20 तेजोधिकरणम्

(2.03.02) तेजोधिकरणम् ।पूर्वाधिकरणसंगतिमाह - ब्रह्मेति। असंभवस्त्विति सूत्रे इति भावःकार्यताप्रकारशोधनपरत्वादस्य पादस्य,व्यवहिकार्यं प्रति तदनन्तरकारणभूतवस्तुनःकिं कारणत्वमन्यथावेत्यनुक्त्वा, व्यवहित कार्याणां किमुत्पत्तिरित्युक्तम्वव्यवहितकार्याणां=ब्रह्मव्यवहितकार्याणाम् । केवलात्=तत्तत्तत्वमात्रादित्यर्थःपरमात्माशरीरभूतात् स्वतन्त्रात्तत्वादिति भावः । तत्तद्रूपात्ब्रह्मणःतत्तत्तत्व शरीरक ब्रह्मण इत्यर्थः ननु सर्वतत्वानामपि परमात्मानुप्रवेशेनपरमात्मशरीरत्वात् परमात्माशरीरभूतात्स्वतन्त्रतत्वादुत्पत्तिरितिकथं “पूर्वपक्षसंभवः इति चेन्न,” तत्सृष्ट्वा तदेवानुप्रतिशत् इतिसृष्ट्यनन्तरमेवानुप्रवेश श्रवणेन सृष्टेः पूर्वं तत्तदुत्पत्तिदशायांपरमात्मशरीरत्वाभावात्अन्तर्यामिब्राह्यणादिषु परमात्मशरीरत्व श्रवणमपि सृष्ट्यन्तरानुप्रवेशाभिप्रायकमौपचारिकमेवउक्तश्रुतिविरोधात् ।अतः पूर्वपक्षोथितिः । अत एवह्यस्याधिकरणस्योत्थितिःअन्यथा प्रकृत्यधिकरण एव सर्वस्यापि ब्रह्मोपादानकत्वकथनात् अवस्थितेरित्यादिभिःजगद्ब्रह्मणोःशरीर शरीरि भाव बोधनात् अन्तर्याम्यधिकरणे जगतो ब्रह्मशरीरत्व कण्ठोक्तेश्च एवंविधपूर्वपक्षस्यैवासंभवादधिकरणप्रणयनवैयर्थ्यापत्तेःइति । मातरिश्वन एवेति । नन्वीक्षणरूप चेतनधर्मस्य श्रवणात् कथंवायोस्तेजस उत्पत्तिरित्यत्राह - वायोरग्निरितिह्याहेति । अयं भावःईक्षणं च लिगं तच्च, साक्षादुत्पत्तिबोधकवायोरग्निरिति श्रुतिबलाद्गौणतयानेतुं शक्यमिति ।ननु सर्वस्यापि ब्रह्मजन्यत्वबोधक श्रुतेः कागतिरिति चेत् तस्याःपरंपरयापि कारणत्वप्रतिपादन संभवेनान्यथा सिद्धत्वात् । अतः पुत्रपौत्रादिनीत्यासर्वस्यापिजगतः कूटस्थात् ब्रह्मण एवोत्पत्तिर्युक्तेति सर्व वाक्यस्यापिसामञ्जस्यमिति भावः ।।

अतस्तथा ह्याहेति पूर्वसूत्रादनुषज्यार्थमाह - आपोऽपीति। अतः पदस्यार्थमाह - तेजसइति । यद्यपि पूर्वत्र वायुपरामर्शकः अतश्शब्दः अत्रतु तेजः परामर्शकइतिवैरुप्यं अथापि अनुषक्तस्य पदस्यार्थान्तर परत्वार्थकत्वं प्रकरणवशादाश्रयितुंशक्यमिति “स्याच्चैकस्य ब्रह्मशब्दवदि"त्यत्र स्थापितत्त्वान्नदोषः । नन्विदं सूत्रमनुपयुक्तं तेजोऽतस्तथाद्याहेति तेजसि उक्तन्यायेनैवपूर्वपक्षस्य चरितार्थत्वात् अप्सुविशेष शंकाभावाच्चेति चेन्न,तेजस एवतदपोजाय “इत्यवधारण श्रवणेन तेजः कारणकत्वमेवते” स्वीकार्यंमित्यधिका शंकासूचनाय आप इति सूत्रप्रणयनात् ।।

