03 विलक्षणत्वाधिकरणम्

(2.01.03) अथ विलक्षणत्वाधिकरणम्उत्तराधिकरणसंगतिमाह - पुनरपीति । तर्काविरुद्धस्मृत्यनुगृहीतश्रुतेरेवहि तर्कविरुद्धस्मृत्यनुगृहीत श्रुत्यपेक्षया प्राबल्यं सर्वसंमतम् ।तत्र मन्वादिस्मृतीनां तर्कविरुद्धत्वेन सांख्यस्मृतेस्तदविरुद्धत्वेनच तथाविध सांख्यस्मृत्यनुगृहीत श्रुतेरेव तर्कविरुद्धमन्वादिस्मृत्यनुगृहीतश्रुत्यपेक्षया ज्यायस्त्वमिति सांख्यस्मृत्यैव वेदान्तोपबृहणंकार्यम् । अत एव मन्वादिस्मृतीनां भूयस्त्वमपि शतान्धन्यायेनाकिंचित्करम्एवं सांख्यस्मृतेस्तर्काविरुद्धत्वेन तन्निबंद्धुः कपिलस्याप्ततमत्वमपीतिशंकया संगतिरिति भावः । एतत्सूचनायैव तर्कमवलम्बमान इति भाषितम् ।।सूत्रस्थ नञोऽर्थमाह - यदित्यादिना तन्नोपपद्यते इत्यन्तेन ।अस्येति व्याख्येयपदनिर्देशः । जगतः इत्यन्तं तद्व्याख्यानम् । इदमःप्रत्यक्षगतमिति प्रमाणानुसारेण “प्रत्यक्षादिभिःउप लभ्यमानस्ये"ति जगतो विशेषणत्वेन निर्देशः ।विलक्षणत्वादित्युक्तवैलक्षण्यस्यससंबन्धिकत्वेन प्रतियोगिनिर्देशपुरस्सरं तदर्थमाह - भवदभ्युपेतादित्यादि।स्वमते जीवस्यैव ब्रह्मस्थानापन्नत्वेन न वैलक्षण्यमिति तद्व्यवच्छेदायभवदभ्युपेतत्वभाषणम्कथमभ्युपगमप्रकारः इत्यत्राह - सर्वज्ञादित्यदि । अत्र सर्वज्ञत्वसर्वेश्वरत्वहेयप्रत्यनीकत्वानन्दैकतानत्वरूपब्रह्मविशेषणोक्तिः पूर्वोक्त अचेतनत्वानीश्वरत्वाशुद्धत्वदुःखात्मकत्वरूपचिदचिद्विशेषणप्रतिकोट्यभिप्रायेण ।अनेन जगद्ब्रह्मणोर्वैलक्षण्यं दर्शितम् “तथात्वं च शब्दादि"तिसूत्रखण्डं विवृण्वन् पूर्वं - चकारसूचितमर्थं व्यनक्ति - न केवलमिति।तथात्वमितिव्याख्येयम् । तद्विवृणोति - विलक्षणत्वमिति ।अचेतनत्वदुःखित्वादयोनिर्दिश्यन्तइति । अत्र ब्रह्मणः एतद्विपरीताकारबोधकशब्दानुपन्यासःतथाविधशब्दस्य स्वमतेऽनभ्युपगमादेव । ननु महता प्रयासेन जगद् ब्रह्मणोर्वैलक्षण्यसाधनंकिमर्थं तदभ्युपगतमेवास्माभिरित्यत्रानिष्टं विवक्षुः तदनुकूलव्याप्तिंदर्शयति - यदीति। अनेन प्रकृतिविकृत्योः (उपादनोपादेययोः) सालक्षण्यमावश्यकमित्युक्तंभवतिप्रकृतेच जगद्ब्रह्मणोः सालक्षण्याभावान्न प्रकृतिविकृतिभावः इत्यभिप्रयन्नाह - अतइतिननु प्रधानकारणवादेऽपि जगत्प्रधानयोः सालक्षण्यमावश्यकमेवेत्यत्रतत्सिद्धवत्कारेणाह - कार्यसलक्षणमिति। ननु प्रधानस्य कार्यसालक्षण्यंकथम् अचेतनसाजोत्येऽपि चेतनसाजात्यस्य दुर्वचत्वादिति चेत्, न,चेतनांशे कार्यत्वस्यैवानभ्युपगमेनोक्तदोषानापतेः । (अस्तुवा तदंशेपिकार्यत्वाभ्युपगमः । अथापि निर्विकारस्यचिन्मात्रैकरसस्य पुरुषस्यप्रकृतिधर्माध्यास निबन्धनतयैव जगत्प्रवृत्यभ्युपगमेन साजात्यसंभवान्नानुपपत्तिरितिननु कार्यकारणयोः सालक्षण्याप्तिर्हि प्रत्यक्षादिदृष्टा, शास्त्रंच प्रमाणान्तरागोचरमर्थं विषयीकरोति । अतस्तादृशव्याप्तिमूलतर्कानुसरणंन शास्त्रस्यापेक्षितमित्यत्राह - अवश्यं चेति। अनन्यापेक्षस्य= प्रमाणान्तरानपेक्षस्येत्यर्थःययत इति। तर्को हि प्रमाणांगभूतः । शास्त्रं च प्रमाणान्तर्भूतम्अतस्तन्नैरपेक्ष्यं न वक्तुं शक्यम् । ननु शास्त्रस्य परापेक्षत्वेकथं प्रमाणान्तनैरपेक्ष्यवादः, उच्यते प्रमित्यन्तरनैरपेक्ष्याभिप्रायकोहि तद्वादः न त्वितिकर्तव्यताख्यतर्कनैरपेक्ष्यपरः इति । क्वचित्क्वचिद्विषये=स्वत एवास्पष्टार्थे इत्यर्थःअथ तर्कस्य प्रयोजनविशेषं प्रदर्शयन् तर्कस्वरूपमाह - तर्कइति । हिनामभ्यांप्रसिद्ध्यतिशयस्सूचितः ।। उक्तोहाभिन्नतर्कस्वरूपं च, “ऊहो नामेदंप्रमाणत्मिथं प्रवर्तितुमिहार्हति प्रमाण प्रवृत्यर्हताविषयं सामग्र्यादिनिरूपणजन्यंप्रमाणानुग्राहकं ज्ञानमिति “मत्तः स्मृतिर्ज्ञानमयोहनंचेति” गीताभाष्येसम्यक् प्रदर्शितम् ।। अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितः तत्त्वज्ञानार्थमूहस्तर्कःइति न्यायदर्शनेऽप्युक्तम् । तर्कस्योहाभिन्नत्वं तत्त्वज्ञानार्थत्वंच कण्ठोक्तम् । तत्त्वज्ञानसंपादनमूलं कारणोपपत्तिः । ज्ञातार्थेअस्यानुपयोगात् अविज्ञातत्वे़र्थे इत्युक्तम् । एतादृश तर्कस्वरूपमेव भाष्यकारः” तर्को नाम"इत्यादिना