(2.01.06) आरम्भणाधिकरणम्असदित्यादिकं संगति प्रदर्शकम् । आक्षिप्य समाधीयते इति । अयं भावः - पूर्वंविलक्षणयोः कार्यकारणभावाभ्युपगमे कारणे ब्रह्मणि तत्कार्यस्य विलक्षणस्यजगतः असत्त्वेनासत्कार्यवाद प्रसंग इति शंका कार्यकारणयोरनन्यत्वेन परिहृता,तच्चानन्यत्वसिद्धौ युक्तम् । सैव च नास्तीत्याक्षेपः अत्र परिह्रियते इति ।असत्कार्यवादस्य कार्यकारणयोरन्यत्वस्य च साधने प्रधानतया बहुयुक्त्याभासप्रदर्शकाः काणादा एवेति सूचनाय तेषां नामतो निर्देशः । काणादाः - वैशेषिकाः ।विलक्षणबुद्धि बोध्यत्वादिति । कार्यं कारणादन्यत्, कारणविषयक बुद्धिविलक्षणबुद्धिविषत्वादित्यनेनान्यत्वसिद्धिरिति भावः ।ननु कार्यविषयकबुद्धेः कारणविषयकबुद्धेश्च विलक्षणत्वसिद्धौ हि अन्यत्वसाधनसंभवः इत्यत्राह । न खल्विति । तन्तुबुद्धेः पटबुद्धेश्चैकविषयत्वाभावेन बुद्ध्योःपरस्परवैलक्षण्यसिद्धिरिति भावः । नन्विदमनुपपन्नं, अन्योऽन्याश्रयग्रस्तत्वात् ।कार्यकारणयोर्विषययोः वैलक्षण्यसिद्धौ हि तद्विषयक बुध्योर्वैलक्षण्यसिद्धिः ।बुध्योर्वैलक्षण्यसिद्धौ तयोः अन्यत्वसिद्धिरिति । वस्तुतः विषयवैलक्षण्याधीनैवधीवैलक्षण्यसिद्धिः । यथोक्तं - अर्थेनैव विशेषो हि निराकारतया धियामिति ।न च विलक्षणबुद्धिबोध्यत्वस्य हेतुत्वकथनं विलक्षणत्वहेतुत्वतात्पर्यकं,हेतोस्साध्यसमत्वप्रसंगात् । न चार्थेनैव विशेषो हि निराकारतया धियाम् इत्येतत्न धीवैलक्षण्यस्यार्थवैलक्षण्याधीनत्व बोधनेदंपरम् । तत्र हि - धियांनिराकारत्वेन घटादिरूपार्थ एव स्वभावतो विशेषणीभूतः, घटविषयकज्ञानमित्यादौघटस्य विषयतया ज्ञानविशेषणत्वर्शनात् ।अतः घटादिजन्यज्ञातताद्याकारशालित्वं ज्ञानस्य नास्तीत्येतावदुच्यते ।अतो नानुपपत्तिरिति वाच्यम् । उक्त कारिकायाः तथोपपत्तिसंभवेऽपिघटज्ञानं पटज्ञानाद्विलक्षणं पटविलक्षणघटविषयकत्वादित्येव धीवैलक्षण्यस्यवक्तव्यतया धीवैलक्षण्ये अर्थवैलक्षण्याधीनत्वस्य स्वतः प्राप्तेरिति चेत् -उच्यते । उक्तरीत्या धीवैलक्षण्यस्यार्थ वैलक्षण्याधीनत्वेऽपि प्रकृते कार्यकारणविषयकधीवैलक्षण्यस्य सद्भावात् तत्प्रयोजककार्यकरणरूपार्थ वैलक्षण्यमावश्यकमित्यत्र तात्पर्येणादोषात् इति । अत एव हि कर्मकारणविषयबुद्धेःएकरूपत्वाभावरूपं वैलक्षण्यं भाषितम् । तेन च तत्प्रयोजकार्थ वैलक्षण्यसिद्धेरितिपपूर्वकालं च कारणमिति । कार्यनियतपूर्ववृत्ति कारणमित्युक्तेरितिभावः । अत्याधिक्यसूचनाय पर्यायौ पृथुबुध्नशब्दौ ।। चशब्दस्थानेतथा शब्दः । कारणमृत्सद्भावदशायामेव कार्यभूत घटनाशव्यवहारात् अनन्यत्वेभावाभावविरोधरूपहेतुरुक्तःकिं कारकव्यापारसाधकं स्यादिति। कार्यकारणयोरनन्यत्वेन कारणसत्वदशायमेवकार्यस्यापि सत्वेन कार्यसिध्यर्थकारकव्यापाराः व्यर्थाः इत्याशयः ।नन्वनन्यत्वेन पूर्वं कार्यस्य सत्वेऽपि तस्योदकाहरणादिकार्योपयोगित्वाभावेनतदुपयोगित्वोत्पादनाय कारकव्यापरः इत्यर्थवत्वमेव कारकव्यापरस्येतिशंकते - सत्यपीति । तत्रोदकाहरणादिकार्योपयोगित्वं तदनुगुणसामर्थ्योत्पादनद्वारेण, किं वा साक्षात् । तत्र वैशेषिकैः शक्त्यनभ्युपगमेन द्वितीयएवपक्षः शरणीकरणयः सोपि, घटनिष्पत्यनन्तरमपि उदकाहरणादिकार्यसद्भावेनतदुपयोगितया कारकव्यापारः आवश्यकः इति कारकव्यापरोपरत्यभावप्रसंगरूपहेतुनातिरस्कार्यः इत्याशयेनाह - सर्वदेति ।नित्यानित्यविभागश्च न स्यादिति । यदि कार्यकारणयोरनन्यत्वं तदाकारणभूतपरमाणूनां कारणभूतब्रह्मणो वा नित्यत्वेन तत्कार्यजगतोऽपितदनन्यत्वे नित्यत्वमेवेष्टव्यं स्यात् । कार्यानुसारेण कारणस्यवाऽनित्यत्वमितिभावः । एवं विलक्षणबुद्धि बोध्यत्वशब्दभेद कार्यभेद कालभेद आकारभेदभावाभावविरोध सख्याभेद कारकव्यापारवैयार्थ्यं नित्यानित्यविभागानुपपत्तिरूपहेतुभिः कार्यकारणयोरनन्यत्वं प्रतिक्षिपन्ति काणादाः । अथाभिव्यक्तिपक्षमनूद्य दूषयति - अथेत्यादिना । सदेवेति । सत्कार्यवादसिध्या अनन्यत्वस्यन क्षतिरित्याशयः अनेन सूचितः ।पूर्वमभिव्यक्तमित्यनेन, अभिव्यक्त्यर्थतयाकारकव्यापारस्यार्थवत्वंदर्शितम् । तदेवोपपादयति - अत इति।अभिव्यक्तेरित्यादि। अयमाशयःकिमभिव्यक्तिःअभिव्यक्यन्तरापेक्षा उत तदनपेक्षा । नित्या आहोस्वित् उत्पद्यतेन प्रथमः । तस्या अपि तथेत्यनवस्थानात् । नद्वितीयः घटाभिव्यक्तेर्नित्यत्वेनघटस्य मृदि नित्योपलब्धि प्रसंगात् । नान्त्यः असत्याः अभिव्यक्तेरूत्पत्यभ्युपगमेवान्ततोऽसत्कार्यवादे एव निमञ्जनादिति । ननु अभिव्यंक्तेरभिव्यक्यन्तरापेक्षत्वाभ्युपगमेनानुपपत्तिः । न चानवस्था दोषभावं भजति, इष्टत्वात् । अत एव हि असत्कार्यवादपक्षेऽपिअसतो घटस्येव असत्याः उत्पत्तेरप्युत्पत्यन्तरापेक्षत्वाभ्युपगमनिर्वाहःउत्पत्तेर्नित्यत्वाभ्युपगमेच कार्यस्य नित्योपलब्धिप्रसंगः सत्कार्यवादार्पात्तश्चअतोऽत्रानवस्थाया अदोषत्वेनैवपरिहारः कर्तव्यः सोऽप्यस्माकमपिसमानः इत्यत्रदूषणान्तरमाह - किंचेति। अयमभिप्रायः अभिव्यङचाभिव्यञ्जकभावस्थलेसर्वत्रानेनैवाभिव्यञ्जकेनास्यैवाभिव्यक्तिः नान्यस्येति नियन्तुंन शक्यते । यतः घटाद्यभिव्यञ्जकेन प्रदीपेन करकाद्यभिव्यक्तिरपिदृश्यते । नह्य नियमदर्शनवत् क्वचिदपि वा नियमो दृश्यते । अतो घटपटाभिव्यञ्जककारकव्यापारस्यकरकाभिव्यञ्जकत्वमपि प्रसज्यतइति कारकव्यापारानियमात् सर्वस्मादपिकारकव्यापारात्सर्वस्यापि कार्यवर्गस्याभिव्याक्तिस्स्यात्तस्मात्कारकव्यापरस्योत्पत्तिहेतुत्वैनैव स्वीकार आवश्यक इत्यसत्कार्यवादएव युक्तः । अतो नानन्यत्वसिद्धिरिति । नन्वभिव्यक्तिपक्षे कारकव्यापारानियमापादनवत्असत्कार्यवादपक्षेऽपि कारणानियमः प्रसज्यते मृत्पिण्डे घटस्यासत्वेपिघटचिकीर्षया मृत्पिम्डोपादानवत् तन्त्वादावप्यसत्वाविशेषेण तच्चिकीर्षयातन्त्वाद्युपादान प्रसंगादिति शंकां परिहरति - नचनियतकारणोपादानमिति।।सतएव कार्यत्वं साधयतीति। लोके हि घटचिकीर्षया पटचिकीर्षयाच मृदःतन्तो श्चोपादानमिति तत्कार्यस्य ततत्कारणोपादानमिति नियमोदृश्यतेतत्र यदि मृदि घटो न विद्यते तर्हि असत्वाविशेषात् तत्कारणत्वेनकस्यचित् ततूनामपि ग्रहणं स्यात्अतोमृद्येव घटस्यसत्वं न तु तन्तुष्विति स्वीकार्यम् । ततश्च सत्कार्यवादसिध्याकार्यकारणयोरनन्यत्वमिति भावः ।कारणशक्तिनियमादेवेतिअयं भावः - नियतकारणोपादानबलेनमृदिघटस्यसत्वानुमानेऽपि घटो मृत्पिण्डे एवविद्यते न तन्तुष्वितिनियमः कुतः । मृत्पिण्डेइव तन्तुषु सत्वे किं बाधकं तन्तूपादानप्रसंग एव बाधक इति चेदस्तु, तथापि मृदि घटस्य सत्वनिश्चये घटचिकीर्षयातन्त्वनुपादानं तन्तूपादानं विना मृदुपादानरूपनियतकारणोपादाने चमृदि घटस्य सत्वनिश्चयः । अतोऽन्योन्याश्रयात् मृदिघटस्य सत्वनिश्चयःदुरुपपादः । यदि मृदेव घटसद्भावयोग्या नान्यः इत्युच्यते तर्हिसैव घटोत्पादनयोग्या नान्यः इत्यपि नियमसंभवेनैतदर्थं सत्कार्यवादस्यानावश्यकत्वमितिनन्वसत्कार्यवादपक्षे उक्तरीत्या उपादानकारणनियमोपपत्तावपि कारकव्यापारानुपपत्तिःदुर्वारा, उत्पत्तेः पूर्वं कार्यस्यासत्कार्यवादिमतेऽभावेन कार्येकारक व्यापारासंभवात् कारकव्यापरसत्वसंभवेतन्तुगतव्या पारेणापिघटोत्पत्त्यापत्तेः इति शंकतेनन्विति। यत्र यत्कार्योत्पादनयोग्यतातत्रकारकव्यापारस्यैवतत्कार्यप्रयोजकत्वमित्यभ्युपगेनानुपपत्तिं परिहरति - नैवमित्यादिनानह्येति । यत्रयदुत्पादनशक्तिः तत्रैव च उत्पत्ति प्रयोजक व्यापारोऽवश्यकःअन्यत्र वर्तमानोव्यापारः अजागल स्तन तुल्य एवेति ।।अत्र प्रधानाधिकरणपूर्वपक्षी - तार्किकः । अयमसत्कार्यवादी । सत्कार्यवादिनंसाख्यं दूषयति । सांख्यपक्षखण्डनपूर्वकं स्वमतं स्थापयति । अत्रप्राचीनाद्वैती ब्रह्माज्ञानवादी तार्किकमतखण्डनार्थ प्रवर्ततेब्रह्मजगतोः अन्यत्वानन्यत्व विचार एवानुपयुक्तः कार्यस्य सत्यस्यैवाभावात्सर्वस्य मिथ्यात्वात् कार्यकारणभावस्यैव दुर्वचत्वात् । इति कारणादन्यत्वंकार्यस्येति वदतां तार्किकाणां मतं निरस्यति । जगतो मिथ्यात्वेजीवस्यापि मिथ्यात्वं स्यादिति तार्किकेण प्रश्ने कृते ब्रह्मैवजीवः इति जीव ब्रह्मैक्यमुक्त्वा परिहरति चएवं चेत् जीवेश्वर बद्धमुक्त व्यवस्थ न सेत्स्यतीत्या शंका्यांजीवाज्ञानवादी नवीनाद्वैती बिम्बप्रतिबिम्बभावं स्वीकृत्य प्रतिबिम्बभूतानेकजीवाभ्युपगमेन निर्वाहः इति वदति । अमु पक्षं प्रधानाद्वैतीब्रह्माज्ञानवाद्येव निरस्यति । एक एवजीवः बद्धमुक्तव्यवस्था कल्पितेतिसमाधानं ब्रूते । ब्रह्माज्ञानवाद एव उचितः । मायाविद्याविभागोपिन प्रामाणिकः । ब्रह्मण एकाविद्यामूलक एव एकजीवभावः इति वदन् कार्यस्यमिथ्यात्वात् कारणातिरिक्तकार्यस्याभाव इति समाधत्ते ब्रह्माज्ञानवादीएतन्मतमपि अधिकरणपूर्वपक्षो खण्ड्यन् स्वमत मुपन्यस्यतिएवं वदतः तार्किकस्य पक्षं सूत्रकारो निरस्यति । एवमधिकरणरचनाऽत्रसांख्य स्येवास्माकमपि सत्कार्यवाद एवाभिमतः अत्रापि उपपादन प्रकारोविचित्रः । सांख्यः अभिव्यक्तिपक्षं ब्रूते । वयं अवस्थायाः उत्पत्तिपक्षम्कारणं कार्यं चैकमेव द्रव्यम् । तदेव पूर्वकाले कारणं पश्चात्कार्यं भवति । पिण्डत्वावस्थापन्नं घट द्रव्यं कारणम् । तदेव घटत्वावस्थापन्नंकार्यम् । पिण्डत्वावस्था पूर्वभाविनी घटत्वावस्या पश्चाद्भाविनीअवस्थायाः तदातदा सद्भावेपि द्रव्यस्य सदा सत्वात् सत्कार्यवादःअसत्यायाः अवस्थायाः पश्चादुत्पत्तौ असत्कार्यवादः इति चेत् द्रव्यविषयेएव सत्कार्य वादाभ्युपगमन्नैष दोषः सांख्यमते तु कारणे द्रव्येघटत्वाद्यवस्थापि पूर्वं सती एवकुतो नोपलभ्यते इति । अभिव्यञ्जकसामत्र्य भावात् नोपलम्भः तस्याःयथा आकाशेस्थितस्यैव चेत् शब्दस्य सामत्र्या पश्चा दुपलम्भः ।इति । अयमेवाभिव्यक्तिपक्षः प्रदूषितः तार्किकेण । एवं दूषितवन्तंतार्किकं प्रति ब्रह्माज्ञावादी स्वमतमुपपन्यस्यति अत्राहुःइति।।अथाद्वैतिमतं वैशेषिकमुखेन दूषयितुं अद्वैतिनः प्रवेशयति - अत्राहुरिति।व्यावहारिककार्यत्वस्य तैरप्यभ्युपगमात् - परमार्थतः इत्युक्तम् ।ननु व्यवहार बलेन हि वस्तुसिद्धिः । व्यवहियते च कार्यजातम् । अतस्तस्यकथमसत्वमित्यत्राहअविद्यानिबन्धनत्वादिति। एवं सामान्यतः कारणव्यतिरिक्तस्यकार्यस्यासत्वमुपपाद्य मृद्घटदृष्टान्तेन कारणभूत ब्रह्मणो व्यतिरिक्तस्यकार्यस्य सर्वस्यापि जगतः असत्वं प्रतिजानीते - अतइति । वाचारम्भणंविकारो नामधेय ं मृत्तिकेत्येव सत्यमिति श्रुत्यर्थमभिप्रेत्य मृद्दव्यादित्यादिकमुक्तम्विकारेषूपलभ्यमानात् द्द्रव्यात् व्यतिरिक्तमित्यन्वयःनिर्विशेषेत्यादि । इदं च एकमेवाद्वितीयमिति श्रुत्यर्थाभिप्रायेणोक्तम्अअहंकारेत्यादि। अहमित्याध्यास एव प्रथमः इति तत्परिपाटी ।रोपादिरादिशब्दार्थःककारणादनन्यत्कार्थमिति। ब्रह्मव्यतिरिक्त परमार्थकार्याभाव एवानन्यत्वंइत्याशयः ।। दृष्टान्ते साध्यवैकल्यशंकां परिहरति - नचवाच्यमित्यादिनादृष्टान्तानुपपत्तिरिति शुक्त्यधिष्ठानरजतस्य व्यावर्तमानत्वेनासत्यत्वसंभऽपिघटादिकार्याणां व्यावर्तमात्वा भावात् असत्यत्वमप्रसिद्धमिति भावःअअसत्यभूताइति । अनुवर्तमानत्वव्यावर्तमानत्वयोः सत्यत्वा सत्यत्वसाधकतयाःक्वचिदृष्टत्वेन मृद्विकारेषु मृदनुवृत्तेः घटशरावादिषु शरावघटाद्यननुवृत्तेश्चमृदः सत्यत्वं घटादेरसत्यत्वं च युक्तमित्याशयःसदसदनिर्वचनीयत्वहेतुनापि मिथ्यात्वं साधयति - किंचेति। कार्यं सद्विलक्षणंबाधविषयत्वात् यत् सत् स न बाधविषयः, यथाऽऽत्मा, कार्यं असद्विलक्षणंप्रतीतिविषयत्वात् यदसत् न स प्रतीतिविषयः यथा शशविषाणादिकं, इतिव्यतिरेकिहेतुभूतं कार्यस्य सदसद्विलक्षणत्वे । कार्यं मिथ्या सदसद्विलक्षणत्वात्शुक्तिकारजतादिवत् । इति मिथ्यात्वेऽन्वयिहेतुः ।। तस्य=शुक्तिकारजतादेःअनेन दृष्टान्ते हेत्वसिद्धिशंका परिहृता । अथ कार्यस्वरूपस्यदुर्निरूपत्वादपि मिथ्यात्वसिद्धि रित्याशयेन तत्कारणत्वेनाभिमतस्यमृदादेःकारणा त्वासंभवमाह - किंचेतिसर्वदोत्पादकत्व प्रसंगा दिति।। अविकृतस्वरूपस्य मृदादेः सर्वदाविद्यमानत्वादिति भावः । द्वितीयशिरोदूषयति - नापीति। अयमभिसन्धिः=विशेषान्तारापत्तिःकिंविकृतस्य, उत न द्वितीये सर्वदा विशेषान्तरापत्ति प्रसंगेन सर्वदाकार्योत्पादकत्वप्रसंगःप्रथमे विशेषान्तरापत्तेः विशेषान्तरापत्ति पूर्वकत्वात् तस्याअपि तथेत्यनवस्थेति । ननु अविकृतस्वरूपस्यैवोत्पादकत्वं नच तावतासर्वदोत्पादकत्वापादनं युज्यते । देशकालादिसमवधाने एवोत्पादकत्वाभ्युपगमादितिशंकतेअविकृतमेवेति। दूषयतिनेति। हेतुमाह - देशादीति। अयं भावः - देशादिसमवधानंकिमविकृतस्य उत विकृतस्यःनाद्यः सर्वदा देशादिसमवधान प्रसंगात्नान्त्यः अनवस्थानादिति ।। अत्र कारणत्वेनाभिमतस्य मृदादेः उत्पादकत्वासंभवोक्त्याकार्यस्य दुर्निरूपत्व सिद्धिः । अनेन व्यावर्तमानत्वहेतुकानुमानेदुर्निरूपत्वस्योपाधित्व शंकाचार्थान्निरस्ता । उक्तयुक्त्या दुर्निरूपत्वस्यसिद्धत्वेनोपाधेः पक्षवृत्तित्वात् ।अथ प्रत्यक्षविरोधात्कार्यकारणभावस्स्वीकरणीयः इति शंकां परिहरति - नचवाच्यमिति।प्रतिपन्नोपाधौ - स्वप्रकारकधीविशेष्ये ।बाधश्चनदृश्यतइतियथा शुक्त्याधिष्ठानरजतस्यनात्ररजतं नेदानीं रजतमिति बाधदर्शनंतद्वत् मृदादिनिष्पन्नतया दृष्ठानां घटादीनां बाधो न दृश्यते इत्यर्थःपप्रतीतिशरणानामिति बाधप्रतीति । सद्भावेहि मिथ्यात्वं प्रतीतिशरणैभ्युपेतूंशक्यम् इति भावः । विकल्पासहत्वात् विकल्पसमये एव भंगुरत्वादितिभावः । किं द्रव्यमात्रं कारणं, आहोस्वित् आकारमात्रं आकारविशिष्टद्रव्यंवेति विकल्पः किमित्यादिना कृतः । अत्र हेम कारण द्रव्यंरुचकं मध्यमाकारः, स्वस्तिकं कार्यमिति पूर्वपक्ष्याशयः । प्रथमकल्पंदूषयति - नतावदिति। हेभव्यतिरिक्तकार्याभावमेवस्थिरांकर्तु शंका मुपक्षिपति - हेमेति।तस्य हेभव्यतिरिक्तत्वाभावेन दूषयति - नेति। हेमप्रत्यभिज्ञानादितिस्वस्तिकेहेमप्रत्यभिज्ञानं तावत् तवापि संमतम् । व्यक्ति द्वयंतु नोपलभ्यते, अतः हेम्न एवोपलब्धिरिति भावः । विलक्षणबुद्धिबोध्यत्वादिभिःवस्त्वन्तरत्वस्य साधितत्वं शंकते - बुद्धीति। उक्तहेतूनां भ्रान्तिमूलत्वेनवस्त्वन्तरासाधकत्वमिति परिहरति - अनिरूपितेति । अनिरूपितवस्त्ववलम्नानां,प्रमाणानिरूपित (मिथ्याभूत) वस्तु विषयकानामित्यर्थःघटादिकार्यवर्गस्य पूर्वं मिथ्यात्वस्य साधितत्वात् मिथ्याभूतशुक्त्यधिष्ठाकरजतबुद्धेरिववस्त्वन्तरासाधकत्वादिति भावः । द्वितीयं कल्पं दूषयति - नापीति।