10 प्रयोजनवत्त्वाधिकरणम्

(2.01.010) प्रयोजनवत्त्वाधिकरणम्संगति प्रदर्शन पूर्वक मधिकरणपूर्वपक्षमाह - यद्यपीति । जगत्स्रष्टुंशक्नोतीति।लोकविलक्षणस्य ब्रह्मणः लोकदृष्टप्रक्रियया साधनदूषणानर्हत्वात्उपकरणनिरपेक्षस्य निरवयवस्य करणकलेबरादिविरहिणः जगत्सृष्ट्टत्वमुपपद्यतएवेत्यर्थः । प्रयोजनवत्वाद्विचित्रसृष्टेरिति । अस्तु सृष्टेःप्रयोजनवत्वं, किं तावता ब्रह्मकारणत्वानुपपत्तावित्यत्राह - ईश्वरस्यप्रयोजनाभावादिति। ईश्वरो न जगत्कारणं स्वाभाववत्वसंबन्धेन प्रयोजनवत्वात्प्रयोजनशून्यत्वादिति वाऽत्रविवक्षितम् । ननु कथमेवंविधपूर्वपक्षोत्थिसंभवःसकलेतर विलक्षणे, ब्रह्मणः पूर्वाधिकरणोक्तरीत्या प्रयोजनाभावेऽपिश्रुतिप्रतिपन्नजगत्स्रष्ट्टत्वानुपपत्त्यभावादिति शंकामर्थः परिहरन्तात्पर्य मभिव्यनक्ति - बुद्धिपूर्वकारिणामिति। अयमाशयः । प्रयोजनमनुद्दिश्यन मन्दोपि प्रवर्तत इति न्यायेन प्रयोजनाभावे अल्पव्यापारस्यैवानुपपत्तेःईदृशभहायासरूपविचित्रसर्गः सप्रयोजन एवेत्यश्युपगन्तव्यम् । तत्रावाप्तसमस्तकामस्यस्वार्थप्रयोजनासंभवेन परार्थप्रयोजनमस्तीति स्वीकार्यम् । तत्रचकृपावतो भ्रगवतः नानाविधदुःखबहुलजगत्सर्गः विरोधादनुपपन्नः । नहिकृपावत्वंतद्विरुद्धदुःखबहुलजगत्सर्गकरत्वंच श्रुति प्रतिपन्नमित्यभ्युपगन्तुंशक्यंअत एव हि बहुभवनोक्त्या निरवयवस्य सावयवत्वप्रसंग इत्युच्यमानेविरुद्धत्वेपि श्रुतिप्रतिपन्नत्वात् सावयवत्वं तद्विरुद्ध निरवयवत्वंचोभयं स्वीक्रियते इति परिहारमनुक्त्वा सावयवत्वबहुभवनयोरेव लोकदृष्टाव्याप्तिः निराकृता । अतः दुःखबहुलजगत्सर्गकरत्वं कृपावत्वं च विरुद्धमितिकृपावतस्तस्य विचित्रजगत्कारणत्वमनुपपन्नमिति । नच कृपावत एव भिषजःचिकित्सादिवत् ब्रह्मणोऽपि दुःख बहुलजगत्सर्गः उपपद्यत इति वाच्यम्अशक्तस्य वैद्यस्य तथा संभवेऽपि सर्वशक्तेः ब्रह्मणः दुःखाद्यनुत्पादनेनापिचिकित्साकर्तृत्वशक्तिसत्वेन तथापरिहारस्यायुक्तत्वादिति भावः