विवृतम् । अस्याऽयं भावः यथा प्रत्यक्षे - स्थाणुर्वापुरुषो वा इति संशये अयंपुरुष एवेति निश्चिहनोति । कुतः । पुरुषत्वनिर्णायकइस्तपादादिचलनदर्शनात्पुरुषत्वकोटौ औचित्यमनेन परिशीलितं भवति । इदमेव परिशीलनं तर्कःइदं अर्थस्वभावविषयकनिरूपणम् । निश्चेतव्यार्थः पुरुषरूपः । एतत्स्वभावनिरूपणं - हस्तपादाद्यवयव चेष्टादिविवेचनम्” यत्र यद्विषयकज्ञानंभवति तत्र ज्ञानहेतुत्वेनाभिमतस्य इन्द्रियस्य लिंगस्य शब्दस्यतदनुबन्धिनश्च दुष्टत्वादुष्टत्वचिन्तनं क्रियतेइदमेव साममी विषयनिरूपणम् । तथा च विषयस्वभाव शोधनमूलकः ऊहः प्रमाणस्वभावशोधनमूलकःऊहः तर्कः इति फलितम् । “पर्वतो वह्निमान् घूमादित्यत्र - यद्यग्निःन स्यात् तर्हि घूमोपि न स्यात् । इत्यर्थस्वभावविषयकस्तर्कः ।अत्रैव, घूमोऽस्तु अग्निर्मास्तु’ इत्याक्षेपे, अग्निंविनापि धूमस्यसत्वे तस्याग्नि जन्यत्वं न स्यात् इति सामग्रीनिरूपणेन क्रियतेतत्रापीष्टापत्तौ मशकादिनिवृत्यर्थकः पुरुषो धूमार्थी नाग्नौप्रवर्तेत” इत्युपरि सामग्रीनिरूपणं क्रियते ।।केचित्तु व्याहतिरूपः असंभवरूपश्च तर्कः इति तर्कद्वैविध्यं वदन्तियदि जननी न तर्हिबन्ध्या इति विरोधरूप स्तर्कः । यदि शशे शृंगंस्यात्, अद्यापि भवेत्, अध्यक्ष्येत, यतः अदर्शनं अतः शशे श्रंगासंभवःइति, वदन्ति । एवंच प्रकृते इदं जगत् यदि ब्रह्मकार्यं स्यात् तर्हितद्विलक्षणं न स्यात् इति तर्कापादनम् ।।प्रमाणेन प्रमीयमाणार्थविशेषव्यवस्थापकस्तर्कः । तत्र व्यवस्थापनप्रकारश्च"अर्थस्वभावविषयनिरूपणेन सामग्रीविषयनिरूपणेनेति द्विविधः। तथाच ज्ञानविशिष्टज्ञानत्वं तर्कत्वं, वैशिष्ट्यं च स्वात्मकोहाभिन्नत्व,स्वानुग्राह्य प्रमाणविषयार्थ स्वभावविषयकनिरूपण सामग्रीविषयनिरूपणैतदन्यतराघीनप्रामाणोपपत्तिरूपत्वोभय सम्बन्धेन । तर्काभासपरिहाराय द्वितीयसंबन्धनिवेशःपर्वतो घूमवानिति प्रत्यक्षस्य पर्वतो वह्निमानित्यनुमितिं प्रतितर्कत्ववारणाय प्रथमसंबन्धनिवेशः । तत्रोक्ततर्कापेक्षत्वं सर्वप्रमाणानांसमानमित्याह - तदपेक्षाचेतिविशिष्य शास्त्रे तदुपपादयति - शास्त्रस्यत्विति। तुशब्देन प्रमाणान्तरवैषभ्यंसूचितम् । प्रमाणान्तराणां क्वचित्क्वचिदेव तर्कसापेक्षत्वं, शास्त्रस्यतु सर्वत्रेति भावः । विशेषेणेति । शास्त्रंहि सर्वथाऽन्यापेक्षाधीनप्रमाणभाववत्आकांक्षासन्निधिपयोग्यताज्ञानाभावे प्रमाणत्वस्यैव व्याघातात्तत्पदोत्तरतत्पदवत्वं आकांक्षा । आकांक्षादिषु च सर्वत्र तर्कापेक्षाऽस्तीतिशास्त्रस्य तर्कापेक्षत्वं न सर्वथा परित्यक्तुं शक्यमिति भावःउक्तार्थे संमतिमाह - उक्तंचेति। श्रुतिसंवादमपि दर्शयति - तदेवहीति।अथास्मिन्पूर्वपक्षे यादवप्रकाशोक्तं चोद्यमनुवदति - अथोच्यतेइतिननु जगति चैतन्यानुवृत्यभ्युपगमे चैतन्यं कुतो नोपलभ्यते सर्वत्रचैतन्यसद्वावे च चेतनाचेतन व्यवस्था च कथमित्यत्राह - यथा चेतनस्येति।अतएवेति । नित्यानुद्भूतचैतन्यवदचेतनम् । कदाचिदनुद्भूतचैतन्यवांश्चेतनःइति विभाग इति भावः । उक्तचोद्यं निराकरोति - नैतदिति। ननु सुषुप्तावपिचेतनस्य सुषुप्त्यादौ चैतन्यानुपलम्भेऽपि चैतन्योत्पत्तिशक्तियोगस्यपरैरभ्युपगमवत् घटादिषु चैतन्यानुपलम्भेऽपि चैतन्यशक्तियोगस्याभ्युपगमसंभवात्कथंचित्कारणसालक्षण्यं नापन्नेतुं शक्यमित्यत्राह - अत एवेतिकुत इत्यत्राह - यस्य हीति। चेतने तु शक्तिकार्यस्य कदाचिद्दर्शनेनशक्तियोगोऽभ्युपत्रन्तुं शक्यत इति भावः । किं कुर्मः वेदान्तैब्रह्मण उपादानत्वं प्रतिपादितम् । अतस्तः दन्यथानुपपत्या सालक्षण्यसिध्यर्थंअचेतनेऽपि चैतन्यस्य तच्छक्तेर्वाभ्युपगमनमेव वरम् । अन्यथा वेदान्तस्यैवाप्रामाण्यापत्तेरित्यत्राह - किंचेति।तन्निश्चये=घटादिषुचैतन्यादिनिश्चये इत्यर्थः । घटादिषु चैतन्यादिनिश्चयसापेक्षत्वमेवब्रह्मोपादनाताप्रतिपादनस्योपपादयति - विलक्षणयोर्हीति। न हि वेदान्तवाक्यमयोग्यार्थमपिप्रतिपादयितुं क्षमते अन्यथा आदित्योयूपः इत्यादीनामपि स्वरूपैक्यबोधनापत्तेःअअत्रच - वैलक्षण्य - दर्शनेनब्रह्मोपादानत्वरूपार्थस्यायोग्यत्वनिश्चयात्न तत्प्रतिपादनं संभवतीति भावः । सिद्धान्तिच्छायया शंकते - किं पुनरिति।।