भवतापि=घटादिकार्ये समवायिकारणानुवृत्युपलब्धिमभ्युपगच्छता भवतापीत्यर्थःअतः स्वस्तिके रुचकानुपलब्ध्या न तस्य तत्प्रतिकारणत्वमितिभावःतृतीयं कल्पं दूषयति - नापि रुचकाश्रयभूतं हेमेति। अनुपलब्धेरिति- रुचकाकारविशिष्टस्यकारणत्वेन तत्कार्ये स्वस्तिके तस्योपलब्धिप्रसंगस्स्यादितिभावःएवं प्रबलतर्का नुगृहीतप्रमाणबलात् प्रथमं केवलप्रत्यक्षविरोधस्यपरिहारः उक्तः =कार्यकारणभावासंभवेन कार्यस्वरूपस्य दुर्निरूपत्वात्नन्वस्तु घटादिकार्यस्यासत्यत्वं तावता जगतः कथमसत्यत्वमित्यत्राह - ब्रह्मव्यतिरिक्तमिति।ननु कथं जगतोऽसत्यत्वं तदन्तर्गतमृदादेः घटादिकारणस्य सत्यत्वात्ककारणत्वेन स्सत्यत्वस्य त्वयाप्युक्तत्वादिति शंकां परिहरति - तदिदमिति।सुखप्रतिपत्तय इति । एतावतोक्तस्य न मृत्तिकादिसत्यत्वे तात्पर्यंपरंतु ब्रह्मव्यतिरिक्त मिथ्यात्वस्य सूखतया प्रतिपत्ति संपादनायतेषां काल्पनिकसत्यत्वमभ्युपगम्योक्तमिति ब्रह्मव्यतिरिक्तसर्वमिथ्यात्वेएव तात्पर्यमिति भावः । एवं ब्रह्म व्यतिरिक्तमिथ्यात्वे ब्रह्मकार्यत्वंप्रमाणमुक्तंअथ तत्रागममपि प्रमाणयति - ऐतदात्म्यमित्यादिना। अथागमस्य आदित्योयूप इत्यादाविव प्रत्यक्षविरोधादान्यपर्यमितिं शंकां परिहरति - नचेतिययथोक्तप्रकारेणेति। स्वरसतः शब्देन मिथ्यात्वस्य प्रतीयमानत्वेनान्यपरत्वासंभवात्न ह्यन्यार्थतया प्रतिपन्नस्य शब्दस्यान्य परत्वं युक्तम् । अन्यथाव्यवहारसामान्योच्छेदप्रसंगादिति भावः । ननु प्रतीयमानोप्ऽयर्थःप्रत्यक्षविरुद्धश्चेत् परित्याज्य एवेत्यत्राविरोधं दर्शयति - प्रत्यक्षस्येति।यथा च प्रत्यक्षस्य सन्मात्र विषयत्वं तथोपपादितमधस्वात् । उपक्रमोपसंहारदिलिङ्गैःआगमस्य प्रपञ्चमिथ्यात्वे तात्पर्यावगमात् प्रत्यक्षविरोधाभावाच्चनान्यपरत्वमित्याशयःविरोधाभ्युपगमेऽपि न क्षतिरित्याह - विरोधे सत्यपीति। अपिशब्दः विरोधस्स्थाभ्युपगममात्रत्वंव्यनक्ति ।असंभावितदोषस्येति। अनेन प्रत्यक्षस्य भेदवासनारूप दोषमूलत्वंसूचितम् ।चरमभाविन इति। अपच्छेदन्यायेन पूर्वस्य प्रत्यक्षस्य भेदवासनारूपदोषमूलत्वं सूचितम् । सद्भावादावित्यत्रादिशब्देन व्युत्पत्तिर्विवक्षिताप्रमितौ=प्रमितिहेतुत्वे । अर्थनिश्चायकत्वे इति यावत् । निराकांक्षस्य=प्रत्यक्षादिनिरपेक्षस्यनिरवकाशस्येति । अनेन प्रत्यक्षस्य विषयान्तर लाभरूपसावकाशत्वमर्थादुक्तम्बबलीयस्त्वादिति। अयमभिसन्धिः - शास्त्रस्य शब्दरूपत्वेन तत्स्वरूपग्रहणेतदर्थव्युत्पत्तौच प्रत्यक्षाद्यपेक्षत्वं लोकदृष्टं नापह्नोतुंशक्यं अथापि शास्त्रजन्यज्ञानस्य स्मृतेरि वानुभूतपदार्थविषयकत्वाभावेनअनन्यगोचरार्थ प्रकाशकत्वात् न प्रत्यक्षादि प्रमाणापेक्षा युक्ता,ततश्च प्रपञ्च मिथ्यत्वविषये शास्त्र प्रत्यक्षयोस्सत्यपि विरोधेअसंभावित दोषस्य पर भूतस्य निरवकाशस्य अर्थनिश्चये प्रत्यक्षाद्यनपेक्षस्यशास्त्रस्य बर्लायस्त्वं युक्तमिति बाध्यभूतं प्रत्यक्षं न श्वसितुमलमितिननु प्रपञ्चमिथ्यात्वे चेतनस्यापि जीवस्य मिथ्यात्वं स्यात् चेतनाचेतनात्मकत्वात्प्रपञ्चस्यततश्चापसिद्धान्तः इति शंकां चेतनस्य जीवस्य ब्रह्मरूपत्वेन प्रपञ्चानन्तर्गतत्वमुखेनपरिहरति - न चेत्यादिना । ब्रह्मण एव जीवभावे प्रमाणमाह - ब्रह्मैवहीति । अनेनेति अत्र श्रुतौ जीवेनात्मनेति सामानाधिकरण्य निर्देशोनैक्यावगतेःब्रह्मण एव जीवभावप्रतीतिरिति भावः । सर्वभूतेषु=सर्वशरीरेषु नन्वेकस्यैवानेकशरीरवृत्तित्वे उपलभ्यमानानेकत्वस्य कथं निर्वाहःइति शंकापरिहाराय एकत्वेऽपिनानात्वाविरोधबोधकं “एको देवः बहुधा निविष्टः इति वाक्यान्तरमुपात्तम्उपाधिभेदात् बहुधानिविष्टत्वमित्यविरोध इति ।नान्योऽतोऽस्ति द्रष्टेति।अत्र ब्रह्मव्यतिरिक्तद्रष्ट्टरूपचेतनस्य निषेधात् ब्रह्मणएवजीवभावइत्यबगम्यतेइति भावः ।।अधिकरणपूर्वपक्षी वैशेषिकः शंकते - नन्विति । प्रतिसन्धानं स्यादितियथैकशरीरे वर्तमानस्यैकजीवस्य प्रदेशभेदेन सुखदुःखप्रतिसंन्धानंतद्वत् सर्वशरीरेषु वर्तमानस्य जीवभाव मनुभवतः ब्रह्मण एकत्वात्प्रदेशभेदप्रयुक्त सुखदुःखप्रतिसन्धानं स्यात् । नचेष्टापत्तिःतथाऽदर्शनादितिभावः । एवं लौकिकदूषण मुक्तम् । अथ वैदिकदूषण मुच्यते - जीवेश्वरेति।एतत्द्यति - अत्र केचिदिति। ननु जीवानां प्रतिबिम्बस्थानीयत्वे ब्रह्मणःबिम्बस्थानीयत्वे च परस्परं भेदस्स्यात् बिम्बप्रतिबिम्बयो लौकेभेददर्शनात् । ततश्च पूर्वोक्तव्याधातः इति शंकते - नन्वितिसत्यंपरमार्थतइति। परमार्थतस्सत्यमित्यर्थः परमार्थतो न भिद्यन्तेइति सत्यमिति यावत् । काल्पनिकं = आविद्यकं =औपाधिकमिति यावत् ।शंकते - कस्येति । कल्पना = अविद्या ।परिहरति - नैतदेवमिति। अन्योऽन्याश्रयस्यपरिहारान्तरमाह - किं चेति । अवस्तुभूता=अपरमार्थभूता ।वस्तुदोषाइतिवस्तुदोषाणां वस्तुषु हि अनवक्लृप्त्यावहत्वमिति भावः । अनवकॢप्तिः=असिद्धिः । नन्वेवं सत्यवस्तुभूतायाःअविद्यायाः ब्रह्माश्रयित्वमपिस्यात् यदि स्वतो विशुद्धत्वेन ब्रह्मणः तदाश्रयत्वं न संभवतीतिमन्यसे तर्हि ब्रह्माव्यतिरिक्तस्यापि जीवस्य स्वतो विशुद्धत्वेननाविद्याश्रयत्वसंभव इति तत्कार्यजन्मजरामरणादिभ्रमानुपपत्तिरेवैत्यत्राहवस्तुत ब्रह्माव्यतिरिक्तनामिति।औपाधिकाशुद्धिसंभवादिति। अयं भावः - वस्तुतोमुखाव्यतिरिक्ते मुखप्रतिबिम्बे यथौपौधिकाशुद्धिसंभवः, मुखे च नतत्संभवः तथैव ब्रह्माव्यतिरिक्तेऽपिजीवे औपाधिकाशुद्धिः ब्रह्मणिच नेति व्यवस्था युक्तैवेति ।अविद्याश्रयत्वोपपत्तेरिति। अविद्यासंबन्धयोग्यत्वरूपस्वतश्शुद्धत्वप्रतियोग्याकार एव ह्यशुद्धिः सा च प्रतिबिम्ब भूतेजीवे नायुक्तेति भावः ।काल्पनिकत्वोपपत्तिरिति। जन्म जरामरणादेरित्यादिऔपाधिकाशुद्धेः ज्ञानानिवर्त्यत्वशंकां निरस्यति - प्रतिबिम्बेतियथा श्यमतायाः उपाध्यपसरणे़पगमेन मिथ्यात्वं तद्वदिति भावः । भ्रान्तिरेव=मिथ्यैव ननु मिथ्याभूताशुद्धिविषयकभ्रमे सति हि अविद्याश्रयत्वसंभवः, अविद्याश्रयत्वे सति उक्तभ्रमसंभवः इत्यन्योन्याश्रयः इति शंकां व्युदस्यति - जीवानां भ्रमस्येति।इत्येवं समादघत इत्यन्वयः । इदं मण्डनमिश्रमतम् । वाचस्मितिश्रादीनांबिम्बप्रतिबिम्बविषये अनाश्वासः अथापि मण्डमिश्राभिप्रायमपि स्वीकुर्वन्ति।।श्वतदेतत् ब्रह्माज्ञानवादी दूषयति - तदेतदिति। स्वस्मिन् भेदवादश्रद्धालुजनानांसबहुमानावलोकने लिप्सया अद्वैतानिपुणैः भेदवादेप्यकुशलैरुक्तमित्यर्थः।।किं जीवस्य कथमनाद्यविद्याश्रयत्वं अकल्पितस्वाभाविकरूपेण अथवाकल्पिताकारेण यद्वा कल्पिताकारविशिष्ट स्वस्वरूपेणेति विकल्पं हार्दंनिघाय प्रथमे दूषणमाह - जीवस्येति । द्वितीये तदाह - तदतिरिक्तेनेति।जडस्येति।अयं भावः ब्रह्म चिद्रूषं, कल्पितं तु जडं, तदुभयातिरिक्ताकारस्तु,नाद्वैतिभिरभ्युपेयते । अतःकल्पिताकारेणाविद्याश्रयत्वे कल्पितस्यजडस्यैवाविद्याश्रयत्व मुक्तं भवति नतु जीवस्येति । एत देवोभयव्यतिरिक्ताकारानभ्युपगमेनसमर्थयति - न खल्विति। तृतीयकल्पमनूद्य दूषयति - कल्पिताकारविशिष्टेनेतिसस्वरूपस्येति। अयं भावःस्वरूपस्य कल्पिताकारविशिष्टत्वं हि अविद्याश्रयत्वे एव संभवतिअनिद्याश्रयत्वं च विशिष्टत्वे एव, विशिष्टाकारे एवाभ्युपगमादित्यात्माश्रयःइति । अथ यदर्थं जीवाज्ञानवादाश्रयणं तन्न सेत्स्यतीत्यतोपि जीवाज्ञानवादःअनुपपन्नः इत्याह - किं चेति। दूषयितुं मोक्षस्वरूपं शिक्षयति - अविद्याविनाशएवेति। अत्रेमेविकल्पाऽभिप्रेताः । किमविद्या - एका प्रतिजीवंभिन्नावा प्रथमे नश्यति उत नश्यति । न द्वितीये भेदनिबन्धनजीव भेदः स्वाभाविकःउताविद्याकल्पितः । अविद्याकल्पितत्वपक्षे जीव भेदकल्पकाविद्याश्रयत्वंकिं ब्रह्मणः उतजीवानामितितत्राविद्यायाः एकत्वनाशाब्युपगमे दूषणमाह - तत्रैकस्मिन्निति। एकत्वपक्षेनाशानभ्युपगमपक्षमाशंक्य दूषयति - अन्यस्यामुक्तत्वादित्यादिना। बहुत्वपक्षंशंकते - प्रतिजीवमिति । मोक्ष्यते मुक्तो भविष्यति । भंन्त्स्यते=बद्धोभविष्यति । दूषयितुं विकल्पयति - प्रतिजीवमित्यादिना। स्वाभाविकत्वपक्षंव्युदस्यति - अनभ्युपगमादिति। अद्वैतहानिप्रसंगादिति भावः । जीवभेदस्यस्वाभाविकत्वेन स्वत एव भेदसिध्या तदर्थाविद्याकल्पनं व्यर्थमपीतिदूषणान्तरमाह - भेदसिध्यर्थस्येति। अथ जीवभेदस्याविद्याकल्पितत्वपक्षंदूषयितुं भेदकल्पकाविद्यायाः ब्रह्माश्रयत्वं वा जीवाश्रयत्वं वेतिविकल्पयति - अथाविद्याकल्पितइत्यादिनाप्रथमकल्पं शंकते - ब्रह्मण इति । द्वितीय माशङ्क्य निरस्यति - अथ जीवानामित्यादिना।जीवभेदकल्पकतया अविद्याऽभ्युपेता । साच जीवकल्पनात्प्राक् कथंजीवानाश्रयेत् जीवस्यैवासिद्धेरिति भावः । ननु बद्धमुक्त व्यवस्थासिद्धिहेतु भूताविद्याभिरेव जीवभेदसिद्धिरित्युच्यते इति शंकां मनूद्यमिथः संश्रयात्परिहरति । अथं प्रतिजीवमिति । बीजांकुरन्या येनान्योन्या- श्रयस्य परिहारासिद्धिमाह - नचात्रेति। अशकनीयता=साधयितुं न शक्यतेबीजांकुरस्थले उत्पाद्योत्पादकयोश्च बीजांकुरयोर्भिन्नत्वात्उत्पादकांकुरस्य उत्पाद्य बीजापेक्षत्वं उत्पादकबीजस्योत्पाद्यांकुराक्षत्वंवा नास्तिअत्र तु जीवस्य कल्पकाविद्यश्रयत्वकल्प्यत्वयोरभ्युपगमात् जीव भेदकल्पकाविद्याःकल्पनीयजीवापेक्षत्वमस्तीति वैषभ्यमिति भावः । ननु बीजांकुरस्थलेउत्पाद्योत्पादकव्यक्ति भेदवदत्रापि प्रवाहानादित्वाभ्युपगमेन अविद्याश्रयजीवकल्प्यजीवव्यक्ति भेदसिद्धेः न मिथः संश्रयः इति शंकामनूद्य परिहरति - अथेत्यादिना।भंगुरत्वमिति।प्रवाहानादिस्थले बीजांकुरयोर्भङ्गुरत्वदर्शनादत्रापि जीवानां भंगुरत्वमापद्यतेइति भावः । अधिकं दूषणमाह - अताभ्यागमेति । पूर्व पूर्वजीवाश्रिताविद्याभिःउत्तरोत्तरंजीवस्योत्पाद्यमानत्वात्पूर्वमविद्यमानस्य जीवस्य संप्रत्येवोत्पत्त्यापूर्वमनेनाकृतस्यकर्मणः इदंप्रथमतया संबन्धात् तज्जन्य सुखदुःखादिभाक्त्वप्रसंगःएवं जीवस्य नश्वरत्वेन तत्कृतकर्मणोऽपि नाशात् तज्जन्य फललोपप्रसंगःतथा श्रुत्युक्त जीवनित्यत्व विरोध प्रसंगश्चेति भावः । एवं जीवस्यधर्मिणः प्रवहानादित्वे उक्तस्य दूषणस्य जीवत्वरूपधर्मस्य तत्कल्पकाविद्यायाश्चप्रवाहानादित्वेऽपि समानत्वात्तदपि न युक्तमित्याह - एतेनेति । ब्रह्मणएव पूर्व पूर्वजीवाश्रिताविद्ययोत्तरोत्तर जीवत्वकल्पनं, तत्तदाश्रिताविद्ययाचतदुत्तरोत्तर जीवत्वकल्पन मिति प्रवाहानादित्वसिद्धार्थः । निरासमेवापादनमुखेनोपपादयति - अविद्याप्रवाहेति । ततः किमित्यत्राह - न घ्रुवरूपतेति । अथ जीवानां जीवभावस्यवा तत्तदविद्या कल्पितत्वे तत्तदविद्या विनाशे कल्पितस्यापि विनाशावश्यकत्वेनघ्रुवरूपत्वासंभवात् आमोक्षस्थायित्वमप्यभ्युपगतं भज्यत इति दूषणान्तरमाह - आमोक्षाच्चेतिजीवस्य=जीवभावविशिष्टस्य ।।अथाविद्यायाः अवस्तुरूपत्वेन पूर्वोक्तपरिहारमनूद्य दूषयति - यच्चोक्तविति।आवहन्तीति । तदयुक्तमित्यद्याहार्यम् । विद्यास्वरूपत्वं ज्ञप्तिस्वरूपत्वम्उउक्ताभिरूपपत्तिभिः=अन्योन्याश्रयादिभिः । अथजीवाज्ञानवादिमतेमोक्षानुपपत्तिरूप दूषणान्तरमाह - किंञ्च जीवाश्रयायाइति ।स्वरूपोच्छितिलक्षणो मोक्षस्स्यादिति।अयं भावः - ब्रह्मस्वरूपस्य नित्यमुक्तत्वेनब्रह्मणो मोक्षः इत्यसंभवात् जीवस्यैव मोक्षइति वक्तव्यत्वात् अविद्याविनाशेचजीवस्वरूपस्यैवोच्छित्यभ्युपगमे मोक्षस्य पुरुषार्थत्वं न स्यादितिविकल्पित शिरसि द्वितीयं दूषयतिनोचे दित्यादिना । कुतोऽनिर्मोक्षः इत्यत्राह - ब्रह्मस्वरूपेतिअविद्याविनाशेपि तत्कार्यजीवत्वा वस्थानस्याभ्युपगतत्वादिति भावः।।अथ शुध्यशुद्धिव्यवस्थोपपत्तिं परोक्तदृष्टान्तपर्यालोचनयैव अनूद्यव्दुस्यति - यच्चोक्तमित्यादिना। दृष्टान्ते अल्पत्वाद्यौपाधिकदोषाणामुपाध्यपगमेनाशाद् तदाश्रयप्रति बिम्बनाशश्च दृष्टः । तद्वदत्रापि औपाधिकदोषनाशे तदाश्रय प्रतिबिम्बस्थानीयजीवानां नाशावश्यकतया स्वरूपोच्छित्तिरुपमोक्षस्यैवसंभवेन मोक्षस्य पुरुषार्थत्वासिद्धिरिति भावः ।अपुरुषार्थ प्रतिभासानुपपत्त्यापि दूषणमाह - किंचेत्यादिना। दूषणंवक्तुमादौ पुरुषार्थस्वरूप - शिक्षण मुखेनापुरुषार्थ प्रति भासस्यावश्यकत्वंदर्शयतियस्य हीति। कस्यचित् दोषप्रतिभासस्यैवाभावे तदुच्छेदमस्यतं प्रति पुरुषार्थत्व संगतमिति भावः । एवं पुरुषार्थ स्वरूपं शिक्षयित्वाविकल्पयति - तत्र किमिति। दृष्टान्ते मुखतत्प्रतिबिम्ब तद्व्यतिरिक्तचेतनानांसत्वाभिप्रायेण दार्ष्टान्तिकेपि विकल्पत्रयोक्तिः । कल्पद्वयमप्येकेनदूषणेन दूषयति - आद्ययोरिति। मुखतत्प्रतिबिम्बयोः प्रतिभास शुन्यत्वंकुत इत्यत्राह - नहिमुखमिति। सर्वत्र रुपवदचेतन विशेष एव बिम्बं तस्यैवचप्रतिबिम्बं दृष्टं अतो बिम्ब प्रतिबिम्ब भावः अचेतनस्यैवप्रकृते च ब्रह्मजीवयोः बिम्बप्रतिबिम्बभावाभ्युपगमेनाचेतनत्वमावश्यकमितितयोर्दोष प्रतिभास शून्यत्वेनापुरुषार्थ प्रतिभासस्यैवानुपपत्त्यातदुच्छेदरूपपुरुषार्थः सुनरां न संभवतीति । ननु जीव ब्रह्मणोर पुरुषार्थरूप दोषप्रतिभासाभावः इष्ट एवेति चेन्मैवं तथा सति वेदान्तस्यैवानरम्भणीयत्वप्रसंगात्निरसनीयापुरुषार्थरूपदोषप्रति भासनिरासाय हि वेदान्तारम्भः। प्रथमकल्पेऽधिकंदूषणमाह - ब्रह्मण इति । जीवाज्ञानवादिनामपि भवता मन्ततो ब्रह्माज्ञानपक्षे एव प्रवेश इति भावः । अन्तिमं कल्पमपास्यति - तृतीयोऽपीति।द्रष्टुरभावदितिदृष्टान्ते मुखतत्प्रतिबिम्बव्यतिरिक्तश्चेतनविशेष प्रामाणिकः ।अत्रतु बिम्ब प्रतिबिम्बभूतब्रह्मजीवव्यतिरिक्तो द्रष्टा नास्तीतिवैषम्यमिति भावः ।एवं जीवाज्ञानवादिपक्षे अविद्याश्रयानुपपत्त्या दूषणमुक्तम् । अथाविद्याकार्यभ्रमाश्रयानुपपत्त्यादूषणमुच्यते - किं चाविद्याकल्प्यस्येति। कल्पकं=भ्रमाश्रय इत्यर्थःअविद्याजीव ब्रह्मणांकल्पकत्वं पूर्वपक्ष्यभिमतं हृदि विधाय क्रमेणदूषयति - नतावदिति। अचेतनत्वादिति । भ्रमाश्रयत्वस्य चेतनत्वव्याप्यत्वनियमादिति भावः । आत्माश्रयदोष प्रसंगादिति । जीवस्य जीवविषयभ्रमाश्रयत्वरूपकल्पकत्वाभ्युपगमे कल्पकसिद्धौ कल्प्यजीवसिद्धिः, जीवसिद्धेश्चस्वविषयभ्रमाश्रयभूतेन स्वेनैव सापेक्षत्वमित्यात्माश्रयपदोष प्रसंगइतिभावःदूषणान्तरमप्याह - शुक्तिकेति। दोषकल्प्यस्य शुक्तिकारजतादेः किंचिद्विषयकभ्रमाश्रयत्वादर्शनेनात्रापिअविद्यारूपदोषकल्प्यस्य जीवस्य भ्रमाश्रयत्वमनुपपन्नमिति भावः ।