19 वियदधिकरणम्

(2.03.01) वियदधिकरणम्सांख्यादीति । कारणविषयपरोक्तदोष परिहारः द्वितीयाध्याय प्रथमपादेकृतः । अथ स्वपक्षरक्षणाय तस्मिन्नेव विषये परपक्षप्रतिक्षेपकरणायद्वितीयपादः सुसंगतः । अथ कार्यविषये परोक्तदोषपरिहारोऽस्मिन्क्रियते इति पादसंगतिः ।ब्रह्मकार्यतयाऽभिमतचिदचिदात्मक प्रपंचस्येति।प्रमेयत्वव्यापककार्यतानिरूपितकारणतावत्वं ब्रह्मणो लक्षणमिति जन्माद्यधिकरणेसिद्धम् । तस्य लक्षणत्वोपपादनं चासंभवातिव्याप्तिशंकानिरासेन कृतम्श्रुतिविप्रतिपत्ति प्रयुक्तासंभवशंकायाः प्रथमपादेन श्रुतिविप्रतिपत्तिप्रयुक्तातिव्याप्तिशंकायाःत्रिपाद्या, वादिविप्रतिपत्तिप्रयुक्तासंभवाति व्याप्तिशंकायाःद्वितीयाध्यायगतप्राथमिकपादद्वयेन च निराकृतत्वात्अथ कार्यतायां प्रमेयत्वव्यापकत्वोपादनमनन्तरपादद्वयेनावश्यकर्तव्यम्तत्र चिदचिद्वस्तुनोः कार्यत्वं नैकरूपं परंतुभिन्नरूपमेवेतिवक्ष्यमाणमनुसृत्य कार्यताप्रकारो विशोध्यते इत्युक्तम् ।।तत्र वियदिति । पांचरात्राधिकरणे जीवोत्पत्तिवाक्यस्य तन्नित्यत्वबोधकवाक्यबलेनान्यपरतयानिर्वाहः कृतः तथैव वियदुत्पत्तिपरवाक्यस्यापि तन्नित्यत्वबोधकवाक्येनान्यपरतयैव निर्वाहः कर्तव्यः ततश्चाभिमतं ब्रह्मणः सर्वकारणत्वंभज्यत इत्यधिकरणसंगतिः । अश्रुतेरित्येतद्विवृणोतिसंभावितस्य हीति।अश्रुतेरित्यत्र श्रुतिशब्दः श्रवणपरः इति भावः । एतेनाश्रुतेरित्यस्योत्पत्तिबोधकश्रुत्यभावादित्यर्थकत्वेआत्मन आकाशस्संभूतः इति तथाविधश्रुतिसत्वेन हेतुस्स्वरूपासिद्धःइति शंका परिहृता । तस्य श्रवणस्य शब्दजन्यप्रमितिविषयत्वा संभवार्थकत्वेनतस्यच पक्षवृत्तित्वात्नच वियदुत्पत्तेः “आत्मनः आकाशः संभूत” इति शब्द जन्यप्रमितिविषयत्वमस्त्येवेति वाच्यम् । तस्य चादित्योयूप इत्यादाविवायोग्यवियदुत्पत्तिप्रतिपादनासमर्थत्वात् । अन्यथा गगन कुसुमाद्युत्पत्तेरपि शब्दाभिधेयत्वप्रसंगादिति भावः । शशशृंगाद्युपेक्षया गगनकुसुमोपादानं प्रकृताभिप्रायेणयथा गगनस्य कुसुमस्यच न परस्परमन्वयः एवमेव गगनस्य उत्पत्तेश्चइति सूचनाय ।। ननु वियुदुत्पत्तेरसंभावितत्वेहि शब्देन तत्प्रतिपादनंन संभवति अंसंभावितत्वमेव च कथमित्यत्राह - न खल्विति। निरवयवस्यसर्वगतस्यचेति हेतुगर्भविशेषणम्अन्यथाऽऽत्मनोपि संभाविता स्यादुत्पत्तिरिति भावः । यदित्वत्राऽत्मनआकाश इत्यादेः अयोग्योत्पत्तिप्रतिपादनासमर्थत्वेन तत्प्रतिपादनसमर्थ श्रुतिवाक्याभाव एव अश्रुतेरित्यनेन हेतुतया विवक्षितः ।