न तावदितिसर्वाकारेण साम्यं विवक्षितुमशक्यमसंभवादित्यर्थः । सत्तादीत्यत्रादिशब्देनप्रमेयत्व द्रव्यत्वादिपरिग्रहः । अधिकरणपूर्वपक्षी स्वाशयाविष्कारेणसमाधते - तदुच्यतेइति ।येन स्वभावेनेति। वस्तुनो वस्त्वन्तराद्व्यावृत्तिहेतुभूतस्याकारस्यानुवृतिस्सालक्षण्यमित्यर्थःउक्तंसालक्षण्यं स्थलविशेषे प्रदर्शयति - येन ह्याकारेणेति। उक्तसालक्षण्यंजगद्ब्रह्मणोर्न संभवतीत्याह - ब्रह्म चेति। ब्रह्मणि वस्त्वन्तरव्यावर्तकःआकारविशेषः हेयप्रत्यनीकत्वादिरेव । तस्य चाकारस्य न जगत्यनुवृत्तिःअतस्सालक्षण्यं नास्तीति भावःअथसिद्धान्तिच्छयया उक्तसालक्षण्यनियमस्यानैकान्त्यं शंकते - ननुचेति।परिहरति - नैतदेवमिति। व्यावृत्तिहेतुभूतासाधारणाकारानु वृत्तिरत्रनास्तीति सिद्धान्ते स्फुटी भविष्यति । अचेतनत्वस्य साजात्यमस्तीत्येतन्मात्रेपूर्वपक्ष्याशयः ।

उत्तरसूत्रमुत्थापयति - अथ स्यादिति । तं पृथिवीत्यादि । अत्रचेतनधर्माणामुक्तेरितिभावः । पौराणिकसंमतिमपि दर्शयति - नदीति ।। तुशब्दस्य प्रधानपूर्वपक्षनिवृत्यर्थकताव्यावृत्यर्थमाह - तुशब्दइति ।अभिमानिव्यपदेश इतीदं व्याचष्टे - पृथिव्याद्यभिमानिन्यइतिवविशेषःइति व्याख्येयं विशेषणमितितद्व्याख्यानम्।तेजोऽबन्नानीत्यनेनहन्ताहमिमाःइत्यत्र इमाः इत्येतद्विवृतम् । अग्निर्वागिति । अग्न्यादयोहि चेतनविशेषाः । अतः तेषां च वागादिभावः वागाद्यभिमानित्वमेवेति भावः ।।

अधिकरणपूर्वपक्षमुपसंहरति - अत इत्यादि ।। यद्यप्यत्र “आपो वा अकामयन्त,ततेज ऐक्षत” इत्यादौ परब्रह्मण एवेक्षणमिति सिद्धान्ति सिद्धम् । अथाप्यभिमानिदेवताव्यपदेशेन सामान्याकारेण “अभिमानिव्यपदेशस्त्विति पूर्वपक्षी व्याहृतवान् ।अतोऽस्य पूर्वपक्षनिर्वाहरूपत्वात् सिद्धान्त्यभिमत परमात्मव्यपदेशरूपत्वानिषेधाच्च नास्माकमपि क्षतिः ।।सिद्धान्तं व्याचष्टे - एवं प्राप्तइति । तुशब्दस्य प्रधानपूर्वपक्षव्यावृत्यर्थतामाह - तुशब्दादितिदृश्यते इत्येतद्याचक्षाणः तद्दूष्यांशं दर्शयति - यदुक्तमिति।दर्शनमेव व्यनक्तिदृश्यते हीति। माक्षिकादेः =मध्वादेरिर्त्थः ।दत्तोत्तरत्वंशंकते - ननूक्तमिति। परिहरति - सत्यमुक्तमिति। कुतो नास्मदभिमत सालक्षण्यासिद्धिरित्यत्राह - यथाकथंचिदिति। अयं भावः येनकेनचिदाकारेण सालक्षण्यं विवक्षितं चेत्सर्वस्यापि सर्वसालक्षण्यं स्यात् । तच्चास्माकमपि सुवचम् । सर्वोकारेणचेत् कुत्रापि न सुवचम् । कारणं येनाकारेण वस्त्वन्तराद्वयावृत्तंतेनाकारेण चेत् तर्हि व्यभिचारःमाक्षिकस्य हि वस्त्वन्तराद्व्यावर्तकः आकारविशेषो माक्षिकत्वंतच्च तत्कार्य कृम्यादौ न दृश्यते इति । अत्र पार्थिवेभ्यःवह्नेःसमुद्रजलात् पार्थिवस्य मुक्ताफलस्यो त्पत्तिरपि द्रष्टव्या ।।अत्र विलक्षणयोरपि कार्यकारणभावः संभवतीत्येतदर्थमेवेदं सूत्रंप्रवृत्तम् । वस्तुतः स्वपक्षे विशिष्टस्यैव कारणत्वात् विशिष्टस्यैवकार्यत्वात्कार्ये चेतनत्वस्याचेतनत्वस्य चानुवृत्तिरिति पूर्वपक्ष्यभिमतसालक्षण्यमपिदुष्प्रधर्षणमिति उपरि व्यक्तीभविष्यति ।।

पूर्वपक्षखण्डं व्याचष्टे - यदीति । कार्यं जगन्न विद्यत इति । तादात्म्येनेतिशेषः । अयमाशयः - विलक्षणयोरपि कार्यकारणभावदर्शनात् सालक्षण्यनियमोनास्तीयुक्तम् । तर्हि जगद्ब्रह्मणोरपि विलक्षणयोरेव कार्यकारणभावस्य वक्तव्यतयासति च वैलक्षण्ये द्रव्यान्तरत्वावश्यकतया असत्कार्यवाद एव स्यादिति ।एतदुक्तं भवति - विलक्षणोपादानाद्विलक्षणस्योत्पत्तिरपि हि भवद्भिरंगीकृता,तर्हि उपादेयस्योत्पत्तेः प्राक् विलक्षणोपादानाऽवस्थानस्य वक्तुमशक्यत्वादसत्कार्यवादप्रसंगःइति । परिहारखण्डं व्याचष्टे - नैतदिति । ननु पूर्वसूत्रस्य सालक्षण्यनियमप्रतिषेधार्थत्वेऽपि विलक्षणयोरपि कार्यकारणभावाभ्युपगमे कार्यकारणयोःद्रव्यान्तरत्वमावश्यकमेवेत्यत्राह - नतु कारणात्कार्यस्येति। नन्वेकद्रव्यत्वे नवैलक्षण्यप्रसक्तिरितिकथं विलक्षणजगतो ब्रह्मण उत्पत्तिरित्यत्राह - कारणभूतं ब्रह्मैवेति ।