ननु रजतादेःदोषकल्प्यत्वेऽपि अचेतनत्वान्न भ्रमाश्रयत्वमिति चेत्न, दूरस्थत्वादि दोषकल्प्यस्य स्थाणुचोरस्य चेतनत्वेऽपि भ्रमाश्रयत्वादर्शनात्बब्रह्माज्ञानमेवायातमिति। अविद्याकल्प्यजीवविषयकभ्रमाश्रयत्वस्यब्रह्मण्यभ्युपगमे ब्रह्मण एवविद्याश्रयत्वं कुतो नेष्यते अशुद्धिरुपायाःअविद्यायाःशुद्धस्वरूपाश्रयकत्वममुपपन्नमित्यतोहि तन्न स्वीकृतम् । संप्रतिचाशुद्धिरूपभ्रमाश्रयत्वाभ्युपगमात्तत्कारणाविद्याश्रयत्वमप्यभ्युपगन्तुं शक्यमिति अस्मदभिमतं ब्रह्माज्ञानमेवायातमित्यर्थःएवमविद्यातत्कार्यभ्रमाश्रयानुपपत्त्या जीवाज्ञानपक्षो दूषितः अथब्रह्माज्ञानाभ्युपगमाय शिक्षयति - किंच्च ब्रह्माज्ञानानभ्युपगमइतिपाश्चात्त्यत्वेन बुद्धिस्थमुत्तरकल्प मनूद्य दूषयति - न पश्यतिचेदिति।ईक्षापूर्विकेत्यादि । अन्यथा श्रुतौ ईक्षापूर्वकमेव विचित्रजगत्सृष्ट्याद्युपदेशेनतद्वाधस्स्यादिति भावः । प्रथमकल्पमनूद्य तदभ्युपगमे स्वाभिमतंव्यनक्ति - अथपश्यतीति। ईक्षापूर्वकविचित्रजगत्सृष्ट्युपदेशोपपत्तयेब्रह्म जीवदर्शनपूर्वकमेव जगत्सृजतीति वक्तव्यम् । तत्र च ब्रह्मणोनिर्विशेषत्वेनअपरमार्थ जीव दर्शित्वं कथमित्या शंका्यां अविद्ययैव तदिति स्वीकर्तव्यत्वात्ब्रह्माविद्याभ्युपगम एव फलतीति भावःअथ - माया परभ्रमहेतुः । अविद्या स्वभ्रमहेतुः । तत्र ब्रह्मणः मायिनंतु महेश्वरमिति प्रमाणबलेन मायावत्वेपि नाविद्याश्रयत्वं अतो जीवाज्ञानवादएव युक्त इति पक्षोपि उक्तहेतुनैव निरस्त इत्याह - अत एवेति। निर्विशेषब्रह्मणःविचित्रजगत्सृष्याद्यर्थापरमार्थ जीवदर्शनार्थं अविद्यान्वयस्यावश्याभ्युपगन्तव्यत्वदित्यर्थः । नन्वविद्यया विनापि जगत्सृष्ट्याद्यर्थ जीवदर्शनंब्रह्मणो भवतीत्यत्राह - अज्ञानमन्तरेणहीति। ब्रह्मणि परभ्रमहेतुभूतमायायाःअभ्युपगमेपि स्वभ्रमहेतुभूताविद्यायाः अनभ्युपगमेन अपरमार्थजीदर्शनंन संभवति इति भावःमायित्वमात्रमत्रमप्रयोजकमिति व्यक्तयै - मायिनोपीत्युक्तम् । नन्वपुरुषार्थजीवदर्शनार्थं हि ब्रह्मणोऽविद्याऽभ्युपगन्तव्या । जीवदर्शनमेवनस्वीक्रियते तेन विनापि परभ्रमहेतुभूतमायत्रैव पर मोहन संभवात्अतो न ब्रह्मणोऽविद्याश्रयत्वमभ्युपेत्यमित्यत्राह - न च मायावीति।परभ्रमहेतु भूतया मायया परदर्शनपूर्वकमेव हि परमोहन मनुभवसिद्धमितिभावः । ननु तर्हि मायाया एव परभ्रमहेतुत्ववत् स्वस्या परमार्थ जीवदर्शनहेतुत्वमपीष्यतेअतो न किंचिदपहीनमिति शंकामपास्यति - नापि मायेति। मायायाः परमोहनहेतुत्वस्यैवानुभवसिद्धत्वेनतस्या एव मोहयितुस्स्वस्यापि मोहनीय दर्शन हेतुत्व मनुपपन्नमितिभावःननु ब्रह्मगत मायायाः लोक दृष्टमायाविलक्षणत्वात् अस्याः परभ्रमहेतुत्वंस्वभ्रमहेतुत्वमपीति अनयैव ब्रह्मणो जीवदर्शनं जीवमोहनं चेति शंकते - अथब्रह्मणोमयेति। अस्माभिः ब्रह्मण्यविद्या स्वीकृता,युष्माभिश्च माया, स्वभ्रमजनकत्वंतूभयोस्तुल्यम् । नाम्न्येवतु विप्रतिपत्तिः । अतो ब्रह्ममायावादस्यब्रह्माविद्यावादे एव पर्यवसानमित्याशयेन समाधत्ते - तर्हि परिशुद्धस्येति।ननु शुक्तौ रजतदर्शनहेतोरविद्यात्वेन व्यवहारात् विपरीत दर्शनहेतुरेवाविद्येत्यभ्युपेत्यम्मायायास्तु मिथ्याभूत वस्तु मिथ्यात्वेनैव दर्शवतीति न विपरीतदर्शनहेतुत्वंअतो मायाविद्ययोस्स्वरूपभेदः आवश्यकः । इत्थं च ब्रह्मणि विपरीतदर्शनहेतुभूताविद्यायाः अनभ्युपगमेपि न किं चित् बाधकम् । मिथ्याभूतजीवविशेष्यकमिथ्यात्व प्रकारक ज्ञानसाधन मायाया अभ्युपगमेनैवापरमार्थजीव दर्शित्वोपपत्त्याविचित्रजगत्सृष्ट्याद्युपपत्तेः इति परेषांमत मनूद्य परिहरति - अथमतमित्यादिनाचन्द्रैकत्व इति । अयं भावः - शुक्तौ सत्यत्वेन रजतदर्शनहेतुरविद्येत्युच्यतेएवं चन्द्रैकत्वविज्ञाने सति अपरमार्थत्वेन ज्ञायमानद्विचन्दज्ञानहेतुरप्यविद्येत्येवोच्यतेअसत्ये सत्यत्वेन दर्शनहेतोरिवासत्यत्वन दर्शनहेतोरपि दोषत्वात्अतः अपरमार्थ प्रतिभासहेतुरविद्येति ब्रह्मणि मिथ्यात्वेन दर्शनसाधनभूत=मायायाः अनभ्युपगतयाः अपि अविद्यात्वमेवेति भावः । अपिच मायायाः मित्यात्वेन दर्शनहेतुत्वे मायाविनो ब्रह्मणः मिथ्यात्वेनस्वव्यतिरिक्तविषयकज्ञानावश्यकत्वेन मोहकत्वमेन न संभवतीति दूषणान्तरमाह - यदिच ब्रह्मेति । कुतो न मोहयतित्यत्राह - न हीति। यद्वा द्वौ चन्द्रौइति ज्ञानं अविद्याकार्यं इति सं प्रतिपन्नम् । न चैतत् तिमिरादिदोषकार्यमेवेतिवाच्यम् । तथा सति रजत भ्रमस्यापि दोषकार्यत्वेनाविद्याकार्यत्वाभाव प्रसक्तेः । अतश्च “एकः चन्द्रः इति ज्ञानदशायामेव जायमानत्वात्मिथ्याभूतस्य चन्द्र हित्वस्य मिथ्यात्वेनैव दर्शनं कुर्वन्तीयंअविद्याइति माया अविद्ययोः भेदोन सेत्स्यतीतिप्रकारान्तरेण मायाविद्ययोस्स्वरूप भेदमाशङ्क्य परिहरति - अथापुरुषार्थेति।तद्धेतुरविद्येविति।अयमाशयः - अविद्यायाः अपुरुषार्थापरमार्थ दर्शनहेतुत्वं मायायास्तुकेवलमपरमार्थदर्शनहेतुत्वं नतु अपुषार्थापरमार्थ दर्शनहेतुत्वंअतो भेदसिद्धिरिति हि भवतामभिसन्धिः । अयं चानुपपन्नः । अविद्यायाअपि केवलमपरमार्थ दर्शनहेतुत्वात् । चन्द्रैकत्वे ज्ञायमाने द्विचन्द्रज्ञानहेतुरविद्यैव । तज्जन्यं च द्विचन्द्रज्ञानं ंअपरमार्थमपिना पुरुषार्थःतस्य दुःख हेतुत्वाभावात् । अतः एवं विभागः न युक्तइति । नच द्विचन्द्रज्ञानस्य भयादिजनकत्वेन दुःखजनकत्वादपुरुषार्थत्वं शक्यं, चन्द्रैकत्वज्ञानदशायां तस्य जायमानस्य प्रबल प्रमाणवाधितत्वेन दोषवशात् मिथ्याज्ञानानुवृत्तापिभयादिकार्यस्य निवृत्तत्वात्नन्वस्याः केवल मपरमार्थ दर्शनहेतुत्वान्नदोषत्वमित्यत्राह - तन्निरसनेचेति।एवं मायायाः पराभिमतं केवलापरमार्थ दर्शन हेतुत्वमिवाविद्याया अपिकेवलापरमार्थदर्शनहेतुत्वमुपपाद्य मायाविद्ययोः पराभिमतोविभागःनिरस्तः । अथ पराभिमतरीत्यैव अविद्यायाः अपुरुषार्थ दर्शन हेतुत्वमिवमायाया अपि अपुरुषार्थ दर्शनहेतुत्वमावश्यकमिति मयाविद्ययोः विभागएव नसंभवतीत्याशयेन अविद्याया इव मायाया अपि अपुरुषार्थ दर्शन हेतुत्वंस्थापयति - यदि चेत्यादिना । अनुच्छेद्यतयेति ।अपुरुषार्थ हेतो रेवोच्छेद्यत्वात्मायायाः अपरमार्थदर्शनहितुत्वेपि अपुरुषार्थ दर्शनहेतुत्वाभावस्यभवदभिमतत्वेनोच्छेद्यत्वं न संभवतीति नित्या ब्रह्मस्वरूपानुबन्धिनीस्यादित्याशयःअथवा - ननु चन्द्रैकत्वे विज्ञायामाने अपरमार्थद्विचन्द्रज्ञानहेतुभूताविद्यायाअपि अपुरुषार्थदर्शन हेतुत्वं स्वीकर्तव्यम् । अन्यथा तन्निरसनप्रवृत्त्यनुपपत्तेः अपुरुषार्थदर्शनहेतोरेवोच्छद्यत्वात् । न ह्यपरमार्थदर्शनहेतुभूत वस्तुमात्रोच्छेदे जानानां प्रवृत्तिः दृश्यते इत्यत्रोक्तंदूषणं भवतामपि समानमित्यभिप्रयत्नाह - यदिचेति। अपुरुषार्थदर्शनहेतोरेवोच्छेद्यत्वात्मायायाश्च केवलापरमार्थदर्शनहेतुत्वमात्रस्य भवदभिमतत्वेन तस्याअप्यनुच्छेद्यत्वंस्यात् । इत्थंच ब्रह्मस्वरूपानुबन्धीनीति नित्यैव ब्रह्मणो मायाआपद्यतेयदिचैतद् दोषपरिहाराय मायाया अप्यपुरुषार्थ दर्शनहेतुत्वमिष्येतन तर्हि माया विद्ययो र्विभागो भवदभित स्सेत्स्यतीति ब्रह्ममायावादःब्रह्माज्ञानवादे एवागतस्स्यादिति भावः । ननु मायायाः अपरमार्थदर्शनहेतुत्वमात्र मेवेष्यते । अतो मायाविद्ययोर्भेदः एवं तर्ह्यनुच्छेद्यत्वेनस्वरूपानुबन्धिनीति नित्यत्वं प्रसज्यत इति चेत्तदिष्टमेवास्माकमितिशंकते - अस्त्विति। परिहरति - द्वैत्तेति। अपरमार्थदर्शन हेतुमायायाःनित्यत्वेतज्जन्यापरमार्थद्वैतदर्शनमपि सर्वदा स्यादिति भावः । ननु तदिष्टमेवकिं न स्यादित्यत्राह - यत्र हीतिअद्वैतश्रुतयः प्रकु प्ये युरिति । सर्वदैव द्वैतदर्शनाभ्युपगमेकदाचिदद्वैत दर्शन बोधकश्रुतीनां विषयाभावेन बाधितार्थकत्वं स्यादितिभावः । यत्र हि द्वैतमिव भवतीति द्वैतश्रुत्युपादानं तु दृष्टान्तार्थम्यथा सर्वदैवाद्वैतदर्शनाभ्युपगमे मायया कदाचित् द्वैतदर्शनबोधकश्रुतीनां व्याघातः तथैव विपर्ययेपीति । नन्वद्वैतश्रुतीनां नैवव्याकोप संभवः परमार्थ भूताद्वैत तद्दर्शन विषयकत्वत्तासां, इत्थचापरमार्थमायाजन्यद्वैतदर्शनस्य सर्वदा सत्वेपि परमार्थद्वैतदर्शनादेः कदाचित्संभवेपिभिन्नविषयत्वेन विरोधाभावः इति शंकते - परमार्थ विषयेतिसमाधत्ते - अपरिच्छिन्नेति। अयं भावः - अस्तु मायायाः अपरमार्थत्वं,अद्वैत तद्दर्शनादेः परमार्थत्वंच, अथापि माया दर्शनं ब्रह्मणोन संभवति । तदर्थेच्छाया एवासंभवात् । आनन्दाद्यनुभवार्थं हि इच्छयामायादर्शनमिति वक्तव्यम् । स्वरूपस्यैवा परिच्छिन्नानन्दरूपत्वेनतदितरत्रेच्छैव न धटते उत्पत्तुम् । अस्तुवा तदुत्पत्तिः अथापिमायायाः अपरमार्थत्वेनाविद्यामन्तरेणच तद्वर्शनमनुपपन्नम् । नह्यपरमार्थरजतदर्शनमविद्यामन्तरेणोत्पद्यते इति भावः । तद्वत्ता= अविद्यासंबन्धः।। एवं ब्रह्मणः अपरिच्छिन्नानन्दस्वरूपत्वेनापरमार्थ मायादर्शनादिकंनोपपद्यते इत्युक्त्वा प्रयोजनाभावादपि ब्रह्मणो मायावत्वमनुपपन्नमित्याह - किञ्चापरमार्थभूतयेतिअपुरुषार्थ दर्शनहेतुत्वाभावेन निरसनीयत्वाभावमभिप्रेत्य नित्ययेत्युक्तम्ललोकदृष्टमायाविनः परमोहनमिव जीवमोहनमेवात्रप्रयोजनमिति शंकते - जीवेति।स्वयमपुरुषार्थत्वात्प्रयोजनवत्वाभावाच्च तत्प्रयोजनकत्वमपिमायायाः अनुपपन्नमित्याशयेनसमाधत्ते - अपुरुषार्थेनेति ।ननु स्वयंपुरुषार्थत्वाभावेपि जीव मोहनस्यक्रीडारूप प्रयोजनवत्वात् नानुपपत्तिरित्याशयेन शंकते - क्रीडेतिचेदिति।ब्रह्मणः अपरिच्छिन्नानन्दस्वरूपत्वेन क्रीडया साध्यस्यान्यस्याभावात्क्रीडाया अपि पुरुषार्थत्वं न संभवतीत्यभिप्रयन् परिहरति - अपरिच्छिन्नेतिलोकदृष्टप्रक्रियया शंकते - परिपूर्णेतितत्प्रक्रियायाः प्रकृतेऽनुपपत्तिं प्रतिजानीते - नैवमिति। अनुपपत्तिमेवविवृणोति - नहीति । क्रीडोपकरणानां वस्तुतोऽपरमार्थत्वेपि तत्प्रतिभासाभावेन क्रीडाद्युपपत्तिः सुवचेति शंकापरिहाराय - अपरमार्थभूतयाप्रतिभासमानैरित्युक्तम् । दूषणान्तरमाह - मायेति । ब्रह्म, मायाश्रयभूतं,जीवस्त्वविद्याश्रयभूत इति आश्रयविभागेन हि मायाविद्ययो र्विभागोऽभिमतःसच न संभवति । अन्योन्याश्रयादिभिर्जीवस्याविद्याश्रयत्वे दूषणस्योक्तत्वात्जीवस्याविद्याश्रयत्वासंभवेन आश्रयविभागास्यैवनुपपत्ते रिति भावः।। एवमुक्तहेतुबलेन मायाविद्ययो र्विभागा संभवात् ब्रह्मण एवा विद्याश्रयत्वमभ्युपेयमित्युपसंहरतिअतो ब्रह्मैवेत्यादिअथ जीवाज्ञान वादहेतुभूतां ब्रह्माज्ञानवादिस्वमते परेणोक्तां बन्धमोक्षादिव्यवस्थानुपपत्तिमनूद्यापास्यति - यत्तु बन्धमोक्षव्यवस्थेति। ब्रह्माज्ञानवादितंप्रति न तत् चोद्यं अनिष्टत्वाभावादित्यर्थः । कुत इत्यत्राहएकस्यैवेति।ननु बद्धमुक्तादिव्यवस्थायाः अभावे परिदृश्यमानः बद्धमुक्तादिव्यवहारःकथंधटतामित्यत्राह - व्यवह्रियमाणायाश्चेति। बद्धमुक्तादिव्यवस्थायाकाल्पनिकत्वमस्तुअस्मदभिमतं च तत् । अथाप्येकयाऽविद्यया काल्पनिकत्वंन संभवति कल्प्यमान बहुत्वेन कल्पकाविद्यायाः बहुत्वात् ।इत्थंचाविद्याबाहुल्येन तत्तज्जीवाश्रयत्वमेवतासामुक्तमिति शंका मपनुदति - स्वप्नदर्शिनइवेतिअयमाशयः - बहूनामपि स्वाप्नपर्दाथानां काल्पनिकत्वाविशेषेण यथैकयैवाविद्ययोपपत्तिःतथैव सर्वासामपि बद्धमुक्तादिव्यवस्थानामेकयैव ब्रह्माविद्ययोपपत्तिरितिनानुपपत्तिः । अन्यथानुपपन्नत्वे हि कल्पकान्तरापेक्षा । अत्रत्वन्यथैवोपपन्नत्वात् न तत्कल्पनाय कल्पकाविद्यान्तरोपेक्षा युक्तेतिभावः । बुद्धिसौकर्याय दृष्टान्तं विशदयति - स्वप्नदृशेति। हिः प्रसिद्धौउक्तयुक्त्यैव अविद्याभेदकल्पनमपि निरस्तमित्याशयेनाह - अत एवेति।कल्प्यमानबाहुल्येऽपि एकेनैव कल्पकेनोपपत्तेर्दृष्टान्तसिद्धत्वादित्यर्थः । ननु श्रुतिप्रतिपन्ने़र्थे का विप्रतिपत्तिः । श्रुतिर्हि अविद्याभेदं प्रतिपादयति ।श्रुत्येकसमधिगम्यश्चार्थो यथाश्रुति प्रतिपत्तव्यः, कल्प्यमानार्थेएव लाघबगौरवविचारावसर इत्यत्राह - कल्पनमपि न युक्तिमदिति। मायाभिःपुरुरूप ईयते इत्यादौ बहुवचनं तु कार्याविद्याबाहुल्याभिप्रायकमितिभावः । ननु बन्धमोक्षव्यवस्थायाः पारमर्थिकत्वात् परमार्थविलक्षणबहुकार्याणांच बद्व हेत्वपेक्षत्वात् नैकाविद्याकल्पनं युक्तिमदित्यत्रनैतद्दूषणं भवता वक्तुं शक्यं त्वयापि बन्धमोक्षव्यवस्थायाः अपारमार्थिकत्वाभ्युपगमात्अन्यथाऽपसिद्धान्तादि त्यभिप्रयन्नाहपारमार्थिकीतिएवं बन्धमोक्षादिव्यवस्थायाः काल्पनिकत्वेऽनुग्राहकतर्कमुक्त्वातदनुग्राह्यमनुमानं दर्शयति - प्रयोगश्चेति।एवं अविद्याभेदं निरस्यप्रसंगात् आत्मभेदमपि निरस्यति ।शरीरान्तराण्यपीति। अनेन जीवाज्ञानवादिमतेऽपिदूषणं फलितम् । एवं शरीरान्तराणामप्येकात्मवत्ववत् एकाविद्याकल्पितत्वमपिसुसाधमित्यभिप्रयन्नाह - शरीरान्तराण्यपि मदविद्याकल्पितानीति। अत्रोक्ताःप्रत्येकनिरपेक्षाःइत्याशयेनवाशब्दः । अथात्मैक्ये व्यतिरेक्यनुमानमाह - विवादाध्यासितमिति।आत्मैक्यवादिनः स्वस्य मते चेतनजातस्याप्रामाणिकत्वेन पक्षासिद्धिरित्यतोविवादाध्य सितमित्युक्तम्पूर्वत्र सर्वशरीराणामेकात्मकत्वस्थापनेनात्मैक्यं प्रत्यपादि ।अत्रतु सर्वचेतनस्यापि स्वाभिन्नत्वस्थापनेनात्मैक्यमिति भिदा ।ननु सर्वात्मनामेकत्वे कथं स्वपरविभोगोपपत्तिरित्यत्रोपसंहारमुखेनसमाधत्ते - अतःइति । यथा बद्धमुक्तादि व्यवस्थानां काल्पनिकत्वं,तत्र चैकाविद्याकल्पितत्वं तथैव स्वपरविभागव्यवस्थाया अपीति भावःननु जीवाज्ञानवादिमते बद्धमुक्तादिव्यवस्थायाः व्यावहारिकत्वेनापारमार्थिकत्वात्अविद्याकल्पितत्वमिति वस्तुतो बद्धमुक्तादिव्यवस्थाया एवाभावेनतेन ब्रह्माज्ञानवादिमते बद्धमुक्तादिव्यवस्थानुपपत्तिरूपदोषोपपादनंकथं, सत्यत्वेनाभिमतायाः तद्वचवस्थाया दुरुपपादत्वमेवेति प्रतिजानीते - द्वैतवादिनापीति।उक्तजीवाज्ञानवादि ब्रह्माज्ञानवादि समुच्चयार्थो़पिशब्दः । ननुकथमिदमुपपद्यते अज्ञानवादिमत इवास्मन्मते बद्धमुक्तव्यवस्थायाःअपारमार्थिकत्वाभावादित्यत्राह - अतीतानामिति।अमुक्तानुपपत्तेरितिइत्थंच सर्वस्यापि मुक्तत्वावश्यकत्वेनायं मुक्तः अयं च बद्धःइति परिदृश्यमाना व्यवस्था कथं सूपपादेति भावः । अथ शास्त्रसिद्धकल्पानत्यवत्क्रियते । दोषस्य समानत्वात् । अथात्र काणादैरेव तदनुपपत्तिरूपदूषणमत्र उच्यते इति चेत्? तेषामपि मते - शास्त्रसिद्धात्मानन्त्यस्याप्यावश्यकतयाअमुक्तसद्भावो पि युक्त इत्याशंकते - अनन्तत्वादिति। आत्मनामनन्तत्वमेवासिद्धंयेनामुक्त सद्भावो़पि शक्य शंक इत्यभिप्रयन् अनन्तत्वस्वरूपं पृच्छति - किमिदमिति।यद्वा - आत्मनामनन्तत्वमेव न संभवतिदेशकालपरिच्छेदाद्यभावरूपस्य तस्यजीवात्मन्य प्रामाणिकत्वादित्याशयेनानन्तत्व स्वरूपं पृच्छति - किमिदमिति।