अत्रापि पूर्वप्रस्तुत पदाध्याहारेण सूत्रं योजयति - पृथिवीति । अद्भ्य इतिपञ्चम्या कारणत्वं स्फुटमिति भावः । अन्यथासिध्यनर्हत्वसूचनाय असृजत इतिउपादानम् । एवं पूर्वत्रापि । अधिकाशंकाभावेऽपि पृथिवीति सूत्रप्रणयनम्अन्नपृथिवीशब्दयोः पर्यायत्वबोधनार्थोत्तरसूत्र संगत्यर्थमिति ध्येयम् ।।

उत्तरसूत्रमवतारयति - नन्विति । अन्नशब्दस्य पृथिवीवाचकत्वादर्शनादितिभावः ।महा भूतसृष्ट्यधिकारादिति ।अधिकारः प्रस्तावः । महाभूतानांसृष्टिः प्रस्तूयते । तत्र पृथिवीं विनान्येषां सृष्टिः तत्तच्छब्दैःप्रदर्शिता । अतः परिशेषात् अन्नशब्देनोक्तस्य कस्यचित् सृष्टिःपृथिवीविषयिण्येव तस्यैवावशिष्टमहाभूतत्वात् । अतोऽर्थात् अन्नशब्दःपृथिवीवाचक इत्यध्यवसीयत इति भावः । नन्वौचित्यादन्न शब्दस्य पृथिवीवाचकत्वमित्यवश्यमभ्युपगन्तव्यमेवअथापि तस्य पृथिवीवाचकत्वे प्रवृत्तिनिमित्तं किमित्यत्राह - अदनीयस्येति।अन्नशब्दो हि अद्यत इति व्युत्पत्या अदनीयवस्तुवाचीअदनीयं च सर्वं पृथिवीविकारभूतमेव । अतः पृथिवीकार्य भूतार्थ वाचाकान्नशब्दः स्वकारणे उपचरितः इति भावः । अथ अन्न शब्दस्य पृथिवीवाचकत्वेसूत्रोक्तं रूपरूपहेतुमुपपादयति - तथेति।अप्तेजसोस्सजातीयमेवेति।तेजसां अपांच रूपविशेषं प्रदर्श्य अन्न शब्दवाच्यस्य रूपविशेषप्रदर्शनात्सजातीय भूतोपस्थापकत्वमावश्यकमिति भावः । नच वाय्बाद्युपस्थापकत्वंकिं नस्यादिति वाच्यम् व्युत्क्रमनिर्देशापत्तेः । वायौच रूपाभावात्कृष्णरूपस्य पृथिवीमात्रवृत्तित्वदर्शनाच्च । अथोक्त शंकां उदाहरणान्तरेषुस्वयं संयोज्य प्रकृतंपूर्वपक्षमाहउदाहृता इति। सूत्रे तेज आदिग्रहणं प्रसिध्यतिशयात् इति भावः ।अथ साक्षात्ब्रह्मकार्यत्व बोधक श्रुतिविरोधं परिहरति - एतस्मादिति।कारणत्वेप्युपपद्यन्त इति । अनेनान्यथासिद्धिरूक्ता ।।

सिद्धान्तमाह - एवं प्राप्त इति । तच्छब्दस्यावधारणार्थकैवकारेण संयोज्याऽर्थमाह - सएवेति । तच्छब्दस्य बुद्धिस्थपरामर्शित्वात् प्रकृतानुगुणत्वायतत्तदनन्तरवस्तुशरीरकः इत्युक्तम् । तल्लिंगात्=पुरुषोत्तमलिंगान्बबहु स्यामिति संकल्प इति। बहुभवनविषयसंकल्प इत्यर्थः। स्वकार्यसृष्टिरितिगम्यतइति । तेजः प्रभृतिष्वीक्षणश्रवणात् सर्वशाखाप्रत्ययन्यायेनमहदादिसृष्टिरपीक्षापूर्वीकैवेत्यवसीयते इत्यर्थः । अस्तु सर्वसृष्टीनामपीक्षापूर्वकत्वंकिं