लीलैव केवलेति। पणबन्धपूर्वकद्यूतादिव्यावृत्यर्थं केवलेत्युक्तम्प्रयोजनान्तरानुद्देशेन प्रवृत्तत्वेऽपि यदृच्छयोपनत प्रयोजनस्याप्यर्थात्सिद्धिव्युदासार्थं लीलैवेत्यवधारणम् । ननु यत्नगौरवाभावेन कन्तुकाद्यरंभस्यलीलात्वसंभवेऽपि महायासरूपजगत्सर्गादेः कथं लीलात्व मित्यत्राह - स्वसंकल्पमात्रेतिस्वसंकल्पमात्रस्थितिध्वंसादेरिति बहुब्रीहिः । ब्रह्मणः इति तद्विशेष्यम् । ध्वंसादिरेवलीलेति पर्यवसितम् । ननु ध्वंसादिरूपलीलापि ब्रह्मणा पूर्वमवाप्तान वा । अन्त्ये अवाप्तसमस्तकामत्वभंगः । आद्ये पूर्वमेवाप्तत्वेनविचित्रसर्गोत्पादने प्रयोजनं नास्तीति व्यर्थ एव जगत्कारणप्रयासःइतिचेदुच्यते - यत् यदेष्टं तदा तस्य सिद्धि रेवावाप्तसमस्तकामत्वंन पुनरागामिनां पुरूषार्थानां प्रागेब सिद्धत्वम् । एतादृशं हिपरिपूर्णस्यराज्ञोऽप्यवाप्तसमस्तकामत्वम् । ततश्चेश्वरस्यापिबहु स्यामितिसंकल्पात् यस्मिन् काले यत्जगत्सृष्टयादिकमिष्यते तस्मिन्काले तस्यसिद्धिरेवेत्यवाप्त - समस्तकामत्वस्यलीलायोगस्यच न विरुद्धत्वमिति । अभिमतसमये सिद्धितस्त्वाप्तकामः"इत्यधिकरण सारावलिः । नहि हिरण्यकशिपुरावणादिवधस्य गोकुले नवनीतभक्षणादिक्रीडायाःगजेन्द्ररक्षणादेश्च ततः पूर्वं सिद्धता । पश्चादेव जायमानत्वात् “परित्राणायसाधूनां … संस्थापनार्थांय " इत्यादिनोक्तस्यार्थस्य पश्चाद्भावित्वनियमात् ।

वैषम्यनैर्घृण्ये कस्येति शंकां पूरयन्नर्थमाह - यद्यपीति । पक्षपात इति ।अयं वैषम्यशब्दार्थः । नैर्घृण्यं = निर्दयत्वम् । कर्म सापेक्षत्वात्विषमसृष्टेरिति । ईश्वरत्वात् न सृष्टावन्यसापेक्षत्वम् । सृष्टिगतवैषम्ये पुनःकर्मसापेक्षत्वं, यथाऽऽभरणकर्तुः विषमाभरणसर्गे तत्तदिच्छासापेक्षत्वम्देवादीनां…तत्तत्कर्मसापेक्षमित्यनेनसूत्रस्थतथाशब्दः व्याख्यातःदर्शयन्ति हि श्रुतिस्मृतयः इति सामान्यतः प्रतिज्ञा ।। तथा भगवतेत्यादिकंवक्ष्यमाणस्मृतिवचनार्थ निर्देशरूपम् । निमित्तमात्रं = अप्रधानकारणम्प्रधानकारणीभूता इति कर्मणां प्रधान कारणत्वनिर्देशात्अत्र च प्रधानत्वं असाधारणकारणत्वम् । अप्राधान्यं च साधारणकारणत्वम्यथा क्षेत्रसलिलादिकं सर्वसस्य साधारणकारणम् ।बीजविशेषश्चांकुरविशेषहेतुत्वेनासाधारणकारणम्तद्वत् ईश्वरस्साधारणकारणं कर्म तु विषमसृष्ट्यसाधारण कारणत्वात्प्रधानम् । अत्र “साधारण्येन हेतुस्सलिलमिव विभुस्सर्वकार्यांकुराणांवैषम्यं त्वाविरिञ्चात्प्रतिनियतफलैः प्राणिनां कर्मबीजैः” इत्येतदनुसन्धेयम् ।।