ननुजीवात्मगतमनन्तत्वं असख्येयत्वरूपमेव नतु ब्रह्मणीव देशकालाद्यपरिच्छेदरूपंतत् इत्याशयेन शंकते - असङ्खयेयत्वमिति। इदमपि जीवात्मन्यसंभवीत्याशयेनसमाधत्ते - भूयस्त्वादिति। सर्वज्ञस्येति हेतुगर्भ विशेषणम् । हेतुगर्भत्वमेवव्यनक्ति - तस्यापीति। ईश्वरस्यापीत्यर्थः । अशक्यत्वे संख्यातुमशक्यत्वेइत्यर्थः । नन्वात्मनामसख्येयत्वेपि न सर्वज्ञत्वापगमः तेषा निस्संख्यस्वभावत्वात्,परमात्मनश्च यथावस्थितार्थ ग्राहित्वात् अन्यथा भ्रान्तत्वापातात्नह्यविद्यमानशशविषाणकूर्मरोमादिज्ञानवतो यथार्थदृष्ट्टत्वमित्यभिप्रायेण पुनः शंकते - आत्मनामित्यादि। किमात्मनां भिन्नत्वं उताभिन्नत्वंअभिन्नत्वेऽस्मन्मत प्रवेशापत्या अविद्यातत्कार्याद्यभ्युपगमापातेनापसिद्धान्तः । भिन्नत्वे च सङ्ख्यावत्वमावश्यकं भिन्नानांमाषसर्षपादीनां संख्यावत्वदर्शनादित्याशयेन समाधत्ते - भिन्नत्वेइतिअनुग्राह्यंप्रमाणमाह - आत्मानइति । माष सर्षपेत्यादि । संख्यावतांतरतमभावभावेपि सर्वत्र सङ्ख्यावत्वमविशिष्टमिति भावः । एवमात्मनांभिन्नत्वे संख्यावत्वस्यावर्जनीयतया कल्पानन्त्येन सर्वेषां मुक्तत्वावश्यकतयामुक्तानुपपत्तेः बद्धमुक्तव्यवस्थायाः दुरुपपादत्वमुक्तम्अथ पूर्वोक्तं स्वाभिमत मात्मनामभिन्नत्वेमेव स्थापयितुं भिन्नत्वेदूषणं दर्शयति - भिन्नत्वेचेति।जडत्वमनात्मत्वं क्षयित्वंचेति। अनेनव्यतिरेक्यनुमानत्रयं विवक्षितं, आत्मा न भिन्नः अजडत्वात् आत्मत्वात्अक्षयित्वाच्च । यत् भिन्नं भवति न तदजडं आत्मा अक्षयिचेति । दूषणान्तरंच दर्शयतिब्रह्मणश्चेति। ननु किमिदमनन्तत्वं तच्च भेदवादे कुतोनस्यादित्यत्राह - अनन्तत्वंनामेति। ननु ब्रह्मणा वस्तुतो विलक्षणत्वमस्तुवस्तुपरिच्छेदाभावोऽप्यस्तु इत्यत्राह - वस्त्वन्तरभाव एवहीति। वस्त्वन्तरभावरूपस्य वस्तुतःपरिच्छेदस्य वस्त्वन्तरविलक्षणे ब्रह्मणि सत्वेनतदभावरूपस्य वस्तुतो़परिच्छेदस्य सद्भावोऽनुपपन्नः । अस्मन्मते तु भेदवादानभ्युपगमेनवस्त्वन्तरविलक्षणत्वस्यैवाभावेन वस्तुतोऽपरिच्छेदो घटते एवेतिभावः । नन्वनन्तत्वघटकस्य वस्तुतः परिच्छन्नत्वाभावस्य ब्रह्मण्यनुपपन्नत्वेऽपितद्धटकदेशकालपरिच्छेदरहितत्वस्य बाधाभावेनानन्तत्व सामान्यस्य कथमनुपपत्तिरित्यत्राह- वस्तुतः परिच्छिन्नस्येति। देशकालपरिच्छिन्नत्वस्य वस्तुतः परिच्छेदव्याप्तत्वेनवस्तुतः परिच्छिन्ने ब्रह्मणि देशकालापरिच्छिन्नत्वं न युज्यतेइति भावः । अथ देशकालपरिच्छिन्नत्वस्य वस्तुतःपरिच्छेदव्याप्तत्वंदृष्टान्तेन दृढीकरोति - वस्त्वन्तराद्विलक्षणत्वेनेतिनन्वनन्तत्वं ब्रह्मणि न घटतां नाम किंततो नः छिन्नमित्यत्रानिष्टमाह - एवंचेति।सर्वप्रकारपरिच्छेदरहितत्वमिति । निरूपपदस्यानन्तपदस्यासंकोचात्त्रिविधपरिच्छेद राहित्यार्थकत्वादित्याशयः । एवं ब्रह्मणः वस्तुपरिच्छिन्नत्वस्थापनेनकालाद्यपरिच्छेदमुक्त्वा अपरिच्छन्नस्य ब्रह्मणः परिच्छिन्नत्वापत्तिरूपदूषणमुक्तम्अथ कालपरिच्छिन्नत्वेनाविकारस्य ब्रह्मणः सविकारत्वप्रसंगमापादयति - उत्पत्तिविनाशादयश्चेतिननु नित्ये ब्रह्मणि कथमुत्पत्तिविनाशाख्यविकारवत्वमित्यत्राह - कालपरिच्छेदएवेतिअनेन निर्विकारत्व श्रुतिविरोध उक्तःएवमुक्तं ब्रह्मणोऽविद्याश्रयत्वं बन्धमोक्षसुखदुःखादिव्यवस्थानांव्यावहारिकत्वं च निगमयति - अतइत्यादिना। ननु ब्रह्मणः एवाविद्याश्रयत्वेपिजगतस्तदनन्यत्वमभिमतं कथमित्यत्राह - तस्मादेकमेवेति। विवर्तते इतिअध्यासाधिष्ठानं भवति । नतु स्वयंपरिणमते अविकारित्वादित्यर्थःपपरमार्थतो ब्रह्मव्यतिरिक्ताभावादिति ।ब्रह्मण एव परमार्थत्वात्तदतिरिक्तस्य सर्वस्यापि काल्पनिकत्वात् तादृशब्रह्मणः परमार्थभूतमन्यत् न जगदिति जगतोऽनन्यत्वसिद्धिरित्याशयः ।।एवं स्वोक्तशंकापरिहरणाय प्रवृत्तं जीवाज्ञानवादिनं दूषितवन्तंब्रह्माज्ञानवादिनं च वैशेषिकः प्रतिवदति - अत्रोच्यतेइति । अविद्ययाब्रह्मणस्तिरोधानेऽपि अतिरोहितांशोऽपि तिष्टतीति शंका परिहारायनिरंशस्येत्युक्तम् ।स्वरूपनाशप्रसंगेनेति। प्रकाशनिवृत्तिर्हितिरोधानंजडस्यवस्तुनः प्रकाशव्यतिरिक्तत्वात् तिरोधानेन प्रकाशनिवृत्तावपिवस्तुस्वरूपस्थितिर्युक्ता । प्रकाशैकरसस्य वस्तुनः प्रकाशनिवृत्तिरूपतिरोधानेस्वरूपनिवृत्तिरेव स्यात् । नहि तद्गततया प्रकाशाख्यः कश्चिद्धर्मोऽभ्युपगतःयेन तद्विनाशेऽपि स्वरूप मात्रमवतिष्ठेततिरोधानासंभवादिभ्यःइति । तिरोधानानुपपत्यादिभ्य इत्यर्थः । आदिशब्देनोक्तानामन्यानुपपत्तीनांमहत्वम् ।स्ववचनविरुद्धंचेति। ब्रह्मणो निर्विशेषत्वमभ्युपेयतेनित्यत्वादिचेष्यते तत्साधक वचनानि चोच्यन्ते । एव च निर्विशेषत्वंनित्यत्वादिसाधकवचनविरुद्धमेव, नित्यत्वादिस्वाभिमतविशेषैः सविशेषत्वापातादित्यर्थःपपूर्व मेवोक्तम् । अस्मिन्नेव प्रबन्धे जिज्ञासाधिकरणे । सिद्धान्तिनैवोक्तमित्यभिप्रायः । एवमन्यत्रापि । निरसितुं चोद्यांशमनुवदति - यत्पुनरुक्तमितिभ्रमः मिथ्याभूतम् । निरस्यति - तदयुक्तमिति । युक्तिरस्तीत्यभिप्रायेणशंकितमर्थ मनूद्य परिहरति - यत्वनुवर्तमानस्येतिपूर्वमेव परिहृतमिति । सोपाधिकत्वकालात्ययापदिष्टत्वस्ववचनविरोधैःअनैकान्त्यादिभिश्च परिहृतमित्यर्थः । अथ कार्यसामान्यस्य साधितंमिथ्यात्व मनूद्य परिहरति - यच्चेति। उपलभ्यमानत्वविनाशित्वाभ्यां=प्रतीयमानत्वबाधितत्वाभ्यामित्यर्थः । सच्चेन्न बाध्येत असच्चेन्नप्रतीयते इति हि तैः सदसदद्विलक्षणत्वं स्थाप्यते तेनच मिथ्यात्वम्असत्=अनुपपन्नमित्यर्थः । अनुपपन्नत्वे हेतुमाह - उपलब्धीति। नन्वनित्यत्वंमिथ्यात्वमुभयमेकरूपमेवेति चेत्तर्हि मिथ्यात्वानुमानं सिद्धसाधनम्उपलब्धिविनाशयुक्तस्यानित्यत्वापर पर्यायमिथ्यात्वे़विवादात् । यदितूभयमपि विलक्षणमिष्यते तर्हि सोपाधिकत्व दूषणंजागरुकमित्यभि प्रयन्नाह - यद्देशेति। एवं मिथ्यात्वसाधकपराभिमतानुमानंनिरस्तम् । अथ सत्यत्वसाधनाय प्रत्यनुमानमपि दर्शयति - प्रतिप्रयोगश्चेति।देशकालादिप्रतिपन्नोपाधावबाधितत्वादिति। अथ कारणस्य कार्यं प्रत्यारम्भकत्वंन संभवतीति परोक्तं दूषणमनूद्य परिहरति - यच्चोक्तमित्यादिना। समवहितत्वं=समन्वितत्वम्कारणान्तरायत्तस्य= कर्मेश्वरसंकल्पाद्यायत्तरयेत्यर्थः । एतदायत्तत्वाभावात्=विकारायत्तत्वाभावादित्यर्थः । अयमभिप्रायः - कारणस्याविकृतस्य विकृतस्य च कार्योत्पादकत्वंन युक्तंअविकृतस्यैवोत्पादकत्वे सर्वदोत्पादकत्वापातात् । विकृतस्य तथात्वेऽनवस्थापातात्देशकालादिसंबद्धस्योत्पादकत्वमपि नयुक्तम् । तत्रापि । किमविकृतस्यदेशकालादिसंबन्धः उत विकृतस्येति विकल्पे उक्तदोषसत्वादिति पूर्वंशंकितम् । एतच्च नोपपद्यते देशकालादिसंबद्धस्यैवाविकृतस्योत्पादकत्वाभ्युपगमात्देशकालादि समवधान मप्यविकृतस्यैव । नचैतावता देशकालादि संबन्धोपिअविकृत्वाविशेषात् सर्वदा स्यादिति मन्तव्यम् । देशादिसंबन्धस्यविकारानपेक्षत्वेपि ईश्वरसंकल्पादि कारणान्तरापेक्षयैवोपपत्तेःइति । उपसंहरति - अत इति।विशेषमापन्नं कारणमितिन तु विकृतमित्यर्थः । एवमनुग्राहकोपपत्तिमुक्त्वा अनुग्राह्यंदर्शनं प्रमाणयति - कारणस्यचेति। न केनापि प्रकारेणापह्नोतुं शक्यतइति । अन्यथा मृद्द्रव्यघटयोः कार्यकारणभावो नास्तीति वदता त्वयाकार्यकारणभावभंगवाचिवाक्यस्य कार्यकारणभावभंगविषय प्रमितिजनकत्वमिष्यतेन वा आद्ये न कार्यकारणभावभगः द्वितीयेऽपि न तद्भंगः इति स्ववचनव्याघातःइति भावः । नच तादृशवाक्यस्य कार्यकारणभावभंगविषयक मिथ्याभूतप्रतीतिजनकत्वाभ्युपगमान्नदोषःइति वाच्यम् तथापि मिथ्याप्रतीतेरर्थसाधकत्वाभावेन तद्भंगापादनासंभवात्अतः उक्तयुक्तया कार्यकारणभावस्य प्रामाणिकत्वसिद्धेः न विरुद्धब्राह्यतर्काणामुदयसंभव इतिअथ हेममात्रस्यवा रुचकादिकार्यमात्रस्यवा रुचकादिकार्याश्रयस्यहेभादेर्वा स्वस्तिकादिकार्यारम्भकत्वं न संभवतीतिपरोक्तमनूद्यापास्यति - यत्तुहेमादिमात्रस्येति।एतदाश्रयस्येति।एतच्छब्दः रुचकादिकार्यपरः । यथोक्तपरिकरयुक्तस्यः=देशकालादिपरिकरयुक्तस्यदेशकालादिपरिकरयोगश्चः ईश्वरसंकल्पकर्माद्यधीनः । ननु हेमव्यतिरिक्तकार्यस्यैवाभावेन कथं हेमादीनां आरम्भकत्वमिति शंकां परिहरति - नचारम्भकेति। ननु स्वस्तिकस्य न हेमव्यतिरिक्तत्वं हेम प्रत्यभिज्ञानात्तदतिरिक्तवस्त्वन्तरानुपलब्धेश्चेत्यत्राह - बुद्धिशब्दान्तरादिभिरितिनन्वनिरूपितवस्त्वंलम्बनानां बुद्धिशब्दादीनां शुक्तिकारजतबुद्धिशब्दवत्भ्रान्तिमूलत्वेन वस्त्वन्तरत्वासाधकत्वात् शुक्तिकारजतवत् स्वस्तिकस्यमिथ्यात्वमेवेति पूर्व मुक्तमाशंक्यापनुदति - नचायमिति। भ्रमः=मिध्याभूतःबबाधादर्शनादिति। किं मिथ्यात्वं वदताऽनित्यत्वमभिमतं उत प्रतिपन्नोपाधौबाधः पूर्वत्र सिद्धसाधनं उत्तरत्र बाधोऽनुपलब्धिराहतः इति भावःस्वस्तिकोपलब्धेः बाधकयुक्तिरपि नास्तीत्याह - न चास्याइति । तर्हिहेमप्रत्यभिज्ञायाः कथमुपपत्तिरित्यत्राह - प्रागनुपलब्धेति। ननुप्रपञ्चसामान्यस्यैव मित्यात्वेन श्रुतिसिद्धत्वात् स्वस्तिकादेरपिमिथ्यात्वमावश्यकमित्यत्राह - श्रुतिभिस्त्वितिपूर्वमेव विरस्तम् । सिद्धान्तिनेति भावः । ननु प्रत्यक्षं सन्मात्रग्राहिशास्त्रमपि तथैव सन्मात्रग्राहि अतो घटपटादि भेद एवाप्रामाणिक इतिब्रह्मव्यतिक्तिस्य कृत्स्नस्यापि मिथ्यात्वमेषितव्यं, प्रत्यक्षस्यसद्व्यतिरिक्तग्राहित्वेऽपि सन्मात्रग्राहिणा परेण बलीयसा शास्त्रेणविरोधान्न प्रामाण्यं चेत्युक्तमित्या शंकनमपि ग्रन्थकारेण पूर्वमेवनिरस्त मित्याह - यच्चान्यदिति।अथ परोक्तमात्मैक्यपक्षमनूद्य निरस्यति - यच्चोक्तमिति।एकस्यैवेति।सर्वेष्वपि शरीरेषु एकस्यैवात्मनोऽभ्युपगमे तस्य, सर्वशरीरप्रयुक्तसुखदुःखप्रतिसन्धानमापद्यतेप्रत्युत यत्संप्रतिपन्नैकात्मकं शरीरं तत्रैव सुख दुःखादि प्रतिसन्धानं च दृश्यते इति भावः । ननु आत्मनः एकत्वेऽपि सर्वशरीर प्रयुक्तसुख दुःख प्रतिसन्धानाभावः शरीरभेदनिबन्धनस्स्यादित्यत्राहसौभरीति।सौभरिमहर्षिः किल योगमाहात्म्याद्युगपदनेक शरीराणि परिगृह्य सुखादिकमन्वभूदितिशास्त्रप्रसिद्धम् । तत्र शरीरभेदेपि आत्मैक्येन सप्रतिपन्नैकात्मकबहुशरीरावच्छेदेन सुखादिप्रतिसन्धानं दृष्टमिति न शरीरभेदानिबन्धनत्वंप्रतिसन्धानाभावस्य युक्तमिति भावःएवं प्रतिसन्धानाभावस्य शरीर भेदनिबन्धनत्वमाशंक्च पराकृतम् । अथाहंकारभेदनिबन्धनत्वमाशंक्च निराकरोति - नचेति। नच वक्तुं शक्यमित्यन्वयः । अयमभि प्रायः - अन्तःकरणएवज्ञाता स एव चाहमर्थः । स च प्रतिशरीरं भिन्नः । अतश्च सर्वशरीरेषुनिर्विशेषस्यात्मनः चिन्मात्रस्यैकत्वेऽपि प्रतिसन्धानार्हज्ञातृभूताहंशब्दवाच्यान्तःकरणानांभेदात् नात्मनः तथा प्रतिसन्धानं, नापि सर्वशरीरप्रयुक्त सुख - दुःखादिप्रतिसन्धानमेकस्यान्तःकरणस्य तेषां च प्रतिशरीरं भिन्नत्वात् । अतस्तत्तच्छरीरवर्त्यन्तःकरणस्यैवतत्तच्छरीरप्रयुक्त सुखादिप्रतिसन्धानमिति व्यवस्था चोपपद्यते इतिहि भवनमतम्एतच्च नोपपद्यते । अन्तः करणभेदेपि प्रति सन्धानसंभवेन तस्य प्रतिसन्धानाभावहेतुत्वानुपपत्तेःसनकादयो हि पूर्व पूर्वकल्पोत्पन्नविनष्ठानेकान्तःकरणाः अपि तत्तच्छरीरप्रयुक्तसुख दुःखादिप्रतिसन्धानमर्हन्ति । अतोऽन्तः करणस्य ज्ञातृत्वेऽपिन तद्भेदेन निस्तारसंभवः इति । अथ वस्तुतोऽन्तःकरणस्य ज्ञातृत्वमेवनास्तीतितद्भेदेन परिहारकथनं सुतरां न शोभनमित्याह - आत्मा ज्ञातैवेत्यादि।ज्ञातृभूतात्म प्रयुक्त एव तथाप्रतिसन्धानाभाव इति नात्मैक्यं युक्तमित्याशयःअपिचैकशरीरवर्त्यात्मनः एकत्वं सिषाधयिषितं उतानेकशरीरवर्त्यात्मनःअभिमतार्थसाधनादिष्ट एव प्रथमः । द्वितीयस्तु धर्मिग्राहक प्रमाणविरुद्धःपरशरीरे तच्चेष्टादिभिः स्वस्मादन्यत्वेनैवात्मनोऽनुमानात् स्वात्मनःअहमित्यपरोक्षमवभासमानत्वात्, पर शरीरगतात्मनश्चानपरोक्षत्वादितिअतेनात्मैक्यंयुक्तम् ।।अथ सर्वशरीराणामेकाविद्याकल्पितत्व मुक्तमनूद्यनिरस्यति - यच्च शरीरत्वेति।सर्वशरीराणामविद्याकल्पितत्वस्यैवेति।शरीराणामविद्याकल्पितत्वे सिद्धेहि एकाविद्याकल्पितत्वस्य सिद्धिरिष्येतकल्पितत्वमेवासिद्धंः अत एव सपक्षस्यैतच्छरीरस्य साध्यविकलत्वम्एवं कल्पितत्वहेतो रुभयवाद्यसंप्रतिपन्नतयाऽन्यतरासिद्धिस्चेत्याशवःननु शरीरे कल्पितत्वमपि हेत्वन्तरेण साधयामःइत्यत्राह - तदभावश्चेतिकल्पितत्वाभावश्चेत्यर्थः । अबाधितस्येति हेतुगर्भम् ।अथ - सर्वं चेतनजातमहमेव चेतनत्वात् यदनहं तदचेचनं दृष्टं यथा घटःइति पूर्वमुक्तमर्थ अनूद्यापाकरोति - यच्च चेतनादन्यस्येति। भेदोपपादनादेवेतिबाधितं तदनुश्मानमितिभावः । दूषणान्तरं वक्तुं पुनरनुवदति - यत्तुमयैवेत । परिहासेन तदुक्तिं दूषयति - तदज्ञातेति। कुतो भ्रान्तिजल्पितमित्यत्राह -अहंत्वमाद्यर्थेति । अहंकारोहि भवतां मते अहंत्वमाद्यर्थः । सचनात्मा, नाप्यविद्याश्रयः । चिन्मात्रमेवचात्मा, स एव चाविद्याश्रयइति हि भवत्प्रक्रिया, एवं सति कथं सर्वशरीराणा महमर्थेनात्मत्वं,अहमर्थाविद्याकल्पितत्वं सर्वचेतनस्याहंरूपत्वंचअतस्स्वसिद्धान्तमबुध्वैवैवंभाषसे इति भावः । बद्धमुक्तादिव्यवस्थानामेकाविद्याकल्पितत्वोक्तिरपिन युक्ता तत्साधकत्वेनाभिमतापारमार्थिकत्वहेतोरेवासिद्धेः । सोपाधिकत्वात्एवंचिन्मात्रप्रस्तावात्तदतिरिक्तस्य सर्वस्य मिथ्यात्वाभ्युपगमंनिरस्यति - किंचेति। अत्र मोक्षार्थश्रवणादि प्रयतनस्य निष्फलत्वंकथं यतो मोक्षार्थश्रवणादिषु प्रवृत्त्यनुपपन्नत्वे एव तात्पर्यात्,रजताद्युपादानप्रयत्नस्य वस्तुतो निष्फलत्वेऽपि शुक्तिकारजतादिषुप्रथमं अविद्याकार्यत्वाज्ञानदशायां तादृशरजताद्युपादन प्रवृत्तिवत्मोक्षार्थश्रवणादि प्रवृत्तिरपि सुधटैवेति शंकापरिहाराय - निर्विशेषसन्मात्रातिरेकि सर्वं मिथ्येति - वदतः इत्युक्तम् । ननु तादृशज्ञानवतश्रवणादौ प्रवृत्तिरेवनास्ति, श्रवणाधीनत्वात् ताद्दशज्ञानस्येतिचोद्यपरिहाराय - मोक्षार्थेतिविशेषितम्ताद्दशज्ञानस्य केवलशास्त्र श्रवणाधीनत्वेऽपि विलक्षणमोक्षार्थश्रवणाधीनत्वाभावात् प्रत्युत तादृशज्ञानसंपत्त्यनन्तरमेव मोक्षार्थताद्दशश्रवण प्रवृत्तेश्च ताद्दशज्ञानवतो तादृशप्रवृत्तेर्निष्फलत्वज्ञानावश्यकतयाप्रवृत्तिर्दुर्घटैवेति भावः । अन्यथा पुनः केवल निष्फलत्वमेव सिषाघयिषितम्सर्वं मिथ्येति वदत इत्यस्य वदतस्तवमते सर्वेषामपि मोक्षार्थश्रवणादिप्रयत्नस्यनैष्फल्यं स्यात् इत्यर्थः । ततश्च फलासिद्धि रूपदूषण मुक्तं भवतीतिध्येयम् । एवं मोक्षार्थ श्रवणादि प्रयत्नस्य वैयर्थ्यमुक्त्वातदर्थ प्रयत्नस्यैव निष्फलत्वं साधयति - मोक्षार्थ प्रयत्नइतितत्वमस्यादीति। ब्रह्मव्यतिरिक्तस्य सर्वस्यापि मिथ्यात्वाभ्युपगमात्अविद्यामूलत्वमाश्रयणीयम् ततश्चाविद्यामूलेन तत्वमस्यादिवाक्येनजायमानं ज्ञानं कथं बन्धनिवर्तकं भवितुमर्हतीति भावः । “अभाविन्येवसा पश्चात् भाविनीत्युपदिश्यताम् । सन्ति हि स्वप्नदृष्ठानि दृष्टान्तवचनानिते” । इति संवित्सिद्धिस्थश्लोकमनुसन्धाय - स्वाप्न बन्धनिवर्तकवाक्यजन्यज्ञानवदित्युक्तम्। श्लोके तच्छब्दो मुक्ति परामर्शी ।