ननु विरुद्धमिदं भाषणं कार्यकारणयोरेकद्रव्यत्वं वैलक्षण्यं चेत्यत्रविलक्षणयोः संप्रतिपन्नकार्यकारणभावस्थले दृष्टान्तप्रदर्शनपूर्वकंएकद्रव्यत्वं वैलक्षण्यं च प्रतिपादयति - कृमिमाक्षिकयोरपीति । अयंभावः - कुण्डल हिरण्ययोः कार्यत्वकारणत्वावस्थाभेदनिबन्धन वैलक्षण्येपिसुवर्णत्वेनैकद्रव्यत्ववत् विलक्षणयोरेव कृमिमाक्षिकयोरपि एक द्रव्यत्वमप्यस्त्येव ।माक्षिकशरीरवस्तुन एव कृमिशरीरकवस्तुनः उत्पत्त्यंगीकारेण शरीरभूतयोस्तयोरेकद्रव्यत्वात्एवं वस्तुतो जगद्ब्रह्मणोर्विलक्षणत्वेपि विशिष्टयोरेव कार्यकारणभावांगीकारेणनैकद्रव्यत्वहानिरिति । इदं च सूत्रं आरम्भणाधिकरणे साक्षात्संगतम्प्रसंगादत्र निबंद्धम् । अत एव इतरव्यपदेशाधिकरणान्ते “असदितिचेन्न प्रतिषेधमात्रत्वादिति च पूर्वाधिकरणस्थमनुवदतीति भाषिष्यते ।।अयमाशयः - सलक्षणयोरेव कार्यकारणभावःन तु विलक्षणयोः इति नियमोऽनुपन्नःविलक्षण्योरपि कार्यकारणभावदर्शनात् । माक्षिकादेः उत्पन्नस्यक्रिम्यादेः विलक्षणत्वात् गोम्यादेः उत्पन्नस्य वृश्चिकादेरपिविलक्षणत्वात् । समुद्रजलादुत्पन्नस्य पार्थिवस्य मुकाफलस्य ततोविलक्षणत्वाच्चतद्वत् ब्रह्मणः उत्पन्नस्य जगतः विलक्षणत्वेपि कार्यकारणभावःनापह्नोतुं शक्यते । ननु तर्हि कारणे ब्रह्मणि असतः जगतः उत्पत्तिरितिवक्तव्यमिति जगतो द्रव्यन्तरत्वमेव स्यात् । असत्कार्यवादाभयुपगमात्इति चेत् अवहितनाः शृणु । मृदकार्यभूतवस्तु व्यावृत्तस्य मृत्वाकारस्यमृत्कार्यघटादौ दृश्यते एवं तत्न्त्वकार्यवस्तुव्यावृत्तस्य तन्तुत्वस्यतत्कार्ये पटादौएवं सुवर्णत्वस्य । इदमेव हि सालक्षण्यम् । माक्षिकाकार्य वस्तुव्यावृत्त्तस्य माक्षिकत्वाकारस्य वृश्चिकादौ च नास्ति । अतश्चवैलक्षण्यमेव ।एलादृशस्थले माक्षिकक्रम्यादेः गोमयवृश्चिवादेः एवद्रव्यत्वमस्तिवा न वा । यदि नास्ति तदा असत्कार्यवादप्रसंगः कथं परिहृियते यद्यस्तिकथमेक द्रव्यत्वम् । वैलक्षण्येपि एकद्रव्यत्वांगीकारे जगद्ब्रह्मणोःवैलक्षण्येपि एकद्रव्यत्वं स्वीक्रियताम् । प्रकृति महदहंकारादिषुकार्यकारणभावः स्वीक्रियते । तत्रासाधारणस्यव्यावृत्ताकारस्य प्रकृत्तित्वादेःमहदादौ नास्ति । नह्याकाशत्ववायुत्वाद्याकारस्य व्यावृत्तस्य तत्कार्यवायुजलादावनुवृत्तिरस्तितत्र कार्य कारणभावेपि वैलक्षण्यं दुरपह्नवं कथं तत्रैकद्रव्यत्वम्एवं तृणात् क्षीरस्य दघ्नाधृतस्य अन्नरसात् रक्तादिघातूनां परिणामरूपोत्पत्तिर्दृश्यतेतत्र वा कथं व्यावृत्ताकारानुवृत्तिः । न हि तृणत्वादिकस्य क्षीरादिषुअनुवृत्तिरस्ति । वैलक्षण्येपि कार्यकारणभावः एकद्रव्यत्वं च स्वीक्रियतेअतो विलक्षणत्वं न द्रव्यभेदापादकं इति वक्तव्यम् । तदस्माकमपिसमानम् । अतः सरूप परिणामः विवर्तपरिणामः इति परिणामस्य द्वैविध्यमंगीकृत्यमृद्घटादिषु प्रथमस्य अन्यत्र द्वितीयस्य विवर्तस्यांगीकार इतिसर्वत्र द्रव्यैक्यमभ्युपेत्यम्गोमयवृश्चिकादिस्थले न गोमयादिमात्रस्योपादनत्वं सदासंचारशीलवारवाद्यानीतद्रव्यान्तरांशस्याधिकस्याप्युपादानत्वम् । अधिकद्रव्यान्तरांशैःअभिभूतत्वात् गोमयांशस्योपलब्धिर्नास्ति । अत स्साक्षण्यमस्त्येवेतिसमाधानमपि न युक्तम् । भूयिष्ट द्रव्यान्तरांशस्य तर्हि कुतो नोपलब्धिःगोमयांशस्यन्यूनस्य साक्षलक्षण्यादर्शनेपि भूयोंशस्य द्रव्यान्तारांशंस्यअनुपलंभेहेतुर्वाच्यः । स न दृश्यते । प्रवृत्तिमहदादिस्थले तृणक्षीरादिस्थलेवा कथमुपपत्तिः । अतो वैलक्षण्येपि कारणत्वस्य एकद्रव्यत्वस्य चांगीकारएव शरणम् ।।

उत्तरसूत्रं पूर्वपक्षपरमित्यभिप्रयन् व्याचष्टे - अत्र चोदयतीति । असमञ्जसमिति ।उत्तरत्र “नत्विति चोक्तेरिति भावः । सृष्टिस्थित्योरनुक्तेः न्यूनतास्यादित्यत आह - अपीतावितीतिसृष्ट्यादेरित्यत्रादिशब्देन स्थितिग्रहणम्प्रदर्शनार्थत्वमेवोपपादयति - सदेवेति। प्रलयो हि सृष्टिस्थितिपूर्वभावीअतः प्राथम्यात् सूत्रे तदुपादानमिति भावः ।वाक्यार्थं योजयति - यदीत्यादिना।सुवर्णकुण्डलादिदृष्टान्तो बुद्धिस्थ इत्यभिप्रयन्नाह - सुवर्ण इवेति।