(2.01.07) इतरव्यपदेशाधिकरणम्अथाधिकरणसंगतिप्रदर्शनाय पूर्वाधिकरणसिद्धमर्थमनुवदति - जगत इति ।संगतेराक्षेपरूपत्वं दर्शयन्संगतिमाह - तत्रेदमिति। सूत्रस्थेतरव्यपदेशपदस्यजीवस्य ब्रह्मभावव्यपदेशपरतया व्याचष्टेइतरस्येति। इदंव्याख्येयंपदम् । जीवस्येति तद्वचाख्यानम् । हिताकरणादि दोषप्रसक्तिरिति सूत्रखण्डंव्याचष्टे - तदा ब्रह्मणइत्यादिना ।सार्वज्ञ्यसंत्यसंकल्पत्वादियुक्तस्येतिहिताकरणादि दोषत्वापादक हेतुकथनम् । यद्ययमीश्वरोऽसर्वज्ञः तदाहितानभिज्ञत्वेनाहितजगत्कारणत्वं नदोषावहं, हिताभिज्ञत्वेपि यद्यसत्यसंकल्पःतदा हितकरणे प्रवृत्तत्वेपि मर्त्यारम्भस्पृहायां सत्यामपि घात्रादेःतदितर प्राणि सृष्टिवत् अहित जगत्कारणमुपपद्यतेसर्वज्ञत्वेन सत्यसंकल्पत्वेन चोभयथापि हिताकरणादिकं दोषावहभेवभगवतीति भावः ।आदिशब्देनसर्वशक्तित्वपरिग्रहः । यद्ययमशक्तः तर्हिजीवस्येव ब्रह्मणोऽप्यनीश्वरत्वेन स्वस्य हिताकरणादिकमुपपद्यते,शक्तत्वेन तथाऽकरणं नोपपत्तिमदित्यर्थः । हितरूपजगदकरणं=हितरूपस्यजगतःअकरणं, जगतः हितत्वानुत्पादनम् । अहितरूपजगत्करणमिति सूत्रस्थादिशब्दविवरणम् । अहितरूपस्य जगतः करणमिति तदर्थः । जगतः अहितत्वोत्पादनमितियावत् । स्वस्य जगदन्तर्गत जीवाभिन्नत्वात् दुःखाकरत्व तदभावरूपाहितत्वहितत्वोत्पादनतदभावादिकंदोषावहमिति भावः ।यद्वा - हितरूपं जगदकरणं अहितरूपं जगत्करणमित्यर्थः । सुखदुःख भोक्तृत्वमादिशब्दार्थः । ननु जगतः दुःखाकरत्वे सति हीयमाशंकेत्यत्राह - आध्यात्मिकेति।आध्यात्मिकदुखं शरीरजन्यम् । आधिदैविकं अशन्यादिजन्यम् । आधिभौतिकं=सर्पादिजन्यम्आकरं=स्थानम् । भ्रान्तस्य क्रीडयेवच परमात्मनः एवंसृष्टिरूपपद्यतांइत्यत्राह - न चेति । ननु सर्वज्ञस्य सत्यसंकल्पस्यापहतपाप्मनो परस्यब्रह्मणः नैवंविधदोषापादनं युक्तं, आध्यात्मिकादिदुःखस्य जीवगतत्वेनतस्यच ब्रह्मणो विलक्षणत्वात् इतिशंकां परिहरति - जीवाद् ब्रह्मणइतिअनन्यत्वं=स्वरूपैक्यंअयं भावः - आरम्भणाधिकरणे हि कार्यकारणयोः जगद्ब्रह्मणोरनन्यत्वं स्थापितम्तच्च स्वरूपैक्यमेव । मृद्घटयोः कार्यकारणयोः तादृशानन्यत्वस्यैवमृदात्मको घटः इति प्रतीतिबलेन स्वीकृतत्वात् । अत एव हि तत्त्वमसि,अयमात्मा ब्रह्म, इति सामानाधिकरण्य निर्देशो भवतां संगच्छते, ततश्चाभेदश्रुतिबलेनजगद्ब्रह्मणोर्भेदस्य तिरस्कृतत्वात् जीवस्य दुःखं तदभिन्नब्रह्मणःदुःखमेवति दुःखाकर जगत्सृष्टिः ब्रह्मणोऽनुपपन्नैवेति अधिकरण पूर्वपक्षिणःकाणादस्याशयः ।