तत इत्यत्राह - तथाविधंचेति। अचेतनेष्वीक्षणं न संभवति, तस्यगौणत्वंचपूर्वमेव पराकृतंतेज आद्यभिमानि देवतायामीक्षण संभवेपि बहुभवन संकल्प रूपं तद संभवीतिभावः । नन्वीक्षण रूपपरमात्मलिंग श्रवणेन परस्यैव कारणत्वे साक्षात्कारणत्वेनश्रुतानां तेजः आदिशब्दानां कागतिः । तेषामपि तच्छरीरकपरमात्मपरत्ममितिचेत्परमात्मनः तच्छरीरकत्वे किं मान मित्यत्रान्तर्यामिब्रह्मणं स्मारयति - श्रूयतेचेति।अन्तर्यामिब्राह्मणे इत्यन्त मेकंबाक्यम् । इत्यादीत्यन्तमपरम्(इत्याद्यन्तर्यामिब्राह्मणे परस्य सर्वात्मकत्वं श्रूयते इत्यन्वयः)अनेन वस्तुतः ईक्षापूर्वक श्रवणाभावेऽपि परमात्मानः सर्वशरीरित्वेनसर्वात्मकत्वात् तेज आदिशब्दैः परमात्मन एव बोधनात् तत्तच्छरीरकब्रह्मणः एव कारणत्वं श्रुतिप्रतिपन्नमित्यतोपि ब्रह्मोपादानकत्वसिद्धिरित्यपि सूचितम् ।एवमव्यक्तादीनामपि परमपुरुषशरीरत्वबोधनाय वाक्यान्तरमुपादत्ते - सुबालेति ।।

परोक्तक्रमविपर्ययपरं विपर्ययशब्दं व्याचष्टे - अव्यक्तेति। परोक्तक्रमोहिमहदादीनां ब्रह्मणः परंपरयोत्पत्तिरूपः ।तद्विपर्ययक्रमश्च तेषांब्रह्मानन्तर्यरूपः, साक्षात् ब्रह्मणः उत्पत्तिरूपः ।अतइति पदव्याख्यानं- तत्तद्रूपात् ब्रह्मणः तत्तत्कार्योत्पत्तेरेवेति । परंपरया कारणत्वेव्याहतिमाह - परंपरयेति । एतस्मादिति वाक्ये महदादीनां ब्रह्मानन्तर्यमेवस्वरसतः प्रतीयते, एतस्मादित्यस्य परमपुरुष वाचकस्य प्राणादिषुसर्वत्रान्वयात् । अतस्स्वरससिद्धार्थ परित्यागेबीजाभावात् । अस्यचाभिध्यानलिंगावतस्य साक्षात्ब्रह्मसंभवस्योत्तम्भनरूपत्वाच्च ब्रह्मकारणत्वमेवयुक्तमिति भावः । उत्तम्भनं ज्ञापकम् ।।

सूत्रस्थविज्ञानपदस्येन्द्रियपरत्वम् । तथात्वे नियामकं दर्शयति - विज्ञानेति।तल्लिंगादित्यन्तेन कृतामाशंकां प्रकाशयितुं पूर्वं पूर्वसूत्रोक्तंमनूद्य दूषयति - यदुक्तमित्यादिना । तैस्सहपाठ लिंगादित्यन्तेन क्रमेणतलिंगादिति व्याख्यातम् । अन्तरा इत्येत् भूत प्राणयोरन्तरा इत्यनेनव्याख्यातम् ।अस्मिन् मन्त्रे “खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी"इत्यत्र “आकाशाद्वायुः वायोरग्निः” इति तैत्तिरीयश्रुत्युक्तः आकाशादीनामुत्पत्तिक्रमःप्रतीयते । तत्साहचर्यात् मनसः इन्द्रियाणां चोत्पत्तिक्रमोऽप्यत्राभिधीयतेइति प्रतीयते। ततश्चान्यत्रोक्तोत्पत्तिक्रमस्य खं वायुरित्यत्रोपलंभात्तत्सहपाठरूपलिंगात् अग्रयप्रायन्यायाच्चअनुक्त विज्ञानमनसोरप्युत्पत्तिक्रमस्यप्रतीत्या कथमस्याश्रुतेः ब्रह्मणः साक्षादुत्पत्ति ज्ञापकत्वमितिपूर्वपक्षिहृदयम् ।