यद्वा तच्छब्दोजगत्परः । अप्ययादिप्रतिसंबन्धित्वेन तस्य प्रस्तुतत्वात्ततश्च जगति ब्रह्मणि अपुरुषार्थादेः प्रासंगादित्यर्थःअथवा तद्वत्प्रसंगादित्येकं पदं तच्छब्दोऽपुरुषार्थपरो मतुबन्तःतथा च जगद्गतापुरुषार्थवत्वप्रसंगः ब्रह्मणीत्यर्थः । अस्त्वेवंप्रसंगः ततःकिमित्यत्राह - ततश्चेति। असमञ्जसत्वमेवोपपादयति - यस्सर्वज्ञइतिइत्युक्तानां परस्परविरुद्धानामेषामर्थानामेकस्मिन्नेव वस्तुनिप्रसक्तेरित्यर्थः ।।अथ सिद्धान्तिमतेन चोद्यमाशंक्च परिहरति - अथोच्येतेत्यादिना।शरीरसंबन्धनिबन्धनदोषाणामनिवार्यत्वादिति।रूमाप्रदेशगतवस्त्वन्तराणां हि प्रदेश संबन्धात् लवणत्वापत्तिर्दृष्टाएवं महापातकिसंयोगादपि पुरुषस्य “तत्संयोगी च पंचमः’ इति महापातकित्वंदृष्टम् । अतस्संबन्धनिबन्धनदोषस्यान्यत्र दृष्टत्वात् अत्रापिब्रह्मणि शरीरसंबन्धाभ्युपगमे तन्निबन्धनदोषोऽनिवार्य एवेति भावःअथवा शरीरसंबन्धनिबन्धनदोषो हि जीवे दृष्टः, एवमेव परस्मिन्नप्यापद्येतेतिभावः । प्राथमिकमर्थं प्रति जानीते - न हीति। हिः प्रसिद्धौ । शरीरत्वंकुतो न संभवतीत्यत्राह - शरीरं हीतिहिर्हेतौ नामेति ख्यातौ । अत्र भोगसाधनभूतेन्द्रियाश्रयत्वोक्त्याभोगाश्रयत्वं इन्द्रियाश्रयत्वं चोक्तं भवति । पञ्चवृत्ति प्राणधीनधारणत्वोक्त्याचेष्टाश्रयत्वं, एतेन चेष्टेन्द्रियार्थाश्रयः शरीरमिति परोक्तलक्षणंप्रदर्शितं भवति । उक्तस्यैव शरीरत्वमिति लोकवेदप्रसिद्ध्या दर्शयति - तथाविधस्येतिनन्वस्तूक्तस्य शरीरत्वं ततः किं प्रकृतस्येत्यत्रोक्त शरीर संबन्धःपरमात्मस्वभावपर्यालोचनयैव न संभवतीत्यभिप्रयन्नाह - परमात्मनश्चेति।अपहतपाप्मेत्यनेनकर्मसंबन्धाभावःउक्तः । अनश्नन्नित्यनेन तत्फलाभावः उक्तः । अपाणीत्यादिना इन्द्रियाधीनभोगवत्वाभावउक्तःअप्राण इत्यनेन प्राणवत्वाभावः उक्तः । अनेन च चेष्ठाश्रयत्वाभावःफलितः ।कर्म तत्फलेत्यादि। अयं भावः - कर्मतत्फलवत्वादिकं हि शरीरित्वव्यापकंईश्वरे च व्यापकीभूतैतदभावात् न शरीरित्वसंभव इति न जगतस्तं प्रतिशरीरत्वमिति । एवं व्यापकनिवृत्त्या व्याप्यनिवृतिप्रतिपादनेन जगतश्शरीरत्वासंभवउक्तः । अथ चेतनाचेतनात्मकजगतः शरीरलक्षणविरुद्धस्वभावप्रतिपादनेनस्वत एवेन्द्रियाश्रयत्वद्यसंभवमुपपादयति - नचाचेतनेत्यादिना। इन्द्रियाश्रयत्वादीत्यत्रादिशब्देनचेष्टाश्रयत्वभोगाश्रयत्वग्रहणम् ।चेष्टेन्द्रियभोगाश्रयत्वं शरीरत्वमित्यत्र साधारणंदूषणमुक्त्वाभोगायतनत्वं शरीरत्वमित्यंशे पृथक्दूषणमाह - न च भोग्यतनत्वमिति।भोगायतनत्वं भोगाबच्छेदकत्वम् ।बेश्मादिष्वितिदेहावच्छेदेन जायमानंभोगं प्रति वेश्मादेरप्यवच्छेदकत्वसंभवात् । अत एव हि वने सिंहनादःइत्यादौ सिंहकण्ठावच्छेदेन जायमानं शब्दं प्रति वनस्याप्यवच्छेदकत्वम्अनेन वेश्मन्यस्य भोगः इत्यपिव्यवहार उपपद्यतेइत्याशयः । शंकते - यत्रेति।वर्तमानस्य पुरुषस्य यत्रैव सुखदुःखोपभोगः तदेव भोगायतनमित्यनेनविवक्षितमित्यर्थः ।निरवच्छिन्नत्वमेवकारार्थः तच्च त्रलर्थावच्छेदकतायामन्वेतितथा च यन्निष्ठनिरवच्छिन्नावच्छेदकताकःसुखादिसाक्षात्कारः तदेवशरीरमित्यर्थःतथा च भोगायतनत्वरूपे भोगनिरूपितावच्छेदकत्वे निरवच्छिन्नत्वविशेषणात्वेश्मादेश्च देहावच्छिन्नस्यैव भोगावच्छेकत्वमिति न तस्य शरीरत्वापत्तिरितिभावः । ननु शरीरनिष्टावच्छेदकतायाः अपि पादे सुखमित्याद्यनुरोधेनस्वावयवावच्छिन्नत्वेन न निरवच्छिन्नभोगनिरूपितावच्छेदकत्वं शरीरतयाऽभिमतस्यापीत्यसंभवः इति चेत् । मैवं - स्वावयवातिरिक्तदेशानवच्छिन्नत्वस्यैव निरवच्छिन्नत्वपदेनविवक्षणात्।। परिहरति - परकायेति। प्रविष्टशरीरत्वाप्रसिद्धेरितिपरकायस्यापि प्रविष्टं प्रति शरीरत्वापत्तेः उक्ते शरीरपदप्रवृत्तिनिमित्तमतिप्रसक्तमितिभावः । एवं परिष्कारे यदर्थमारम्भस्तस्यैव परित्याग इत्यभिप्रयन्नाह - ईश्वरस्यत्विति।