नन्ववस्थितेरिति काशकृत्स्नः “अपीतौ तद्वत्प्रसंगादसमञ्जसं, न तुदृष्टान्तभावात्” इत्यादिषु स्थूल सूक्षम विशिष्ट ब्रह्मणःएवैक्यस्यस्थापितत्वात् अत्र स्वरूपैक्यकृत पूर्वपक्षस्य कथमुत्थानम् । कथंचिदुत्थानसंभवेऽपिब्रह्मणः जीवाभिन्नत्वस्येवाचेतनाभिन्नत्वस्यापि सत्वेन तत्प्रयुक्तदोषोद्भावनस्य कथं परित्यागः? उच्यते विशिष्टैक्यबोधकसूत्राणामेतदधिकरणशेषत्वात् तत्र तत्र प्रासङ्गिकत्वाच्चैतदधिकरणार्थानुवादकत्वमेवेतिनात्र स्वरूपैक्यकृत शंकायाः अनवकाशः। अचेतनब्रह्मस्वरूपैक्य प्रयुक्तशंकोपेक्षणं तु न तु दृष्टान्त भावादित्यादौ परिहृतत्वादितिअत एवहि अश्मादिवच्च तदनुपपत्तिरिति अचेतनस्य दृष्टान्तत्वोपादानम्तत्र ह्यचिद्गतापुरुषार्थाः शरीर गतबालत्वादयः आत्मनीव ब्रह्मणिन संबन्धयन्त इत्युक्तमिति । यद्यपि ब्रह्मणि अचिद्गतदोषशंकापरिहारइव चिद्गत दोषशंकापरिहारोऽपि न तु दृष्टान्तभावादित्यत्रकृत एवतत्र भाष्ये - यत स्संकोचविकासौ परब्रह्मशरीरभूतचिदचिद्वस्तुगतौइत्युक्तेः । अथापि अचिद्गत दोषशंकापरिहारे एवतत्सूत्रतात्पर्यम्अन्यथा चिद्गत दोषशंका परिहार परस्यैतदधिकरणस्य व्यर्थतापत्तेःभाष्ये तत्र तद्भाषणं तु एतदधिकरणसिद्धार्थानुवादरूपमेवेतिअथ काणादकृतपूर्वपक्षस्य भास्करमतानुसारेणापि परिहारासंभवं व्यनक्ति - औपाधिकेत्यादिना।भेदाभेदोभयश्रुति निर्वाहाय जीवब्रह्मणोर्भेदाभेदयोरभ्युपेतव्यत्वात्स्वत एव तयोरभ्युपगमे विरोधात् भेदस्यौपाधिकत्वं अभेदस्य च स्वाभाविकत्वमभ्युपेयम्ततश्च जीवब्रह्मणोरौपाधिक भेदसत्वेन नानन्यत्व प्रयुक्त शंकायाःअवकाशः इति भास्करमतानुयायिनामभिप्रायः । अजागलस्तनतुल्यौपाधिकभेदसत्वेपि वस्तुतो जीव ब्रह्मणोरभेदसत्वेन सर्वज्ञस्य ब्रह्मणःस्वाभाविकजीवाऽभेदाज्ञानेसर्वज्ञत्वहान्या तज्ज्ञाने च जीवदुःखस्य स्वदुः स्वरूपत्वेन हिताकरणादिदोषस्तदवस्थएवेति पूर्वपक्ष्याशयःअनुपहितं जगत्कारणं ब्रह्म जीवं स्वस्मादभिन्नत्वेन जानति वा नवेत्यर्थःअथ मृषावादिमतेपि परिहारो न संभवतीति दर्शयति - जीवब्रह्मणोरिति।अज्ञानकृतो भेदइति । तथा च जीव ब्रह्मणो र्भेदात् नानन्यत्व प्रयुक्तशंकायाअवतार इति भावः ।पूर्वोक्तोविकल्पः= स्वभावतः स्वस्मादभिन्नं जीवंजगत्कारणं ब्रह्म जानातिवा न वेति विकल्पः । तत्फलं - प्रथमे, हिताकरणादिदोषप्रसक्तिः । द्वितीये सर्वज्ञत्वहानिः । नच निर्विशेषस्य ब्रह्मणःसर्वज्ञत्वहानिरिष्टैवेति वाच्यम् । स्वाभाविकीति श्रुतिसिद्धस्वाभाविकसर्वज्ञत्वस्यानभ्युपगमासंभवात् । इदं अन्योन्याश्रयादिभिः जीवाश्रयाज्ञान संभवरूपदूषणस्याप्युपलक्षणम्ब्रह्माज्ञानपक्षे अविद्याश्रयब्रह्मणः