उक्तशंकामपाकरोति - तन्नेति । केन केषामिति जिज्ञासांपूरपन्नविशेषादिति व्याचष्टे - एतस्मादितिएतस्माज्जायत इत्यस्य यथा प्राणेऽन्वयप्रतीतिः तद्वत् प्राण मनसोःखादिषुचान्वयप्रतीतेरविशिष्टत्वादित्यर्थः ।अविशिष्टत्वादिति। एतस्माज्जायतइत्यनेन हि परमात्मनः साक्षात्संभवोऽभिधीयते । सचोत्पत्तिरूपसंबन्धःप्राणादिपृथिव्यन्तेषु समानः एतस्मादिति पञ्चम्यन्तपदस्य सर्वत्रान्वयाविशेषात्ततश्च कथमस्यवाक्यस्य क्रमपरत्वम् । परमात्मनःप्राणादिप्रथिव्यन्तंसाक्षा दुत्पद्यते इत्येतावन्मात्रपरत्वादित्यर्थः । क्रमपरत्वेश्रुत्यन्तरविशेधोपीत्याह - श्रुत्यन्तरेति ।एवं आकाशानन्तरमुत्पन्नस्यवायोः कार्यभूतस्य प्राणस्य भूतेभ्यश्च प्रागुत्पत्तिबोधनादपि नास्यक्रमपरत्वं युक्तमिति - चाभिप्रायःननु व्यवहितकार्याणामपि ब्रह्मकारणत्वे तेजःप्रभृति शब्दानां कथंसमन्वयःइत्यत्राह तेजःप्रभृतयश्चेति ।।

नन्वेवमिति । व्युत्पत्तिसिद्धः उपरुध्येत इति । शब्दस्य यस्मिन्नर्थेवाचकत्व शक्तिस्तत्रैव व्युत्पत्तिः तेज आदिशब्दानांतु तेज आद्यर्थवाचकत्वशक्त्या तेष्वेव व्युत्पत्तिरिति लोक प्रसिद्धम् । इत्थंच तैरपिब्रह्मबोधनाभ्युपगमे लोकव्युत्पत्तिविरोध एवेत्याशयः । निखिलेतितत्तच्छब्द व्यपदेशस्य जंगमस्थावरबोधकत्वे भाक्तत्वमेवेत्यर्थःलाक्षणिकत्व भ्रमव्युदासाय वाच्यैकदेशे भज्यते इत्युक्तम् । तत्किं जंगमादिवाचक शब्दस्य तद्विषयकतया प्रयोगेतेष्वर्थेषु तद्व्यावहारस्यभाक्तत्वं, परिपूर्णवाच्यं च तदेकदेशत्वंचास्य कथमित्यत्राह - समस्तेतितत्पर्यवसानस्पेति।तत्पदं प्रकारिपरम् । सर्वस्यापि पदस्य ब्रह्मवाचकत्वमेव,तत्र व्युत्पत्यभावस्तु प्रमाणान्तरागोचरत्वात् नतु वाचकत्वाभावात्तच्च कथमवगम्यत इतिचेत् वेदान्त श्रवाणात् पूर्वं तदप्रतीतेःअनन्तरं तत्प्रतीतेश्च । अतः ब्रह्मणः सर्वप्रकारित्वात् शब्दानांचप्रकारिपर्यन्त बोधकत्वस्य दृष्टान्त सिद्धत्वाच्च ब्रह्मवाचकत्वमेवेतिभावः । अथाभाक्त इति पदच्छेदेन सूत्रस्यान्यथाऽर्थ वर्णनाय सूत्रमन्यथाअवतारति - अथवेति। पूर्वत्र व्युत्पत्तिविरोधः शंकितः । अधुना तेजआदिशब्दानां ब्रह्मवाचकत्वे लाक्षणिकत्वम्पूर्वोक्तभाक्तत्वस्य व्यवहारग तत्वात् तद्व्यपदेशपदस्य तत्तच्छब्दव्यवहार परतया पूवमर्थः उक्तः । अत्र मुख्यत्वार्थका भाक्तत्वस्यशब्दगतत्वात् तद्वचि शब्दपरतया व्याख्यानम् । ब्रह्मभावभावित्वात्= ब्रह्मानुप्रवेशभावित्वात् ।