ईश्वरभोगस्य व्याप्यवृत्तित्वेन तदवच्छेदकाप्रसिध्यापि न जगतस्तच्छरीरत्वमितिबोध्यम् । ननु न भोगावच्छेदकत्वं शरीरपदप्रवृत्तिनिमित्तं किंतुभोगसाधनत्वमात्रमेव । अस्य कृत्स्न जगत्यपि संभवेन ईश्वरशरीरत्वंन व्याहतमित्यत्राह - एतेनेति। वेश्मनः शरीरत्वापत्तेः फरकायस्य प्रविष्टशरीरत्वापत्तेश्चेत्यर्थःनियमेन भोगसाधनत्वविवक्षणे तु ईश्वरं प्रत्यपि जगत स्तच्छरीरत्वानापत्तिर्बोध्याएवं तार्किकाद्युक्तशरीरलक्षणपर्यालोचनया वेदान्तिमते ईश्वरं प्रतिजगतश्शरीरत्वासंभव उक्तः । अथ सिद्धान्त्यभिमततल्लक्षणपर्यालोचनयापिस उच्यते - अथ मतमित्यादिना। तत्तच्चेतनेच्छायत्तेयादि पञ्चन्यन्तपदत्रयेणइच्छाधीनस्वरूपत्वमिच्छाधीनप्रवृत्तित्वमिच्छाधीनस्थितित्वमित्येतत्त्रितयमप्यव्याप्तमित्युक्तंभवति । सालभञ्जिकादिषु इत्यनेनोक्तत्रितयमपि अतिव्याप्तमित्युक्तम्चेतनस्येत्यनेन इच्छायत्तस्वरूपत्वमसंभवग्रस्तमित्युक्तम् । मिलितस्यैवशरीरलक्षणत्वादैककसत्वेपि उक्तस्थलेषु समुदितलक्षणस्याव्याप्त्यतिव्याप्यसंभवाएव फलिताः इति ध्येयम्अपरं सिद्धान्तिलक्षणमप्याशंक्याह - नचेति। क्रियादिषु - क्रियागुणेष्विर्थःयद्यपि क्रियादावित्येव पर्याप्तम् अथापि क्रियागुणवैविध्यप्रदर्शनायबहुवचनोपादानमिति मन्तव्यम् ।। एवं लक्षणपर्यालोचनरूपानुग्राहकतर्कबलेनजगतः ईश्वरशरीरत्वं प्रत्युक्तम् । अथानुग्राह्यश्रुतिषु ईश्वरस्यशरीरप्रतिक्षेपादपि जगतस्तच्छरीरत्वं व्युदस्यते - अशरीरमित्यादिना।अत्र ह्यशरीरमिति कण्ठत एवोक्तम् । अपाणिपाद इति । अत्र हीन्द्रियाभावःउच्यते । अतस्तदधिष्ठानावयवनिषेधलाभात् शरीराभावः उक्तो भवतीत्याशयःसूत्रतात्पर्योपदर्शनेन पूर्वपक्षमुपसंहरति - अत इति । दोषप्रसंगादिति ।शरीरसंबन्धनिबन्धनदोषाणामनिवार्यत्वादित्यत्र दोषप्रसंगः उक्तः ।।

विद्यमानत्वादित्यन्तेन सूत्रार्थः उक्तः । ननु नञ् पदेनैव पूर्वपक्षोव्यावर्तितः । सतिचैवंकिमर्थस्तुशब्दः इत्यत्राह - तुशब्द इति । हेयसंबन्धगन्धस्यासंभावनीयत्वप्रतिपादनमुखेनजगद्ब्रह्मणोश्शरीरशरीरिसंभवमेव ज्ञापयतीत्यर्थः । ननु कथमिदमुपपद्यते? शरीरसंबन्धनिबन्धनदोषाणामनिवार्यत्वं हि पूर्वत्र शंकितमित्यत्राशयंव्यनक्ति - एतदुक्तं भवतीति। न ब्रह्मणस्साक्षात्संकोचविकासौ इतिद्योतनाय चिदचिद्वस्तुशरीरतया तदात्मभूतस्येत्युक्तम् । अवस्थाद्वयान्वयेऽपीत्यनेनाधिकरणकृत्यमुपादानत्वंस्मारितम् । कुतो न विरोध इत्यत्राह - यत इतिननु सकोचविकासयोः चिदचिद्वस्तुगतत्वेपि तत्संबन्धादात्मनि कुतस्तौन स्यातामित्यत्राह - शरीरगतास्त्विति। आत्मगताश्च गुणा न शरीरे इत्युक्तिःप्रतिबन्द्यभिप्रायेण । उक्तार्थे क्षेत्रज्ञदृष्टान्तमाह यथेतिनन्वेवं सति देवो जातः स च बाल इत्यादिव्यवहाराणाम् मुख्यत्वमेवस्यात् । बालत्वादीनां शरीरमात्रगतत्वेनात्मगतत्वाभावात् प्रतीतौचात्मगतत्वेनविषयीकरणादित्यत्राह - अथ चेति। देवादिशब्दो हि देवादिशरीरविशिष्टात्मपरःनतु शुद्धात्मस्वरूपपरः । एवं बालादि शब्दोपि बाल्यावस्थ शरीरविशिष्टात्मपरएवेति तत्त्द्वयपदेशो मुख्य एवेत्यर्थःननु शुद्धजीवात्मस्वरूपस्यैवहि देवादिभावः न तु शरीरविशिष्टस्ययेन देवत्वादिकं शरीरेऽन्वितं स्यादित्यत्राह - भूतसूक्ष्मेति। पंचम्यामाहुतावापःपुरुषवचसो भवन्तीत्यादौ अप्शब्दस्य सर्वभूतसूक्ष्माख्यशरीरविशिष्टपुरुषपरत्वादितिभावः । अथवा ननु चिदचिद्विष्टिस्य ब्रह्मणः कार्यकारणोभयावस्थायामपिजीवदृष्टान्तेन चिदचिद्वस्तुगतदोषराहित्योपपादनं न संभवति जीवस्यशरीरोत्पत्तेः प्राक् शरीरसंबन्धाभावेन दृष्टान्तत्वस्यैवासंभवादित्यत्राह - भूतसूक्ष्मशरीरस्यैवेति।इत्थं च देवादिशरीरोत्पत्तेः प्रागपि भूतसूक्ष्माख्याचित्संबन्धसत्वेनन दृष्टान्तवैषम्यमिति भावःएवं परमात्मनः शरीरसंबन्धेपि न जगद्वद् तद्गतापुरुषार्थसंभवः इत्युक्तम्जीवस्येव शरीरसंबन्धनिबन्धनसुखदुःखाद्यपुरुषार्थभाकत्वापादनंतु भोक्त्रापत्यधिकरणे निराकरिष्यते ।अथ परेणोक्तं चेतनाचेतनात्मकजगतः परमात्मशरीरत्वासंभवमनूद्य निराकरोतियत्पुनरुक्तमित्यादिना । अनाकलितत्वं=अनालोचितत्वम् । संयङन्याय=प्रमाणानुगुणन्यायःअनेन स्वमतेऽपि अनुग्राहकस्तर्कः अनुग्राह्यश्रुतिप्रमाणं चास्तिपरंतु पूर्वपक्ष्युक्ततर्कादिराभासः इत्युक्तंभवति । कुतर्कः=प्रमाणविरुद्धतर्कः"कु तर्कक’ इति पाठे तादृशतर्कस्याप्यल्पत्वं सूचितम् । तत्रादौकृत्स्नस्यापि जगतः शरीरत्वं तर्कानुग्राह्यश्रुत्याख्यप्रमाणसिद्धमितिदर्शयति - सर्व एवहीति । अशरीरमित्यादि श्रुतीनामन्यथासिद्धत्वमभिप्रेत्यसर्व एवेत्युक्तम्एवकारः