09 कृत्स्नप्रसक्त्यधिकरणम्

(2.01.09) कृत्स्नप्रसक्त्यधिकरणम् ।ननु सावयवस्य क्षीरादेः उपकरणनिरपेक्षंदध्यादिना परिणामः दृष्टः । ब्रह्मणो निरवयवत्वेन न तथा परिणामो युक्तः,तथा सति कृत्स्नप्रसक्तिरेव स्यात् । यदि तु सावयवत्वमेवेष्यतेतदा श्रुतिविरोध इति शंकया संगतिः । सदेवेति । एकमेवाद्वितीयमितिपर्यन्तमत्र विवक्षितम् । इदं वै इति । न द्यौरासीन्न पृथिवीत्यादिकमपिविवक्षितम् । नैव किंचनासीत् - न देवादिप्राणिजातमासीत् । जगदवयवभूतद्युपृथिव्याद्यभावकथनान्निरवयवत्वमुक्तं भवति । आदिशब्देन निष्कलमित्यादि श्रुतेः ग्रहणम् ।एकमेवेत्यस्य विवरणं निरवयवमिति पदम् ।एकशब्दो हि बाधादि संकोचकाभावात् अवयवतोऽपि विभागाभावं ब्रूतेननिरस्तचिदचिद्विभागतयेति ।कारणवाक्ये निरवयवत्वस्योक्तत्वेन तदवस्थायांचिदचिद्विभागरूपावयवस्याप्यसिद्धेरित्यर्थः ।तदिति। एकं निरवयवमवि भागं तत् ब्रह्मैवेत्यन्वयः । एकशब्देन प्रतिपादितत्वान्निरवयवम् । अतः चिदचिद्विभागरहितमित्यर्थः । निरवयवस्यैव ब्रह्मणःआकाशादि बहुरूपेण परिणामःश्रुतिसिद्धःइत्याह - बहु स्यामितीति।अथपूर्वपक्षमाह - एवं सतीति । ब्रह्मणो निरवयवत्वेन - कार्स्त्येनैवकार्यजग द्रूपेण परिणामावश्यकत्वात् कार्यानुप योगि ब्रह्मप्रदेशासंभवेनकार्यावस्थायां ब्रह्मण एवासिद्धिरिति हृदयम् । ननु चिदचिदश्वरात्मकांशत्रयवति ब्रह्मणि चिदंशः क्षेत्रज्ञरूपेण अचिदंशः आकाशादिरूपेणच परिणमत इति ईश्वरांशस्यापरिणामान् न ब्रह्मणः कार्यावस्यायामसत्वमिति - शंकते - अथेति।उक्तरीत्या ब्रह्मणः अंशत्रयवत्वेन सावयवत्वात् निरवयवत्व श्रुतिविरोधःइति दूषयति - तदेति । सूत्रस्थकोपशब्दस्य मुख्यार्थायोगात् तद्धेतुभूतबाधपरतां व्याचष्टे - बाधिता इति ।ननु ब्रह्मस्वरूपस्यैव कार्यरूपेण परिणामाभ्युपगन्तृमते एव ह्यस्यदोषस्य प्रसक्तिः । अस्माभिः सूक्ष्मचेतनाचेतनविशिष्ट ब्रह्मण एवकारणत्वमभ्युपगम्यते । अतः स्वरूपस्यांशत्रयात्मकत्वानभ्युपगमेननिरवयवत्वं विशिष्टब्रह्मण एव स्थूल विशिष्ट ब्रह्मरूपेण परिणामात्कार्यावस्थायां स्थितिश्चोपपद्यते । न चैकमेव, नैव किंचना सीत्,न द्यौरासीन्न पृथिवीत्यादिषु कारणावस्थायां चेतनाचेतनयोरप्यभावोक्याकथं तद्विशिष्टत्वं ब्रह्मणः । कथंतरांच विशिष्टपरिणामः इति वाच्यम्स्थूलरूपेण चेतनाचेतनयोरभावेपि सूक्ष्मरूपेण तयोरभ्युपगमस्य स्थापितत्वात्"न कर्माविभागादित्या दौ स्थाप्यमानत्वाच्च, एकोनसहस्त्राधिकरणन्यायेनपूर्वापराधिकरणसिद्धार्थस्यात्राप्युपजीव्यत्वाच्चअतस्सूक्ष्मचोतनाचेतन शरीरकस्य ब्रह्मणः कारणत्वान्नानुपपत्तिःकाचिदस्तीति शंकामनूद्य परिहरति - यद्यपीत्यादिना।