(2.02.02) महद्दीर्घाधिकरणम्एवमनुमानपरिकल्प्यमूलप्रकृतेः विश्वोपादानत्वकल्पनापक्षः निरस्तः ।अथानुमानपरिकल्प्यनाना भूतपरमाणूनां विश्वोपादानत्व कल्पना पक्षःनिरस्यत इति संगतिः । यद्वा - ईश्वरानधिष्ठित प्रधानकारणत्व वादोनिरस्तः । अथ निमित्तमात्रेश्वराधिष्ठितपरमाणूपादानत्ववादो निरस्यतेइति संगतिः । एतदभिप्रायेण संगतिं दर्शयति - प्रधानकारणेति । यद्यपिशैवमतेऽपि प्रधानकारणवादाभ्युपगमेन प्रधान कारणवादि सांख्यमतनिरासानन्तरंतत्साम्यात् शैवमतमेव निरस्यम् । अथापि तस्य वेदबाह्यत्वाधिक्येनपश्चान्निरासः । वैशेषिक बौद्धयोः परमाणुकारणवादित्व साम्येऽपि वैशेषिकमतस्यप्रथमतो दूषणं सांख्यवत् वैदिकत्वाभिमानादिति बोध्यम् । उक्तं च"सांख्या वैशेषिकाश्च श्रुतिपरिपठितं धर्ममैच्छन्न तत्वंतत्वाचारौ तु बुद्धक्षपणक पशुपत्युक्तिषु श्रुत्यपेतौ ।" इति ।इतर व्याख्याव्युदासायाऽऽह - असमञ्जसमिति । उद्देश्यवाचकपदाभावेनविधेयान्वयानुपपत्तिपरिहाराय वाशब्दस्य समुच्चयार्थकत्वमाह - वाशब्दइतिह्रस्वशब्दः द्व्यणुकपरः, परिमण्डलशब्दः परमाणुपर इत्याह - ह्रस्वेति । ह्रस्वपरिमण्डलाभ्यामिति परमाणु द्व्यणुकोभयोपादानबलेन महदीर्घपदस्य द्व्यणुकत्र्यणुकपरत्वशंकाव्युदासायार्थमाह - महद्दीर्घवदिति ।यच्च दीपे सूत्रार्थस्त्वित्यारभ्य महद्दीर्घशब्दस्य द्व्यणुकत्र्यणुकपरतयाव्याख्यानं तदपि सूत्रतात्पर्यार्थकथनमेव । अन्यथा महद्दीर्घ पदयोरन्यतरस्यापिद्व्यणुक वाचकत्वासंभवेनानौचित्यात् । अत एवात्रापि अन्ते अतो ह्रस्वपरिमण्डलाभ्यांमहद्दीर्घाणुह्रस्वोत्पत्तिवदन्यच्च तदभ्युपगतं सर्वमसमञ्जसमित्येवसूत्रार्थ इति भाषितम् । अन्यथा महद्दीर्घपदस्योभयपरत्वे सूत्रार्थवर्णनसमये पृथक् द्व्यणुकवाचकाणुह्रस्वपदोपादानं विरुध्येत ।ननुमहद्दीर्घपदस्य नत्र्यणुकमात्रपरत्वं युक्तं तथा सति महञ्च तत्दीर्घं चेति समानाधिकरणसमासे आन्महत इत्यनेनात्व प्रसंगेन महद्दीर्घमितिशब्दानिष्पत्तेःमैवम् । महद्दीर्घशब्दस्य भावप्रधाननिर्देशतया महत्वदीर्घत्व परत्वात्सामानाधिकरण्यानभ्युपगमात् । भावप्रधानौ महद्दीर्घशब्दौ च तद्गुणकत्र्यणुकलक्षकौअणुत्वह्रस्वत्वाश्रये द्व्यणुके लक्षणयाप्युपपादनं न शोभनतरम् ।। लक्षकशब्दद्वयेन त्र्यणुक बोधनंतु महत्वदीर्घत्वरूपोभयगुण वैशिष्टयबोधनार्थम् । अपि च सूत्रस्थो ह्रस्वशब्दो द्व्यणुकपरः एवं च तत्रत्यएव ह्रस्वत्वविरुद्धदीर्घ बोधक दीर्घ शब्दो द्व्यणुकपरः इत्यसंगतंवाक्यस्वारस्य विरुद्धं च ।। ननु महद्दीर्घ शब्दस्य त्र्यणुकमात्रपरत्वेऽसंगतिः दुर्वारा । द्व्यणुकेभ्यः त्र्यणुकोत्पत्तिवद् परमाणुभ्यःत्र्यणुकोत्पत्तेस्तदनभिमतत्वेन तद्वदन्यस्यासामञ्जस्यकथनस्यानुपपन्नत्वादित्यत्र तात्पर्यार्थमाह - परमाणुभ्यः इतिअथ दृष्टान्तेऽसामञ्जस्यमाह - तथाहीति । सर्वस्यापि वस्तुनः अधःऊर्ध्वाभ्यां विदिग्दिक्चतुष्टयेन च दश पार्श्वेषु संयोगः इष्यतेतत्र परस्परसंयोगेन पृथुकार्योत्पत्तिसमये प्रत्येकं पार्श्वत्रयसंयोगः अपेक्षितः । सर्वथाऽसंयोगे कार्यस्यैवानुपपत्तिः । असंयुक्तप्रदेशं विना सर्वथा संयोगे तु प्रथिमा नोपपद्यते । अतः अशंत्रयसंयोग एवसंभवन्नंगीकार्यः ।