क्षेत्रज्ञा नाम न सन्तीति । क्षेत्रज्ञसद्भावे हि तदाश्रितकर्मसद्भावःतेन च विषम सृष्ट्युपपत्त्या ईश्वरस्य निर्दयत्वादिदोषपरिहारसंभवः ।स एवानुपपन्नः इत्यर्थः । हेत्वाकांक्षां सूचयन् हेतुमाह - कुत इति ।बाधकाभावेनावयवतोऽपि विभागासहः एकशब्द इति भावः । उपपद्यते चापीतिखण्डव्याख्यानं तदनादित्वेप्ऽयविभागः उपपद्यते चेति । ननु व्याहतमिदम्अविभागः क्षेत्रज्ञतत्कर्माभ्युपगमश्चेत्यत्र तात्पर्यमाह - यतइति । कुतः अतिसूक्ष्मतयावाप्यवस्थितिरभ्युपेयेत्यत्राह - तथाऽनभ्युपगमइति । इदं च सूत्रस्थान्तिमच शब्द सूचितम्ननु चेतनाचेतनस्वरूपस्यानादित्वंश्रुतिसिद्ध मस्तु । कर्मणामप्यनादित्वंन श्रुति सिद्धमित्यत्र सृष्टिप्रवाहानादित्वेन कर्मप्रवाहानादित्वसिद्धिरित्याशयेनसृष्टि प्रवाहानादित्वं दर्शयति ।सृष्टीति। यथा पूर्वमित्युक्तेः- प्रतिकल्पभधीतस्यास्यवाक्यस्यार्थवत्वाच्च सृष्टेरनादित्व सिद्धिरितिभावः । स्वरूपानादित्वे श्रुत्यर्थापत्तिमाह - तद्धेदमिति । मात्रशब्देनस्वरूपनिष्पत्तिव्यवच्छेदः । देवादिनाम संस्थान व्याकरणं हि पूर्वंस्वरूपतः स्थितस्यैव । अत एवेदं तदव्याकृतमासीदिति निर्देश इतिभावः। अथोपबृंहणस्मृतिमप्याह - स्मृतावपीतिएतावता भगवतः स्वार्थमपि प्रयोजनं, परार्थमपि प्रयोजनमिति उभयविधंसंभवतीत्युपपादितम् । लीलाकैबल्यमित्यनेन प्रथमं दर्शितं अत्र द्वितीयम्जीवानां तत्कर्मणां चानादित्वात् तत्कर्मनिवृत्ति पूर्वकमेव फलस्यदातव्यत्वात्भिषजः चिकित्सावदेव जन्मजराधारणादिवेशं प्रदायैवफलदातृत्वं स्वीकर्तव्यम्सर्वशक्तेरपि भगवतः प्रलयकालस्थ जीवानादाय नित्यविभूतौ निक्षेपःअशक्य एव । लौकिकभिषजः तत्तद्व्याधिनिवर्तनशक्तिमत्त्वमेव । अस्यभिषजस्तु सर्वव्याप्ति निवर्तनशक्तिमत्त्वमित्येव विशेषः । न तु चिकित्सांविनापि फलदातृत्वशक्तिः ।।

धर्मशब्दार्थं विवृण्वन् तस्योपपत्त्यनुपपत्तिस्थलं च प्रदर्शयन् सूत्रार्थमाह -प्रधानेति । यद्धर्मवैकल्यमुक्तमिति । ईक्षणादिधर्मवैकल्यमुक्तमित्यर्थः ।अस्याधिकरणस्य सर्वपदस्वारस्येन सर्वाधिकरणशेषत्वं मनसि निधायाह - वक्ष्यमाणंचेति । निष्प्रयोजनधर्मस्य ब्रह्मण्यभ्युपगमेन कथं ब्रह्मकारणत्वसिद्धिरितिशंकापरिहाराय कारणत्वोपपादिनः इति भाषितम् । अधिकरणप्रधानार्थमाह ब्रह्मैवेति ।।श्रीमते रामानुजाय नमः ।। द्वितीयाध्याये द्वितीयः पादः ।।