकामयत बहुस्या"मत्युक्तेष्टविकार व्यावृत्तये - अनिष्टविकारेत्युक्तम् । ननु जीवस्यनित्यत्वे कथमेकत्वावधारणमित्यत्राह - एवं सर्वदेति।जीवस्य नित्यत्वेपिअग्रे विभक्तनामरूपत्वाभावात् अविभक्तनामरूपत्वात्मकमेकत्वं न बाधकावहं,अत एव ब्रह्मणः सर्वदा चिदचिद्विशिष्टत्वेऽपि एकत्वावधारणस्योक्तदिशोपपत्तिरित्याशयः । एकत्वावधारणस्योक्तदिशोपपादनेहेतुमाह - तद्धेदमिति।।न केवलमस्माकमेवेवमावधारणस्यैवमुपपादनं परेषामप्येवमेवेत्याशयेनाह - येत्विति । प्रथममद्वैतिमतं द्वितीयं भास्करमतम् । तृतीयं यादवप्रकाशमतम्प्रलयकालेऽवस्थानेपीत्यनेन तथोपपादनस्य हेतुः प्रदर्शितः । हेत्वन्तरंचाह - वैषम्येति । अनादित्वाभ्युपगमाच्चेति, जीवतत्कर्मणामनादित्वेनकथं ब्रह्मणः एकत्वावधारणमिति चेत् नामरूपविभागाभावादेवेति सर्वैरपिवक्तव्यमितिभावः । एवमस्यार्थस्य सर्वमतसाधारण्येपि परवादिनां मतं दूषणभूयिष्टत्वादनुपादेयमित्याह - इयांस्तुविशेष इति। क्रमेण तत्तन्मत दूषणकीर्तनम्नियन्त्रंशस्य भोक्तृत्वा भावेऽपीति । अयं भावः - यद्यप्येकमेव ब्रह्म जीवेशाचित्प्रभेदेन त्रिविधमितितत्र नियन्त्रंशः नभोक्ताः अथापि ब्रह्मणः भोक्तृभूतजीवात् अभिन्नत्वज्ञानमस्तिवा नवा । अन्त्येऽसर्वज्ञत्व प्रसंगः । आद्ये जीवं स्वस्मादभिन्नंभोक्तारं पश्यतः स्वस्य भोक्तृत्वमेव दृष्टं भवति इति भोक्तृत्वप्रसंगोदुर्वारः इति । स्वमते दोषगन्धस्याप्यनवकाशः इत्याह - अस्माकंत्विति ।। इति आत्माधिकरणम् ।