शरीर्यंशस्यापिकार्यत्वाभ्युपगमादिति। अयं भावः। प्रकृतिशरीरकब्रह्मणः महच्छरीरकब्रह्मणश्च कार्यकारणभावे ब्रह्मणोऽपि कार्यत्वमस्ति वा न ना ।नोचेत् कार्यकारणवैषम्यम् । अस्तिचेत् कार्यभूतस्य ब्रह्मणःपरिणामावश्यकत्वात्तस्यच निरयवत्वेन कार्त्स्न्येनैव परिणाम इति महच्छरीरक ब्रह्मरूपेणपरिणामे अहंकरादि शरीरकतया ब्रह्मणः परिणामो न स्यात् । ब्रह्मणःशरीरभूते महद्रूपकार्ये एव परिसमाप्तत्वात् । ततश्च तदतिरिक्तकार्याणांश्रुतिसिद्ध ब्रह्मात्मकत्वासिद्धिः इति ।उक्तदोषः इत्यत्र विवक्षितमेव दूषणमाह - तस्येति । बहुभवनं च नोपपद्यते इति ।विशिष्टपरिणामे विशेष्यांशस्यापि परिणामाभ्युपगमेन विशेष्यस्य निरवयवत्वेनकार्त्स्न्येनैव कार्यरूपेण परिणामसंभवेपि बहुकार्यरूपेण परिमाणोऽसंभवीति भावः ।ननु ब्रह्मणः एककार्यरूपेण परिणामेऽपि तदनुपयुक्तांशस्थितिस्वीकारेणापरकार्यात्मना परिणामश्शक्योपपादन इत्यत्राह - कार्यत्वेति । निरवयवत्वादिति भावः ।येन प्रमाणेन ब्रह्मणः निरवयवत्वमवगतं, तेनैव बहुभवनस्याप्यवगमेन न झटितिउक्तविषये साक्षात् अप्रमाण्यं वक्तुं शक्यमित्याशयेनासमञ्जसमिवाभातीत्युक्तम् ।।

सूत्रे पञ्चम्यन्तपदद्वयश्रवणेपि चकाराद्यनुक्तेः उक्तपूर्वपक्षनिरासकतयान हेतुद्वयं विवक्षितं, परंतु परिहारक हेतूपरि जायमान शंका निवर्तकंहेत्वन्तरमित्यभिप्रेत्य सूत्रं विवृणोति - श्रुति स्तावदित्यादिना।नसमर्थेति। अन्वयायोग्यार्थ प्रतिपादने योग्यताज्ञानाभावेन शाब्दबोधस्या प्रामाण्यापत्तिरिति भावः ।शब्दैक प्रमाणकत्वेनेति ।वह्नेरिवस्वस्य सेचनसाधनतानर्हत्वमपि । प्रत्यक्षसिद्धम् । अतो वहिना सिंचेदितिवाक्यजन्यः बह्नेः सेचनकरणत्वविषयक बोधः भ्रमः इत्यभ्युपेयम् ।शास्त्रगोचर ब्रह्मणः इतरवस्तुविलक्षणत्वं च शास्त्रेण प्रतिपन्नमितिनिरवयवत्वं विचित्र संर्गश्च न विरुद्धमिति भावःन सामान्यत इति। यथा द्रव्यभूतस्य जलस्यानुष्णत्व दर्शनेन बह्नेरपिद्रव्यत्वादनुष्णत्व साधनं बाधितंतद्वत्।केनचित् कस्यचित्साहचर्यदर्शनमात्रेण, तत्सामान्यात् ब्रह्मण्यपि तत्साधनं दूषणं वा नकर्तुशक्यमित्यर्थः । अयमत्राभिसंन्धिः - यत्र यत्र बहु भवनं तत्र तत्र सावयवत्वमितिव्याप्तिर्लोकदृष्टा । निरवयवत्वेन प्रमाणप्रतिपन्नस्य ब्रह्मणः बहुभवनोक्त्यासावयवत्वमप्यभ्युपेयम् । ततश्च सावयवत्वनिरवयवत्वयोः परस्परं विरोधःइति पूर्वपक्ष्याशयः । ब्रह्मणः निरवयवत्व बहुभवनयोरुभयोरपि श्रुतिप्रतिपन्नत्वेन लोकदृष्टा सावयवत्व बहुभवनयोर्व्याप्तिरेव तिरस्कार्या ।यथा निमित्तत्वोपादानत्वाभावयोः व्याप्तिर्लोकदृष्टा साक्षाच्चोभयाम्नानात्इत्यत्र ब्रह्मणि उपादानत्वनिमित्तत्वयोः प्रमाणसिद्धत्वबलेन निराकृता,तद्वदत्रापि । यदि स्वगृहीत व्याप्ति श्रद्धया लोकदृष्टार्थस्यब्रह्मण्यपि स्वीकारः इष्यते । तदा सर्वत्र द्रव्ये औष्ण्यविरुद्धधर्मस्योपलम्भेन द्रव्ये अग्नावप्यनौष्ण्यमेव स्वीकर्तव्यं भवेदिति ।