अथ पराभिमतं स्वरूपपरवाक्यैःब्रह्मणोऽवेद्यत्वपक्षं व्युदस्यति - किंचनिर्विशेषचिन्मात्रमिति। यस्यामतं तस्य मतमित्यादिप्रमाणबलेनहिब्रह्मणो न वेदान्तवेद्यत्वम् । भेदनिषेध एवच वेदान्तवाक्यैः प्रतिपाद्यतेइति भवद्भिरभ्युपेयते । संप्रति स्वरूपपरवाक्यवेद्यत्वं वोच्यतेइत्थं च तादृशज्ञानस्याविद्याकार्यत्वेन तद्विषयस्य मिथ्यत्वमेवस्यात् व्याघातश्चेति भावः । ननु स्वरूपपरवाक्य वेद्यत्वमपि नाभ्युपेयतेवस्तुसिद्धिश्च स्वयं प्रकाशत्वादिति शंकामपनुदति - न च निर्विशेषेति।निर्विशेषचिन्मात्रमिति हेतुगर्भम् । स्वयप्रकाशत्वाभ्युपगमे निर्विशेषत्वंव्याहृतं स्यादित्याशयःननु निर्विशेषचिन्मात्रभूतं ब्रह्मवस्तु न प्रमाणान्तरेण व्यज्यतेनापि स्वत स्सिद्धत्व व्याहतिः । सर्वेषामपि स्वानुभवस्य निर्विशेषत्वेनैवंस्वयं भानात् । अतः स्वयं प्रकाश ज्ञानस्य निर्विशेष ब्रह्मस्वरूपस्यवस्तुनः सद्भावे स्वस्वात्मैव साक्षीति न कश्चि द्दोष इति पराभिमतमनूद्यव्युदस्यति - यत्विति। ज्ञेयविशेषसिद्धिरूपं = ज्ञेयविशेषव्यवहारानुरूपमित्यर्थःपपूर्वमेवोक्तमिति। जिज्ञासाधिकरणे महासिद्धान्तारम्भे एवोक्तमित्यर्थः।। एवं निर्विशेषत्वसाधकयुक्तीनामपि निरस्तत्वं प्रति जानीते - यानिचेति।अनन्तरोक्तेः अनन्तरपूर्वोक्तेःअनुमानै=तर्केः ।आपेक्षोहि तर्कः। अतस्तस्यानुमानशब्दवाच्यत्वम्अतस्तर्केऽनुमानोक्तिरिति च हलायुघः ।निरस्तानीति। त्वदुक्तयौक्तिकज्ञानानां अविद्याकार्यत्वादिहेतुभिः स्वाभिमतार्थसाधकत्वंन संभवतीति भावः । एवं निर्विशेषत्व साधकयुक्तिनिरासेन चिन्मात्रात्मनोनिर्विशेषत्वं नाभ्युपगन्तुं शक्यमित्युक्तम् । अत निर्विशेषत्वेऽभ्युपगम्यमानेस्वाभिमतार्थासिध्या दूषणाह - नच निर्विशेषस्येति। नचोपपद्यते इत्यन्वयःस्वाभिमतार्थाज्ञानसाक्षित्वाद्यनुपपत्तिरेव निर्विशेषत्वे दूषणमितिभावः । कुतोनोपपद्यते इत्यत्राह - साक्षित्वेतिप्रामाणिकत्वद्योतनाय दृष्टा इत्युक्तम् । अथ निर्विशेषचिन्मात्रस्यप्रकाशत्वाद्येव दुर्घटमित्याह - नच तस्येति। अयमभि प्रायः । यदिसंवित्सिध्यति तर्हि सधर्मत्वं यदिन तर्हि तुच्छत्वं ननु संविदएव सिद्धि रूपत्वं मिति चेत् । तर्हि कस्य सा प्रकाशरूपा सिद्धिःआत्मन इति चेत् न संविद्रूपस्यात्मनः तत्संबन्धित्वायोगात् ।अतश्चिन्मात्रस्य निर्विशेषस्यात्मनः सिद्धिरूपत्वाभिन्नं प्रकाशत्वादिकंदुर्घटमेवेति । तत एव=उक्तसिद्धिरूपत्वादेवेव्यर्थः । सिद्धिरूपस्यहिस्वसंबन्धादर्थान्तरे तदृधर्म व्यवहारहेतुत्वं तत एवच स्वयं प्रकाशत्वमितिहि भवदुक्तमिति भावःएवं प्रकाशत्व कर्मकर्तृसाहित्ययोरन्वय मुक्त्वा निर्विशेषत्वेनाभिमतेव्यापककर्मकर्तृसाहित्यानभ्युपगमात्तत एव स्वयं प्रकाशत्वमप्ययुक्तमितिव्यतिरेकं दर्शयति - नचेति। अतादृशस्य=कस्यचित्पुरूषस्य कंचनार्थविशेषंप्रति सिद्धिरूपत्वाभावात् । कर्मकर्तृविशेषरहितस्येति यावत् ।।अथापरमार्थभूताविद्याकार्यत्वेन रजताद्युपादानादिप्रयत्नवत् श्रवणादिप्रयत्नस्याप्य परमार्थत्वेन निष्पलत्वं स्यादिति शंकायां अपरमार्थकारणादपिपरमार्थं कार्यस्याभ्युपगामान्नैष द्येषः इति पराभिमतं पक्षमनूद्यव्युदस्यति - यः पुनरिति। स्वगोष्टीषु । इत्युपालम्भः । कथितत्वद्योतनाय - कल्पानीत्युक्तम्स्वाभ्युपगमादेव निरस्त इति। अपरमार्थ कारणात् पारमार्थ कार्यस्योत्पत्तिरितीदंत्वत्पक्षरीत्योपपपादनानर्ह मित्याशयः । परपक्षरीत्योप पादनमपिनितरां न संभवतीत्याह - अस्माभिरपीति। अस्मत्तुल्यैः सिद्धान्तिभिरित्यर्थःननु तदभिमतानुमानानां निष्फलत्वादिसाधकानां श्रुतिविरोधात् अपरित्याज्यत्वंकिं न स्यादित्यत्राह - न च त्वयैषामिति । कुत इत्यत्राह - श्रुतेरपीति।उक्तदृष्टान्तेभ्यो विशेषाभावादिति । यथा रजताद्युपादान प्रयत्नादिरविद्याकार्यःस्वयमविद्यात्म कश्च तथैव श्रुतिरप्यविद्याकार्या स्वयमविद्यात्मिकाचेतिश्रुतेः प्राबल्याभावेन प्रबल प्रमाण=विरोधो दुर्वच एवेति भावःअथ दुष्टकारणजन्यज्ञानस्य परत्वेन बाधादर्शनात् तद्विषयस्य सत्यत्वमेष्टव्यमेवेतिपराभिमतिमनूद्य व्युदस्यति - यत्तु ब्रह्मणइति । प्रथमं बाधादर्शनमभ्युपगम्यैवपरिहारमाह - दुष्टकारणजन्येतिअकिंचित्करत्वमेव दृष्टान्तप्रदर्शनपूर्वकंविवृणोति - यथा शून्यमेवेति। तदर्थस्यासत्यत्वमिति । अन्यथा सर्वस्यापिशून्यत्वापातेन सत्यतया त्वदभिमत ब्रह्मणोऽप्यसत्यत्वापत्तेरितिभावः । अथ पश्चात्तन बाधदर्शनाभ्युपगममुखेन दूषयति - किंचेति। नन्वेवमेवसर्वशून्यत्ववादिमते पि पश्चात्तन बाधदर्शनं सुवचमित्यत्राह - सर्वशून्यत्वातिरेकिनि- षेधासंभवादितिअयमभि प्रायः - प्रत्यक्षादि प्रमाणस्य सविशेषपरत्वाद्यर्थजातस्यविधिरूपत्वेन पूर्वत्वात् र्दौबल्यं निषेधपरवाक्यस्य निषेधरूपत्वेनपरत्वाच्च प्राबल्यमिति हि भवत्प्रक्रिया । एवं सति शून्यमेव तत्त्वमितिवाक्यस्यात्यन्त परत्वात् निषेध रूपत्वाच्च तदतिरेकिनिषेधासंभवइति सर्वापेक्षाया प्राबल्यमिति । पश्चात्तन बाध दर्शनं न सुवचमितिननु सर्वशून्य ज्ञानस्य दोषमूलत्वान्न प्रामाण्यमित्यत्राह - दोषमूलत्वंत्विति । अतः=पश्चात्तनबाधदर्शने तदर्श नेवापि दोषमूलस्य सर्वस्याप्यप्रामाण्यावश्यकत्वादित्यर्थः । यतो न सेत्स्यतीत्यन्वयःअथ लोकव्यवहारासिध्युपपादनाय प्रथमं लोकव्यवहारमुपपादयति - लोकव्यवहारोहीति। पारमार्थिकत्यादि । पारमार्थिको यो ज्ञाता तद्गतः अर्थविशेषविषयकसिद्धिरूपोयःप्रकाशः तत्पूर्वकः इत्यर्थः । अतः। परपक्षेऽसिद्धिमुपपादयति - निर्विशेषसन्मात्रस्येति।परमार्थिकस्य=परमार्थविषयस्य । अपारमार्थिकस्य= अपरमार्थविषयस्यप्रतिभासादेरित्यत्रादिपदेव व्यवहार परिग्रहः । हेतुत्वासंभवादितिज्ञातुरेवाश्रयतया प्रतिभासहेतुत्वदर्शनात् निर्विशेषज्ञानस्यज्ञातृत्वानभ्युपगमात् न प्रतिभासहेतुत्वम् । एवं ज्ञातृगतज्ञानस्यैवस्वपरव्यवहार हेतुत्वदर्शनात् निर्विशेषज्ञानस्य च ज्ञातृगत ज्ञानत्वाभ्युपगमात्न स्वपरव्यवहार हेतुत्वसंभवः इति भावःअतः =पारमार्थिकदोषादेरेव भ्रमप्रयोजकत्वात् । अयं भावः यथाधिष्ठानस्यासत्वेनभ्रमः तथा दोषस्यासत्वेपि, यथाच कल्पितं (अध्यस्त) रज्जुसर्पादिन भ्रामाधिष्ठानं भवितुमर्शति, तथैव कल्पितं दोषादि न भ्रम प्रयोजकंभवति । नहिवस्तुतो दोष शून्यस्यान्येनारोपितदोषस्य पुसः अध्यस्तंदोषादि न सर्पादि भ्रमहेतुः दृष्टम् ।अथ सन्मात्रस्य ब्रह्मणोऽधिष्ठानत्वेन परमार्थत्वमिति परोक्तमनूद्यनिरस्यति - यच्चेत्यादिना। ननु दर्शनानु गुणैव हि तत्त्वस्थितिः अधिष्ठानापारमार्थ्येचभ्रमं तु न पश्यामः अतोऽधिष्ठानभूतस्य सन्मात्रस्य परमार्थत्वमावश्यकमितिशंका मनूद्य दर्शनानुगुण्येनैव परिहारमाह - अथाधिष्ठाना पारमार्थ्येऽपीति।अत्राधिष्ठानस्यापरमार्थत्वेऽधिष्ठानान्तरापेक्षयाऽनवस्थेति शंकनंदोषस्यापारमार्थत्वे दोषान्तरापेक्षयाऽनवस्थेति प्रतिबन्ध्वा परिहार्यम्दोषस्य स्वरूपानादित्वेनानवस्था परिहारोऽधिष्ठानविषयेऽपि तुल्यःप्रवाहानादित्वेन दुर्घटत्वेन च परिहारो़पि समानः इत्यादिकमपि बोध्यम् । अथद्वैतवादिपक्षेऽपि बद्धमुक्तव्यवस्थायाःदुरुपपादत्वमिति पूर्वं शंकितमनूद्यापनुदतियत्तु भेदपक्षेऽपीति।आत्मानन्त्येनपरिहृतमिति। यद्येक एवात्मा स्यात्तर्हि अयं बद्धः अयं नुक्तः इतिव्यवस्थाऽनुपपन्नास्यात् । अस्माकं त्वात्मनां बहुत्वात् न व्यवस्थानुपपत्तिसंभव इति भावः । नन्वात्मना मनन्तत्वे भिन्नत्वेन संख्यावत्वं शंकितमितिशंका मनूद्य परिहरति - यत्त्वात्मनां भिन्नत्वेइति ।दृष्टान्तस्साध्यविकलस्स्यादिति।आत्मानः सङ्खयावन्तः भिन्नत्वात् माषसर्षपघटादिवत् । इति हि भवदुक्तमनुमानंअत्र सिषाधयिषितं संख्यावत्वं नैकत्वसंख्यारूपं तस्य प्रत्येकमात्मन्यभ्युपगमेनसिद्धसाधनात् । द्वित्वादि संख्याया अवधेरेवास्माभिर्निषिध्यमानत्वेनतद्विरुद्धसंख्यावत्वस्यैव साधनीयत्वाच्च । किन्त्ववधिमत्संख्यावत्वमेवइत्थं चैकैकस्मन्नपिकल्पे एकघटसद्भावेपि कल्पानन्त्येन घटादीनमप्यनन्तत्वसिद्धेः घटादिष्वपि द्वित्वादि संख्यावध्यसंभवेन साध्यवैकल्यंदृष्टान्तस्येतिभावः । ननु कल्पानन्त्येन घटादीनामप्यनन्तत्वात्तेषां बहुत्वात्तेनैव हेतुना अत्रापि संख्यावत्वं प्रसाध्यते दृश्यतेचदशघटाःसहस्रं माषाः इति संख्यावत्व मित्याशंकते - दशघटाइतिअर्धाभ्युपगमेन परिहरति - सत्यमिति । कस्मिन्नंशेऽनभ्युपगः कस्मिंश्चाभ्युपगमःइतीदं व्यनक्ति तत्त्विति । कालादीत्यत्रादिपदेन कर्तृपरिग्रहःकिं तत इत्यत्राह - तादृशं त्विति। तादृशं = उपाधि मदात्मगतम् ।एतादृशसंख्यावत्वं न सर्वमुक्यापादकमित्याह - नचतावतेति।आत्मस्वरूपानन्त्यादिति।देशकालाद्युपाधिराहित्येनात्म स्वरूपमात्रस्यासंख्येयत्वादित्यर्थःयथा च माषसर्षप घटादिष्वेकैकजातीया अपि देशकालाद्युपाधिराहित्येनस्वरूपतोऽनन्ताः तथैवात्मानोऽपीति भावः । अयमत्र प्रघट्टार्थः - देशकालकर्माद्युपाध्यवच्छिन्नघटादीनांसंख्यावत्वे़भिमते तथैव देशाद्यवच्छिन्नात्मनामपि संख्यावत्वस्य वक्तव्यतयासिद्धसाधनत्वम् । देशाद्यवच्छेद प्रयुक्तत्वात्सोपाधिकत्वं च ।कृत्स्नघटादीनां संख्यावत्वं तु न सिध्यति कल्पानन्त्यप्रयुक्तघटस्वरूपानन्त्यस्यावर्जनीयतया साध्यवैकल्यात् पक्षे बाधश्च । अपि चचेतन बहुत्वमवलम्ब्य हि संख्यावत्वं साधनीयम् । तद सिद्धौ आश्रयैकदेशाप्रसिद्धिःहेत्वसिद्धिश्च । शास्त्रेण तत्प्रतिपादनेचाभ्युपगम्यमने अनन्तत्वेनैवशास्त्रेण प्रतिपादनात् अवधिमत्संख्यावत्वसाधने धर्मि ग्राहकप्रमाणविरोधश्चअत एव हि शास्त्रबाधात् विवघ्यादासितःकालः सावधिः कालत्वात् माससंवत्सरादिव दित्युनमानस्याप्रामाण्यम्अतश्शास्त्रबाधात् संख्यावत्वसाधनमनुपपन्नमिति ।अथात्मनां भिन्नत्वे आपादितमनात्मत्वादिक मनूद्य दूषयति - यत्त्वात्मनांभिन्नत्वे घटादिवदिति। तदयुक्तमिति । कालात्ययापदिष्ठत्वादिति भावःकुत इत्यत्राह - एकजातीयानामिति। अथ प्रतिबन्दीमभि प्रयन्नाह - नघटादीनामिति। अयं भावः - वस्तुतः एकजातीयाः अपि पदार्थाः परस्परंभिन्नाःन तावता तज्जातीयत्वापगमेन जात्यन्तरीयत्वं तेषांयुक्तम् । अन्यथाघटो नभिन्नः घटत्वात्, यद्भिन्नं न तद्वटः यथा पटः इत्यप्यनुमानसंभवेन घटानामपि भेदासिद्धेः।घटाभेदस्य बाधितत्वात् न घटभेदस्यपरत्वापादकत्वमिति चेत्तर्हि आत्माभेदस्यापि बाधितत्वेन न तद्भेदस्यजडत्वाद्यापादकत्वमितितुल्यः परिहारः इतिअथः भिन्नत्वे वस्त्वन्तरविलक्षणत्वरूपवस्तुतः परिच्छन्नत्वसिद्धेःवस्तुतः परिच्छिन्नस्य च देशकालपरिच्छिन्नत्वनियमात् ब्रह्मणोऽनन्तत्वंशास्त्रसिद्धं भज्येत इति पूर्व शंकित मनूद्यापास्यति - यत्तु भिन्नत्वइति । अयमत्र हार्दोऽभिप्रायः । वस्तुपरिच्छिन्नत्वे कालदेशपरिच्छेदोपिस्यात् इति वदतां देशकालपरिच्छेदेस्य प्रतिवस्तु परिच्छेद प्रयोजकत्वमभिमतमितिज्ञायते । इदं चानुपपन्नम् । वस्तुपरिच्छिन्नस्यघटस्य कालपरिच्छेदोनाम कः? दशादिनावधिसत्वं एकमासावधिसत्वं मासद्व्यावधि सत्वं अन्यत्वा नाद्यः तथासति घटादेः दशदिनानन्तरं नाशा पत्त्या तदुपरि वर्तमानत्वासिद्धेःएवमेवोत्तरत्रापि नान्यपक्षाणामपि प्रसक्तिः । ननु घटस्य तावत्कालसत्वंप्रमाणाधीनं न्यूनकालेन अधिककालेन वस्तुनः सद्भावात् कालदेशेयत्तायाःप्रमाणान्तरायत्तत्वादिति कालेययत्तानिर्णयः अस्माभिः कर्तुं नशक्यते इति चेत् तर्हि वस्तुपरिच्छेदः अप्रयोजकः इत्यासीत् । ततश्चतेन कथं देशकालपरिच्छेद साधनमिति । अत्र श्रुतप्रकाशिकायां कल्पत्रयंविवृतम् । तत्रैव द्रष्टव्यम् ।।ननु वस्तुपरिच्छेदस्य देशकालपरिच्छेदाप्रयोजकत्वेन वस्तुतः परिच्छिन्नस्यब्रह्मण देशकालपरिच्छेदासंभवेऽपिभेदवादिनावश्यं ग्राह्यस्य वस्तुपरिच्छेदस्यब्रह्मणि सत्वेन सर्वप्रकारपरिच्छेद रहितत्वरूपानन्त्य घटक वस्त्वपरिच्छेदस्य ब्रह्मणि बाधेनानन्त्यं दुर्वचमेव भवतांभते । आनन्त्यश्रुतेस्संकोचोवाऽआवश्यकःइत्यभिप्रयत् मृषावादी शंकते - वस्तुतः परिच्छेदमात्रादपीति। उक्तंशंकनं भवतामपि समानमित्याह - तद्भवतोऽपीति। न केवलमानन्त्याप्रसिद्धिमात्रंभेदवादोक्त दूषणमपि प्रसज्यते इत्याह - अतइति। ननु ब्रह्मणोऽविद्याविलक्षणत्वंनेष्यते तेन न वस्त्वपरिच्छेदासिद्धिः नापिभेदप्रयुक्त दूषणावकाशइत्याशंक्याह - यद्यविद्याविलक्षणत्वमितिब्रह्मणोऽविद्याविलक्षणत्वमनभ्युपगच्छतोऽविद्यात्मकत्वमपीष्टमेवेत्यत्रानिष्टमाह - सत्यं ज्ञानमिति। ननु ब्रह्मणोऽविद्याविलक्षणत्वमिष्यतेएव अतो नाविद्यात्मकत्वाद्यपत्तिः नापि वस्त्वपरिच्छेदासिद्धिःपरमार्थ वस्तु विलक्षणत्वस्यैव वस्तुपरिच्छेदरूपत्वात्, ब्रह्मव्यतिरिक्तपरमार्थवस्तुनश्चाभावात् ब्रह्मणि परमार्थवस्तु व्यतिरिक्तत्वविरहेण वस्त्वपरिच्छेदस्यसिद्धत्वा दिति चेन्न - परमार्थवस्तुविलक्षणत्वस्य बाध्यत्वापरपर्यायमिथ्यात्वरूपत्वात्बाधितस्यच कदाचिन्निवृत्यावकश्यतया वस्तुपरिच्छेदस्य कालपरिच्छेदान्तर्भावप्रसंगात्अत एवहि विलक्षणत्वमात्रमेव वस्तुपरिच्छेद इति त्वयाप्युच्यते ।अत उक्तदूषणादनिस्तार एवेति । एवमविद्या ब्रह्मणोर्भेदानभ्युपगमेदूषणं प्रसज्जितम् । अथ सामान्यत एव भेदो नामकश्चित्पदार्थोऽस्तीत्यनभ्युपगमे दूषणमापाद्यते - भेदतत्त्वानभ्युपगमेहीति । भेदपदार्थमेवानंगीकुर्वतास्वपक्षपरपक्षयोरपि भेदासिद्धेः स्वपक्षसाधनायासः परपक्षदूषणायासश्श्चविफल एव । स्वपक्षसाधने स्वेनैव परपक्षस्यापि साधितत्वापातात् परपक्षदूषणेस्वपक्षस्यापि दूषितत्वापाताच्च । अतः स्वपक्षस्य निर्दोषत्वं प्रबलत्वंपरपक्षस्य सदोषत्वं दुर्बलत्वंच वदतो भेदाभ्युपगमएव शरणम्न चाभ्युपगम्यमानोऽपि भेदोऽपरमार्थ इति वक्तुं शक्यं, तावतापिस्वपक्ष दौर्बल्यस्य परपक्ष प्राबल्यस्य चासिध्यनुपपत्तिः । वस्तुतःउभयोःपक्षयोरैक्यादिति भावः । नन्वस्त्वस्मन्मतेऽपि दूषणावकाशःअथापि आनन्त्यप्रसिद्धिः कथमुपपाद्यते भेदवादिना त्वयेत्यत्राहआनन्त्यप्रसिद्धिश्चेति।