स्वाभाविकजीवाभेदाज्ञानेपिन सर्वज्ञत्वहानिर्दूषणं युक्तमित्यभिप्रेय दूषणान्तरमाह - ब्रह्माज्ञानपक्षेइत्यादिनाअत्रायं विवेकः - जीवपरमात्मनोः भेदः अभेदश्च श्रुतौ प्रतिपन्नःएतस्य निर्वाहं अद्वैतिनः भास्कराः यादवप्रकाशाः विशिष्टाद्वैतिनश्चकुर्वन्ति । अद्वैतिनां प्रकारस्तुः । अभेदः स्वाभाविक भेदस्तुअज्ञानोपाधिकः इतिभास्कराणां निर्वाहप्रकारोपि अभेदः स्वाभाविकःभेदस्वौपाधिकः इति । यादवप्रकाशास्तु उभयमपि स्वाभाविकमिति ।विशिष्टाद्वैतिनस्तुभेद एव स्वाभाविकः अभेदस्त्वौपाधिक इतिशरीरात्मभावप्रयुक्तत्वात् अभेदस्यौपाधिकत्वम् । वस्तुतः औपाधिकत्वमपिस्वाभाविकत्वपर्ववसात्येव । अहं मनुष्यः अहं देवदत्तः अहं वालोयुवा इत्यादौ शरीरात्मभावप्रयुक्तत्वं अभेदस्योच्यते । मनुष्यत्वादिविहिपिण्डरूपशरीर विशिष्टत्वं ह्यात्मनि उपलभ्यते । इदं च मुख्यमेव । औपाधिकत्वेनप्रतीयमानत्वेपि वस्तुतः पर्यालोचने मुख्यत्व रीत्या स्वाभाविकत्वमेवाभेदस्यापिसमुद्रफेन तरंग बुद्बुदन्यायेन मृद्घटशरावमणिकान्यायेन च स्वाभाविकत्वमुभयोइति यादव प्रकाशाः ।
द्वैतिनस्तु - भेदस्यैव स्वाभाविकत्वम् । अभेदस्यौपचारिकत्वमेव - राजपुरोहितःराजा संवृत्त इति न्यायात् इति वदन्ति । अधिकं तु भेदनिर्देशादितिसूत्रस्य पूर्वसूत्रशंकितदोषवारकसिद्धान्तसूत्रत्वसूचकतया तु शब्दंयोजयति - तु शब्दइति। बद्धावस्थप्रत्यगात्मन इव मुक्तावस्थप्रत्यगात्मनोपिब्रह्मणः अर्थान्तरभूतत्वज्ञापनाय - दुःख योगार्हादित्युक्तम् ।यआत्मनीति। अत्राधिकरणाधिकर्तव्यत्वं, व्याप्यव्यापकभावः अज्ञप्रज्ञभावःनियाम्यनियन्तृभावश्चोक्तः । एतत्सर्वं भेदसाधकम् । यद्वा आत्मनोऽन्तरः=आत्मनोभिन्न इत्यर्थः । अमृतत्वसाधकतया भेदज्ञानस्योक्तत्वात् भेदस्यैवस्वाभाविकत्वमिति सूचनाय - पृथगात्मानमितिश्रुतिरूपात्त्ताकरणाधिपः जीवः ।तयोरन्यइति। कर्मफल मश्नतः तदनश्नतश्चाभेदः अप्रामाणिकइति भावः । ज्ञाज्ञाविति । अज्ञः=ईषज्ज्ञः । अनुदरा कन्येतिवदीषदर्थेनञ् । अत्रयुगपत् ज्ञः अज्ञः इति विभागात् सर्वावस्थायामपि भेदसिद्धिःप्राज्ञेनात्मनेति सूषुप्तौ भेदबोधनम् । अन्वारूढः उत्क्रान्तौ । अस्मादिति ।मायापरवशस्य मायिनश्च भेद एव युक्त इति भावः । नित्य इति जीवानां बहुत्वस्यपरस्य चैकत्वस्य च बोधनात् नाभेदो युक्त इति भावः । अक्षरशब्दः जीववाची ।योऽव्यक्तमित्युपादानं तु दृष्टान्तार्थम् ।।