परमाणोश्च निरवयवत्वादंशभेदमनेपेक्ष्य संयोगस्यवक्तव्यत्वात् असंयुक्तप्रदेशाभावेन द्व्यणुकाद्यनुत्पत्त्या पृथिमोत्पत्तिर्नसंभवति । सावयवत्वे तत्कारणावयवानामपि उक्तयुक्त्यैव सावयवत्वांगीकार्यतयाऽनवस्थेति परमाणुकारणवादः असमञ्जस इति भावः । ननु सिद्धान्ते निरवयवेऽणुभूतेजीवात्मनि अन्तर्व्याप्युपपादनाय दशदिक्संयोगस्याभ्युपगमवत् परमाणूनामपिदशदिक्परिमितत्वेन दशदिक् संयोगस्यावश्यकतया तत्र द्वाभ्यां विदिग्भ्यांएकया मध्यमया दिशाच परमाण्वन्तर संयोगः कुतो न संभवति । उच्यतेअणोर्दशदिक्संयोगो हि कार्त्स्न्येन सर्वदिक्संयोगः । नत्वेकैकदेशेनएकैकदिक्संयोगसमुदायः । निरवयवत्वेन प्रदेशभेदाभावात् । अतः कार्त्स्न्येनसर्व दिक्संयोगसत्वात् परमाणोः परमाण्वन्तरसंयोगः कार्त्स्न्येनैवेतिन पृथुकार्योत्पादकता परमाणूनां संभवतिआत्मनः तथाविधसंयोगसत्वेपि न कश्चिद्दोषः । एवं दिशः एकत्वेन दिगुपाधिभिरेवदिग्विदिग्भेदस्याभ्युपगन्तव्यतया दिगुपाधीनामपि परमाण्वसंयुक्तानांपरमाण्वन्तरसंयोगेऽवच्छेदकत्वासंभवात् परमाणोरंशाभावे दिगुपाधिभिरपिसंयोगासंभवात् ततद्दिगुपाध्यवच्छेदनापि परमाण्वन्तरसंयोगो न संभवत्येवयथा चात्मनः दशदिक्संयोगानभ्युपगमेऽपि अन्तर्व्याप्तिघटनं तथोपपादितमन्यत्रइति । वस्तुतो भगवतस्तदन्तर्व्याप्तिर्नाम तदधिकरणावृत्त्यभावाप्रतियोगित्वमेवनतु तदन्तः प्रदेशवृत्तित्वम् । एतेन निरवयवद्रव्येषु भगवतोऽन्तर्व्याप्तिर्नसंभवतीति पक्षोपि व्युदस्तःतदभाववद्वृत्तित्वमेव च भगवतो बहिर्व्याप्तिः । इत्थं च स्वरूप व्याप्तिरेवान्तर्व्याप्तिरितिसेयं सर्वत्र सूपपादेति न कश्चिद्दोषः ।।अवयवापकर्षकाष्ठा ऽवश्याभ्युपगमनीयेति।चाक्षुषद्रव्यत्वाद्धटादिवत् त्रसरेणूनां सावयवत्वं सिद्धम् । त्रसरेण्ववयवानानपिमहदारम्भकत्वेन सावयतत्वं स्वीकर्तव्यम् त्रसरेण्वयवायवस्यतु नसावयवत्वं, तथासति उत्तरोत्तरांवयवपरंपराया अविश्रान्तिः । न चेष्टापतिः,अनन्तावयवत्वसाम्येन मेरुसर्षपयोरपि परिमाणतारम्याभाव प्रसगेन वैषम्यासिद्धेरित्याशयःवैषम्यासिद्धि परिहाराय परमाणूनां निरवयवत्वे प्रदेशभेदमनपेक्ष्यसंयोगस्य वक्तव्यतया प्रथिमोत्पत्तेरभावात् मेरुसर्षपयोरेवासिद्धिरितिकथं तद्वैषम्यासिध्यापादनमित्याशयेन दूषयति - परमाणुनामितिअस्माकं वस्तुसिध्या वैषम्यासिद्धिः । भवतां तु धर्मिण एवासिद्धिरितिकुतस्तद्वैषम्यस्य सिद्धिरित्युभयमप्यसिद्धमिति भावः । अतः पक्षद्वयेऽपिदोषात् किं कर्तव्यमिति शंकतेकिं कुर्मइति । परिहरति - वैदिकः इति।अनेनादुष्टत्वं सूचितम् । वस्तुतो अवयवधाराविश्रमानभ्युपगमेऽपिअवयवानन्त्यसाम्यात् सर्षपमहीघरयोःवैषम्यासिध्यापादनं न संभवतिआश्रयाणामनन्तत्वाविशेषेऽपिक्षणदिवसपक्षमाससंवत्सरादिषु परावरजातिषुचाधिक्यन्यूनतयोस्तैरप्यभ्युपगतत्वेनावयवानन्त्येपिवैषम्यसंभवात्ननच घटत्वपृथिवीत्वयोराश्रयानन्त्येऽपि घटत्वाश्रयनिखिलघट वृत्तित्वेसति तदनाश्रयवृत्तित्वात् घटत्वापेक्षया पृथिवीत्वस्याधिक्यं, एवंअतीत क्षणदिवसयोरानन्त्येऽपि एकस्य दिवसस्यानेकक्षणघटितत्वात्दिवसापेक्षया क्षणानामाधिक्यमितिदृष्टान्तवैषम्यमिति वाच्यम् । उक्तयुक्तयैव सर्षपमहीघरयोरनन्तावयवत्वेऽपिसर्षपव्याप्त देशव्याप्तत्वेसति तदव्याप्त देशव्याप्तत्वात् सर्षपापेक्षयामहीघरस्याधिक्यसिद्धिरित्यलमन्यत्र संरंभात् ।