तर्हि संभावितस्य हीत्यादि भाष्यं तात्पर्यार्थकथनम् । युक्तंचैतत्कथमन्यथा गौण्यसंभवादित्यादिसूत्रे आत्मन आकाशस्संभूत इति श्रुतिंनिर्दिश्य तस्याः गौणत्वं शंक्यते अप्रस्तुतत्वत्तस्याः इति । एवंतर्कबलादुत्पत्त्यभावं प्रसाध्य तदुपष्टम्भक श्रुत्यर्था पत्तिंउक्त तर्कस्याप्रतिष्टितत्वव्यावृत्तिव्यक्त्यै दर्शयति - अत एवहीतितेजः प्रभृतीनामेवेति । यद्याकाशस्याप्युत्पत्तिरभिमतास्यात् तर्हिमहाभूत प्रथमस्य तस्य हि प्रथमं सृष्टिर्वक्तव्या । प्रथममपिनोक्तापश्चादपि च नोक्ता । तेजसः एवच प्रथममुत्पत्तिरुक्ता । अतस्तेजस्सृष्टिप्राथम्य श्रुत्यर्थापत्त्यापि आकाशस्य सृष्टिः नास्तीति निश्चीयतइति भावः । ननु छान्दोग्ये उत्पत्त्य श्रवणेपि अन्यतः तदुत्पत्तिःश्रुतैवेति कथमनुत्पत्तिनिश्चयः इत्यत्राह - तैत्तिरीयकेति। तर्कानुगृहीतश्रुतेरेवप्रबलत्वात् तस्याश्च प्रकृते सत्वात् तर्कविरुद्धोत्पत्तिवादिनीश्रुतिर प्रमाण कोटावेव निक्षेप्येति पूर्वपक्षिहृदयम्वियत्पदस्वारस्यादपि आकाशस्योत्पत्तिर्नास्तीत्यभ्युपगन्तव्यम्विशेषेण यत् = वियत् । इण् गतौ इति धातुः । अनेन सर्वव्यापित्वं सर्वगतत्वंच सिद्धम् । तेन निरवयवत्वमपि । निरवयवस्योत्पत्तिः नास्ति । निरवयवत्वंसर्वसिद्धम् । एतत्सूचनायैव सूत्रे आकाशपदोपेक्षणम् ।। आकाशनित्यत्ववादीतार्किकः भूतपंचकनित्यत्ववादीमीमांसकः । यथा जगदिदानीं दृश्यतेएव मेव सर्वदा । न कदाचिदप्यनीदृशं जगत् इति तेषा माशयः । अत एवसूत्रकारेण “असंभवस्तु सतः इति ब्रह्मव्यतिरिक्तस्य सर्वस्यापिउत्पत्तिः स्थाप्यते ।।

अथोत्पत्तिपदाध्याहारेण अस्ति तु इति सूत्रार्थमाह - अस्तित्वाकाशस्योत्पत्तिरिति।यद्यपि श्रुतिपदाध्याहारेण आकाशस्योत्पत्तिमत्वे श्रुतिः प्रमाणमस्तीतियोजयितुंशक्यम् । अथापि उत्तरशंकासूत्रे गौणीति स्त्रीलिंगनिर्देशेन श्रुतेर्गौणत्वशंकाकरणात्उत्पत्यस्तित्वसाधकतया श्रुतेर्हेतुभूतत्वं स्वरसतस्सिद्धमित्याशयेनैवंव्याख्यातम् । ननु कथं श्रुतेरुत्पत्तिसद्भावबोधकत्वं तस्या अयोग्यार्थबोधजनकत्वासंभवादित्यत्र तु शब्दविवक्षिततात्पर्यं व्यनक्ति - अतीन्द्रियार्थेति।अयं भावः आकाशोत्पत्तेरयोग्यत्वं हि प्रमाणान्तरागोचरत्वंनहि तावता श्रुतिसिद्धतदुत्पत्तिनिषेधः शक्यसंभवः श्रुतेः प्रमाणान्तरासिद्धार्थेऽतिप्रमाणत्वात् । अन्यथा प्रत्यक्षादिप्रमाणागोचरत्वेनायोग्यभूतभगवत्स्वरूपतदाराधनादि सर्वार्थस्यापि विलोपप्रसंगत् । एवं स्वेतर प्रमाणागोचरत्वेनायोग्यभूतार्थप्रतिपादनेऽपि स्वस्याप्रामान्यमिति सर्वप्रमाणविलोपः चार्वाकमतविजयप्रसंगोवास्यात् । अतः आकाशस्य प्रत्यक्षत्वानुमेयत्ववत् तदुत्पत्तेः प्रत्यक्षाद्यविषयत्वेऽपिअतीन्द्रियार्थबोधनतत्परायाः