विशिष्य सूत्रे अश्माद्युपादानस्य प्रयोजनं दर्शयन् सूत्रार्थमाह - अश्मकाष्ठेति ।अत्यन्तहेयानामित्यादिकं - निरवद्येत्यादि महाविभूतीत्यन्तं ऐक्यासंभवानुगुणाकारप्रदर्शकम्अचेतन ब्रह्मणोस्स्वरूपैक्यं हि असंभवात् न केनाप्यभ्युपगतम्अत एव ब्रह्माज्ञानवादिनापि न तयो स्स्वरूपैक्यमभिमतम् । अतस्तद्वदेवजीवब्रह्मणोरपि स्वरूपैक्यं न युक्तमित्याशयः । ननु विरोधाकारसद्भावेहिस्वरूपैक्यसंभवः । न दृश्यते च तादृशाकारः इत्यत्राह - तथा चेतनस्यापीति।मुक्तसंग्रहायार्हशब्दः। ननु तत्वमसीति सामानाधिकरण्यनिर्देशः कथमुपपद्यतामित्यत्राह - सामानाधिकरण्येतिजीवप्रकारकब्रह्मप्रतिपादनपर इति हेतुगर्भविशेषणम् ।अवस्थितेरितिसूत्रस्यैतदधिकरणशेषत्वज्ञापनाय तत्सूत्रोपादानम् । आदिशब्देन - नतु दृष्टान्तभावादित्यादेः ग्रहणम् । अतस्सर्वावस्थमित्यादिकं - चिदचिद्वस्तुरूपजगत्सामानाधिकरण्यनिर्वाहप्रदर्शकम् । ननु कारणावस्थायांएकत्वाधारणेनचेतनाचेतनयोरभावात् तच्छरीरकत्वस्याप्यंसंभवेन कथं गुणदोष व्यवस्थितिरित्यत्राह - सदेवेति।ब्रह्मशरीरतयासूक्ष्मरूपेणेति। अविभक्तनामरूपार्थकःएकशब्दइतिभावः।। अभ्युपगन्तव्यत्वे सूत्रकारसंमति माह - वैषम्येति । एकशब्दोक्तमविभागंस्फुटयति - अविभागस्त्वितिअधिकंतु भेदनिर्देशादिति सूत्रस्य परोक्तमर्थं मनूद्य द्यति - येपुनरिति। अविद्यावियुक्तावस्थामित्यत्र सूचितं किं जीवादविद्यावियुक्तस्यब्रह्मणो भेदः उताविद्याऽवियुक्तस्य (अविद्या सं सृष्टस्येश्वरस्यभेदः इति विकल्पं हृदिनिघाय प्रथमे दूषणमाह - तेषामिति। कुतः असांगत्यमित्यत्राह - नहीति। तदवस्थस्य = अविद्यावियुक्तावस्थस्य । निर्विशेषब्रह्मणः अविद्यायोगेनैव सर्वज्ञत्वादि विशेषाभ्युपगमात् अविद्यविरहदशायांतदभावेन जीवाद्भेदसाधकत्वासिद्धिरिति भावः । नन्यन्यादृशाकारेणजीवात् ब्रह्मणो तदानीं भेदस्साध्यते इत्यत्राह - अनेनैवेतिपृथगात्मानं, ज्ञाज्ञौ इत्यादि श्रुतिषु सर्वज्ञात्वादिरेवहि भेदसाधकतयाप्रदर्शितः। तच्चाविद्याविरहावस्थायां नास्ति ब्रह्मणीति कथं तदाभेद श्शक्यसाधनः इत्याशयः । ननु तदानीं सर्वज्ञत्वादिकं ब्रह्मणिकुतो नास्तीति शंकां, त्वन्मते तेषामविद्याकल्पितत्वाश्युपगमेनाविद्याविरहावस्थायांच तेषामपि नाशेन त्वया न शक्योपपादनेति परिहरति - तस्य सर्वस्येति।द्वितीयकल्पे दूषणमाह - नचेति। यथा शुक्त्याधिष्ठानकरजतस्य शुक्तेश्चपरस्परं भेदः अविद्यावस्थायां निष्प्रयोजनः तद्वत् अविद्यावस्थायांब्रह्मणो जीवस्य परस्परभेदः निष्प्रयोजन इति न स भेदः सूत्रकृदभिमतइति भावः ।