(2.01.05) भोक्त्रापत्त्यधिकरणम्संगतिं प्रदर्शयति - पुनरपीति । अनेनानन्तरपूर्वाधिकरणेन संङ्गतिरुक्ताभवति । सशरीरत्वप्रयुक्तेत्यादि । शरीरगतबालत्वयुवत्वादिधर्माणांशरीरिण्यप्रसङ्गस्य दृष्टान्तसिद्धत्वेपि शरीरसंबन्धप्रयुक्तभोक्तृत्वप्रसंगोऽवर्जनीय एव । प्रत्युत भोक्तृत्व प्रसङ्ग दृष्टान्तसिद्धःअत एव “न तु दृष्टान्तभावादि’ त्यादिनापि शरीरगतधर्माणामप्रसङ्गएवोक्तः। इत्थञ्च पक्षान्तराणां परस्परविरोधादिबाहुल्येनानुपपत्तिसद्भाववत्सूक्ष्मचिदचिच्छरीरकपरमात्मनः स्थूलचिदचिच्छरीरकपरमात्मरूपजगत्सृष्टयभ्युपगन्तृणांभवतां मतेऽपि स्वभागविभागानुपपत्त्या सुतरामसाङ्गत्यमित्याशयः ।अथोक्तशङ्कायाः दत्तोत्तरत्वमाशंकते ननु चेति । समाधते - नैवमिति ।शरीरान्तर्वृत्तित्वमात्रेणेत्यत्र मात्रशब्देन स्वामित्वं व्युदस्तम् ।शरीरान्तवृत्तित्वमात्र प्रयुक्तभोग प्रसङ्गशङ्का पूर्वं परिहृता ।अत्र तु शरीरस्वामित्वप्रयुक्तभोगप्रसङ्गशङ्का परिह्रियते इति शङ्कायांमुखभेदसत्वेन पुनरारम्भ इति भावः । स्वामित्वाभिप्रायेण हि जीववत्ब्रह्मणोपि शरीरवत्वे इत्युक्तम् । इदमत्राकूतं उपासकै रूपास्यत्वायपरब्रह्मणः हृदयायतनस्थत्वेपि शरीरसन्निधिमात्रेण न शरीरित्वप्रयुक्तसुखदुःखभोक्तृत्वंसंभवति यथा कस्यचित् पुरुषस्य व्यापारवशेन परगृहप्रवेशेऽपितद्गृहसन्निधिमात्रेण न तस्य गृहस्वामित्वप्रयुक्तानर्थाभ्युदभाक्त्वंइत्युक्तं संभोगप्राप्तिरिति चेन्न वैशेष्यादिति सूत्रे । अत्रतु शरीरस्वामित्वप्रयुक्तयदापादनं क्रियते । यद्यभयत्र परिहारमार्गस्त्वेकएव, अथाप्यत्र वक्तव्यपरिहारमुपर्जाव्यैव सन्निधिमात्र प्रयुक्तभोक्तृत्वशंकापरिहृतेति न पौनरुक्त्यं नापि निष्फलत्वम् । अन्यथाऽत्र परिहाराकथनेशरीरस्वामित्वप्रयुक्तशंकायामन्धधियां अपरिहृतत्वाशंकापत्तेः ।अतश्शंकाद्वारभेदात्सूत्रभेद इति । अथ शरीरवत्वे भोक्तृत्वप्रसंगंदृष्टान्तेनोपपादयति - दृश्यते हीतिनतु दृष्टान्तभावादित्यत्रोक्तशंका परिहृतेति शंकापरिहाराय - विकारासंभवेऽपीत्यन्तम् । सुखदःखयोगः इति । जीवस्येकशरीरवत्वे एव विविधानन्तदुःखभोक्तृत्वदर्शनेनसमस्तचेतनाचेतनशरीरकस्य परस्य कथं विश्वदुःखाननुभवः, इति भावः ।एवं प्रत्यक्षमूलां शरीरवत्वे दुःखवत्वमिति व्याप्तिमुपजीव्य दोषमापद्यतादृशव्याप्तेः श्रुतिसिद्धत्वमपि दर्शयति श्रुतिश्चेति । पूर्वपक्षमुपसंहृति - अतइतिननु सशरीरब्रह्मकारणवादे उक्तदोषापादनं सत्यमेव । अतः केवल ब्रह्मकारणवादएवास्तु नत्वश्रुतप्रधानकारणवाद इत्यत्राह - केवलेति ।