04 शिष्टापरिग्रहाधिकरणम्

(2.01.04) शिष्टापरिग्रहाधिकरणम्एवं न्यायाविरुद्धबहुस्मृत्यनुग्रहीतवेदान्तविरुद्धत्वात् अप्रतिष्ठितकेवलतर्कमूलत्वाच्चसांख्यस्मृतेरुपेक्षणीयत्वमुक्त्वा तत्तुल्यन्यायेन मतान्तराणामप्युपेक्षणीयत्वमेवेतिन वेदान्तार्थः ब्रह्मकारणत्वरूपश्चालयितुं शक्य इति कणभक्षाक्षपादादिपक्षेष्वतिदिशतीतिसंगतिः । शिष्टापरिग्रहाः इत्येतद्व्याचष्टे - शिष्टाः इति । परिशिष्टाःइति शिष्टपदव्याख्यानम् । वेदविरुद्धत्वाभिव्यक्त्यै न विद्यते वेदपरिग्रहःइत्युक्तम् । शिष्टाश्चापरिग्रहाश्चेति । अत्र शिष्टपदस्य परिशिष्टार्थकत्वस्यशिष्टाश्चापरिग्रहाश्चेति द्वन्द्वसमासस्याभ्युपगमेन, शिष्टानामपरिग्रहाःइति शिष्टैरपरिगृहीतत्वार्थकसमासान्तराश्रयणमसमीचीनमिति दर्शितम् ।तथा सति वक्ष्यमाणस्य कणादादिमतस्यैव शिष्टैरपरिग्रहीतत्वसिद्ध्यापूर्वोक्तस्य प्रधानकारणवादस्य शिष्टैरपरिग्रहीतत्वासिद्धेः । सांख्यमतस्यापिहि शिष्टैरपरिग्रहीतत्वमावश्यवक्तव्यं च । ननु मोक्षधर्मादिषु परिगृहीतस्यसांख्यस्य कथं शिष्टापरिग्रहत्वमिति चेत् । धर्मशास्त्रपरिग्रहीतस्यन्यायवैशाषिकादिपक्षस्येव शिष्टापरिगृहीतत्वमित्यवेहि । एतदुक्तंभवति - यथा “अंगानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणंधर्मशास्त्रंच विद्या ह्येताश्चतुर्दश ।। अंगानि चतुरो वेदाः मीमांसान्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्ततुर्दश"इति विद्यास्थनेष्वन्यतमत्वेनोक्तेत्वेऽपि तत्प्रदर्शितप्रमाणप्रमेयादिव्यवहारमर्यादायाः सर्वांगीकृतत्वेऽपि वेदप्रामाण्येश्वर मोक्षसाधनभूततदुपासनादीनामभिमतत्वेऽपिच प्रधानप्रतिपाद्यकारणतत्त्वविषयेविसंवादेन उपनिषत्सिद्ध ब्रह्मकारणत्वविरोधात् विरुद्धांशस्यापरिग्रहआवश्यक इत्यभिप्रायेण न्यायवैशेषिकादिपक्षस्य शिष्टापरिगृहीतत्वं,तथैव सांख्यपक्षस्यपि क्वचित्संवादेऽपि स्वतन्त्रप्रधानकारणवादाभ्युपगमेनउपनिषत्प्रतिपाद्यप्रधानब्रह्मकरणत्वादि विरोध इति शिष्टापरिगृहीतत्वंयुक्तमिति । एवं शिष्टापरिगृहीतत्वासिद्धिपरिहारायैव समासविशेषःस्वीकृतः । न चैवमपि उक्तयुक्त्यैव वेदापरिग्रहत्वरूपापरिग्रहत्वासिद्धिःपरिशिष्टार्थक शिष्टपदबलेनैव तत्सिद्धेः ।। अथातिदेशफलं दर्शयति - परमाणुकारणवादइति । कणभक्षः कणादः वैशेषिकः इति यावत् । अक्षपादः नैयायिकः । क्षपणकः = जैनः ।भिक्षुः - रुद्रः । तर्कमूलत्वाविशेषात् । केवलतर्कमूलत्वाविशेषात्शून्यात्मकत्वं माध्यमिकस्याभिमतम् ।अशून्यात्मकत्वं तदतिरिक्तानाम्ज्ञानात्मकत्वं योगाचारस्य ।अर्थात्मकत्वं तदतिरिक्तानाम् ।क्षणिकत्वंबौद्धत्रयाणामपिमाध्यमिकमते शून्यात्मकत्वात् नित्यत्वमिव क्षणिकत्वमपि नाभिमतम्नित्यत्वं नैयायिकादीनाम् । एकान्तत्वं आर्हतव्यतिरिक्तमते । अनेकान्तत्वंआर्हतमते । सत्यत्वं वैशेषिकादिमते ।असत्यत्वं तदतिरिक्तमते । आदिशब्देन एकविधत्वचतुर्विधत्वग्रहणम् ।आर्हतमते एकविधत्वं, नैयायिकमते चतुर्विधत्वमिति विभागः । अयंभावः - यद्यपि कणादप्रभृतीनां परमाणुकारणतायां न विवादः अथापि स केवलंतर्कमूलः । तत्रापि परमाणुस्वरूपे नित्यत्वनित्यत्वादिबहुतरविवादात्नैकविधपरमाणुकारणतेति अप्रतिष्ठित एव तर्क इति न तेन वेदान्तार्थचालनं युक्तमिति । शिष्टापरिग्रहाधिकरणं समाप्तम् ।