श्रुतेः प्रामाण्यं नैव हातुं युक्तमितिननु प्रमाणान्तरागोचरत्वरूपायोग्यत्वात् वियुदुत्पत्तौ न श्रुतेःप्रामाण्यं निषिध्यते,परंतु प्रमाणान्तरबाधितत्वात् नह्यतीन्द्रियार्थविषयिण्या अपि श्रुतेः प्रमाणान्तरबाधितार्थे प्रामाण्यं शास्त्रसंमतंअन्यथा आदित्यो यूपः इतीन्द्रियाद्यग्राह्यैक्य बोधिन्याः श्रुतेःप्रमाणान्तरविरुद्धैक्यबोधने प्रामाण्यापत्तेः । अत श्चोत्पत्तिवादिनीश्रुतिःनैवतदुत्पत्तिप्रतिपादन समर्थेत्यत्राह - नचेति।वियदुत्पत्तिःप्रमाणान्तरबाधितत्वेहि उक्तश्रुतेरुत्पत्तिप्रतिपादनासमर्थत्वम्बबाधितत्वमेव नास्ति । बाधक प्रमाणा भावात् । नहि धर्मिणः प्रत्यक्षसिद्धत्वमात्रेणागमावगतार्थबाधोयुक्तःअन्यथा प्रत्यक्षसिद्धक्रियाभूतयागोदेपि स्वर्गादिसाधनत्वं नागमावगम्यंभवेत् । नच धर्मिग्राहक प्रमाण विरोधा दुत्पत्ति निषेधः युक्तःधर्मि ग्राहक प्रमाणस्य प्रत्यक्षस्यानुमानस्य वा नित्यत्वानित्यत्वसाधारणत्वात्अनुमानान्तरेण नित्यत्वं साध्यत इति चेत्? किं तदनुमानम् । आकाशोनित्यः निरवयवद्रव्यत्वात् सर्वगतद्रव्यत्वाद्वा, आत्मवत् इत्यनुमानमितिचेत् तन्न, तस्य कालात्ययापदिष्टत्वात् । नहि श्रुतिभिरुत्पत्तेरवगमेतद्विरोधिनित्यत्व साधकानुमानस्योदयोयुक्तः ।। अप्रयोजकं च निरवयवद्रव्यत्वंउत्पत्त्यभावे । महदादिषु व्यभिचारात् । आकाशैक देशोपादानेन पंचीकरणवचनादपिनिरवयवत्वम सिद्धम् । एवमवस्थाया एवोत्पत्तिरूपत्वात् निरवयवत्वहेतुनातत्रतन्निराकारणं भवतामप्यनिष्टम् । निरवयवेऽपि तस्मिन् शब्दावस्थायाःअभ्युपगमात् । एवं निरवयवेष्वपि जीवपरमाण्वादिषु आगन्तुकज्ञानयोगपरस्परसंयोगाद्यभ्युपगमेनभवत्सिद्धान्तव्याहतिस्च प्रमाणाभावात्सर्वगतत्व मप्यसिद्धंचअपिच कालविशेषे एवाकाशस्योत्पत्ति बाधनात् कालविशेषावच्छिन्नाकाशस्यचप्रत्यक्षाद्यगोचरत्वेन शास्त्रैक समधिगम्यत्वात् शास्त्रेच तदुत्पत्तिबोधानात्धर्मिग्राहक प्रमाणेनैवोत्पत्ति स्सिद्धेति तादृश प्रमाण बाधादपिउत्पत्त्याभावसाधकानुमानं बाधितम् । अतो न केनापि प्रमाणेनाकाशोत्पत्तिर्निवारयितुं शक्येत्याशयः । नन्वेवं सत्यात्मनोऽप्यनुत्पत्तिमत्वंन स्यात् तत्साधकनिरवयत्वहेतोर प्रयोजकत्वेन दूषितत्वादित्यत्राह - आत्मनइति। आत्मनः उत्पत्यभावस्य “नजायत म्रियतेवा विपश्चि"दिति उत्पत्तिप्रतिषधकश्रुतिप्रयुक्तत्वादिति भावः ।।