उत्तरसूत्रार्थमाह - किंचेति । लोकदृष्टप्रक्रियया शंकमानस्य श्रुतिसमाधिःहेतुत्वेन पूर्वं दर्शितः । अत्र तु लोकदृष्टप्रक्रिययैव समाधिः । आत्मन्यपिप्रसज्यन्त इति । यत्र यत्र द्रव्यत्वं तत्र तत्राचेतनत्वनश्वरत्वादिकं दृष्टं,तस्यात्मन्यपि द्रव्ये आपादनं प्रसज्येत इत्यर्थः । प्रसज्यन्ते इत्यध्याहार्यम् ।तदप्रसक्तिरित्यपि । हिः यतः पदार्थाः विचित्राः अतो न प्रसक्तिरिति ।उपबृंहणीय श्रुतेरुपबृंहण सापेक्षत्वात् प्रथमं उपबृंहणीभूतपुराणवचननिर्देशः ।निर्गुणस्य = सत्वरजस्तमोरूपगुणशून्यस्य । अप्रमेयस्य = इतरप्रमाणाविषयस्य ।परिचोद्येति । अस्यः पराशरेणोक्तमित्यत्रान्वयः । अचिन्त्यज्ञानगोचराः =चिन्त्यज्ञानस्य तर्कस्याविषयाः इत्यर्थः । ननूदाहृतश्रुतौस्मृताविव न स्फुटं ब्रह्मणो निरवयवत्वं तत्र विचित्र सर्गश्च प्रतीयतेतत्र हि उपादानत्व मिमित्तत्वादिकमेकस्यैव ब्रह्मणः इति ह्युच्यतेअत ईदृशश्रुत्युपादानमत्रानवसरमिति शंकां परिहर्तु उपात्तपुराणश्रुतिवचनयोस्तात्पर्यविषयभूतमर्थमाह - सामान्यतः इति । लोके उपादानत्व निमित्तत्वयोर्भिन्नाधिकरणवृत्तित्वदर्शनेपिश्रुति रुभयं ब्रह्मै वेत्याह । तत्कथं ? सामान्यतो दृष्टस्य चोद्यस्यसर्ववस्तु विलक्षणे ब्रह्मण्यनवतारात् । तेनैव निरवयवस्यविचित्रसर्गशक्त्यनुपपत्ति शंकापि परिहार्येति भावः ।।

लौकिकवस्तुविसजातीयत्वाभावेनेति । दर्शनानुगुण्येनानुमीयमाने प्रधाने लोकदृष्टप्रक्रियया दूषणादिकमापादयितुं शक्यं भवेदिति भावः । प्रधानस्य कारणत्वेऽनुपपत्तिमाह - प्रधानं चेति । कथमिव = कथंचिदपीत्यर्थः । निरवयवस्यैकदेशेनपरिणामासंभवेन कार्त्स्न्येनैव वक्तव्यत्वात् एककार्यरूपेण परिणामे अपरिणतभागासंभवात् अन्यकार्यरूपेण परिणामोऽनुपपन्न इति विचित्रसर्गकरत्वं न भवेदितिभावः । अथ सत्वरजस्तमसां तदवयवत्वमभ्युपगम्य परिहारमाशंशयते - सत्वमिति ।स्वाभ्युपगमविरोध इति । स्वाभ्युपगतस्य प्रधान परमकारणत्वस्यासिध्या विरोधइत्यर्थः । स्वाभ्युपेत संख्याविरोधश्चेति । प्रधानकारणत्वेनाभ्युपेत सत्वरजस्तमसांचतुर्विंशतितत्वापेक्षया त्रयाणामाधिक्यादिति भावः । वस्तुतः प्रधानस्य कारणत्वेउक्तदूषणस्य तत्कारणभूतेषु सत्वरजस्तमःस्वपि प्रसज्यते इत्याह - तेषामपीति ।