(2.01.08) उपसंहारदर्शनाधिकरणम् ।उक्तार्थमनूद्य संगतिं दर्शयति - परस्येत्यादिना । स्थापितमिति । सर्वात्मत्वंसर्वविलक्षणत्वं हि विरुद्धम् । तच्च सर्ववस्तु शरीरतया सर्वप्रकारत्वेनब्रह्मणि परिहृतमिति भावः ।न विरुद्धइतिस्याप्यतइति । संकल्प मात्रेणविचित्रजगत्सृष्टिः संकल्पमात्रेण सृष्ट्यदर्शनेनानुपपन्नेति शंकया संगतिरितिभावः । ननु शंकायाः अवतरणमेवानुपपन्नमिति शंकते - ननु चेति । सर्वशक्तेः = करणकलापानुपसंहारेऽपि कार्योत्पादनशक्तिमतः । शंकामेव सोपपत्तिकमुपपादयति -घटपटादीति। अनुपसंहारो नोपपद्यत इति । यथा घटाद्युत्पादनशक्तस्यकुलालादेः नोपकरणनिरपेक्षमुत्पादकत्वं एवं सर्वोत्पादनशक्तस्यापिब्रह्मणः तत्तदनुगुणोपकरणनिरपेक्षमुत्पादकत्वं न संभवति । शक्तस्य परिकरसंपत्तौउत्पादकत्वं अशक्तस्य तु तत्संपत्तावपि अनिष्पादकत्वमित्येवं हि शक्त्यशक्त्योर्वैषम्यम् । नतूपकरणसापेक्षत्व निरपेक्षत्वरूपं तत् इति भावः । ननु भगवतःउपकरण सापेक्षकर्तृत्वमेवाभ्युपगम्यते, अतो न दोषः इत्यत्राह - प्राक्सृष्टेरिति ।श्रुतौ कारणावस्थायां ब्रह्मणः असहायत्वावगमेनोपकरणनिरपेक्षस्यैव कर्तृत्वंवक्तव्यम् । तच्च न्यायविरोधादनुपपन्नमिति भावः ।।क्वचित् दर्शनमात्रेण तथा व्याप्तिः न शक्या कल्पयितुं, दर्शनानुगुण्येनैवक्वचित् व्यभिचरितत्वात् इत्याशयेनाह - न सर्वेषामिति । यत्र कार्यजननशक्तत्वंतत्रोपकरणसापेक्षत्वमिति नियमः क्षीर जलादौ व्यभिचरितः । क्षीरंहि उपकरणनिरपेक्षमेव दधिरूपेण परिणमते । जलं हि हिमरूपेण । न चात्ररविकिरण सापेक्षत्वम् । तस्य तदुत्सर्गमात्र हेतुत्वात् अतो व्याप्तिविरोधात्लोकदृष्टप्रक्रिययापि न श्रुतिविरोधः आपादयितुं शक्यः इति भावःएवं लोकसिद्धप्रक्रिययैव परिहारसंभवेनातिजघन्यमिदं चोद्यमितिसूचनाय सूत्रेहिशब्दोपादानमित्याह - हीतीतिननु क्षीरस्य दधिरूपेण परिणामे आतञ्जनाद्य पेक्षाऽस्तीति शंकांपरिहरति - क्षीरादिष्वितिजलरविकिरणहिमार्थक मादिशब्दत्रयम् । आतञ्जन शब्दः (पाक) क्वाथस्याप्युपलक्षकःशैध्यार्थमित्युभयत्र समाधिः । रसविशेषार्थमिति क्षीरमात्रे ।।नास्तीत्यविवादम्तथैव सर्वत्रापि । अंकुरादौदृष्टपरिकरदर्शनेन घटादितौल्यमितिन दृष्टान्तीकृतं तत् । अत उभयमपि सूत्रं निमित्तकारणविषयकमितिबोध्यम् ।। सूत्रे आदिशब्दः मुनिमान्त्रिकादि पुरुषोपलक्षकः ।।न च क्षीरस्येश्वरसापेक्षत्वमस्तीति कथं निरपेक्षत्वं इति शंक्यम्,उपकरणनिरपेक्षत्वस्यैवात्रोक्तेः ।।