गौणीति स्त्रीलिंगान्तत्वात् गौणवृत्तेश्च शब्दगतत्वात् प्रकरणवशाच्च"तस्माद्वा एतस्मादात्मनः । आकाशस्संभूत” इत्यादिवियदुत्पत्ति श्रुतिरितिविशेष्यपदमुपात्तम् । कुतइत्यत्र श्रुत्यर्थापत्ति माह - तत्तजोऽसृजवइति। ननु श्रुत्यर्थापेक्षया श्रुतिर्हि प्रबला । अतः उत्पत्तिबोधकश्रुति बलेन तेजः उत्पत्तिप्राथम्यं कथं चित्सोढव्यमित्यत्राह - वायुश्चेति।स्यादेतत्, यदि श्रुत्यर्थापत्तिमात्रेण नित्यत्वमंगीकुर्मः । परंतुअमृतत्वबोधकश्रुतिबलादेव । तत्रानित्यत्वनित्यत्वबोधक श्रुत्योःपरस्परविरोधे श्रुत्यर्थापत्तिः नित्यत्वबोधकश्रुतेरुपकारिणी भवति ।अतःश्रुत्यर्थापत्तिसहकृतामृतत्वबोधक श्रुतेः प्राबल्यात् उत्पत्तिवाचकश्रुतेःगौणत्वमेवेष्टव्यमिति भावः ।।

उत्तरसूत्रमवतारयति - कथमेकस्येति । नन्वात्मनः आकाशस्संभूतः इतिश्रुतेःसूक्ष्मवस्थात् स्थूलरूपः आकाशस्संभूतः इत्यर्थाङ्गीकारेण गौणत्वंशंकितम् । वायोरग्निरित्यादौ च न तादृशीरीतिः । एवं च सर्वत्रापिसंभूतशब्दस्य नार्थान्तरत्वमिति कथमस्याः शंकायाः उत्थानमिति चेदुच्यतेआकाशस्य स्थूल सूक्ष्मभेदेना वस्थाद्वयाभ्युपत्रमेऽपि सूक्ष्मरूपादाकाशात्स्थूलरूपः आकाशः स्वयं संभूतः इत्यर्थः अंगीकारणीयः । आकाशस्वरूपस्यविद्यमानत्वात् स्थूलत्वावस्थोत्पत्तावेव संभूतशब्दस्यचारितार्थ्यात्ततश्च वायोरग्निरित्यादावनुषक्तस्य तस्यैव संभूतशब्दस्य स्थूलत्वावस्थोत्पत्तिपरत्वमनुभ्युपगम्यस्वरूपस्यैवोत्पत्तिरित्यर्थोऽभ्युपगमनीयः इति भिन्नार्थत्वमित्याशयेन शंकोत्थितिरिति । तद्वदिति ।एकत्र गौणतया प्रयुक्तस्य शब्दस्यान्यत्र मुख्यतया प्रयोगदर्शनेनात्रापिस्थलभेदेन गौणत्वमुख्यत्वे न बाधकावहे इति भावः । ननु कुतः अननुरूपदृष्टान्तेनप्रलोभयसि? तत्र ह्युभयत्र ब्रह्मशब्दः प्रयुक्तः नत्वन्यत्रानुक्तः ।अत्र संभूतशब्दः एकत्रैव प्रयुक्तः । अन्यत्र चानुषक्तः । अतःकथं द्विःप्रयुक्तब्रह्मदृष्टान्तेनैकवारं प्रयुक्तसंभूतशब्दस्यगौणत्वमुख्यत्वोपपादनं संगच्छत इत्यत्राह - अनुषंगे चेति । पदमनुषक्तं वाभवतु, द्विः प्रयुक्तं वा भवतु । उभयत्रापि अर्थद्वयाभ्युपगमेमुख्यामुख्यसाधारण शब्दव्यापाररूपाभिधानस्याऽऽवृत्तिस्त्ववश्यमभ्युपगन्तव्यैव । अतः पदस्यावृत्तावपि एकार्थत्वाभ्युपगमेअर्थद्वयाभ्युपगमेऽपि वाऽभिधानस्यावृत्तिरंगीकरणीयैवेति । तद्वत्अनुषक्तत्वेपि अभिधानावृत्तिरस्त्येव । अन्यथाऽनुषंगस्यैव व्यर्थत्वापत्तेःबोधनार्थमेव ह्यनुषंगः। सकृत्प्रयुक्तस्य शब्दस्य युगपत् वृत्तिद्वयसंभवस्तुसर्वसंमतः । अतः पदस्य श्रुतत्वेऽनुषक्तत्वेपि वा वृत्तिद्वयविरोधाभावात्न गौणत्वमुख्यत्व कल्पनमप्रामाणिकमिति न दृष्टान्ताननुरूप्यमिति भावः ।।