प्रसिध्यतिशयं व्यञ्जयन् पूर्वपक्षिचोद्यस्य मान्द्यं प्रकटयतिहिशब्दो हेत्वर्थे । स्थालीपुलाकन्यायेन श्रुतिसिद्धत्वं दर्शयति - वाजसनेयकइतितावदिति वाक्यालंकारे सर्वावस्थयोः=कार्यावस्थायां कारणावस्थायांचेत्यर्थः । परमात्मशरीरत्वमभिधाय………तस्य सर्वभूतानि प्रत्यात्मत्वमभिधीयत इति । रामानुजं लक्ष्मणपूर्वजं चेतिवत् जगतः परमात्मशरीरत्वंपरमात्मन=स्तच्छरीरित्वं चोक्तं “सर्वभूतान्तरात्मा’ इति चोक्तेरितिभावः । एवमुपबृंहणीयं प्रदर्श्य उपबृंहणस्मृतिमपि उपोद्वलयति - स्मरन्तिचेति। सोऽभिध्याय शरीरात्स्वादित्यत्र चिदचितोश्शरीरत्वं न स्फुटंव्यज्यते तस्तदर्थमाहभूतसूक्ष्मादितिआसीदिदं तमोभूतमिति तस्यैव प्रकृतत्वादिति भावः । अथानुग्राहकतर्कमभिप्रयन्प्रयोगौचित्यबलेनेदमेव शरीरपदप्रवृत्तिनिमित्तमित्यास्थेयमित्याह - लोकेचेति।घटादिशब्दवदिति। घटादिशब्दो हि एकाकारवस्तुषु मुख्यतया प्रयुज्यतेशरीरशब्दस्तु न तथा अनेकाकारवस्तुष्वपि मुख्यतया प्रयोगदर्शनादितिभावः । एकाकार द्रव्यवृत्तेरपिदर्शनात् नियतेत्युक्तिः । वृत्तिः=बोधनम्अअगौणः प्रयुज्यमानो दृश्यतेइति । प्रयोगानुसारेण ह्यर्थकल्पनाअतो लोकेववेदेवा यत्र यत्र शरीरपदप्रयोगः तत्तदनुयाय्येव लक्षणंवक्तव्यम् । नत्वननुयायि प्रवृत्तिनिमित्तमुक्त्वा अन्यत्रगौणत्वकल्पनंन्याय्यम्अन्यथा मनुष्यत्वब्राह्ममत्वादिषु कस्यचित् शरीरलक्षणत्वमभ्युपगम्यान्यत्रशरीरशब्दस्य गौणत्व कल्पनस्याप्यापत्तेः, अतोऽनन्यथासिद्धप्रयोगएव नियामक इति सार्वत्रिकमेव तल्लक्षणं वाच्यमिति भावः ।। एतदेवाह - तेनतस्येति। ननु सर्वप्रयोगानुगुणं प्रवृत्तिनिमित्तमस्मदुक्तमेव किंन स्यादित्यत्राह - त्वदुक्तं चेति। प्रवृत्तिनिमित्त लक्षणम्=शक्यतावच्छेदेकीभूतंलक्षणमित्यर्थः ।।इदमत्राकूतम् - गोशब्दव्युत्पत्तिनिमित्तस्य गमिघात्वर्थस्याननुयायित्वात्यथा न प्रवृत्तिनिमित्तत्वं, तथा शरीरदेहादिव्युत्पत्तिनिमित्तस्यविशरणोपचयादेरप्यननुयायित्वान्न प्रवृत्तिनिमित्तत्वम् । एवं उपलक्षणाकारेणघटत्वरूपजातिर्यथा उपलक्ष्याकारभूता, तथोपलक्षणेन केनचित् उपलक्ष्याकारभूताजात्यादिरपि प्रकृते नास्ति शरीरत्वं हि न जातिः अतोऽस्य यल्लक्षणमुच्यतेतदेवास्य प्रवृत्तिनिमित्तमित्यास्थेयम् । त्वदुक्तंच लक्षणं नप्रवृत्तिनिमित्तं भवितुमर्हति अननुगतत्वादिति । ननु शरीरत्वं कुतोन जातिः “इदं शरीरं’, इदं शरीरमित्यनुगतप्रतीत्या तत्साधनसम्भवात्बाधकविरहे चानुगतप्रतीतेः जातिसाधकतायाः सर्वसिद्धान्त्यभिमतत्वादितिचेत्, मैवं, अनुगतप्रतीतेः सिद्धान्ते संस्थानविषयकत्वेन तदतिरिक्तजातिसाधकत्वासम्भवात्ननु संस्थानं हि अवयवसंयोगादिरूपं, तच्च प्रतिव्यक्तिभिन्नमितिकथं तस्यानुगतप्रतीतिविषयत्वमिति चेत्, जातिवादिमतेऽपि सुवर्णरजतघटादिभेदेनभिन्नायाः अपेि जातेः “घटोऽयं’ “घटोऽयमि’त्यनुगतप्रतीतिविषयत्ववत्संस्थानस्यापि तथात्वमुपपद्यते इत्यवेहि । न हि सुवर्ण रजतादिघटेषुघटत्वमेकरूपं साङ्कर्यापत्तेः । वस्तुतः यथा संस्थानस्यानुगतप्रतीतिविषयत्वमुपपद्यतेतथोपपादितं “संस्थानं नाम स्वासाधारणं रूपमिति, यथावस्तु संस्थानमनुसन्धेयमित्यत्रास्माभिःकेचितुगोत्वादिसंस्थानं नाम विषयतासंबन्धेन यावद्गोर्व्याक्तषुसंबद्धं तावद्विषयकज्ञानमेव । इदमेव च इयं गौरित्यादिप्रतीतौ स्वरूपतःप्रकारतया भासते । अतो न व्यक्तिभेदेन संस्थानस्य भेदः । एवमेवघटत्वादिसंस्थानादिष्वपीत्याहुः । ननु सिद्धान्ते जात्यभ्युमुपगमादयंघटोऽयं घट इत्यनुगत प्रतीतेः संस्थानविषयकत्वेन तादृशसंस्थानस्यघटपद प्रवृत्तिनिमित्तत्ववत् इदं शरीरमिदं शरीरमित्यनुगतप्रतीतिबलेनतस्याः विलक्षणसंस्थानविषयकत्वं स्वीकृत्य तादृशसंस्थानस्यैव शरीरपदप्रवृत्तिनिमित्तत्वंकिमिति नोपेयत इति चेत्, उच्यते घटत्वादिसंस्थानं ह्येकाकार रूपम्कम्बुग्रीवादिमत्येव घटशब्दप्रयोगात्अतो घटादिशब्दस्य तदाकारनियतत्वेन तदाकार एव तच्छब्दप्रवृत्ति निमित्तंइति वक्तुं युक्तं शरीरशब्दस्य तु अनेकाकारवस्तुनि प्रयोगात् शरीरशब्दप्रवृत्तिनिमित्तव्यवस्थापनंदुःशकम् । एतदभिप्रायेण हि