भेदपदार्थस्यावश्याङ्गीकार्यतया सर्वस्यापि सर्वविलक्षत्वात् अविलक्षणपदार्थस्यचशश शृंगादिवद प्रसिद्धेः अनन्तपदेन देशकालपरिच्छेदरहितत्वमेवविवक्ष्यते नतु वस्तुपरिच्छेदरहितत्वमपि । अन्यथाऽर्थ बाधापत्तेःनहि श्रुतिरपि बहिना सिञ्चतीबद् बाधितमर्थं बोधयितुं क्षमाअतः संकोच एव युक्त इत्याशयः । एवं वस्तुपरिच्छेदस्य वस्तुविलक्षणतारूपत्वाभ्युपगमेतद्राहित्यस्यानन्तपदेन विवक्षणमेव युक्तमित्युक्तम् । अथ वस्त्वपरिच्छेदस्यसर्ववस्तुसामानाधिकरण्यार्हत्वरूपत्वमम्युपयतां साक्षात्सिद्धान्तिनांमतेतद्विवक्षणेऽपि नानुपपत्तिरित्याह - भेदवादिनस्त्विति।सर्वचिदचिद्वस्तुशरीरत्वेनब्रह्मणः सर्वप्रकारत्वादिति। अनेन सर्ववस्तुसामानाधिकरण्यार्हत्वंवस्त्वपरिच्छेदः इत्युक्तंभवति । इदमिदंनभवतीति हि वस्तु परिच्छेदःइदमिदंभवतीति निर्देशयोग्यत्वंच जगद् ब्रह्मणोश्च शरीरशरीरिभावेनशरीरवाचकशब्दानांचैकविशेष्यभूत शरीरि परब्रह्मपर्यन्ताभिघानेन सामानाधिकरण्यंचोपपन्नमिति युक्त एववस्त्वपरिच्छेदःवस्त्वपरिच्छेदो वस्तुगत स्वभावविशेषः स्वभावतोऽपरिच्छेदरूपःसच ब्रह्मणि गुणानन्त्यरूपः इत्यपि संप्रदायः ।। वस्त्वन्तराप्रतिहतिःवस्त्वपरिच्छेदः । आलोकादेः सर्वदेश संबन्ध योग्यस्यापि प्रतिहत्यर्हत्वात्वस्तुपरिच्छित्वम् । ब्रह्म च न तथाभूतं, प्रतिहत्यनर्हत्वादितिकेचित् । वस्तुनः परिमितत्वं वस्तुपरिच्छेदः । तदभावो वस्त्वपरिच्छेदःदेशापरिच्छेदैक्यै तत्कार्यभूतः । वस्तुनः परिमितत्वाभावाद्धिसकल देशसंबन्धः इत्यपि केचित् । इत्थंच सिद्धान्तिमते ब्रह्मणिवस्त्वपरिच्छेदः उपपन्न इति नानन्त्य श्रुति सकोचः इतिस्वतः परिच्छेदो नविद्यते इत्यनेन वस्त्वपरिच्छेद उक्तः । परतःपरिच्छेदो न विद्यते इत्येन देशकालपरिच्छेद उक्तः । अथाधिकरणपूर्वपक्षीवैशेषिकः अनन्यत्वसाधनाय प्रवृत्तमृषावादि मतद्वयेऽपि दूषणमुक्त्वास्वमत मुपसंहरति - तदेवमिति ।अथ सिद्धान्तं वक्तुमारभते - इति प्राप्तइति । कस्मात्कस्यानन्यत्वमित्यत्रतदनन्यत्वं व्याचष्टे - तस्मादित्यादि । हेतुखण्डं व्याचष्टे - आरम्भणेति।अत्र येनाश्रुतमित्यादिवाक्यखण्डानुपादानेनारम्भणशब्दोपादनस्य किंप्रयोजनमित्यत्राह - तदुपपादयद्भ्यइति । तत् - अनन्यत्वम् । येनाश्रुतमित्यादिनाहि प्रथममेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय मृदादिदृष्टान्तउक्तः । तत्र दृष्टान्तेऽपि वैशेषिकैः कारणात्कार्यस्यान्यत्वाभ्युपगमात्कथमेकविज्ञानेन सर्वविज्ञान प्रतिज्ञोपपत्तिरित्याशकायां अनन्यत्वोपपादनायवाचाऽऽरम्भणमित्यादि वाक्यस्य प्रवृत्तत्वेनारम्भण शब्दादीनामेवसाक्षा दनन्यत्वोपपादकत्वमिति सूत्रे आरम्भणशब्दोपादानम्यद्यपि वाचादिभ्यः वाचारम्भणशब्दादिभ्यः इत्येव सूत्रयितुं युक्तंअथापि वाचारम्भण शब्दस्यैक पदत्व व्युदासाय आरम्भणशब्दादिभ्यः इतिविभज्योपादानं कृतम् । केचित्तु “यथावाचा दिशा निशेतिवचनेन वाचाइत्यस्या” । कारान्तस्त्रीलिंगत्वमभ्युपगम्य वाचारम्भणं=वागालम्बनमित्यर्थंवर्णयन्ति । स्वमते तु वाचेति तृतीयान्तं पदम् । आरम्भणमिति तुपदान्तरमिति । आरम्भणशब्दादिभ्य इत्यत्र षष्टीतत्पुरुषसमासभ्रभशंकापनोदनायव्याचष्टे - आरम्भणशब्दःइति । अथ बहुव्रीहेः तद्गुणसंविज्ञानत्वंआदिशब्दार्थं चाभिप्रेत्याह - वाचारम्भणमित्यादिउक्तवाक्यानां मनन्यत्वोपपादकत्वं सामान्यतः प्रतिजानीते - एतानिहीति ।अनन्यत्वोपपादन प्रकारमुपपादयति - तथा हीति। कृत्स्नस्य जगतो ब्रह्मैककारणत्वंकारणात्कार्यस्यानन्यत्वं च हृदि निधाय कारणभूतब्रह्मविज्ञानेनकार्यभूतस्य सर्वस्य विज्ञाने “स्तब्धोऽस्युत त मादेशम प्राक्ष्योयेना श्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं इति प्रतिज्ञातेसतीत्यन्वयः । ननूक्त दृष्टान्तवाक्य बलात् कारणात्कार्यस्यानन्यत्वंकथमवगम्यते इत्यत्र दृष्टान्तवाक्यस्य स्वयमर्थमाह - यथेति। मृत्पिण्डारब्धेत्यनेनमृण्मयशब्दार्थो विवृतः । मृत्पिण्डसत्तया मृण्मयघटशरावादि ज्ञानासंभवात्तज्ज्ञानेनेत्युक्तम्एवमेवहि परब्रह्म सद्भावादेव सर्व जगद्विज्ञानमप्यसंभवि । अतः श्रुत्यन्तरे"कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति, आत्मनि खल्वरेदृष्टे श्रुते मते विज्ञाते इदं सर्वं विज्ञातं भवतीति परब्रह्मज्ञानेनैवसर्वविज्ञानं प्रतिज्ञातम् । अतः श्रुत्यन्तरानुगुण्यात्=दृष्टान्तदार्ष्टान्तिक सामार्थ्याच्च कारणज्ञानमेव कार्य ज्ञानोपयोगीतिनिश्चोयते । अथ वाचारम्भणमित्युत्तरवाक्यमवतारयति - अत्र काणादवादेनेति।कारणात्कार्यस्यान्यत्वेन कारणविज्ञाने कार्यसर्वविज्ञानप्रतिज्ञानमनुपपन्नमितिवैशेषिकैः प्रत्यवस्थाने कृते तच्छंकापरिहाराय प्रवृत्तमिदं वाचारम्भणमित्यादिवाक्यंलोकरीत्यैव कार्यकारणयोरनन्यत्वं प्रतिपादयीति भावःअथ वाचारम्भणमिति वाक्यस्यार्थं वक्तुमादौ सूत्रोपात्तमारम्भणशब्दंव्याचष्टे - आरभ्यतइति विभ्राजमानस्सरिरस्य मध्यादित्यत्र सरिरशब्देइवरलयोरभेदमभिसंन्धायाहआलभ्यतेइति । आलम्भस्स्पर्शहिंसयोरिति निघण्डुमभिप्रेत्यप्रकृते संबद्धमर्थमाह - स्मृश्यतइति । अत्रारम्भणशब्दस्य कार्यमिथ्यात्वपक्षेपरिणामपक्षेचाभिमतमुपादानत्वार्थकत्वं न संयक् प्रतीतिमात्रेण ।अतः कार्यस्य वाचः पूर्वमपि प्रतीयमानत्वेन वागारब्धत्वाभावात्ब्रह्मकार्यस्य जगतः शब्द परिणामत्वाभावाच्च । स्वमते विकारस्यमृदारब्धत्वेऽपि नामधेयस्य मृदारब्धत्वाभावेन विकारनामधेययोरुभयोरपिआरम्भणशब्दवाच्यत्व सिध्यर्थं आरम्बणशब्दस्य स्पशीर्थकत्वं स्वीकृतम्"वाचा’ इत्यस्यार्थमाह - वाचेति । वाचेतितृतीयान्तम् । तत्र वाक्शब्दस्यवाक्पूर्वकव्यवहारे अजहललक्षणा स्वीकृता । अथ व्यवहारस्य वाक्पूर्वकत्वंविवृणोति - घटेनेति। अत्र विकारनामधेययोःव्यवहारहेतुत्वं प्रयोजकतयानतु साधनतयेत्यभिप्रयन्नाह - तस्य व्यवहारस्यसिद्धयेइति । केन विकारोनामधेयंच स्पृश्यते इत्यपेक्षायामाह - तेनैव मृद्दव्येणेति। एकेनमृत्पिण्डेनेत्यत्र पूर्ववाक्ये मृद्दव्यस्य प्रस्तुतत्वादिति भावःविकारशब्दस्य धर्मिपरत्वव्युदासायाह - विकारः=संस्थानविशेषः इतिअथ स्पृश्यते इत्यस्यार्थं विवृण्वन् उक्तंवाक्यार्थं संग्रहेणदर्शयति - उदकाहरणादीतितथाच घटेनोदकमाहरेत्यादि वाक्पूर्वकोदकाहरणादिव्यवहारविशेष सिध्यर्थंमृदादिकारण द्रव्यस्यैव पृथु बुध्नोदरत्वादिलक्षण संस्थान विशेषभाक्त्वंघटादिनामधेयभाक्त्वं चेत्याशयः । एवं प्रयोजनविशेषसिद्धये मृदादिकारणद्रव्यस्यैव संस्थानान्तरनामधेयान्तरभाक्त्वात् घटादेरपि मृत्तिकात्वमेवसत्यमिति उत्तरवाक्यमाहेत्यभिप्रयन्नाह - अतो घटाद्यपीति। सत्यशब्दस्यार्थमाह - प्रमाणेनोपलभ्यतइतिएवकारव्यवच्छेद्यमाह - नतु द्रव्यान्तरत्वेनेति। तथाच घटादिद्रव्यमपिमृत्तिकाद्रव्यमित्येव प्रमाणेनोपलभ्यते, न द्रव्यान्तरत्वेन ।अतो न कार्यकारणयोरन्यत्वसिध्रिरिति भावःअत्र घटादि विकाराणामसत्यत्ववादिमते मृत्तिकेत्येव सत्यमित्यत्रेतिशब्दासामज्जस्यं,मृत्तिकैव सत्यमिति हि तेषां मते निर्देशोयुक्तः इति ध्येयम् ।ननु कार्यकारणयोरुक्तरीत्या अनन्यत्वे बुद्धि शब्दान्तरादीनां कथमुपपत्तिरित्यत्रसमाधानं वक्ष्यण् समीचीनं दृष्टान्तं च प्रदर्शयन्नुपसंहरति - अतस्तस्यैवेति।अयमाशयः - बुद्धिशब्दान्तरादयो हि घटःपटः इत्यादिषु वस्त्वन्तरत्वेनापिदृश्यन्तेः बालो युवा स्थविरः इत्यादौ एकस्यैवावस्थान्तरेणापि दृश्यन्तेअतोऽन्यथासिद्धत्वान्न तेषां द्रव्यान्तरत्वसाधकता । नच तत एवहेतोःविनिगमनाविरहेणावस्थान्तरनिबन्धनत्वनिश्चयो़पि न स्यादिति वाच्यम् इष्टापतेः, नचैतावता कार्यकारणयोरैक्यासिद्धिःप्रत्यभिज्ञाप्रत्यक्षबलेन तयोरैक्य सिद्धेः । एतदमभिप्रायेणहि"मृतिकेत्येव सत्यमिति श्रुतिरप्याह । अत एव सत्यमित्यस्य प्रमाणेनोपलभ्यतेइत्यर्थं इति भाषितम् । इत्थंच प्रत्यभिज्ञाप्रत्यक्षानुग्रहीतश्रुतिबलेन कार्यकारणयोरैक्यसिद्धेः अन्यथासिद्ध बुद्धिशब्दान्तरादीनांअवस्थाभेदनिबन्धनत्वमेव नतु द्रव्यभेदनिबन्धनत्वमिति निश्चीयतेननु बालादिशब्दानां बाल्यादिमच्छरीरपरतया बालयुवादिशरीराणांचप्रतिक्षणं भिन्नानां वस्तुतो वस्त्वन्तरत्वस्य वैशेषिकैरभिमतत्वात्दृष्टान्त एव विप्रतिपन्नः इति चेत् मैवंबालयुवादिशब्दानां शरीर द्वारा शरीरिपर्यन्ताभिघायकत्वस्य सर्वसंमतत्वात्अत एव हि बालो युवा स्थविरो देवदत्तः इति प्रामाणिकैः प्रयुज्यतेइत्थंच शरीरिणो देवदत्तादेः चेतनस्य नश्वरत्वाभावात् चेतनपर्यन्तबुद्धिशब्दान्तरादीना मवस्थाभेदनिबन्धनत्वमेवेति नदृष्टान्तोऽन्यथासिद्धःअथ वात्र बालयुवादिशरीराणां न प्रतिक्षणं भिन्नत्वं अबाधितप्रत्यभिज्ञयाऐक्यसिद्धेःतत्र बुद्धिशब्दान्तरादीनांतु न वस्त्वन्तरसाधकत्वम् । आस्तेशेते गच्छतीत्यादिवत् अवस्थाभेदनिबन्धनत्वमेव । इत्थं च बालो युवास्थविर इति एकस्मिन्नेव शरीरे बुद्धिशब्दान्तरादीनामवस्थाभेदनिबन्धनत्वेसिद्धेबालयुवादिशरीराणामभंगुरत्वंसिद्धमिति न दृष्टान्तानुपपत्तिरितिकार्यकारणयोरनन्यत्वे पूर्वं शंकितं भावाभावविरोधमनूद्य परिहरति - यदुक्तमिति।तदिति । अस्य परिहृतमित्यनेन संबन्धः । ननू त्पत्तिविनाशादीनांद्रव्यावस्थाविशेषत्वमस्तु तेन कथं विरोधपरिहारः इत्यत्राह - तत्तदवस्थस्येतिअयमभिसन्धिः - कार्यकारणयोर्मृद्घटयोरनन्यत्वे मृदस्सत्वे तदभिन्नघटस्यपिसत्त्वावशयकतया घटोनष्टइति कार्यस्य कथमभावः उपपद्यते । अतःकारणस्यसद्भावेऽपि कार्यस्यासद्बावात् न कार्य कारणयोरनन्यत्वं युक्तमितिहि भवद्भिः शंक्यते । तत्रैवं परिहारः । कारणभूतं मृदाख्यमेकमेवद्रव्यं घटत्वकपालत्वाद्यवस्थाख्योत्पत्तिविनाशादिमत्तत्र घटत्वावस्थापन्नायाः मृदस्सत्वे घटोनष्ट इति न घटाभावविषयकव्यावहास्संभवतिघटत्वावस्थाप्रहाणेनान्यावस्थोत्पत्तौ कारणस्वरूपपभूतमृदस्सत्वेपिघटवावस्थायाः अभावेन घटत्वावस्थापन्न द्रव्यमेव नास्तीति कार्यघटाभावविषयकव्यवहारःएवं च सर्वावस्थास्वपि स्वरूपस्यानुवृतेः तत्तदवस्थासद्बावे तदितरावस्थायाःअननुवृत्तेश्च कारणसद्बावेऽपि कार्यासद्भावोपपत्तेः न भावाभावविरोधःभाव प्रतीतेः कारणस्वरूपविषयकत्वात् अभावप्रतीतेश्च तत्तदवस्थविषयकत्वादितितानि तानि च कार्याणीत्यनेन कार्यभेदोपपत्तिरपि दर्शिता । अथकारकव्यापारानर्थैक्यं परिहरति - द्रव्यस्य तत्तदवस्थत्वमितिअथाभिव्यक्तिपक्षोक्तचोद्यानां स्वमते अभिव्यक्यनभ्युपगमादेव नावकाशःइत्यभिप्रयन्नाह - अभिव्यक्यनुबन्धीनीति । ननु भवन्मतेऽभिव्यक्यनभ्युपगमेउत्पत्तेरभ्युपगमः आवश्यकः । उत्पत्ति र्ह्यसत एव नतु सतः विरोधात्इइत्थंचोत्पत्यभ्युपगन्तृणां भवतां असत्कार्यवाद एव प्रसज्यत इतिनास्मन्मतवैषम्यमित्यत्राह - उत्पत्यभ्युपगमेऽपीति ।विरोधं शंकते - विप्रतिषिद्धमिति । चोद्यस्यानभिज्ञकृतत्वेन परिहरति - अज्ञातेति।चोद्य परिहाराय विनाशोत्पत्तिस्वरूपं प्रतिपादयति - द्रव्यस्येतिमृद्दव्यस्य घटत्वरूपसंस्थानयोगः पिण्डत्वा वस्थस्य विनाशः सएवच घटत्वावस्थस्योत्पत्तिः । अतो द्रव्यस्वरूपस्य न कदाचिदपि विनाशःउत्पत्तिर्वेति भावः । अनेन परिहारप्रकारं दर्शयति - अतस्सर्वावस्थस्येति।द्रव्यस्वरूपस्य सर्वदा विद्यमानत्वात् अवस्थाया एव चानित्यत्वात्न सत्कार्यवादभंगइत्याशयः । ननु संस्थानस्यानित्यत्वेनासत एव तस्योत्पत्तेरभ्युपगमात्क्वचिदसत्कार्यवादस्तदवस्थ एवेति सर्वत्रासत्कार्यवाद एव युक्तःइत्याशयेन शंकते - संस्थानस्यासत इतिप्रतिबन्ध्या उक्तशंकामपाकरोति - असत्कार्यवादिनोपीति। पूर्वमसतःकार्यस्य घटादेरुत्पत्तिरित्युच्यते भवद्भिः । तत्र घटोत्पत्तिरपिपूर्वमसती सप्रति उत्पद्यते उत सती । असत्वे ततः पूर्वं तस्या अप्युत्पत्तिरित्येवेरीत्याअनवस्था, सत्वेच सत्या एवोत्पत्तेरुत्पत्तिरिति क्वचित्सत्कार्यवादापत्त्यातत एव सर्वत्र सत्कार्यवादस्यैवाभ्युपगमसंभवः । ननु उत्पत्तेरुत्पत्तिरस्तिनवेति चोद्यमेव न संभवति धर्मान्तरारोपणेन नित्यसमावज्जात्युक्तेःसत्यम् । अवस्थायामपि एवंपरिहारसंभवेन समाधेस्तौल्यात् । ननुसमाधिर्न तुल्यः उत्पत्तेरुत्पत्तिमत्वशंकायां जात्युक्तिर्युक्ताअवस्थायाःउत्पत्तिमत्वशंकायां न जात्युक्तिर्युक्ता अवस्थायाःउत्पत्तेश्चातिरेकात्मैवं, अवस्थाया एवोत्पत्तिरुपत्वात् । अतः अवस्थायाः उत्पत्तिचोदनं,उत्पत्तेरुत्पत्ति चोदन मेवेति जात्युक्तिर्युक्तैवेति । अत्रायमप्याशयः - असतएवघटादेः उत्पत्तिर्भवतां मते । अत एवासत्कार्यवादः । अत्रेदं पृच्छ्यते - उत्पत्तेरपिउत्पत्तिरस्ति वा न वा । नो चेत् सा उत्पत्तिः नित्या स्यात् ।न चेष्टापत्तिः घटादेर्नित्यत्वापत्तेः यद्युत्पत्तेः उत्पत्तिःतर्हि तस्याः उत्पत्तेरत्पत्ति अस्ति वानवेति प्रश्नपरंपरया अनवस्थापत्तिःउत्पत्तेः उत्मतिर्नास्ति । कार्यत्वं स्वीक्रियत इति चेत् तर्हिःउत्पत्तेः पूर्वं सत्वात् सत्कार्य वाद प्रसंगः ।। इति ।। अथ युक्तंसमाधिं प्रदर्शयति - अस्माकं त्विति। तुशब्देन अवस्थैव वस्तुन उत्पत्तिःनत्ववस्थायाः उत्पत्तिर्नामास्तीति स्वपक्षे वैषम्यं द्योतितिम्न चावस्थाया एवोत्पत्तिरूपत्वे यावद्घटसत्त्वंघटः उत्पद्यते इतिव्यवहारापत्तिः, अवस्थायाः अपृथक्सिद्धधर्मत्वेन प्रथक्प्रतिपत्त्यनर्हत्वात्पृथक्कार्यानर्हधर्मत्वाच्च नोत्पत्यादि सापेक्षत्वम् । अत एव ह्युत्पत्तेरप्युत्पत्तिनिरपेक्षत्वंभवता वक्तव्यम्तस्मात् पृथक्प्रति पतिकार्यानर्हधर्माः पृथगुत्पत्तिनिरपेक्षाःतद्वयतिरिक्ताश्च पृथगुत्पत्तिसापेक्षाः अप्रथक्मिद्धधर्माणां स्वयंधर्मिणः उत्पत्याद्यवस्थाभूतत्वादिति भावः ।ननु संख्याभेदान्न कार्यकारणयोरनन्यत्वमिति प्रागुक्तशंकां निराकरोति - कपालत्वेति।दृष्टान्तोपादानेनशंकायाआभासत्वं सूचितम् । कपालत्वघटत्वादयो यथाऽवस्थाविशेषाःतथैव एकत्व बहुत्वा दयोऽप्यव स्थाविशेषाः ।यथाच घटत्वकपालत्वावस्थयोर्नैक्यंतथैव एकत्वबहुत्वावस्थयोरपीति घटत्वावस्थापन्नस्य कपालत्वावस्थापन्नत्वाभाववत्बहुत्वा वस्थापन्नस्यैव नैकत्वावस्थापन्नत्वम् । किंतु यदा तन्तुत्वावस्थापन्नंद्रव्यं, तदा बहुत्वावस्थापन्नम् । यदाच पटत्वावस्थापन्नं तदेवद्रव्यंतदा एकत्वावस्थापन्नमिति कालभेदात् सद्वारकत्वाच्च न संख्याभेदविरोधइति भावःएवं सूत्रस्थारम्भणशब्दघटित श्रुत्यर्थमुक्त्वा तदनुबन्धियोद्यानिच परिहृत्य आदिशब्दोपात्त श्रुनीनामभिमतमर्थं प्रदर्शयति - तथेति।