सिद्धान्तखण्डंव्याचष्टे - अत्रोत्तरमित्यादिना । अविभागः शंकितःस्यादित्युत्तरेण विभागोऽर्थसिद्धः इत्यभिप्रयन्नाह - स्यादेवविभागइति । कथमित्यत्राह - न हीति। हिर्हेतौ । तर्हि सुखदुःखभोक्तृत्वंकिंकृतमित्यत्राह - अपि त्विति। ननु शरीरस्वामित्वप्रयुक्ततां श्रुतिरेवदर्शयतीत्युक्तमित्यत्राह - न हवैइति । विपक्षे बाधकं दर्शयति - स एकधेति।अयं भावः शरीरवत्वस्यापुरुषार्थापादकत्वं न संभवति । मुक्तस्य शरीरवत्वेपितत्स्वामित्व प्रयुक्तापुरुषार्थादर्शनात् । स्थापयिष्यते च चतुर्थाध्यायेमुक्तिपादे मुक्तस्य शरीरवत्वं अपुरुषार्थगन्धाभावश्चअत एव “न ह वै सशरीरस्ये"त्यादिश्रुतिरप्यन्यथासिद्धा । अतो जीववत्शरीरवत्वेपि भोक्तृत्यापादनं न युक्तमिति । कर्मण एव दुःखभोक्तृत्वप्रयोजकत्वेतस्य शरीररूपद्वारस्यानपेक्षणीयत्वं स्यादिति शरीरसंबन्धस्य तत्प्रयोजकत्वमेष्टव्यमितिशंकापरिहारस्तु उभयलिङ्गाधिकरणे वक्ष्यते । ननु परमात्मनः शरीरसंबन्धवत्कर्मसंबन्धोऽपि स्यादित्यत आह - अपृहतपाप्मनस्त्विति।न शरीरित्वमात्रेणेति।शासकस्य राज्ञ शास्यस्यापराधिनश्च शरीरित्वमविशिष्टमेव । अथापिशास्यस्यापराधिन एव शासनातिलंङ्घनप्रयुक्तदुःखभोक्तृत्वं न तु शासकस्यापि राज्ञःएवमत्रापीति भावः । अनेन सुखदुःखभोक्तृत्वस्य कर्माधीनत्वे परोक्तव्याख्यानेदूषणं वक्ष्यन्नादौ स्वोक्तार्थे द्रमिडभाष्यकारसंमतिमाहयथाहेति।दन्दशूको बिलेशयः । दन्दश्यते इत्यवयव्युत्पत्त्या दंशमशकादिः विवक्षितःइत्यपि केचित् ।।” व्यजनादीत्यत्रादिपदेन तत्तदनिष्टनिवारणसाधनंविवक्षितम् ।। दार्ष्टान्तिकेऽपि चामर शब्दः अनिष्टनिवारणसाधनोपलक्षकःएवं सशरीरब्रह्मकारणवादस्य स्वाभिमतस्य निर्दुष्टत्व मुक्तम्केवल ब्रह्मकारणवादस्य पूर्वपक्ष्युक्त दोष दुष्टत्वं स्वाभिमतमेवेतितत्परित्याग एव युक्त इत्याह - मुत्सुवर्णादिवदिति । सूत्रे हेत्वकथनं,वैशेष्यादित्यत्रैवोक्तत्वात् । अत एव दृष्टान्तमात्रानुसरणम् ।।