परिहारसूत्रार्थमाह - छान्दोग्यश्रुतीति । अस्य सूत्रस्यावान्तरशंकानिरासपरत्वात्तदनुसारेण गौणत्वं कल्पयितुं न युज्यत इति संयोजितम् । यद्यप्यस्मिन्सूत्रेपक्षान्तरसूचकतुशब्दादिकं न दृश्यते । अथाप्यर्थवशादेवं व्याख्यातम् ।अस्य पूर्वपक्षपरतया व्याख्यातुमशक्यत्वाच्च । वक्ष्यमाणछान्दोग्यश्रुतौकण्ठत अनुक्तत्वादंगीकृतेति भाषितम् । नन्वस्तु सर्वविज्ञान प्रतिज्ञानं,किं ततः इत्यत्राह - तस्या हीति । यथा सौम्यैकेनेत्याद्युक्तमृत्पिण्डकार्यादिदृष्टान्तवशेन कार्यतयैव ब्रह्माव्यतिरेकस्य विवक्षितत्वावगमात् ।आकाशस्य च कार्यत्वाभावे तत्प्रयुक्तब्रह्माव्यतिरेकासंभवात् ब्रह्मज्ञानेनतस्यज्ञातत्वमुच्यमानं बाध्येतेति प्रतिज्ञाहानिरिति भावः ।ननु नित्यमुक्तनित्यविभूत्यादीनी ब्रह्मकार्यत्वाभावेन तत्र कथंप्रतिज्ञायाः अहानिः । नच कार्यविज्ञानस्यैव प्रतिज्ञातत्वात् तेषामकार्यत्वेनतद्विज्ञानासंभवेन न दोषः इति वाच्यम् । आकाशस्यापि नित्यत्वाभ्युपगमेकार्यत्वाभावेन तद्विज्ञानेन प्रतिज्ञानुपपत्तावपि प्रतिज्ञाहान्यापत्यसंभवात्नच सदेव सोम्येदमित्यत्रेदं शब्दनिर्देशात् इदं सर्वं विदितंभवतीति श्रुत्यन्तर स्वारस्याच्चेदं शब्द बोधित प्रत्यक्ष प्रमाणोपस्थापितार्थेषुसर्वत्रापि प्रतिज्ञायाः उपपादनीयतया आकाशस्यच प्रत्यक्षत्वात्असंकोचेन तत्राप्युपपादनीयैव प्रतिज्ञेति ब्रह्मकार्यत्वं तस्यावश्यकं,नित्यमुक्तादीनांच प्रत्यक्षाविषयत्वेन इदं शब्द समानधिकरणसर्वशब्दाविषयत्वेन प्रतिज्ञानुपपादनेपि न दोषः इति वाच्यंअतीन्द्रियार्थविषयेषु प्रतिज्ञायाः असंभवेन हान्यापत्तेः प्रत्यक्षादिसकलप्रमाणबोधितार्थस्यैवेदंशब्देनबोधनावश्यकत्वेनोक्तदूषणतादवस्थ्यात् । इति चेत् न । येनाश्रुतंश्रुतं भवतीत्युपदेष्टुः उद्दालकस्य नित्यमुक्तादि प्रत्यक्षासंभवेऽपियोगवशादतीन्द्रियार्थ विषयक प्रत्यक्षसंभवात् तेषुचप्रतिज्ञाहानेरनवकाशेनइदंशब्देन प्रत्यक्षप्रमाणोपस्थापितार्थमात्र बोधनेऽप्यनुपपत्त्यभावात्यच्चाकाशस्य नित्यत्वेनैकविज्ञानेन कार्यविज्ञानस्यैव प्रतिपिपादयिषितत्वात्आकाशे प्रतिज्ञाहानावपि न क्षतिरिति । तदपिमन्दम् । तस्य नित्यत्वेएव विवादात्नित्यमुक्तादीनां अनन्यथासिद्धप्रमाणेन नित्यत्वावगमवत् अनन्यथासिद्धप्रमाणस्यात्रदुरुपपादत्वाच्च । किं च नह्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाःमृद् दृष्टान्तादिवशेन प्रत्यक्ष प्रमाणोपस्थितस्य सर्वस्यापि कार्यत्वमन्तरान निर्वाहः इति प्रत्यक्षविषयस्य सर्वान्तर्गतस्याकाशस्यापि कार्यत्वमावश्यकमित्युच्यमनेआकाशस्य नित्यत्वाभ्युपगमात् कार्य भूतविज्ञानस्यैव प्रतिज्ञातत्वाचन प्रतिज्ञाहाविरिति समाधानकथनं योयुज्यते । नच नित्यादीनां कार्यत्वाभावेकथं तदव्यतिरेकः इति शंक्यम् । ब्रह्म शरीरत्वेनैव तेषां ब्रह्माव्यतिरेकसंभवात्आकाशस्य तच्छरीरत्वेना व्यतिरेकसत्वेपि प्रतिज्ञानुपरोधाय ब्रह्मकार्यतयापिब्रह्माव्यतिरेकः आवश्यकः । एतत्सूचनायैव ब्रह्मकार्यतया तदव्यतिरेकादेवेति भाषितम् । अतः न कस्यचिदपि दोषस्यावकाशः इति ।।