अत्रेदमवधेयं - परमाणोः परिमण्डलं इति नाम, द्व्यणुकस्य अणुहृस्वंइति नाम, त्र्यणुकस्य महद्धीर्घं इति च नाम । यदि परमाणोः सावयवत्वंन स्यात् तर्हि तस्मात् परिमण्डलात् अणुह्रस्वस्य द्व्यणुकस्य,द्व्यणुकात् महादीर्घस्य त्र्यणुकस्य च प्रथिमा नस्यात् । यद्यपिपरमाणुतः द्व्यणुकस्य प्रथिमा न भवति । द्व्यणुकात् त्र्यणुकस्यप्रथिमा स्यात् कारण बहुत्वात् इति वक्तुं शक्यं, अथापि परमाणुद्व्यसंयोगस्यैवाभावात्द्व्यणुकस्यौपत्त्यसंभवात् । न हि परमाणुद्व्यसंयोगः कपि संयोगवत्अव्याप्यवृत्तिः । येन वृक्षमूलाग्रवत् संयोग तदभावावच्छकत्वं कस्यचित्स्वीकर्तुं शक्यंव्यवस्थित देशस्यावच्छेदकत्वासंभवात् । निरवयवत्वेन प्रदेशभेदाभावात्अतः परमाणुद्वयसंयोगस्याव्याप्यवृत्तित्वाभावात् व्याप्यवृत्तित्वमेवेतिस्वीकार्यम् । ततश्च परमाणुद्व्यसंयोगस्य व्याप्यवृत्तित्वे द्व्यणुकस्यापिपरिमण्डलत्वमेव भवेत् ।परमाणुद्वयसंयोगस्य हि द्व्यणुकोत्पादकत्वमिष्यते । तेन परमाण्वोःसांशत्वं स्वीकर्तव्यमेव । नहि संयुज्यमानौ परमाणू उभावपि समानदेशौसन्तौ संयुज्येते । मूर्तानां समान देशताविरोधात् । तथाच परमाण्ववयवभूतप्रदेशभेदांगीकारे एव द्व्यणुकत्रयसंयोगोपि । एवमुभयविधसंयोग निर्वहणायपरमाणूनां सावयवत्वमेषितव्यम् । हस्तपुस्तकसंयोगाद्धि कायपुस्तकसंयोगोनिर्वाह्यः । एव द्व्यणुकस्य द्व्यणुकान्तरेण संयोगोपि परमाणुद्व्यसंयोगेननिर्वाहः । परमाणुद्व्यसंयोगश्च उभयोः सांशत्वं विना नोपपद्यतेयदि परमाणूनां मूर्तानामपि समानदेशत्व मिष्यतेतदा षठ्णां परमाणूनांपिण्डरूपं त्र्यणुकं परमाणुमात्रं भवेत् न प्रथमारूपं"षड्केन युगपद्योगात् परमाणोः षडंशता । षण्णां समान देशत्वे पिण्डःस्यादणुमात्रकः"इति चोक्तम् । द्व्यणुकेभ्यःत्त्र्यणुकोत्पत्तावपिइदमेव दूषणं जागरुकम् ।ननु परमाणोः सांशत्वे तदंशाना मप्युक्तन्यायेनैव सांशत्वमिति अनवस्थाप्रसज्येत ।अनन्तावयवारब्ध त्वाविशेषात् मेरुसर्षपयोः तुल्यपरिमाणत्वप्रसंगः । अतः सांशत्वमपि न स्वीकारार्हमिति चेत् । तर्हि सांशत्वेअनवस्या, निरंशत्वे न द्व्यणुकोत्पत्तिः इति पक्षद्व्येपि दोषसद्भावात्परमाणुकारणवादएव परित्याज्यः । अपि च अवयवानन्त्यसाम्येपि तुल्यपरिमाणत्वप्रसंगपरिहार संभवस्योपपादितत्वात् ।।यद्यप्यस्मत्सिद्धान्ते त्रसरेणव एव परमाणु स्थानापन्नाः । तेचनिरवयवाः । तेषां च प्रत्यक्षत्वात्तत्संयोगस्यापि प्रत्यक्षत्वम्तत्र तेषां परस्परं प्रादेशिकः संयोगः । कार्त्स्न्येन वेति विकल्पेप्रादेशिकत्वे सावयवत्वप्रसंगः ।कार्त्स्न्येन चेत् कथं तेषां उपचयःइति शंका जायत एव । तथापि तदधीन द्रव्यान्तरोत्पत्यनङ्गीकारात्नायं प्रश्नः । परमाणौतु अवयवाभावेन पृथिमा पृथुद्रव्यान्तरं नोत्पत्तुमर्हतिइत्युच्यते । न हि तैः बौद्धैरिव परमाणुपुञ्ज एव भूतं इत्युच्यतेअसत्कार्यवादित्वात् द्रव्यान्तरोत्पत्तिरिष्यते ।न हि व्रीहीणां संभूय संमेलनेपि तत्समुदायः द्रव्यान्तरं भवति ।प्रत्यक्षदृष्टविषये विवादाभावात् । कल्प्य परमाणुविषये एव विवादात् । ननुनिरंशत्रसरेणूनामेव कारणत्वमस्तु इति चेत् द्रव्यान्तरोत्पत्तेरसंभवस्योपवर्णितत्वात्" ।।