अथैतत्सूत्रस्य परोक्तव्याख्यानं दूषयितुमनुवदति - यत्त्विति । भोक्तृभोग्य-विभागाभावमाशंक्येति । भोक्तुर्भोग्यत्वापत्तिं भोग्यस्य भोक्तृत्वापत्तिंचाशंक्येत्यर्थः । एतन्मतेऽपि भोक्तृशन्दो भोक्तृत्वपर एव । समुद्रफेनेत्यादिनालोकवदित्येतद्विवृतम् । उक्तंनिरस्यति - तदयुक्तमिति। शक्त्यविद्योपाधिषुत्रिषु अन्तर्भावितत्वस्यान्वयः । बहिब्रीहिसमासः । कुतोऽसंगतत्वमित्यत्राह - कारणेतिउपाधेश्च भोग्यत्वादिति । अत्रोपाधिशब्दः शक्त्यविद्ययोरप्युपलक्षकःकथासामान्यवाचिनो वादशब्दस्य कथाविशेषवाचित्ववत् उपाधिशब्दस्यैवशक्त्यविद्योपाधित्रितथवाचकत्वमिति केचित् ।अथवा उपाधिशब्देन अचिद्वस्तुनो विवक्षा । अयं भावः - भोक्तृभोग्य विभागशंकायाः उत्थाने हि आक्षेपपरिहारयोः प्रसक्तिः । शंकैवनोत्थातुमलम्शक्त्याद्युपहितस्य ब्रह्मण एव हि कारणत्वं इत्थंच तादृशस्यैवभोक्तृत्वं अचिद्वस्तुनश्च भोग्यत्वमिति विभागः स्वतस्सिद्ध एवेति ।नन्वेवमेवास्तु अथापि उपाधि ब्रह्मस्वरूपयो अविभागशंकास्यादितितत्परिहारार्थ मिदं सूत्रं स्यादित्यत्राह - विलक्षणयोरिति । तयोः = उपाधिब्रह्मस्वरूपयोः । ननु केवल ब्रह्मस्वरूपस्यैव परिणामः इष्यते इत्थं चाविभागशंकास्यादेवेत्यत्राह - स्वरूपपरिणामस्त्विति ।अनादित्वप्रतिपादनादिति । इत्थं च क्षेत्रज्ञानामनादित्वात् उपहितब्रह्मणएव क्षेत्रज्ञत्वं उपाधेश्च भोग्यत्वमिति तर्योर्नित्यत्वात् नित्यत्वेनाभिमतयोःउपाधिब्रह्मणोः विभागः स्वत एव सिद्धः इति भावः । स्वरूपपरिणामाभ्युपगमेऽपिशंकानुत्थितिरेवेत्याह - स्वरूपेति । स्वयं दृष्टान्तान्तरेण भोक्तृभोग्यविभागोपपत्तेःवक्ष्यमाणत्वेपि तस्याः स्वत एव सिद्धत्वेन न्यायनिबन्धनात्मकसूत्रेतच्छंकापरिहारावनुपपन्नाविति सूचनाय कस्यचिदपि न जायते इत्युक्तम्।। मृत्सुवर्णादीति । मृत्स्वरूपस्यैव परिणामाभ्युपगमेऽपि - परिणतानांपरिणामरूपस्य घटशरावादेःविभागः सिद्धः । अतः कथं शंकोदयः इति भावः । ननु कटकमकुटादीनांकालभेदेनाविभागः उपपद्यत इति चेत्? किं तेन । तादृशाविभागस्य फेनतरंगदृष्टान्तेऽपिसमानत्वेन विभागोपापादनार्थ दृष्टान्तस्यैव असंगतत्वापत्तेः । अतःफेनतरंगदृष्टान्तेन साध्यमान विभागस्य स्वरूपपरिणामाभ्युपगमेपिस्वत एव सिद्धत्वेन सूत्रारम्भो व्यर्थ एवेति । अथ स्वरूपपरिणामपक्षंदूषयति - स्वरूपेति । कटकमकुटादीनां परस्परभेदेऽपि तत्तद्गतविशेषाणां सुवर्णेइव चेतनाचेतनरूप भोक्तृभोग्यविभागेऽपि ब्रह्मण्येव भोक्तृत्वभोग्यत्वाद्यापत्तिरिति ‘अपीतौ तद्वत्प्रसङ्गादसमञ्जसमि’ति सूत्रोक्तदूषणमेतन्मतेअपरिहार्यमेव । सिद्धान्ते तु ‘न तु दृष्टान्तभावादि’त्यनेन परिहृतमित्याशयः ।।भोक्त्रापत्त्यधिकरणं समाप्तम् ।।