समूहपक्षे चेति । अयं भावः - प्रकृतिः विभ्वी सा च सत्वरजस्तमसां समूहःमहदादिकारणभूतेति सांख्यानां परिपाटी । तत्र किं महदादीदिकार्यं कुर्वंतीस्वात्मभूतैः सत्वरजस्तमोभिः परस्परं संयुज्य करोति उत ऐकैकश्येन । यदि संयुज्यतदा कार्त्स्न्येन सत्वरजस्तमसां संयोगो वा एकदेशेन वा । यदि कार्त्स्न्येन,तदा एकमेव कार्यं प्रति सत्वरजस्तमसां विनियुक्तत्वात् कार्यान्तरारंभंप्रत्यवशेष एव न स्यात् । यद्येकदेशेन संबन्धः तदा तेषां सत्वरजस्तमसां सांशत्वप्रसंगः । ततश्च विभुत्वकल्पनाव्याघातः । यद्यैकैकश्येन कारणं तदा कार्यस्यत्रिगुणात्मकत्वं न स्यात्, सत्वेन कस्य चित् रजसा कस्य चित् तमसा चकस्यचिदुत्पत्तेः इति । न स्थूल द्रव्यारम्भकत्वसिद्धिरिति । निरवयवानांसत्वरजस्तमसां प्रकृतिरूपाणामेकस्मिन्नेव कार्ये विनियुक्तत्वात् कार्यान्तरार्थारम्भावशेषाभावेन न महदादिद्रव्यारम्भकत्व सिद्धिः इत्यर्थः । अत्र"सांख्योऽपि प्राह विभ्वीं प्रकृतिमिति कथं न्यूनसृष्टिस्ततस्स्यात्"इत्यनुसन्धेयम् । यद्वा निरवयवानां सत्वरजस्तमसां कार्त्स्न्येन संयोगेऽसंयुक्तप्रदेश भेदाभावेन अन्योन्य स्वरूपे एव विनिमज्जनात् अधिकपरिमाणकार्यजननंन स्यादित्यर्थः । परमाणुकारणवादस्यापि स्वपक्षशब्देन गृहीतत्वात् तत्रापीदमेवदूषण मित्याह - परमाण्विति ।। एवं कारणविषय विकल्पे क्रियमाणेसर्वत्रापि दोषस्यैव सत्वेन शून्यवाद एव निर्दुष्टः स्यात् इत्याशयः ।

ननु सर्वमतेऽपि कारणविषये दोषस्य समानत्वेन ब्रह्मकारणवाद एव युक्तइति कथं निश्चेतुं शक्यमिति शंकापरिहारकस्योत्तरसूत्रस्यार्थमाह - सकलेतरेति ।सर्वशक्त्युपेतेति । निरवयवत्वस्य बहुभवनस्य च प्रतिपादनात्, तदनुगुणशक्तियोगःइत्यर्थः । ततश्च लोकदृष्टवस्तुविलक्षणत्वं ब्रह्मणः अभ्युपेयमितिभावः । अथ श्रुतेस्तु शब्दमूलत्वादिति सूत्रादस्याधिकार्थत्व प्रदर्शनायधर्मधर्मिवैलक्षण्ययोः कण्ठोक्तिमच्छ्रुतिवाक्यानि तद्दर्शनादितिसूत्रखण्डाभिप्रेतानि इति व्याचष्टे - तथैव परामिति । सकलेतरविसजातीयतांपरस्याः देवतायाः इत्यनेन धर्मिवैलक्षण्यमुक्तं, सर्वशक्तियोगमित्यनेनधर्मवैलक्षण्यम् । सत्यसंकल्पत्वं ह्यप्रतिहतसंकल्पत्वम् । इदं चाशक्तस्य न संभवति । अतस्सर्वशक्तियोगः सिद्धःसत्यकामत्वं = अवाप्तसमस्तकामत्वम् । इदमप्यशक्तस्यानुपपन्नम् ।अभिमतिसमये सिद्धिमत्त्वं ह्याप्तकामत्वम् इत्युच्यते ।