अथ परोक्तं सूत्रव्याख्यान प्रकारं दूषयति - यत्त्विति । जगद्ब्रह्मणोर्विलक्षणत्वात्कथं जगत् प्रति ब्रह्मणः कार्यकारणत्वं सलक्षणयोरेव । कारणभावसंभवादित्यांशंक्य,यथा विलक्षणपरमाणुद्व्यणुकाभ्यां विलक्षणद्वणुकत्र्यणुकोत्पत्तिःनैयायिकैरभिमता । तद्वदस्माकमपि विलक्षणत्वेऽपि कार्यकारणभावःसंभवतीति परै व्याख्यातम् ।स्वपक्षस्थापनपरप्रथमपादे संगतस्यास्यार्थस्यपरपक्षप्रतिक्षेपपरद्वितीयपादे असंगतत्वात् । प्रथमपादे एव विलक्षणत्वाधिकरणेविलक्षणयोः कार्यकारणमात्र संभवस्य प्रतिपादितत्वेन पुनरुक्तत्वाच्च ।दूषयति - तदसंगतमिति । तत् = परोक्तव्याख्यानम् । अत्रेदं सूत्रकारतात्पर्यम् ।परिमण्डलशब्दः परमाणुपरः “नित्यं परिमण्डलं” इतिः तैः परिभाषितत्वात् ।तत्सहचरित ह्रस्वशब्दः द्व्यणुकपरः । परिमण्डलं च ह्रस्वं च, ताभ्यामितिविग्रहः । अल्पाच्त्वात् ह्रस्वशब्दस्य पूर्वनिपातः । महद्दीर्घशब्दःत्र्यणुकपरः । महच्च दीर्घं च इति समाहारद्वन्द्वः । भावप्रधान निर्देशःमहत्वदीर्घत्वपरः । अर्श आद्यच् । महद्दीर्घशब्दः महत्वदीर्घत्वरूपपरिमाणविशिष्टद्रव्यवाची । तच्च त्र्यणुकं द्रव्यम् । तदुपलक्षितं जगत् इति यावत् ।यद्यपि महच्च तत् दीर्घं च इति कर्मधारयाश्रयणेऽप्ययमर्थः सिध्यति । तथापिमहादीर्घेति आत्वमापद्यते । परमसुन्दरःइत्यत्र सौन्दर्ये परमत्ववत् दैर्घ्ये महत्वरूपान्वये प्रकृतानुपयोगश्च ।अणु महत् दीर्घं इति परिमाणमात्रे प्रयोगश्च तेषां परिपाटी ।महता सहितं दीर्घं द्रव्यमिति विग्रहे च नैव क्लेशः । द्व्यणुकादिसर्वस्यापि द्रव्यस्य महद्दीर्घशब्देन बोधात् । द्वाभ्यां परमाणुभ्यांद्व्यणुकं, त्रिभिः द्व्यणुकैः त्र्यणुकम् । चतुर्भिः त्र्यणुकैः चतुरणुकमितिएवं क्रमेण भूतोत्पत्तिरिति च तेषां मतम् । अत्र एकेन परिमण्डलेनपरमाणुना न द्व्यणुकोत्पत्तिः । न वा एकेन ह्रस्वेन द्व्यणुकेन त्र्यणुकोत्पत्तिरिष्टाअतः परिमण्डलात् ह्रस्वात् इति एकत्वविवक्षा न भवति । ह्रस्वैः सहिते परिमण्डलेताभ्यामिति विग्रहस्वीकारे नैवेयमनुपपत्तिः । ह्रस्वैः = त्रिभिः त्र्यणुकैः ।परिमण्डले परमाणुद्वयम् । इत्यर्थात् त्रयाणांह्रस्वानां परिमण्डल द्वयस्य च ग्रहणसंभवात् नैषः दोषः ।। तथा चपरमाणुद्वय प्रयोज्यं द्व्यणुकम् । द्व्यणुकत्रय प्रयोज्यं त्र्यणुकमितिफलितम् । एवं क्रमेण जगदुत्पत्तिः फलिता । परिमण्डलस्य साक्षात्महद्दीर्घ (त्र्यणुक) हेतुत्वं नास्ति, परं तु ह्रस्व (द्व्यणुक) द्वारैवेतिबोधनाय ह्रस्व शब्दोपादानम् । अणु महत् दीर्घं परिमण्डलमितिपरिमाणमात्रे प्रयोगस्य तदीयग्रन्थे दर्शनात् अत्रापि परिमाणविशेषवाचकशब्द एव प्रयुक्तः । अन्यथा “त्र्यणुकादिवद्वा द्व्यणुकपरमाणुभ्यां’ इति निरदैक्ष्यतपरिमाणविशेषमुखेन निर्देशादयमप्यर्थो लभ्यते । परिमाणस्य स्वसजातीयस्वोत्कृष्ट परिमाणजनकत्वमिति नियमः तै स्वीक्रियते । एतन्मतरीत्यैवह्रस्व परिमाणात् अणुपरिमाणाच्च दीर्घ परिमाणं महत्परिमाणं च कथंजायेत । एवं परमाणुपरिमाणादपि द्व्यणुकपरिमाणं कथं जायेत । उत्कृष्टपरिमाणजनकत्वनियमस्य परमाण्वपेक्षया अणुतरत्वमेवापद्येत । अतः तन्मतंमूले एव कुठारेण भग्नम् । दीर्घपरिमाणस्योत्पत्तिः कथमिति चेत्द्व्यणुकगतसंख्याविशेषात् इति वक्तव्यम् । तथा च अणुत्रित्वात् ह्रस्वत्रित्वाच्चत्र्यणुके महत्वदीर्घत्वोत्पत्तिः ।