अस्य अनन्यत्वमेवोपपादितमित्यन्वयः । सदेवेति । सत् - प्रमाण संबन्धार्हंयद्वाब्रह्मेव्यर्थः । सदेवेत्यत्रावधारणेन कदाचिद्सत्यत्वं व्यवर्तितम्इदंशब्दार्थमाह - इदानां विभक्तनामरूपत्वेनेपि।ननुपरिदृश्यमानंजगत् सदेवचेत् कथं सृष्टयाद्युपपत्तिरित्यत्राह - अग्नेइति । प्रलयइत्यर्थ । एकमेवेप्यनेन नानरूपविभागाभावः उच्यते इत्यभिप्रयन्नाह - नामरूपविभागाभावेनैकमेवासीदिति । अद्वितीयपदार्थमाह - सर्वशक्तित्वेनेत्यादिअथोदाहृत श्रुतेरुक्तार्थपरत्वानुग्राहकेणोपरितनवाक्येनाप्यनन्यत्वंनिश्चीयतेइत्याह तथा तदैक्षतेति । स्थिरत्रसरूपजगत्वेनात्मनो बहुभवनमितिअनेन बहु स्यामित्यत्र बहुशब्दः तेजः प्रभृतिरूपेण बहुत्वपरःइति पूर्ववाक्यस्थैकशब्देन बहुशब्दोक्तनामरूपविभागाभाव एवोच्यतेइत्युक्तंभवति । “ऐक्षत’ इत्युक्तेः अद्वितीयपदस्याधिष्ठात्रन्तरनिवारकत्वंज्ञातम्। कथमसतस्सज्जायेत इत्यनेन सदेवेत्यवधारणस्य कदाचित्सत्त्वव्यावृत्तिपरत्व मुक्तं भवति । बहुभवनं संकल्प्य जगत्सर्गाभिधानादितिअत्र कारणभूत ब्रह्मणः बहुभवन संकल्पस्य यथासंकल्पं जगत्सर्गस्यचाभिधानेन कार्य भूतजगतः कारणभूत ब्रह्मणश्चानन्यत्वं निश्चीयतइति भावःअथ सेयं देवतैक्षत इत्यादिवाक्यमवतारयति - सच्छब्दवाच्यस्येति। निर्देशार्हजगत्वमिति । सच्छब्दस्य ब्रह्मपरत्वेन इदंशब्दवाच्यजगत्सामानाधिकरण्यमनुपपन्नं अन्यथा ब्रह्मणि जगद्गत दोषापत्तेरिति भावः । ननु सच्छब्दस्यजगत्परत्वेन नैषदोष इत्यत्राह - सच्छब्दवाच्यस्यैव जगत इति । नामरूपविभागभावेनैकत्वमितिचेतनांशस्यैक्यानुपपत्तेरितिभावः । बहुभवनसंकल्प रूपेक्षणमितिसच्छब्दवाच्यस्य जगतोऽचेतनत्वात् तस्यैव तदैक्षत इत्यत्र तच्छब्देनपरामर्शाच्चेति भावः । अथोदाहृतवाक्ये उक्त शंका परिहारपरस्य वाक्यैकदेशस्यार्थंसामान्यतः प्रथमं व्याचष्टे - तिस्त्रो देवता इतिननूक्तवाक्ये स्वात्मकजीवानुप्रवेशः केन पदेनोक्त इत्यत्र तदाह- अनेनजीवेनात्मनेति । आत्मतयाऽनुप्रविश्येत्यनेन गगनादिव्यावृत्तिरुक्ता । “अन्तःप्रविष्ट शास्ता जनानां सर्वात्मा इति हि श्रुतिः।।“स्वात्मकजीवानु प्रवेशेन’इति स्वोक्तमर्थं विवक्षितार्थसिध्यैविवृणोति - स्वात्मनोजीवस्यचेति। घटस्य मृदात्मकत्वमिव न जीवस्य स्वात्मकत्वविवक्षितमिति भावः । अनेन जीवेनात्मनेत्यस्य सिंहेनभूत्वा बहवोमयात्ताः इतिवदर्थ इत्युक्तंभवति ।तत्सृष्ट्वेति। सजीवे जगत्परेणब्रह्मणा आत्मतयाऽनुप्रविष्टमिति तत्सृष्ट्वा इत्यपि श्रुत्यन्तरेणस्पष्टमित्यन्वयःअनेन श्रुत्यन्तरसंवादो दर्शितः । ननु कारणावस्थाया वस्तुन एकत्वात्कथमनुप्रवेशः बहुत्वे सति ह्यनुप्रवेशो युक्त इत्यत्राह - तदेवमिति।सिद्धं स्मारितमिति । कारणावस्थायां अविभक्तनामरूपत्वेन कारणस्यब्रह्मण एकत्वेपि चेतनाचेतनवस्तुनः सत्वात् अनुप्रवेशो युज्यत एवेतिभावः । एवं शंकापरिहारपरवाक्यस्यार्थ मुक्त्वा शंकाप्यनेन परिहृताभवतीत्याह - अनेनेतिपूर्वोक्ता शंका ब्रह्मणि जगद्गतदोषाशंकोत्यर्थ । विरासप्रकारंदर्शयति - अचिद्वस्तुनीति । अथ सूत्रस्य वहुवचनाभिप्रेतवाक्यैरप्यनन्यत्वमुपपादयति - तथाप्रकरणान्तरस्थेष्पपीतिअन्यत्वनिषेधादपि अनन्यत्वसिद्धिरित्यभिप्रयन्नाह - तथाऽन्यत्वचेतिअथद्वैतदर्शनस्य कदाचित् निवृत्ति वचनेना तात्विकत्वं अनन्य वस्यैवतात्विकत्वं सिध्यती व्यभिप्रयन्नाह - तथा यत्रहीती। सूत्रार्थ मुपसंहरति - तदेवमिति।ननु जगद् ब्रह्मणोः शरीरशरीरिभावे सति हि उक्तं सर्वमुपपद्यते सएवन संभवति चिदचिद्रूपस्य जगतः ब्रह्मणः उत्पत्तिप्रलय श्रवणेनकार्यकारणभावप्रतीतेः कार्यकारणयोश्चान्यत्वात् । नहि परस्परमभिन्नयोःकार्यकारणभावःवस्तुतः उक्तोपपत्तिभिरनन्यत्वोपपादनमपि न युक्तम् भेदव्यपदेशाच्चेत्यादिभिःभेदस्य सिद्धान्तितत्वात् अन्यथा व्याघातादित्यादि शंकामर्थतः परिहरन्उक्तमेवार्थं शिष्यसुग्रहत्वाय संग्रहेण प्रदर्शयति - अत्रेदं तत्वमिति।सर्वदा तत्प्रकारं ब्रह्मैव सर्वशब्दाभिधेयमित्यन्वयः । सर्वदाः=कारणावस्थायां कार्यावस्थायां च सर्वदाचिदचिद्वस्तु शरीरतया तत्प्रकारत्वमेवोपपादयति तत्कदाचिदित्यादिनाइति अत्रेदं तत्त्वमित्यन्वयः । विशिष्टस्य कारणत्वात् विशिष्टस्यकार्यत्वाच्च तयोरेवैक्यात् विशेषणविशेष्ययो श्शरीर शरीरिभावो नानुपपन्नःएवं विशेषणविशेष्ययोः भेदव्यपदेशाच्चेत्यादि भेदोपपादनेपि अत्रविशिष्टयोरेवानन्यत्वस्थापनात् न व्याहतिश्चेति भावः । अथ जगद्ब्रह्मणोरनन्यत्वंतथात्वे गुणदोषव्यवस्थाच पूर्वमेवोक्तमिति पुनः स्मारयति - कारणादिति।एवं श्रुति स्मृति स्वारस्यसिद्धं तर्कानुगृहीतं स्वाभिमतं जगद्ब्रह्मणोरनन्यत्वंप्रतिपादितम् । अथ परैरुक्त मनन्यत्वं व्युदस्यति । तत्रादौ मृषावाद्यभिमतमनन्यत्वमनूद्यतत्रानुपपत्तिं प्रदर्शयति - ये त्विति। तु शब्देन स्वमतादति वैलक्षण्यंसूचितम् । स्वमते हि कार्यस्यापि सत्यत्वमभ्युपगम्यैवानन्यत्वमुपपादितम्अनन्यत्वं कुतो न सेत्स्थतीत्यत्राह - सत्य=मिथ्यार्थयोरिति। अनुपपन्नस्याप्यैक्यस्याभ्युपगमेबाधकमित्याह - तथा सतीति। यत्त्वत्र मृषावादिनः प्राहुः - तदनन्यत्वमित्यत्रानन्यत्वंन ऐक्यरूपं जडाजडयोरैक्यानुपपत्तेः किं तु भेदाभावः सच परमार्थतोव्यतिरेकेणाभावरूपः अन्यथाभेदस्य प्रतीयमानत्वेन शशशृंगादिवदसत्त्वस्यदुर्वचत्वेनच तदभावासिद्धेःभेदस्य कार्यस्य मित्यात्वाभ्युपगमेन परमार्थतो व्यतिरेकाभावश्चोपपन्नःइत्थं च तस्मात्=कारणात् ब्रह्मणः कार्यस्या नन्यत्वं परमार्थतोव्यतिरेकेणाभावः इति पर्यवसितमिति । तन्न संयक् । तन्मते निर्धनत्वमित्यत्रनिर्धनशब्देनेव अनन्यत्वमित्यत्रानन्यशब्देन न विद्यतेऽन्यत् यस्मादितिबहुब्रीहिसमासविवक्षणे अन्य शून्यत्वरूपार्थसिध्या ब्रह्मणोऽनन्यत्वोक्तौकार्यधर्मिरूप प्रपञ्चमिथ्यात्वसिद्धिरिति वक्तव्यम् । इत्थंच तस्मात्=कारणात्ब्रह्मणः कार्यस्य जगतः अनन्यत्वमिति वक्तुं न शक्यते । पुरुषस्यनिर्धनत्वमित्यादाविव तस्य ब्रह्मणो़नन्यत्वमित्येव वक्तव्यम् । कार्यस्यजगतः तस्मात्कारणात् ब्रह्मणोऽनन्यत्वमितिहि परव्याख्यानम् । यदि चानन्यत्वमित्यस्त्र तत्पुरुषसमासाभ्युपगमेनअन्यत्वा भावार्थस्वीकारे तदा ऐक्यमेवोक्तं भवतीति न कार्यमिथ्यात्वसिद्धिःमनुष्यादनन्यो ब्रह्मणइत्युक्ते ब्राह्मणस्य मिथ्यात्वाप्रतीतेःअपि च परमार्थतो व्यतिरेकाभावः इत्यत्र व्यतिरेकशब्दवैयर्थ्यंपरमार्थतोऽभाव इत्युक्तेनैव मिथ्यात्वसिद्धेः । ननु तथैवास्तुइति चे त्तर्हि सकल श्रुतिस्मृतीतिहासपुराण विरोधापत्तेः । सर्वत्रहि कार्यसत्यत्वं प्रतिपाद्यते । अतो “यस्या व्यक्तं शरीरं यस्यपृथिवी शरीर मित्यादि श्रुत्यानुगुण्येन शरीर शरीरि भाव - मभ्युपगम्यविशिष्टकार्यं प्रति विशिष्टस्य कारणत्वं स्वीकृत्य अनन्यत्वोपपादनमेववरमितिअथ भास्करोक्तमनन्यत्व मनूद्य निरस्यति - ये चेति। अथ यादन प्रकाशमतमनुवदति - ये पुनरिति । विकल्पो भेदः । विप्लवो विकारः । नन्वे कस्यैवांशत्रयावस्थत्वेकथं गुणदोषव्यवस्थितिरित्यत्राह - अतो भोक्तृभोग्येति। ननु वस्तुनस्त्रित्वात्कथमेकत्वमित्यत्राह - भोक्तृभोग्यनियन्तृणामिति।अनन्यत्वमुपसंहरति - अतस्सन्मात्र द्रव्यमेवेति। दूषयति - तेषामित्यादिना।अथ प्रथमं विरोध स्फूर्त्यै श्रुतिं प्रदर्शयति - सर्वा हिश्रुतयइतिससर्वेश्वरमिति। अनेन व्यवच्छेद्यमुपरिष्ठा द्दर्शयिष्यते । कारणावस्थायामपिसर्वज्ञत्वं “यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः” तस्मादेतत्ब्रह्म नाम रूपमन्नं च जायते “इत्यादिश्रुतिसिद्धमित्यभिप्रेत्याह - सदैवसर्वज्ञमितिसदैवेत्यस्य सर्वत्र संबन्धः । अथोक्तार्थे श्रुतिं प्रमाणयन् सर्वेश्वरस्यैककारणत्वंनिगमवति - तथाहीत्यादिना। अथ सर्वोपनिषत्स्वपि नारायणस्यैव कारणत्वोक्तिरितिबोधयितुं कारणवाक्योक्त सद्ब्रह्मात्मशब्दादीनां सामान्यविशेषन्यायेनविशेष पर्यवसानं दर्शयति - सद्ब्रह्मात्मशब्दा हीति।ईश्वरस्यैवेति।न चास्य कश्चिज्जनितेत्युक्तेरिति भावः । अथ स्मृतीतिहासपुराणानिप्रदर्शयति - स्मृति रपीत्यादिवाक्य द्वयेन ।। अथ लक्षणाविरोध प्रदर्शनायाह- नचेश्वरइति ।तदंशत्वाभ्युपगमादिति। सन्मात्र ब्रह्मणो हि जीवेशाचित्प्रभेदेननित्य सिद्धांशत्रयवत्वमिति भवद्भिरुच्यते, अत ईश्वरस्य सन्मात्रब्रह्मणश्च नैक्यमिति अनन्यत्वं दुरुपपादमेवेति भावःजीवाचिद्विषयेऽपीदं बोध्यम् । दर्शयिष्यते चोपरिष्टात् ।सविशेषत्वाच्चेति।नियन्तृत्वज्ञानादिविशेषवत्वाच्चेत्यर्थःसन्मात्र ब्रह्मणो हि अंशिभूतस्य नियन्तृत्वादि विशेषाः नाभ्युपेयन्तेईईश्वरस्यच तदंशस्य नियन्तृत्वादिकमङ्गीक्रियते इति कथं तयोरेकत्वमिति भावः । नन्वीश्वरस्योक्तो विशेषः कादाचित्क एवेति नैक्यानुपपत्तिरित्याशंक्याह - नच तस्येति। इत्यादिभ्यः, स्वाभाविकत्वेन बोधनेन सदातनत्वादित्यर्थः।स्वाभाविकज्ञानादिमत्वबोधकश्रुतेः ज्ञानादिशक्तियोगस्य स्वाभाविकत्वप्रतिपादनपरत्वं पराभिमतं व्युदस्यति - ज्ञानानन्दादि शक्तियोगइतिःअवधारणेन ज्ञानादेः व्वच्छेदः । कुत इत्यत्राह - शक्तिः स्वाभाविकीति।स्वाभाविकीत्यस्योभयत्रान्वयादित्यर्थः ।पृथङ्निर्दशादिति। शक्तेःस्वाभावकित्वं नास्मदनभिमतं किंतु शक्तेरेव, स्वाभाविकत्वं शक्तिज्ञानाद्युभयोरेवहिस्वाभाविकत्वं श्रुतिः बोधयति । अन्यथाभवन्मते हि शक्तिः स्वाभाविकीतिनिर्देशस्य वैयर्थ्यापत्तेरिति भावः । ननु परास्य शक्तिर्विविधैवश्रूयते स्वाभाविकी इत्यत्र शक्तिशब्दः सामान्यशब्दः । अघटितघटनासामर्थ्यरूपशक्तिविशेषेज्ञानादिकार्यकरणरूपसामर्थ्यविशेषेच प्रयोगात् । स्वाभाविकी ज्ञानबलक्रियाचइत्यत्र ज्ञानादिकार्यकरत्वरुपशक्ति विशेषस्यैव संकोचेन प्रतिपादनम्अत एव वा गोबलीवर्दन्यायेन शक्तिशब्दो व्यतिरिक्तविशेषमात्रपर्यवसीयी,इत्थं च नपृथङ्निर्देशवैयर्थ्यमित्यत्र दूषणान्तरं समुच्चिनोति - लक्षणाप्रसंङ्गाच्चेति।ज्ञानबलक्रियाचेत्यत्र ज्ञानादि क्रियावाचिना ज्ञानादिशब्देन तत्तच्छक्तिप्रतिपादनस्य लक्षणयैवाभ्युपगन्त व्यत्वेन लक्षणैव दोषः । लक्षणाबीजाभावादितिभावः । एवं लक्षणां विनैवनिर्वाहे शक्तिशब्दस्य संकोचकरणमप्यस्वरसमिति चाभिप्रायः । अथ सर्वज्ञः इत्यादिश्रौतपदस्य पराभिमतार्थाभासपरत्वंव्युदस्यति - न चेत्यादिना।पाचकादिवदिति। संप्रति पाकानु कूलकृतिशून्येपि पाककरणशक्तिमति व्यक्तिविशेषे पाचक शब्दव्यवहारो दृश्यतेअतः पाचक इत्यस्य पाककरणशक्तिमानित्येवार्थः । एवमेव सर्वज्ञः इत्यादावपिइति भावः । यद्यपि सर्वज्ञःइत्यत्र कृ त्प्रत्ययस्य शक्तिमात्रार्थकत्वेऽपिन ज्ञानादेः स्वाभाविकत्वव्यवच्छेद संभवः । श्रुत्यन्तरे स्वाभाविकीज्ञान बलक्रिया चेत्युक्तेः । अथापि ज्ञान बलक्रिया चेत्यात्रापिज्ञानशब्दस्य कृदन्तत्वेन तत्रापि शक्तिमात्रे कृप्रत्यय संभवेनज्ञानपदेनैव लक्षणां विना वाक्यैव ज्ञानादिशक्तिबोधेन न लक्षणापादनंयुक्तम् । पृथ ङ्निर्देश चारितार्थ्यमपि पूर्वमेवोक्तमिति न ज्ञानादेःस्वाभाविकत्वमावश्यकमिति पूर्वपक्ष्याशयः इत्याशयेन तदभिमतार्थोनिराकृतः इतिइत्यादिष्वित्यत्रादि शब्देन शकि लिंङ्चेत्यादिसूत्रग्रहणम् । अत्रसूत्रे चशब्देन कृत्प्रत्ययान्तराणामपि शक्तौ विधानं सूचितम् ।नन्वेवमेव पाचकादिष्वपि कृत्प्रत्ययस्य शक्त्यर्थकत्वं न स्यादित्यत्राह - पाचकादिष्वगत्येति।तत्र शक्तिमति प्रयोगदर्शनमिति अर्थान्यथानुपत्या लक्षणाऽभ्युपगमःअत्र ज्ञानादियोगस्यैव स्वाभाविकत्वेनोपपत्तेः न लक्षणाबीजाद्यनुपपत्तिरस्तीतिभावः । ननु सूत्रे केषांचित्प्रत्ययानां शक्तिविषयत्वस्मरणेऽपिपाचकादिषु शक्तौ कृदन्तत्वेन प्रयोगदर्शनात् कतिपयविधानमुपलक्षणमितिकिं न स्यादिति चेत् ? किं ततः प्रयोगदर्शनाद्धि तत्र कृत्प्रत्ययस्यशक्त्यर्थकत्वं स्वीकृतं न नावता सर्वकृत्प्रत्ययस्यापि शक्त्यर्थकत्वंसंभवतिअतो विशेषोपादानेनान्यथानुपपत्त्या वा केषांचिदेव कृत्प्रत्ययानांशक्तिविषयत्वमिति न ज्ञानपदेऽपि कृत्प्रत्यस्य शक्तिविषयत्वसंभवइति ।दूषणान्तरं प्रदर्शयति - किंच्चेश्वरस्येति उभयत्र तच्छब्दः सन्मात्रब्रह्मपरः तदुक्तदृष्टान्तरीत्यैवासागत्यमिति द्योतनाय - तरङ्गात्समुद्रस्येवेत्युक्तम्।बाधस्फूर्त्यै ईश्वरविषयाणीत्युक्तम् । परश्शतानि वचांसीत्यनेनदोषाधिक्यं प्रकशिततम् ।बाध्येरन्निति। ईश्वरस्यांशत्वात् सन्मात्रब्रह्मणोम् ऽशित्वात् अंशापेक्षया अंशिनः उत्कृष्टत्वात्, अंशभूतस्याधिक्यकथनं बाधितं भवतीति भावः । दूषणान्तरं योजयति - किंचसन्मात्रस्येति। आद्यस्तच्छब्दो सन्मात्र ब्रह्मपरामर्शी, द्वितीयस्तुअंशभूतेश्वरपरामर्शी । ननु कथं व्याहतिरित्यत्र - व्याहति प्रकारमेवोपपादयति - नहीतिअंशानांमश्यात्मकत्वमभिमतमेव । अंशानांपरस्परं तत्तदात्मकत्वं तत्तदंशत्वंवानाभिमतं, अनुपपन्नंच । अतस्सर्वस्यापि वस्तुनः अंशभूतेश्वरात्मकत्वाभावात्ईश्वरांशत्वाभावाच्च ईश्वरस्य सर्वात्मकत्व सर्वांशित्व बोधक श्रुतिविरोधोदुर्वार एवेत्याशयः । शंकते - स्वांशेषु सर्वेष्विति। अनिष्टापादनेनपरिहरति - घटेऽपीति। मूलेकुठारं पातयति - नच सन्मात्रस्येति। वस्तुधर्मतयाऽवगतस्यसर्वत्रानुवर्तमानस्य सन्मात्रस्य वस्तुधर्मत्वादित्यर्थः । अनेनदण्डरूपादीनामिनान्यथासिद्धिरुक्ता ।। द्रव्यत्वं=स्वतन्त्र द्रव्यत्वम्अनेन सत्त्वादिधर्मणां द्रव्यत्वे़पि न बाधकम् ।।अथ वस्तुधर्मत्वोपपादनाय सत्त्वस्वरूपमाह - व्यवहारेति । अत्र सत्वप्रसंगादसत्वरूपमपिदर्शयति - विरोधीति।एतावता सत्त्वस्य वस्तु धर्मत्वमभ्युपगम्य दूषण मुक्तम् । अथ स्वतन्त्रद्रव्यत्वाभ्युपगमे दूषणमाह - द्रव्यमेव सदिति। अथ द्रव्यसंबन्धात्क्रियादेस्सत्त्वमिति तत्रामुख्यमेव तदिति शंकां परिहरति - क्रियादिष्विति। काशकुशावलम्बनं नाम काशस्य कुशत्वेन कु शस्थानेऽवलम्बनंअमुख्यमिति यावत् ।सर्वत्रैकरूपासत्ता दुरुपपादेति। क्रियादिषुद्रव्यसंबन्धः सत्त्व प्रयोजकः द्रव्ये त्वन्यदिति प्रयोजकैक्यंव्याहृतं भवतीत्याशयः ।अथोक्तपक्षस्याति पापीयस्त्वाभिव्यक्त्यै उक्तमेव दूषणं पुनः स्मारयति - सदात्मनाचेति । एवं पक्षान्तरेषु दोषाधिक्यात् स्वोक्तपक्षे दोषलेशस्याप्याभावाच्चस्वोक्तमेवानन्यत्वं युक्तमिति निगमयति - अत इति ।। सूत्रे तदनन्यत्त्वं = ब्रह्माभिन्नस्त्वं तत्त्वं (असि). इति श्रुत्यभिज्ञया पदच्छेदंकुर्वन्ति । अन्यत् शब्दः तकारान्तः, अतः तकारद्वयं तत्त्वं त्वम् इतिवक्तव्यम् ।