इतश्चेति । पूर्वं श्रुत्यर्थापत्तिलब्धात् ब्रह्मकार्यत्वेन ब्रह्माव्यतिरेकलिंगादुत्पत्तिस्साधिताअत्र श्रुतिलब्धात्तादृशदेव लिंगादुत्पत्तिस्साध्यते इति वैषम्यम्एएकत्वावधारण शब्दादिति। अग्ने इदमेकमेवासीदित्युक्ते हि परिदृश्यमानस्यजगतः अविभक्तनामरूपत्वेन ब्रह्मात्मकत्वं प्रतीयते । तच्च ब्रह्मात्मकत्वमुत्तरत्र सृष्ट्याद्युक्त्या कार्यत्वेनैवेति निश्चीयते । ततश्चाकाशस्यापिदृश्यान्तर्गतत्वेनेदंशब्दार्थत्वादस्यापि ब्रह्मात्मकत्वोक्तिबलात्कार्यत्वमावश्यकमिति उत्पत्तिरावश्यक्येवेति भावः । ऐतदात्म्यमिदं सर्वमितिएतच्छब्दः पूर्वप्रस्तुतकारणपरः । आत्मशब्दश्चान्तर्यामिपरः । ततश्चकृत्स्नस्यापि वस्तुनः कारण भूतब्रह्मात्मकत्वमनेनोच्यते । ततश्चाकाशस्यापिबह्मकार्यत्वेन ब्रह्मात्मकत्वं प्रतीयते इति भावः । इत्येवमादीत्यादिशब्देनसन्मूलाइत्यादि श्रुतिग्रहणम् । ननूत्तरत्र सृष्टेर्वक्ष्यमाणत्वेऽपितेज आदि सृष्टेरे वोक्त्यानाकाशस्य कार्यत्वप्रयुक्तं ब्रह्मात्मकत्वमवश्यमित्यत्राह - नचेति।अन्योत्पत्तिवचनमात्रेणान्योत्पत्तिनिषेधासंभवादिति भावः । ननुवियतः उत्पत्त्यवचनात् तेजसश्च प्रथमं तद्वचनाच्च वियदुत्पत्तेःनिषेधः आवश्यकः तत्राह - वियदितिवियदुत्पत्तिनिषेधाभावमभिप्रेत्य मात्रपदम् । सर्वशाखाप्रत्ययन्यायमभिसन्धायश्रुत्यन्तरप्रति पन्नामित्युक्तम् । अयं भावः=अस्तु तेजउत्पत्तेःप्राथम्यश्रवणम् । तावता वियदुत्पत्तेर्निषेधः न सुशकः । सर्वशाखाप्रत्ययन्यायेनानुक्तार्थस्यापि ग्रहणसंभवात् । यदितु तद्वाधकंवियदुत्पत्तिनिषेधादि किंचिदत्र श्रूयेत तर्हि उत्पत्तिवारणं कथंचित्शक्येत । नच तदस्ति । अतः विदयदनुत्पत्यादेरश्रुतत्वात् अश्रुतेनश्रुतप्रहाणस्यायुक्तत्वाच्च श्रुतेन वियदुत्पत्त्यादि नैवात्राप्यश्रुतस्यतस्यात्रापि कल्पनमेव युक्तमिति । किं च प्रतीयमानं तेज उत्पत्तिप्राथम्यं हि लिंगमेव तत्कथं तदुत्पत्ति बोधक श्रुतिबाधकंभवेत्अमृतत्व शब्द सहकृतस्य तस्य प्रबल्यमपि नयुक्तिमत् उत्पत्ति बोधकवचनस्यापि लिंगसहकृतत्वात् । ननु तर्ह्युभयोरविशेषात् कस्य प्रामाण्यमितिविशयः समापतित इति चेत् उच्यते, आकाशस्योत्पत्ति सूचकानि बहूनिलिंगानि प्रदर्शितानि । आत्मनः आकाशइति उत्पत्ति