एतादृशार्थ बोधनायैव महादीर्घ इति विन्यासं विना महद्दीर्घशब्दप्रयोगः । भाव प्रधाननिर्देशः अर्श आद्यच्प्रत्ययश्च विवक्षितः ।।अत एव वतिप्रत्ययः आदृतः । यथा ह्रस्वपरिमाणाणुपरिमाणाभ्यां दीर्घपरिमाणमहत्वपरिमाणोत्पत्तिः भवतामेवानिष्टा । तथैव परमाणुभ्यः द्व्यणुकस्यद्व्यणुकेभ्यः त्र्यणुकस्येत्येवंक्रमेणोत्पत्तिः भवदभिमता न सेत्स्यतिइत्यभिप्रायः । अन्यथा एतादृशासामंजस्यस्याधुना प्रदर्श्यमानत्वेनदृष्टान्तत्वासंभवात् । आरंभणाधिकरणे एव अवयवातिरिक्तावयविनो निरासात्तद्दृष्टान्तेनान्यस्यासमञ्जसत्वोपपादनं नात्र विवक्षितम् ।।
अथ सूत्रोक्तदूषणं प्रकाशयितुं तत्प्रक्रियां प्रदर्शयति - परमाण्विति ।सर्गादौ अदृष्टवशात्परमाणौ क्रिया जायते ।तथाच परमाण्वन्तरसयोगेउत्पन्ने परस्परसंयुक्ताभ्यां परमाणुभ्यां एकद्वयणुकम् । ततः त्रिभिद्वर्यणुकैःएकं त्र्यणुकं ततः चतुरणुकं इत्येवं क्रमेण जगदुत्पत्तिरिति परप्रक्रियाअणुगतकर्मणः अदृष्टकारितत्वे परसंमतिं दर्शयति - अग्नेरिति। उभयधापीतिसूत्रोक्तप्रकारद्वय प्रदर्शनाय विकल्पयति - तदिदमिति।क्षेत्रज्ञेति।क्षेत्रज्ञानां पुण्यपापानुष्ठानेन जनितस्येत्यर्थः ।परमाणुगतत्वासंभवादिति।येन यत्कर्मानुष्टीयते, तत्कर्मजन्यमदृष्टादिकं तस्मिन्नेव पुरुषइति नियमात्अन्यथाति प्रसंगादिति भावः । अस्तु कथचिंज्जगदुत्पत्तिसिध्यर्थमणौअदृष्टं तथापि - परमाणोर्न्नित्यत्वेन तद्ग्तादृष्टस्यापि सत्वात्सर्वदैव जगदुत्पत्ति स्स्यादित्याह - संभवेचेति। द्वितीयविकल्पं दूषयति - आत्मगतस्येति।नसंभवतीति। व्यधिकरणत्वादितिभावः । सामानाधिकरण्यं संपादयन् शंकते - अथेति।दूषयति - तदेति। आत्मनो नित्यत्वात् विभुत्वाच्चाणुभूते नित्ये परमाणैसर्वदैव संयोगः । अथाप्यदृष्टस्य कादाचित्कत्वेना दृष्टवदात्मसंयोगःपरमाणौ कदाचिदेवेति कदाचित्सर्गः इति वक्तव्यम् । तत्राप्यदृष्टस्यापिप्रवाहतो नित्यत्वात् अणौ अदृष्टवदात्मसंयोगोपि सार्वकालिक एवेतिनित्यमेवसर्गः प्रसज्येतनह्यदृष्टं प्रवाहतोऽपिन नित्यं, तथासति प्रलयदशायां अदृष्टोपधायककर्मानुष्टातुरभावेन सर्गाव्यवहितपूर्वक्षणे अदृष्टस्याभावेन् अणुषुअदृष्ट वदात्म संयोगा भावेन सर्गोत्पादक क्रियायाः एवानिष्पत्तेरितिभावः ।। परमाणोः निरवयवत्वात् परस्परसंयोगो न भविता । एवं क्रियाक्रियातोविभागः । विभागात् पूर्वसंयोगनाशः ततः उत्तरसंयोत्पत्तिरितितेषां क्रमः । तत्र क्रियारूपं क र्मै व परमाणुषु न संभवति । अतोपिन परस्पर संयोगः इत्येतावदत्रोक्तम् । एवं परस्पर संयोगस्य हेतुत्वेनोक्तसमवायोपि दुर्घटः इत्युत्तर सूत्रेण प्रति पाद्यतेतदनन्तर सूत्रेण तस्यनित्यत्वखण्डनं एकत्वस्य च । तदनन्तरसूत्रद्व्येनजगतो नीरूपत्वेनाप्रत्यक्षत्वं रूपवत्वे परमाणूनामप्यनित्यत्वंवेति प्रतिपद्यते ।।विपक्वादृष्टवदात्मसंयोगस्याणुगत क्रियाहेतुत्वं शंकते - न न्विति।विपाकः=फलार्हदशाविपाक एव कुतोन सार्वकालिकः इत्यत्राह - कानिचिदित्यादि। अनुभावानुसारेणैवविपाकस्य तात्कालिकत्वस्या भ्युपगन्तव्यत्वादिति भावः । दूषयति - नैतदिति।