अयं भावः शब्दस्य वाचकत्वमेवहि ब्रह्मानुप्रवेशादेव । अतस्सर्वशब्दानांब्रह्मवाचकत्वमेव युक्तम् । तत्र प्रमाणं नामरूपव्याकरणश्रुतिरितिपूर्वयोजनायां व्युत्पत्ति विरोधशंका परिहारः उक्तः ब्रह्मवाचित्वंत्वर्थात्सिद्धम् । अत्रतु व्युत्पत्तिविरोध शंकापरिहारः आर्थिकःब्रह्मवाचित्वे प्रमाणं प्रदर्शितमिति विवेकः । सूत्रे तद्व्यपदेशःघटाद्यर्थ बोधक शब्द प्रयोगः इति यावत् । ननु घटाद्यर्थ बोधकशब्द प्रयोगो भाक्तः इत्येतावतैवलमिति किमिति चराचरव्यपाश्रयपदं?इतिचेत्? तथा सति तच्छब्दस्य चराचररूपार्थ प्रतीतिर्न सेप्स्यति, नचतद्वचपदेशः इत्यत्र व्यपदेशपदमेव पर्याप्तं तच्छब्दस्तु व्यर्थएवेति च न शंक्यम्ब्रह्मवाचि सदादिशब्दस्यापि चराचरविशिष्ट ब्रह्म बोधकत्वेन चराचरव्यपाश्रयस्यतादृशव्यपदेशस्यापि ग्रहणे तद्वयपदेशस्य विशेषणार्थे इव विशिष्टार्थेपिअभिमतं भाक्तत्वं न सिध्येत् प्रकृतानु पयोगश्च । अतः तच्छब्दोपादानम्नच चराचर बोधकः चराचरबोधक शब्द प्रयोगो भाक्तः इत्युक्तौ पौनरुक्यंस्यादिति वाच्यम् । चराचर बोधकत्वेन प्रसिद्धः तत्तदर्थ बोधक शब्दव्यवहारःइत्युक्तौ अदोषात् । वस्तुतः सच व्यपदेशश्चेति विग्रहः । तत्तच्छब्दप्रयोगःइति हि भाष्यम् । व्यपदेशशब्दः प्रयोगपरः । तद्व्यपदेशः चराचरव्यपाश्रयस्सन्भाक्तः इत्यर्थवर्णनं मन्दम्भाष्योक्तविशेषणवशेष्यभावपरीत्यवैप्रसंगात् ।अस्मिन्नपि ह्यर्थेतच्छब्दः चरारपरामर्शीवाच्यः भाष्यस्वारस्यात, एवंचान्वयवैपरीत्येप्रथमं तच्छब्देनोपादनं नयुज्यते ।चराचरव्यपदेशः तद्व्यपाश्रयस्सन्भाक्तः इति हि प्रसज्येत् । तच्छब्दस्य ब्रह्मपरत्वमभ्युपगम्य ब्रह्मव्यपदेशःसर्वः चराचराश्रय व्यपाश्रयस्सन् भाक्तः इत्युक्तौ भाष्योक्त योजनाद्व्यार्थग्राही विलक्षणोऽर्थःइति मन्तव्यम् । अयमत्र भावः । लोके शब्दानांचराचरमात्रे प्रथमं व्युत्पत्तिः । पश्चात् शास्त्रात् ब्रह्मपर्यन्तेव्युत्पत्तिः । पूर्वमेव ब्रह्मपर्यन्ते व्युत्पत्तिस्तु नास्ति,पूर्व ब्रह्मणः अज्ञातत्वात् । एवमेव हि देवोऽहमित्यादिष्वपि अहंशब्दस्यपूर्वं देहे - पश्चात् तच्छरीरके आत्मनि । पश्चात् लोकगृहीतांशत्यागाभावायन व्युत्पत्तिभंगः ।। इति तेजोधिकरणम् ।