बोधकं वाक्यं चदृश्यते, तच्च सर्वशाखाप्रत्यन्यायेन तदुत्पत्त्यकथनस्थलेपियोजनीयमेवश्रुतं प्राथम्यं लिंगं न तद्बाधकं तस्यान्योत्पत्तिनिषेधेऽसमर्थत्वात्आकाशोत्पत्तिनिषेधादिवाक्यान्तराश्रवणाच्च ततश्चकथमुक्तलिंगस्यप्राबल्यम् । अत उक्तयुक्त्या च्छाब्दोग्य श्रुतावप्याकाशोत्पत्तेःप्रतीयमानत्वात् न तन्निवारणं युक्तिमदिति ।।

पूर्वत्र शंकानुत्थितेः क्वचित् समुच्चयपरत्वमभिप्रयन्नाह - तु शब्दश्चार्थइति । उक्तदृष्टान्तइवाकाशस्य विकारशब्दितोत्पत्ति बोधने एवान्यत्रान्येषामुत्पत्तिबोधनेपिअस्याप्युत्पत्तिरुक्तप्राया स्यात्, तदेव नास्तीत्यत्राविशेषेणसर्वस्यापि ब्रह्मविकारत्वं क्वचिदुक्तमिति सूचयत्राह - ऐतदात्म्यमितिएकत्वावधारणादिःआदिशब्दार्थः । विभागशब्दव्याख्यानं उत्पत्तिरितिपूर्वत्राकाशोत्पत्तेर्लिङ्गावसेयत्व मुक्तम् । अत्र तस्या उक्तत्वमपीतिभिदा ।।नन्वमृतत्ववचनस्य कागतिरित्यत्राह - एवं चेति । वायोरपि अत्रामृतत्वमुक्तंनच तावता तस्याप्यनुत्पत्तिर्भवदभिमता ।अतस्तद्वदेव तत्सहपठिताकाशस्यामृतत्ववच नस्यापि अन्यपरत्वेन तदनुत्पत्तिपरत्वं नास्तीत्यभ्युपगन्तव्यमिति

सूत्रार्थमाह - अनेनैवेति । येन हेतुना आकाशादेरुत्पत्तिः प्रतिपादितातस्य कारणजातस्य वायुविषयेऽप्यवश्यं सत्त्वात् इति भावः । “वायुश्चान्तरिक्षंचैतदमृतम्” इत्यत्रामृतपदस्य चिरकालावस्थायित्वाभिप्रायकत्वमेव,न तु नित्यत्वाभिप्रायकत्वं” इत्यर्थस्य वर्णनादपीत्यर्थः’ । नन्वाकाशापेक्षयान वायुविषये अधिक शंकनं पश्यामः अतः किमर्थमतिदेशः किमर्थं वा पृथद्योगकरणमित्यत्रनेदमतिदेशार्थं प्रवृत्तं, परं तूत्तरसूत्रे अतश्शब्देन वायुग्रहणोपादनार्थमेवेत्याभिप्रयन्नाह - वियदिति । योगः = सूत्रम् । ननु गुरुतरपृथक्सूत्रकरणापेक्षया"तेजोऽतस्तथा ह्याह इत्युत्तरसूत्रे एवातः इति पदं परित्यज्य मातरिश्वनःइति पदं संयोज्यैव सूत्रकरणे लाघवसंभवात् तथा किमिति सूत्रकृतान कृतमिति चेत्? सत्यं, नियोग पर्यनुयोगानर्हो हि भगवान् महर्षिः ।अतः किं कुर्मो वयम् । अपि च मातरिश्वपद संयोजने हि आपः = पृथिवीइति तदुत्तरसूत्रद्वये अतश्शब्दवत् मातरिश्वपदस्यानुषंगासंभवेनतेजस आपः अद्भ्यः पृथिवी इति सूत्रद्वयमपि अन्यथाकरणीयमेव स्यात्ततश्च सूत्रत्रयमपि वक्ष्यमाणमतिगुरु भवति । अतः एतत्पर्यालोच्यैवाधिकाशंकाभावेऽपि वियन्मातरिश्वनोः समानयोगक्षेमत्वाभिव्यञ्जनेन वायोरिवाकाशस्यपिउत्पत्तिः सिद्धा भवतीत्यभिव्यक्त्यै पृथक् सूत्रं कृतं परमर्षिणेतियत्तु “सैषा देवताऽनस्तमिता यद्वायुरि"ति वचन बलेनवायोर्नित्यत्वप्रसक्ति