अप्रामाणिकत्वादिति।अयं भावः - जीवाः अनन्ताः तेषां सर्वेषामप्यदृष्ठानि सर्गाव्यवहितपूर्वक्षणेविपक्वानीति अभ्युपेयम् । तत्र सर्वादृष्ठानामपि एकस्मिन्नेव विपाकःइत्यत्र किं प्रमाणं, लोके तत्तज्जीवगतादृष्ठानां भेदेन विपाकस्यफलबलेन दर्शनात् । तथैव भवतात्यभ्युपेतत्वात् ।नहि सर्वेपि जीवाः संकेतपूर्वकं युगपदेव कर्मानुतिष्ठन्ति । येनैकदैवविपाकःअभ्युपगम्येतइति भावः । ननु युगपत् अदृष्टविपाकात्सर्वसंहारवत्द्विपरार्धकालं कर्मजन्यादृष्ठानामविपाकेनावस्थानात् च युपपत् विपाकोत्पत्यासृष्ट्युपपत्तिरित्यत्राह - अतएवेति। ननु कार्यसामान्यं प्रति ईश्वरेच्छायाःअपि कारणत्वात् ईश्वरेच्छया अदृष्टस्य विपक्वता, ततः तादृशादृष्टसंयोगात्अणुषु क्रियेति न कश्चित् दोषइति शंकांपरिहरति - नचेति। ईश्वरेछाहितविशेषेतिबहुब्रीहिःईश्वरसंकल्पसंपादित विशेषकेत्यर्थः । अदृष्टसंयोग शब्दः=अदृष्टवदात्मसंयोगपरःआनुमानिकेति। अयं भावः भवन्मते ईश्वरसिद्धौ हि तदिच्छया अदृष्टविपाकादिकस्योपपत्तिःईश्वर एव हि न सिद्धः । प्रमाणाभावात् नह्यनुमानं प्रमाणं भवदुक्तानमानस्यशास्त्रयोनित्वाधिकरणे दूषितत्वात् । यद्यागमः प्रमाणीक्रियते तर्हिजगत्कारणत्वेनैव तस्यागमप्रतेतेः न परमाणुकारणत्व सिद्धिः । अन्यथाधर्मिग्राहक प्रमाणविरोधात् । वस्तुतःईश्वरेच्छया सृष्ट्युपपादनमपिन संभवति । तन्मते तदिच्छायाः नित्यत्वाभ्युपगमात् नित्यसृष्टिप्रसंगेन बाधात् इति ।।
चशब्दसाहचर्यात् असमञ्जसत्वे समवायाभ्युपगमस्य प्रधानहेतुत्वकथनम् ।आपाततः प्रतीयमानस्य अनवस्थितेस्साम्यादित्यन्वयस्य व्युदासार्थंमन्वयं दर्शयति - साम्यादिति। केनाकारेण साम्यमित्याकांक्षां समवायाभ्युपगमहेतुतयापराभिमतोपपादकापेक्षयेति पूरयन् विशिष्टार्थमाह - समवायस्यापीति।परैः - तन्तुषुः पटः पटे रूपं इत्यादि प्रतीतिसिद्धस्य अवयवावयविनोःजातिव्यक्त्योः गुणगुणिनोः क्रिया क्रियावतोः आधाराधेयभाव निर्वाहकतयासमवायाभिध संबन्धविशेषः अभ्युपगम्यते, तथा सति घटे रूपसमवाय इत्यादिप्रतीति सिद्धाधाराधेय भावनिर्वाहाय समवायस्यापि संबन्धान्तरं कल्पनीयंआधाराधेय भावोपपादकान्तरापेक्षायास्साम्यात् । ततश्चानवस्थेनि भावःअयुतसिद्धानां=अपृथक्सिद्धानां, ययोर्द्रव्येयोरेकमपराश्रि तमेवावतिष्टतेतावयुतसिद्धौ इति उभयोरपि अयुतसिद्धत्वात् आधाराधेयभूतानामिति ।तथाभावस्य = अपृथक्स्थित्युपलब्धित्वस्य । अनेन द्रव्ययोरिवात्र संयोगस्यनिर्वाहकत्वं न संभवतीत्युक्तम् । संयोगो हि नापृथक्स्थित्युपलब्धित्वनिर्वाहकः ।एष स्वभावः = अपृथक् सिद्धत्वस्वभावः । समवायस्य स्वपरनिर्वाहकत्वेनानवस्थापरिहारेजतिगुणादीनामेव स्वपरनिर्वाहकत्वाभ्युपगम संभवेनोपपत्तौ अतिरिक्तसमवायाभ्युपगमःअनुपपन्नः धर्मिकल्पनातो वरं धर्मकल्पनमिति न्यायेन प्रत्यक्षासिद्धस्यापृथक्सिद्धवस्त्वाधाराधेय भावस्यैव संबन्धस्योपपादकान्तरानपेक्षत्वकल्पन संभवात्नतदर्थं तन्निर्वाहकतयाऽतिरिक्त समवायं तस्योपपादकान्तरनैर पेक्ष्यंचकल्पयितुं शक्यमिति भावः ।अदृष्टचरमिति।अनेन पृथक्सिद्धानामाधाराधेयभावनिर्वाह तयाऽभ्युपेते संयोगेऽनवस्थिति दूषणं परिहृतम् । संयोगस्यप्रत्यक्षसिद्धत्वात् तत्रोपपादकान्तरनैरपेक्ष्यकल्पनंयुक्तंनहिदृष्टेऽनुपपन्नं नाम । समवायस्तु कल्प्यः । अतो वैषम्यमितिभावः।। नह्यभावस्थलेयुष्माभिरपि स्वरूपातिरिक्तसंबन्धः इष्यते । तद्वदेवभावस्थलेपिअदृष्टचरसमवायकल्पनमयुक्तम् । स्वरूपस्यैव संबन्धत्व संभवात् ।भावातिरिक्तः अ भावोपि नेष्यते । अतो द्रव्यं गुणः कर्म च पदार्थाःनातिरिक्तः सामान्यादिः इति सूत्राभिप्रायः ।।