अनन्तरसूत्रं चोद्यमुखेनोत्थापयति - अथोच्येतेति । कुतो निर्णीयत इति ।बुद्धि शब्दान्तरादीनां द्रव्यान्तरत्वनिबन्धनत्वं अवस्थाभेदनिबन्धनत्वंवेत्यत्र विनिगमकाभावादित्यर्थः । कस्य भावे इत्यपेक्षायामाह - कुण्डलादिकार्येति।कस्योपलब्धिरित्यत्राह - कारणभूते इति । एवमक्षरार्थमुक्त्वा तात्पर्यार्थमाह - इदमिति।इदं कुण्डलं हिरण्यमिति हि सामानाधिकरण्येन प्रत्यभिज्ञानं दृश्यतेअतः कार्यकारणयोरनन्यत्वं प्रत्यभिज्ञाप्रत्यक्षसिद्धम् । अतएव श्रुतावपि मृत्तिकेत्येव सत्यमिति प्रत्यभिज्ञाप्रत्यक्षस्यानन्यत्वसाधकत्वमुच्यतेअन्यथा असत्कार्यवादिनां कार्ये समवायिकरणानुवृत्तिं वदतां भवतांमते कुण्डलेऽस्मिन् हिरण्यमिति वैयधिकरण्येन प्रत्यभिज्ञानं ह्यावश्यकम्न च तथा दृश्यते इति भावः । एवं सूत्रोक्तमन्वयं प्रतिपाद्य व्यतिरेकोक्तंप्रदर्शयति - नचैवमिति। एवमुपलब्धयनुपलब्धिभ्यां कारणभूतस्यैवावस्थान्तरापन्नत्वेकार्यत्वमिति निश्चीयते इत्याह - अतइति । नन्वन्यत्वसाधक प्रत्यभिज्ञाभावेपिबुद्धिशब्दान्तरादिभिः वस्त्वन्तरत्वं कल्प्यते इति शंकां परिहरति - द्रव्यान्तरवादिनापीति।अभ्युपेतेनावस्थान्तरयोनेनः असभवायिकारणत्वेनाभ्युपेतेन तन्तुसंयोगादिनेत्यर्थःइत्थं त्वदभिमतासमवायिकारणेन बुद्धिशब्दान्तरादीनामुपपत्तेरन्यथासिद्धत्वान्नतेषां कल्पकत्वमिति भावः । एतेन सेयंदीपज्वालेति वद स्यापि प्रत्यभिज्ञानस्यभ्रान्तत्वकल्पनमपि निरस्तम् । तथा कल्पकानन्यथासिद्धहेत्वभावात्बुद्धिशब्दान्तरादीनांचान्यथासिद्धत्वात् । अतो ज्ञानस्य स्वतःप्रमाणत्वेन भ्रान्तत्वकल्पकाभावेनच प्रत्यभिज्ञासिद्धमनन्यत्वंदुष्परिहरमिति । ननु सेयंगौरित्यादि प्रत्यभिज्ञायाः जातिनिबन्धनत्वदर्शनात्इयमपि प्रतयभिज्ञा जातिनिबन्धनैव स्यात् अतोनानन्यत्वसिद्धिरित्याशंक्याह - नचजातिनिबन्धनेति।सेयंगौरित्यादौ व्यक्तिद्वयोपलब्धेः उभयानुगतजातिनिबन्धनत्वं प्रत्यभिज्ञायाःयुक्तम्अत्रतु व्यक्यन्तरानुपलम्भात् न तन्निबन्धनत्वमिति भावः ।न केवलं व्यक्तिद्वयानुपलब्धि=प्रत्युत एकद्रव्यस्यैवोपलब्धिरित्याह - एकमेवेति।अथ वस्तुतो कार्यकारणे भिन्ने एव परंतु कार्ये कारणप्रत्यभिज्ञानंसमवायिकारणानुवृत्ति निबन्धनमेवेति प्रत्यभिज्ञानस्यान्यथासिद्धत्वान्नानन्यत्वसाधनंयुक्तमिति शंकामनूद्य परिहरति - नच द्रव्यभेदेइति ।द्रव्यान्तरत्वेसतीति। आश्रयानुवृत्ति मात्रेण द्रव्यान्तरे तथा प्रत्यभिज्ञानंनदृष्टम् । अन्यथा घटस्थे जले घटोजलमिति सामानाधिकरण्येन प्रत्यभिज्ञानापत्तेरित्याशयःननु कार्यकारणयोस्तथा प्रत्यभिसन्धानं स्यात् । मैवत् । कार्यकारणयोर्द्रव्यान्तरत्वेएव विवादात्द्रव्यान्तरत्वसिद्धौ प्रत्यभिज्ञानस्यान्यथा सिद्धिः अन्यथासिद्धौद्रव्यान्तरत्वसिद्धिरितिमिथः संश्रयाच्च । अतोऽन्यत्र द्रव्यान्तरत्वनिश्चयस्थलेएव प्रत्यभिज्ञानस्यान्यथासिद्धिः प्रतिपादनीया । तत्रच तथा प्रत्यभिसन्धानमेवनास्ति अतोऽन्यथासिध्युपपादनमेव दुःशकमित्यभिप्रायः । अथ क्वचित्कार्यकारणयोरनन्यत्वेनाभिमते स्थलविशेषे प्रत्यभिज्ञानासिद्धिंशंकते - गोमयादीति।न दृश्यतेइति । कार्य कारणयोरनन्यत्वं सिन्धान्तिनापिदुःसाधमिति भावः । तत्रापि प्रत्यभिज्ञानमस्तीत्याह - तत्रापीति।समवयिकारणानुवृत्तिं वदता त्वयापि प्रतिसन्धानाभावचोद्यपरिहारायआदिकारणपृथिवी प्रत्यभिज्ञानस्येष्टव्यत्वादित्याशयःनिमित्तकारणस्यापि कार्ये प्रत्यभिज्ञानमावश्यकमित्यापाततो मत्वाशंकते - अग्निकार्येइति । उपादानकारणस्य कार्ये प्रत्यभिज्ञातव्यत्वंनतु निमित्तमपीत्याशयेन परिहरति - भवत्विति। तर्हि तत्रोपादानकारणंकिमित्यत्राह - अग्नि संयुक्तेति । धूमस्यार्देन्धन कार्यत्वे उपपत्तिमाह - गन्धैक्याच्चेति।इत्थंच घूमे गन्धवत्वात् तत्कारण पृथिवीत्वप्रत्यभिज्ञानं दृश्यतएवेति भावः । सूत्रार्थ निगमयति - अतः कार्यभावेचेति ।तस्मादिति।अवस्थाभेदमात्रनिबन्धनत्वे विनिगमकसत्वादित्यर्थः ।
उत्तरसूत्रं व्याचष्टे - अपरस्येति। कार्यस्येति तद्व्याख्यानम् ।।कारणेसत्वात्=कारणावस्थायां सत्वादित्यर्थः ।ननु भविष्यतः कार्यस्यकथं कारणावस्थायां सत्वमित्यत्राहलोकवेदयोरिति। यतःकार्यस्य कारणतयाव्यपदेशः तत एव कार्यस्य कारणावस्थायामपि सत्व मावश्यकमिति भावःपूर्वत्र कार्यकारणयोरनन्यत्व साधकं प्रत्यभिज्ञानं प्रमाणीकृतंअत्र तु तादृशव्यपदेशः प्रमाणीकृतः इति भेदः । अत एवोत्तरसूत्रेअसद्व्यपदेशादिति प्रतिबन्द्या पूर्वपक्षः कृतः । अत एव व्यपदिश्यतिइति भाष्ये उक्तम् । केचित्तु सोऽयमिति प्रत्यभिज्ञानस्य अनन्यत्वसाधकतयोपन्यासःपूर्वंव्यरचि । अत्र तु अयं सः इत्यभिज्ञायाः प्रमाणतयोपन्यासः कृतः इति भिदामाहुः ।। केचित्तु - भावे चोपलब्देरिति सूत्रं कार्यदशायां कार्ये कारणतादात्म्यप्रतीतेः प्रमाणत्वोपन्यासपरम् । इदंतु कार्यनाशानन्तरं तादृश प्रतीतेःप्रमाणत्वोपन्यासपरमिति व्याचक्षते ।
पूर्वपक्षपरसूत्रखण्डमवतारयति - यदुक्तमिति। असद्व्यपदेशमेव लोकवेदाभ्यामुपपादयति - असदेवेति।पूर्वत्रापि लोकवेदाभ्यामेव हि सद्व्यपदेश उपपादितः । अत्र व्युत्क्रमेणलोकवेदप्रतिपादनं तु वादिनापि उक्तार्थस्याप्रकम्प्यत्वबोधनार्थम्वाचारम्भणमित्यादिश्रुतिभ्य एव हि वाद्यपि अनन्यत्वमुपपादितवान्कार्यस्यसत्त्वमपि श्रुतिभ्य एवावगम्यत इति कथमनन्यत्वमित्याशयःअत्रापि असद्व्यपदेशबाहुल्य बोधनायानेकश्रुत्युपादानम् । पूर्वपक्षमुपसंहरति - अतो यथोक्तमिति। दूषयति - तन्नेति। असद्व्यपदेशस्य धर्मान्तरेणव्यपदेश रूपत्वमेव विविच्य दर्शयति - स खल्वितिधर्मान्तरेणेति व्याख्येयम् । संस्थानान्तरेणेति व्याख्यानम् ।निषेध्यं व्यनक्ति - न भवदिति। ननु - असद्व्यपदेशेन वस्तुनोऽसत्वमेवह्युच्यते । तत्कथं धर्मान्तरेणस्थितिरित्यत्राह - सत्वासत्त्वेहीतिविरोधिव्यवहारयोग्यता तद्व्यवहारयोग्यस्यासत्वमित्युक्तमित्यर्थःसत्त्वस्येवासत्वस्यापि द्रव्यधर्मत्वेन कथमसद्व्यपदेशेन वस्तुतस्सतोद्रव्यस्य तुच्छत्वं बोध्येत इति भावः । ननु सद्व्यपदेशेन तुच्छत्वस्यानभिमतत्वेधर्मान्तररूपमसत्वं किं, अन्यशब्दप्रतियोगीच कः इत्यत्राह - तत्रसत्व धर्मादिति। तद्विरोधिनी सूक्ष्मावस्थेतिसत्त्वासत्वयोरापेक्षिकत्वादिति भावः । खण्डान्तरमवतारयति - कथमिदमिति।इदं=धर्मान्तरयोगः । अर्थौचित्यात् पञ्चम्यन्ततया निर्देशसामर्याच्चएकसाध्यसाधकत्व मित्यालोच्य वाक्यशेषाद्युक्तेः शब्दान्तराच्चेप्युक्तम्मनस्कारलिंगेन = मनस्सृष्ट्टत्वलिगत्वेन नहि तुच्छस्य सृज्यंत्वसंभवःअतोऽत्रोक्तमसत्वं न तुच्छत्वरुपमिति भावः । नन्वसदेवेदमित्यतत्रन वाक्यशेषः श्रूयते तत्र कथं निर्वाहः इत्यत्राह तदैकार्थ्यादितिस्वलत्रये असद्व्यपदेशः उक्तः । तत्र इदं वा अग्रे इत्यत्र तदसदेवेतिवाक्यशेषः । असद्वा इदमग्र आसीदित्यत्र तदात्मानं स्वयमकुरुत इतिवाक्य शेषःअसदेवेत्यत्रतु तदैकार्थ्यरुपप्रमाणमिति ध्येयम् ।। मृट्द्रव्यस्येत्यादिनासत्वस्य पदार्थ धर्मत्व मुक्तं तस्यैवेत्यादिना असत्वस्य धर्मान्तरत्वमुक्तम्अथ विरोध्यवस्थान्तरयोगस्य नास्तीति व्यवहारहेतुत्वमुपपादयति - तत्र - कपालादीति।आदिशब्देन पिण्डग्रहणम् । अयमाशयः घटोऽस्तीत्यत्र घटत्वावस्थाविषयी क्रियते घटो नास्तीत्यत्रतु घटत्वाभावावस्था । साच कपालत्वपिण्डत्वावस्थैवनतु अतिरिक्ताभावः प्रमाणाभावात् । अतस्सत्त्वस्येवासत्वस्याप्यस्थान्तरत्वमेवंन तुच्छत्वरूपमिति । अथाऽभावरूपानुपलब्धिपराहतत्वं दर्शयति - नचेतिकल्पनमपि न संभवतीत्याह - नच कल्प्यतइति । तावतैव=क्लृप्तेन भावरूपावस्थान्तरेणैवअयं भावः - अभावान्तवादिनोपिहि अनवस्थाभयेन अभावा भावस्य भावरूपत्वमावश्यकंअतस्सर्वत्रैवाभावव्यवहारो विरोध्यवस्थान्तरेणोपपद्यते इति तद्व्यतिरिक्तकल्पनंनिष्प्रयोजनम् । तत्र पिण्डत्वावस्था घटप्रागभावः । कपालत्वावस्थाचघटप्रध्वंसाभावः । घटत्वंच पटादेरन्योन्याभावः । कालविशेषविशिष्टदेशविशेषत्वंअत्यन्ताभावः इति न भावातिरिक्तोऽभाव इति । ननु भावान्तराभाव वादिनांभवतां मते ब्रह्मानुभूतेः ज्ञानविकासरूपत्वं तस्य च ज्ञानसंकोचध्वंसरूपत्वंचाभ्युपगन्तव्यम् अन्यथा परिपूर्णानुभवरूपमुक्तेः साध्यत्वे ऽनित्यत्वप्रसंगात्ध्वंसरूपत्वे तु सादिरनन्तः प्रध्वंसाभावः इति लक्षणानुसारेण ध्वंसस्यन ध्वंसः नानित्यत्वप्रसक्तिः । अन्यथा प्रतियोग्युन्मज्जन प्रसंगात्तत्र घटत्वावस्थाध्वंसः कपालत्वावस्थारूपः कपालत्वावस्थायाः ध्वंसःचूर्णत्वावस्थेति उपर्युपरिवक्तव्यतया कपलत्वाद्यवस्थारूप घटत्वावस्थानाशस्यापिनाशावश्यकत्वात् कथं ध्वंसरूपत्वांगीकारेण नाशाभावोपपादनम्तत्तदवस्था रूपनाशनाशस्यावश्यांगीकर्तव्यत्वात् ।अपि च भावान्तराभाववादिमते नाशस्य भावरूपत्वं वाच्यम् । अत्र तुभावरूपावस्थायाः नाशरूपत्वमभ्युपेत्य ध्वंसस्य ध्वंसा भावात् परिपूर्णानुभवस्यसाध्यत्वेऽपि नानित्यत्व मित्युच्यते? एतेना भावान्तरभाववादित्वमेवभवतां प्रसज्यते?इति चेदत्रोच्यते - पिण्डत्व घटत्व कपालत्व….अणुत्वावस्थानां सर्वासांपूर्वपूर्वावस्थानाशरूपत्वं पूर्वावस्थानाशरूपान्तिमावस्थायाः नैवनाशः । अतोऽन्तिमावस्थारूपो नाशः उत्तरावधिरहित एव । अतस्सर्वस्याअपि अवस्थायाः नाशत्वाक्रान्तत्वात् नाशत्वानापन्नावस्थाराहित्यंसिध्यति । तथाचान्तिमनाशस्य नाशो नास्ति । एवंधीविकासपरंपरायाःसर्वस्या अपि ज्ञानसंकोचध्वंसरूपत्वात् ब्रह्मानु भूतेर्नित्यत्वम्अपि च भवतां मतेपि भावान्तराभाववादित्वमेषितव्यम् । घटाभावाभावस्यघटरूपत्वस्वीकारात् । घटभेदस्य प्रतियोगिता वच्छेदकी भूत घटत्वरूपतास्वीकाराच्चअपि च ध्वंसस्यान्ताभावेऽपि सादित्वमिष्यते । तथा च घटध्वंसप्रागभावःइष्यते सच स्वरूपादन्यो न दृश्यते । प्रागभावस्यानादित्वात् घटरूपस्यघटध्वंसप्रागभावस्याप्यनादित्वेन घटस्यानादित्व प्रसंगः । यदि घटध्वंसप्रागभावस्यघटरूपत्वं नेष्यते? तदा घटध्वंस प्रागभावध्वंसस्यापि न घटध्वंसरूपत्वमितिवक्तव्यम् । एवं तस्य प्रागभावः तस्य ध्वंसः तस्य प्रागभावः इत्यनन्तपदार्थ कल्पनाप्रसंगःअपि च ध्वंस प्रागभावयोः स्वसमान देशवृत्तित्वनियमोपि भवतां भग्नःध्वंस प्रागभावस्य घटरूपत्वे तस्य सादित्वात् प्रागभावस्यापिसादित्व प्रसंगः । यथाऽस्मन्मते ध्वंसस्यावस्थारूपत्वे तस्यापिध्वंस इति ।। एवमेव घटप्रागभावस्य सान्तत्वेन ध्वंसावश्यकत्वात्घटप्रागभावध्वसस्य घटरूपत्वमेष्टव्यम् । ध्वंसरूपघटस्य ध्वंससत्वेनध्वंसस्यानन्तत्वं भवतामपि गतम् । घटरूपत्वानंगीकारेतु प्रागभावस्यध्वंसः ध्वंसस्य प्रागभावः इत्येवंरीत्या अनन्ताभावकल्पना प्रसंगःकिंच घटभेदस्य घटव्यतिरिक्तेषु सर्वत्र वर्तमानत्वेन तदभावस्य घटत्ववत्घट एव वर्तमानतया घटभेदाभावो घटत्वरूपः अत एव भेदाभावस्य भेद प्रतियोगितावच्छेदकरूपत्वमिष्यतेएवं पटभेदाभावःपटत्वरूपः । अतो भावान्तराभाववादित्वं भवतामप्यनिवार्यम्एवमेव घटादिभेदस्य पटे एव पटत्ववत् वर्तमानत्वात् तस्य पटत्वरूपत्वंस्वीकार्यम् । तथा घटध्वंस भेदस्य घटे वर्तमानत्वात् सोपि घटत्वरूपःन च घटध्वंस भेदस्य ध्वंसव्यतिरिक्ते सर्वत्र वर्तमानत्वात् कथंतस्य घटत्वरूप तेति वाच्यम् । धटध्वंसभेदस्य घटव्यतिरिक्ते सर्वत्रवर्तमानतया तस्य तत्तत्पदार्थासाधारण रूपत्वमेवेत्यनिवारणात् ।एवं घटध्वंसभेदाभावस्य घटध्वंसरूपतेति ध्वंसत्वरूप भावपदार्थरूपताभेदस्य । नहि सोऽभावः घटध्वंसरूपः । तथा सति ध्वंस - अभाव्योरैक्यापत्तिःअतोऽप्रतिष्ठितमेव भवतां मतम् ।।शब्दान्तरं विवृणोति - शब्दान्तरंचेतिअस्योपपादकत्वमाह - तत्रहीति। अथासत्वेनोक्तस्यैवावस्थान्तरयोगेनसाक्षात् सत्त्व मेव श्रुतौ युक्तमित्यपि दर्शयति - तद्धेदं तर्हीति ।
अथोत्तरसूत्रद्वयं तत्कृत्यं प्रदर्शयन्नवतारयति - इदानीमिति। इदानींपूर्व सूत्रैरनन्यत्वे साधिते सतिइत्यर्थ । अनेन दृष्टान्तेन वक्ष्यमाणस्यपटादेरपि विप्रतिपन्नत्वात् न दृष्टान्तत्वमुपपद्यते इति चोद्यंपरिहृतम् । सूत्रार्थमाह - यथा तन्तवएवेति । व्यतिषङ्गः=परस्पर संबन्धःपट इति=पटत्वेन सन्तः । पूर्वोक्तप्रमाणबलेन कार्यकारणयोरनन्यत्वसिद्धेःतन्तुपटयोरपि कार्यकारणभावेनानन्यत्वस्यापलापानर्हत्वात् तन्तूनामेवकारणानां व्यतिषङ्गविशेषभाक्त्वे नामरूपकार्यान्तरभाक्त्वमिति स्वीकर्तव्यमितिब्रह्मजगतोरपि कार्यकारणभावेनानन्यत्वात् ब्रह्मण एव कार्यावस्थापन्नत्वेनामरूपादिभाक्त्वमिति भावःननु तन्तुपटयोरनन्यत्वं नयुक्तिमत् । तथा सति एकस्मिन् वस्तुनिविरुद्धभिन्नाभिन्नत्वाभ्युपगमापतेनापसिद्धान्तात् । तथाहि तन्तूनांव्यतिषङ्गविशेषप्राप्त्यनन्तरमपि न तन्तुगतबहुत्वमपगतं, पटश्च एकएवेति व्यवह्लियते, तत्र यदि तन्तुपटयोरेकत्वं तदा एकस्मिन्नेवधर्मिणि युगपत् विरुद्धबहुत्वैकत्वयोरभ्युपगमः आवश्यक इति । मैवम्भावाभावविरोधस्थले एव भिन्नाभिन्नत्वस्य दूष्यत्वेनात्र चैकत्वबहुत्वयोर्विरोधाभावात् । तन्तूना पटत्वावस्थाप्राप्त्यनन्तरमेवहिएकत्वसंख्योत्पत्तिरिष्यते । पटत्वावस्थानापन्नानामेवहि केवलानां,तन्तूनां बहुत्वंअतः केवलतन्तूनां बहुत्वेऽपि पटत्वावस्थापन्नत्वे एकत्वमेवेतिन केवलतन्तुगतबहुत्वस्य पटत्वावस्थापन्नतन्तुगतैकत्यस्य च विरोधःव्यतिषङ्गविशेषभाजामेव च तन्तूनां पटादनन्यत्वं नामरूपकार्यान्तरभाक्त्वंचेति न किंचिदपहीतम् । यदितु जातिर्व्यक्तिर्भवति, न भवति च खण्डोमुण्डोभवति न भवति चेत्येवं धर्म धर्मिणोः धर्मिद्वयस्यच मिथस्तादात्म्यतदभावलक्षणंभिन्नाभिन्नत्वं प्रकृतेऽपीष्यते तदा विरोधोद्भावनं शक्यं, नहितन्तवः पटो न पटश्चेत्यस्माभिरिष्यते तन्तुभ्यः पटस्याभिन्नत्वेनैवाभ्युपगमात्,नहि कारणभूत तन्तुसमुदायस्यच परम्परसंयुक्तत्वावस्थापन्नस्यापेक्षयापटोऽतिरिक्तः इत्युच्यते । अन्यथा परस्परसंयुक्तैस्तन्तुभिः पटाख्यद्रव्यान्तरोत्पादनाभ्युपगमेआरम्भकतन्तुसमुदायगुरुत्वस्य आरब्ध द्रव्यगतगुरूत्वस्य च द्वयोरभ्युपगमनीयतयातोलने गुरुत्वाधिक्योपलब्धि प्रसंगश्च । अतो मतान्तरे इवास्मन्मतेविरुद्धभिन्नाभिन्नत्वापादनं न सुशकमिति । दीर्घेण एकेनैव तन्तुना पटनिर्माणेकस्यासमवायिकारणत्वम् ? तन्तुद्वयसंयोगाभावात् । अतः असमवायिकारणमितिकार्यं प्रति कस्यचित् हेतुत्वकल्पनं निरर्थकम् इत्यपि बोध्यम् ।।
उत्तरसूत्रार्थमाह - यथा चेति ।प्राणापानादिनामेति । ………..इत्यारम्भणाधिकरणम् ।।