रित्येधिकाशंका । तन्निराकरणायेदं सूत्रं प्रवृत्तमिति - तन्मन्दमेववायुश्चान्तरिक्षंच तदमृतमित्यमृतत्ववचनवदस्यापि तुल्ययोगक्षेमत्वात्अधिकशंकानुपपत्तेः । नह्यमृतममृतमितिः द्विः श्रुतत्वेपि तस्याधिकशंकोत्तम्भकत्वम् । नत्र शुक्लभास्वरद्रव्यमिति शतशः प्रतिपत्तावपितस्य रजतज्ञान बाधकत्वं शास्त्रज्ञैरभ्युपगम्यते । अनस्तमितत्ववचनं तु अमृतत्व वचनतुल्यमेव । तत्रैह्यतिदेशोयुक्तः । यत्रोक्तशंकाविजातीयशंका प्रसरः । अत्रतु न तादृशी शंका कस्यचित् जायतेअतो यथोक्तरीत्यैवार्थ वर्णनं युक्तम् ।। सूत्रे वायुपदं विहायमातरिश्वपदं प्रयुक्तम् । अस्यायं भावः वायोः द्यौर्माता इति श्रुतौद्युलोकजन्यत्वं वायोः प्रतिपादितम् । तेनैव द्युकार्यत्वसिध्याकथं वायोः नित्यत्वसंभवः । अतः वायोः उत्पत्तिरस्ति वा नवेति शंकायाएव न प्रसक्तिः । आकाशात् वायुरितिवत् स्पष्टमेव मानरिश्वपदमेववायोः कार्यत्वं बोधयति । इति । मातरि वियति श्वयति = गच्छति इतिमातरिश्वा” । श्वि गतिवृध्योः इति धातुः ।।

अनुपपत्तेरित्यनुत्पत्त्यनुपपत्तेर्वक्ष्यमाणत्वात् तत्र च संबन्ध्यनिर्देशप्रयुक्तदोषं परिहर्तु तु शब्दस्यावधारणार्थत्वमाह - तुशब्द इति ।“स्युरेव तु पुनर्वै चेत्यवधारणवाचिनः” इति नैघण्डुक प्रसिद्धेरितिभावः । तुशब्दबोधितमवधारणार्थमप्यभिप्रेत्य ब्रह्मण एवेत्युक्तम्अअथावधारणार्थतुशब्द फलितमर्थं अनुपपत्तेरिति हेतुवाचक पदार्थेनसह प्रकाशयति - तद्व्यतिरिक्तस्येति । ब्रह्मव्यतिरिक्तस्यानुत्पत्त्यनुपपत्तेःब्रह्मण एवानुत्पत्तिरित्यंगीकरणीयमिति भावः । ब्रह्मण एवानुत्पत्तिः ।तस्योत्पत्त्यनुपपत्तेरित्यर्थ वर्णने अर्थ द्वयालाभ प्रयुक्तमस्वारस्यमित्येवंव्याख्यातम् ।अथैवं व्याख्यानेऽर्थ द्वयं तल्लाभ प्रकारं अनुत्पत्यनुपपत्तिगमकंच प्रदर्शयन् सूत्रतापर्यमाह - एतदुक्तमिति । ब्रह्मणः अनुत्पत्तिरित्येकोऽर्थःतदन्यस्योत्पत्तिरित्यपरोऽर्थः। इदंचार्थद्वयमेवं व्याख्याने एवननु ब्रह्मव्यतिरिक्तस्य सर्वस्याप्युत्पत्ययुपगमे कथं वियन्मातरिश्वनोःकेवलं पूर्व मुत्पत्तिवर्णन मित्यत्राह - उदाहरणार्थमिति । आकाशतदनन्तरभावितत्वानामेवनानुत्पत्तिर्निषिध्यते, किंतु तत्पूर्वतन तत्त्वानाम पीत्याशयेन - अव्यक्तमहदंकारेत्याद्युक्त म् । अव्यक्तादीनां शास्त्रैकसमधिगम्यत्वात्शास्त्रेणच तेषामुत्पत्ति बोधनात् नित्यत्वादिसूचक प्रमामाभावाच्चनित्यत्व शंकायाः अनवतारेण आकाशादिषु पूर्वं शंका कृताएकविज्ञानेन सर्वविज्ञान प्रतिज्ञादिभिरित्यनेनानुपपत्तिगमकं प्रदर्शितम्एकत्वावधारणादिकमादि शब्दार्थः ।। इति वियदधिकरणम् ।।