उत्तरसूत्रार्थमाह - यथेति । स्वरससिद्धं लोकदृष्ट मुवाच । दृष्टान्तअयमेव च पर्याप्तः । दृष्टान्तान्तरस्योपादाने प्रयोजनमप्याह - देवादीनामितिदेवादीनां निरपेक्षकार्यजनकत्वं पुराणादिणु दृष्टं, तच्च त्वयाप्यभ्युपगतम्वेदेच निरपेक्षकर्तृत्वशक्तिः देवादीनां प्रतिपादिता, अतश्च वेदबोधितस्यनिरपेक्षकर्तृत्वस्य देवादिविषयेऽभ्युपगन्तुः ब्रह्मविषये पुनःवेदबोधितस्य तादृशशक्तिमत्वस्यानभ्युपगमे, किं बीजम् । अतो वेदावगतशक्तिषुदेवादिष्विव तादृशे ब्रह्मण्यपि निपेक्षकर्तृत्वाभ्युपगम एव युक्तःप्रसिद्धचेदं, जीवस्य स्वसंकल्पमात्रेण स्ववपुर्नोदन मितिपूर्वोदाहरण मुपादान विषयेउत्तरं निमित्तविषये । ब्रह्मणो निमित्तत्वादुपादानन्वाच्चोभयोदाहरणमिति विवेकः । वस्तुतः क्षीरादौ परमात्मान एव निमित्तत्वात् दृष्टपरिकरापेक्षा"शक्तौ कर्तृ प्रकृत्योरुपकरणगणोपस्थितौ कार्यकृत्त्वंतस्मादग्रे सदेकं किमुपकरणयेत् इत्यसत् शक्तिभेदात् ।।क्षीरायस्कान्तलूता त्रिदशमुनिमुखान् वीक्ष्य तोष्टव्यमस्मिन्संकल्पादेव जीवो नुदति निजवपुः विश्वरूपस्तथेशः ।।" इत्यधिकरणसारावलिः ।कर्ता = निमित्तं, प्रकृतिः = उपादानम् । उभयविधकारणे एवाक्षेपः । न तुनिमित्तमात्रे । यथा कुलालादिदृष्टान्तेन निमित्तकारणविषय प्रश्नस्यागतत्वात्क्षीराद्युपादानकारणविषयकसमाधानं कथं युक्तमिति प्रश्नस्यावारणात्ननु एकमेवत्यस्य चेतनाचेतनविशिष्टवस्तुनः एकत्वं विवक्षितम् । अन्यथा"न कर्मा विभागादित्यादिसूत्राणामसांगत्यापत्तेः । एवं च ब्रह्मव्यतिरिक्तस्यवस्तुनः सद्भावात् कथमसहायत्वं ब्रह्मणः इति चेत्सत्यं सर्वस्यापिवस्तुनः तच्छरीरत्वात् शरीरातिरिक्त वस्तुनः अभावादस्य पूर्वपक्षस्योत्थितेःकुलालादावपि शरीरातिरिक्तस्य दण्डाद्युपकरणस्य दर्शनादत्र तदभावात् ।समाधाने क्षीरमेव दधिरूपेण परिणमति । न तत्रोपकरणापेक्षा । न हि कालस्योपकरणत्वमत्रेतिशंक्यम् । परमात्मन्यपि तस्य सत्त्वात् । अतो दधिविषये क्षीरस्योपादानत्ववत्कालादृष्टादिव्यतिरिक्तस्योपकरणस्याभावात् संकल्पाश्रयस्यैव निमित्तत्वमितिनिर्बन्धाभावाच्च क्षीरस्येव निमित्तत्वपीति भावः ।। उपसंहारदर्शनाधिकरणम् ।।