विकरणत्वान्नेति चेदिति सूत्रखण्डं व्याचष्टे - यद्यपीति । कार्यं = शरीरं,करणं = इन्द्रियम् । उपसंहारदर्शनाधिकरणे दण्डचक्रादेरिव बाह्योपकरणस्याभावेपिब्रह्मणः कारणत्वमक्षतमिति स्थापितम् । अत्र तु अन्तरंगकरणकलेबराद्युपकरणाभावेपिकारणत्वमुपपद्यते इति वैषम्यमिति । “न तस्य कार्यं करणं च विद्यतेइति सूचनाय पूर्वपक्षे करणविरहिणः इत्युक्तम् । अत एव सिद्धान्तेपश्यत्यचक्षुरिति श्रुतिवाक्यमुपात्तम् ।।अयमत्र भावः - विशिष्टस्यैव कारणत्वं सिद्धान्त्यभिमतम् । बालो जातः युवा जातःइत्यादौ विशेष्यरूप जीवस्य कार्यत्वेपि यथा न विकार्यत्वम्, एवमेवात्रापिब्रह्मणः कार्यत्वेपि न विकार्यत्वमिति कृत्स्नप्रसक्त्यापादनं कथं इति शंकाभवेत् । अत्रायं पूर्वपक्षसारः - विशिष्टकार्यकारणभावस्वीकारे चेतनाचेतनवैशिष्ट्यं ब्रह्मणि वक्तव्यम् । भगवतो निरवयवस्य चेतनाचेतनसंबन्धे किंकार्त्स्न्येन तत्र भगवतः संबन्धः । उत एकदेशेन । नाद्यः - तथा सति अन्यस्मिन्वस्तुनि भगवतः संबन्धो दुर्घटः । न द्वितीयः - सावयवत्वप्रसंगात् । इतिएतादृशोपपादनस्य सूचनार्थमेव तस्य निरवयवस्य बहुभवनं नोपपद्यते, कार्यत्वानुपयुक्तांशस्थितिश्च नोपपद्यते इति भाषितम् ।अत्रायं सिद्धान्तसारः - कृत्स्नैकदेशविकल्पः सर्वमतेऽत्यस्ति । जातिवादे -एकैकस्मिन्नपि जातिः कार्त्स्न्येन वर्तते, उतैकदेशेन, न प्रथमः - अन्यगविअवर्तमानप्रसंगात् । न द्वितीयः सावयवत्वप्रसंगात् । न हि भवतां जातिः सावयवा,अनित्यत्वप्रसंगात् । 2 धर्मभूत ज्ञानस्य विषयेण संबन्धे, एकदेशेन उतकार्त्स्न्येनेति विकल्पे सावयवत्वापत्ति - अन्यविषयासंबधत्वापत्तिरूपदोषापरिहारात् । 3 निरवयवाकाशे शब्दोत्पत्तिं वदतां मते एवमाक्षेपसंभवात् ।4 परमाणुद्वयसंयोगात् जगदुत्पत्तिरिति वदतां नैयायिकानां मतेऽप्येवंशंकासंभवात् । 5 निरवयवस्य प्रधानस्य कारणत्वमतेऽत्येवं विकल्पसंभवात् पुरुषस्यप्रधानस्य च किमेकदेशेन उत कार्त्स्न्येनेति शंकासंभवात् । उभयोर्विभुत्वात्विभुद्वयसंयोगमभ्युपयतां मतेऽत्येवमेव । 7 अविद्यायाः ब्रह्मणश्च संबन्धात्जगद्भ्रमं वदतां अद्वैतिनां मतेऽप्येवमाक्षेपसंभवात् ।।ततश्चेदं पूर्णत्वविचारे पर्यवस्यति - अत्रेदं समाधानम् । भगवतः पूर्णत्वंद्वित्वादिवत् न व्यासज्यवृत्ति । द्वित्वादिकं हि धर्म्यन्तरनैरपेक्ष्येण तु नविद्यते । न तथा धर्म्यन्तरसापेक्षं पूर्णत्वं भगवतः घटादौ । तस्मात् धर्म्यन्तरनैरपेक्ष्येण प्रतीयमानत्वमेव भगवतस्तत्तद्वस्तुनि पूर्णत्वम् । गोत्वमिवपर्याप्य वर्तते । न ह्येकस्यां गवि विद्यमानस्य गोत्वस्य गवान्तरसापेक्षस्थितिकत्वं विद्यते । इयं गौः इति प्रतीतेः । यां यां गां पश्यति तदा तदा तां तांगौरिति व्यपदिशत्येव । घटे भगवतः पूर्णत्वं नाम कृत्स्नघटप्रदेशावच्छिन्नःसंयोग एव । यद्वा - सर्वकार्यजनन शक्तिमद्भगवत्संबन्धः ।।