उक्तं दूषणं समवायाभ्युपगन्तृणां सर्वेषामप्यविशिष्टं, परंतु तस्यानित्यत्वंबहुत्वं च प्राभाकराभिमतं वैशेषिकैस्तु नित्यत्वेमेकत्वं च अतःन काणादमते अधिकमपि दूषणं मित्याशयेनोत्तरसूत्रमवनारयति - समवायस्येति।नित्यमेव भावादिति । भाव प्रसंगादित्यर्थः । संबन्धिसत्तां विनासंबन्ध सत्तायाः असंभवात् समवायसंबन्धस्य च नित्यत्वे तत्प्रतियोगिनःसंबन्धिनः घटादिजगतोपि नित्यत्वप्रसंगः नचेष्टापत्तिः प्रत्यक्षविरोधात्जगतो नित्यत्वे तत्कारणत्वेन परमाणुकल्पनावैयर्थ्याच्चेति भावःसंयोगादिसंबन्धेषु विनाशस्य संबन्धिविनाशायत्तत्वदर्शनात् समवायसंबन्धस्यापि संबन्धिजगतः विनाशे विनाश एव स्वीकार्यःभवतामनभिमतमिदं इति अनित्यत्वमेव समवायस्य प्रसज्यते । यदि नित्यत्वेआग्रहःतर्हि संबन्धिजगतोपि नित्यत्वमेवस्वीकार्यमित्युभयथापि दोषः । ननुनित्यदिक्कालादिद्रव्यतद्गतसंख्यापरिमाणादीनां च सत्वात् नित्यसंबन्धिसत्वेननित्यसमवायस्य कुतो न सिद्धिरिति चेत्। तथासति अनित्यधटादिवत्तद्गतरूपादिसमवायस्यानित्यत्वस्यापि प्रसक्तेः । ननु नित्यत्व विरोधा दनित्यत्वंपरित्याज्यमिति चेत् विपर्यस्तं किं न स्यात् । ननूभयामकत्वंविरुद्धमिति चेत् । किं कुर्मः - अत एव समवायं परित्यज, यद्वा नित्यस्थलेकेवलं समवायमंगीकुरुततश्च भवदभिलषितासिद्धिः । ननु नित्यगोत्वादिजात्यभ्युप गन्तृणामस्माकंसंबन्धिव्यक्तिविनाशेऽपि जातेर्नित्यायाः नित्यकालवृत्तित्वांगीकारवत्द्रव्यस्वरूपविनाशेऽपि नित्यसंबन्धस्य समवायस्य नित्यकालवृत्तित्वाभ्युपगेमे,न नित्यत्वविरोधः नापि जगतो नित्यत्वापत्तिरिति चेन्न, समवायस्यसंबन्धरूपत्वेन संबन्धिनोरभावे कथं तस्य स्थितिरिति शंकाया तावताप्यपरिहारात्संबन्धिसत्ताधीनाहि सबन्धसत्ता । अतःसंबन्धसत्वे संबन्धि भूतजगत्सत्तायाःआवश्यकत्वेनकार्यजगतो नित्यत्वापत्ति परिहाराभावएव । वस्तुतो दृष्टान्तएवासिद्धःगोत्वादेः संस्थानानतिरिक्ततया संस्थानस्य प्रतिव्यक्तिभिन्नतयाच व्यक्तिविनाशे तस्यापि नाशेनानित्यत्वात् ।। यदिघटत्वजातेरनित्यत्वंघटव्यक्तिनाशे घटत्वस्यापि नाशश्च इतीष्यते घटान्तरे घटव्यवहारोन स्यात् । घटत्वजातेर्नष्टत्वेन तज्जात्यना क्रान्तत्वात् । पटेपिघट व्यवहारः प्रसज्यते । द्रव्यगुणकर्मसामान्य विशेष समवायाभावाःसप्त पद्यर्थाः इति नैयायिकमतम् । सामान्यं जातिः । सा तु नांगीक्रियतेनित्यपदार्थानां परमाणूनां परस्पर भेदसिध्यर्थं विशेषपदार्थःस्वीकृतः । सोभि माभूत् तत्तद्वयक्तेरेव भेदकत्वेन तदर्थं विशेषपदार्थाङ्गीकारानपेक्षणात्समवायोपि नांगीक्रियते । भावतिरिक्तः अभावोपि नेष्यते । अतो द्रव्यंगुणः कर्म च पदार्थाः नतिरिक्तः सामान्यादिः इति सूत्राभिप्रायः ।।