अथ भवद्रीत्या निर्विशेषब्रह्मण एव प्रक्रान्तत्वादपि नाविद्यायुक्तस्यसविशेषस्य ब्रह्मणः अत्र प्रसक्तिरित्यतोपि स भेदः न सूत्रकाराभिप्रेत इत्याह -ब्रह्मजिज्ञासेति । “जीवः ईशो विशुद्धा चित् विभागश्च तयो पुनः । अविद्यातच्चितोर्योगः षडस्माकमनादय” इति भवन्तो घुष्यन्ति । तत्र जीवस्य ईश्वरस्यविशुद्धचितश्च सत्वं उशन्ति । अत्रोक्तः जीव भेदः ईश्वराद्वा विशुद्धचितो वा ।उभयथापि न संभवति । विशुद्धचितः सर्वज्ञत्वाद्यभावात् । श्रुतिषुसर्वज्ञत्वादिकमादायैव भेदोपपादनात् । कल्पितेश्वरात् भेदोऽपिनतस्याप्रक्रान्तत्वात्मुमुक्षुजिज्ञास्यत्वाभावाच्चेति प्रघट्टार्थः ।। वेदान्तवेद्यत्वादितिसमन्वयाधिकरणार्थः । ननु प्रथमाध्याये निर्विशेषब्रह्मणः प्रतिपाद्यत्वेपिद्वितीयाध्याये सविशेषब्रह्मैव प्रतिपाद्यत इति शंकां निरस्यति - तस्यचेति।।एवं परोक्तार्थस्य सूत्राननुगुणत्वमुपपाद्य स्वमते एतदधिकरण सिद्धार्थस्याधिकरणान्तरालभ्यत्वमुपपादयति - अपीताविति। “अपीतौ तद्वत्प्रसंगादमञ्जसं”, “नतु दृष्टान्तभावात्"इति सूत्रद्वयेन इतरव्यपदेशादित्यधिकरणसिद्धोऽर्थः स्मारितःइतिपूर्वत्रापि भाषितम् । तर्हि तदधिकरणकृत्यं किमित्यत्राह - तत्र हीतिनन्वसत्कार्यवादनिराकरणमुखेन कार्यकारणयोः - जगद्ब्रह्मणोः एकद्रव्यत्वरूपमनन्यत्वंशरीर शरीरि भावनिबन्धनमिति प्रदर्शित प्रायमेवेति कथं तदधिकरणालभ्यत्वमित्यत्राह - असदितिपूर्वाधिकरणस्थं=आरम्भणाधिकरणप्रतिपाद्यार्थम् । आरम्भणाधिकरणेएवासत्कार्यवादनिरासात् असदिति सूत्रं तदधिकरणशेषमेव । प्रसंगात्तुतत्र संगतम् । ततश्चानन्यत्वे स्थापिते अभेदश्रुत्यविरोधेन भेदश्रुतीनांमुख्यार्थ प्रतिपादनमस्मिन्नेवाधिकरणे क्रियते इति न कश्चित् दोषःइति भावः ।।ननु जीवब्रह्मणोस्स्वरूपानन्यत्वाभावेऽपि जीवस्य ब्रह्मशरीरत्वेनतत्रच दुःखादेस्सृष्ट्या सर्वज्ञस्य ब्रह्मणः स्वशरीर गतत्वेन दुःखज्ञानस्यावश्यकत्वाच्च स्वशरीरगतत्वेन दुःखं जानतस्तस्य स्वाहितकरणादिदोषस्त दबस्थ एवेति चेन्न । दुःखस्यात्मगतत्व दर्शनेन तज्ज्ञानस्यापुरूषार्थत्वेऽपिशरीरगतत्वेन दुःखज्ञानस्य कुत्राप्यपुरुषार्थत्वादर्शनेनानुपपत्त्यभावात्परमात्मनिच दुःखाभावात् । ननु यस्य शरीरगतत्वेन छेदनादि ज्ञानंतस्यात्मनि दुःख दर्शनं दृष्टम् । परमात्मशरीरभूतं च जगत् संहारादिव्यापरविषयत्वेनछेदनादियोग्यंतथात्व ज्ञानवतस्सर्वज्ञस्य ब्रह्मणः तत्प्रयुक्तं दुःखमनिर्वार्यमेवेतिचेन्न स्वकर्म भोगार्थ शरीरगतच्छेदनादीनां स्वदुःखे प्रयोजकत्वात्जगतश्च परं प्रति कर्मभोगार्थ शरीरत्वाभावात् । अतः जीवकर्मारब्धेनाचेतनेनकर्मवश्येन जीवेनच स्वस्यानन्यत्वं जानतो ब्रह्मणः नाहितकरणादिदोषप्रसक्तिरिति।।…