रूपादिमत्त्वाच्च विपर्ययः इति सूत्रखण्डं व्याचष्टे - परमाणूनामिति ।अनेन केषां रूपादिमत्त्वमित्याकांक्षा पूरिता । विपर्ययशब्दः वैशेषिकाभिमतार्थविपर्ययपरः इत्याशयेनोक्तं - अभिमतेत्यादि। दर्शनादिति सूत्रखण्डंव्याचष्टे - रूपादिमतामिति। पार्थिवाप्यतैजसवायवीयभेदेन चतुर्विधाःपरमाणवः । तत्र पार्थिवपरमाणवः गन्धरसरूपस्पर्शवन्तः, आप्याः रसरूपस्पर्शवन्तःतैजसाः रूपस्पर्शवन्तः वायवीयाः स्पर्शवन्तः इति तैरभ्युपेतम् । तत्र यथासंभवंरूपादिमतां घटादीनां विनाशादिदर्शनेन परमाणूनामपि रूपादिमत्त्वात् विनाशदिरावश्यकइति भवदभिमतनित्यत्वादिकं न सेत्स्यतीति भावः ।परमाणूनामनित्यत्वांगीकारे तदुत्पादकं किम् । तस्यापि रूपवत्वमस्तिवा न वेति विचारे पूर्वोक्तोभयविधदूषण मपरिहार्यमेव ।। ननु घर्मिग्राहकप्रमाणबलात् परमाणूनां घटादिवैधर्म्येण नित्यत्वादिसिद्धिरित्यत्राह - नहीतिअदृष्टपरमाणुरूपार्थविशेषः दर्शनानुगुण्येन हि कल्प्यते । त्रसरेणूनांचाक्षुषद्रव्यत्वेन घटादिवत्सावयवत्वं तदवयवानामपि महदारम्भकत्वेनसावयवत्वमिति अवयवभूतपरमाणुसिद्धिरिति । तत्र दर्शनानुगूण्येनैवघटादिवत्रूपादिमत्वादनित्यत्वमपि कल्प्यमेव । अन्यथा त्रसरेणूनामपिचाक्षुण द्रव्यत्वेऽपि घटादिवत्सावयवत्वं न सिध्येत् इति भावःप्रदर्शनानुगुण्येनादृष्ट परमाणुरुपार्थे रूपादिमत्वमपि दर्शनानुगुण्येनकल्पितं भवदभिमतं व्याहन्येतेत्याशयेनाह - दर्शनेति ।।
उत्तरसूत्रमवतारयति - अथेति । पक्षद्वयेपि दोषसंघटनात् न केवलमित्युक्तम् ।कारणगुणपूर्वकत्वादिति । अवयविगतरूपस्यावयवगतरूपजन्यतायाः तैरभ्युपगमादितिभावः ।। उभयथेति पदस्वारस्यमवलम्ब्याह - तत्परिजिहीर्षयेति ।ननूक्तसूत्रद्वयेन,परमाणूनां रूपवत्वे अनित्यत्वप्रसंगः रूपवत्वानभ्युपगमेच द्वयणुकादौकारणगुण पूर्वकगुणानुत्पत्त्या जगतो नीरूपत्व प्रसंगइति दूषणकथनमयुक्तम्नित्यतयाऽभ्युपगतनित्यविभूतिभगवद्विग्रहादेः रूपवत्वेपि अनित्यत्वाभावेनरूपवत्वस्यानित्यत्वव्याप्यताविरहादिति चेत् ? सत्यं - स्वमते रूपादिमत्वस्यानित्यत्वव्याप्यताविरहेऽपि तन्मते तद्व्याप्यत्वाविरोधात् तन्मतसिद्धर्थमादाय तथा दूषणोपपत्तेःनानुपपत्तिः । एतत्सूचनायैव हि दर्शनादित्युक्तम् । अत एवहि “नचपर्यायादप्यविरोधो विकारिभ्यः” इत्यत्र स्वमते आत्मनः संकोचविकासरूपावस्थाविरहेपिजैनमतसिद्धार्थ मादाय तन्मते दूषणमभिधीयते । तस्माद्दर्शनानु सारेणार्थकल्पनमभ्युपयतां दृष्टरीतिपरित्यागासंभवात् उक्तदूषणं तदवस्थमितिन कश्चिद्विरोधः इति ध्येयम् ।।
“अत्यन्तमनपेक्षा इति सूत्रस्वारस्यात् पूर्वं निराकृतस्य कापिलमतस्य काणादमतस्येव नात्यन्तानपेक्षत्वम् । क्वचिदंशे वैदिकार्थपरिग्रहात् । कथमसतः सज्जायेत इति वेददूषितासत्कार्यवादस्य नैयायिकैस्वीकारवत् तैः अस्वीकारात् । अतो वेदविरुद्धमिदं काणादमतम् । इतिसूचितमित्याशयेनाह - कापिलपक्षस्येति ।। न केवलमिदं - उपपत्ति प्रमाणवतांतेषां स्वमतेऽनुपपत्ति पर्यालोचनमपि नास्तीत्याह - अनुपपन्नत्वादितिशशरीरादीनामवयवोपचयापचयादिभिः सौगतवत् प्रतिक्षण मुत्पत्तिबिनाशावभ्युपगम्येतेतैः यतः - एतेऽर्धवैनाशिकाः । श्रुतिन्यायविरोधपरित्यक्तस्य = श्रुतिन्यायविरोधात् अस्माभिः परित्यक्तस्य । यद्वा - श्रुत्या न्यायेन परस्परविरोधेन चशास्त्रज्ञैः परित्यक्तस्य ।।