घटादिशब्दवदेकाकारनियतवृत्तिमनासादितःइति भाषितमिति । ननु पृथिवीत्वादिकमपि पृथिव्यादि पदप्रवृत्तिनिमित्तंन स्यात् । अनेकाकारवस्तुनि पृथिव्यादिपदप्रयोगादिति चेत् इष्टमेवेदम्तर्हि तस्य प्रवृत्तिनिमित्तं किमिति चेत् गन्धवत्वादिकमेवेतिजानीहि । इत्थञ्च घटादिशब्दस्थले इव विलक्षणैकाकारस्यात्रादर्शनात्गोशब्दप्रवृत्तिनिमित्तस्य गमिधात्वर्थस्येव विशरणोपचयादेरननुयायित्वाच्चसंस्थानविशरणादीनां न शरीरशब्दप्रवृत्तिनिमित्तत्वमिति एतल्लक्षणमेवएतत्पदप्रवृत्तिनिमित्तमित्येष्टव्यमितिउक्तलक्षणस्याति व्याप्तिं दर्शयति यथोक्तेष्विति । किं बहुनाप्रसिद्धे पाणिपादादिमच्छरीरे ईश्वरीयेऽव्याप्तिरित्याह - किं चेति।कर्मफलभोगनिमित्तत्वभावादिति।अनेन कर्मफलसुखदुःखभोगसाधनभूतेन्द्रियाश्रयत्वलक्षणमव्याप्तमित्युक्तंभवति । पृथिव्यादिभूतसंघात विशेषरूपत्वमव्याप्तमित्याह - परमेति ।पञ्चवृत्तिप्राणाधीनधारणत्वस्याव्याप्तिमाह - पञ्चवृत्तीति। ननु स्थावरेष्वपिप्राणसद्भावस्य सिद्धान्तसिद्धत्वात् कथमव्याप्तिरित्यत्राह - स्थावरेषुहीति। ननु प्राणवत्वमेव तल्लक्षणमिति न दोषः इति चेन्न, तथापि ईश्वरशरीरतयाऽभिमतेषुचेतनादिष्वव्याप्त्यवारणात्इन्द्रियाश्रयत्वं=ज्ञान प्रवृत्तिजननेन्द्रियाश्रयत्वमित्यर्थःअयं भावः । इन्द्रियवत्वं समवायेन चेत् असंभवः, इन्द्रयावयवेष्वतिव्याप्तिश्चसंयोगेन चेत् घटादिष्वतिव्याप्तिः स्वजन्यज्ञानावच्छेदकत्वसंबन्धेनचेत् ईश्वरज्ञानस्य नित्यत्वात् व्याप्य वृत्तित्वेनावच्छेदकत्वनिरपेक्षत्वाच्चेश्वरशरीरे अव्याप्तिः । शिलाकाष्टादिरूपाहल्यादिशरीरेऽव्याप्तिश्चेतिएवं परोक्तलक्षणस्याननुयायित्वात् अनुगतलक्षणस्य चावश्यवक्तव्यत्वात्स्वयं तादृशंलक्षणत्रयं प्रदर्शयति - अतो यस्येति। अस्य चेतनस्य यद्द्रव्यंसर्वात्मना स्वार्थे नियन्तुं शक्यं तत्तस्य शरीरं, यस्य चेतनस्ययद्द्रव्यं सर्वात्मना स्वार्थे घारयितुं शक्यं तत्तस्य शरीरं,यस्य चेतनस्य यद्द्रव्यं शेषतैकस्वरूपं तत्तस्य शरीरमिति लक्षणत्रयमभिप्रेतम्चेष्टेन्द्रियार्थाश्रयः शरीर मित्यत्रापि हि न्यायविद्भिः लक्षणत्रयंविवक्ष्यते, परं तु तदननुयायी । इदं चानुयायीति भेदः । प्रथमद्वितीययोःसर्वात्मनेति पदं प्रयुक्तंतत्स्थाने तृतीये शेषतैकस्वरूपमित्येकशब्द प्रयोगः । शरीरं घटपटादिवत्नाप्रतियोगिपदार्थः किं तु पितृपुत्रादिवत्सप्रतियोगिपदार्थ इतिसूचनाययस्येत्युक्तम् । पित्रादीनामपि सप्रतियोगिकत्वेन शरीरत्वंस्यादिति तद्व्यावृत्यर्थंनियाभ्यमित्युक्तम् । भृत्यादीनामपि नियाम्यत्वाच्छरीरत्वव्यावृत्तयेसर्वात्मनेत्युक्तं यावत्द्रष्यभावीति तदर्थः । क्रियागुणादिव्यावृत्यर्थोद्रव्यशब्दः । स्वाशक्यविषयेषु शरीरस्य नियमनासंभवेनासंभवपरिहारायस्वाथर्ेइत्युक्तम् । स्वशब्दः शरीरपरः । अर्थशब्दश्च विषयपरः । अर्थः स्याद्विषयेमोक्षे इत्युक्तेःस्वार्थे=तत्तच्छरीरसंपाद्यकार्येष्वित्यर्थः। रुग्णशरीरेष्वव्याप्तिपरिहारायशक्यशब्दप्रयोगःरुग्णस्य हि नियमनशक्तेस्सद्भावेऽपि तत्प्रतिबन्धात् अकार्यकरत्वं,अतस्तत्र न शक्तयभावः । ज्ञानस्य आत्मशरीरत्वव्यावृत्यर्थंचेतनस्येतिइतरलक्षणद्वयेपीयमेव रीतिः । दीपं प्रति प्रभायाः शरीरत्व व्यावृत्यर्थमपिचेतनस्येत्युक्तिः"यस्य वेदाश्शरीरं’, “यस्य यज्ञाश्शरीरमि’त्यदौ वेदयज्ञादिशब्दाःतत्तदभिमानिदेवतापराः । अतो वेदयज्ञयोरद्रव्यत्वेऽपि न शरीरलक्षणाव्याप्तिःएवं यस्य चेतनस्य यदवस्थमपृथक्सिद्धविशेषणद्रव्यं तत्तस्य शरीरमित्यपिलक्षणान्तरमूह्यम्उक्तं चेदं न्यायसिद्धाञ्जने । केचित्तु यस्य चेतनस्येत्यादि भाष्यस्यवाकाराद्यभावेनैकलक्षणपरत्वमेवाभिमन्वते यद्यपि प्रत्येकधर्मस्यशक्यतावच्छेदकत्वेऽपि नातिप्रसक्तिः । अथापि शरीरपदात् आधेयत्वविधेयत्वशेषत्वानां बोधानुभवात् समुदायस्य तथात्वस्वीकारः । न ह्यस्यजीवस्येदंशरीरमिति वाक्यजन्यबोधानन्तरं इदंपदार्थ विशेष्यकजीवाधेयत्वादिसंशयःकस्यचिदुदेति । अत उक्तसमुदायस्यैव शक्यतावच्छेदकत्वमावश्यकम् ।एवं बोधानुरोधादेवु हि पंकजनिकर्तृत्वस्यापि पङ्कजपदशक्यतावच्छेदकत्वमिष्यतेन हि पद्मत्वमतिप्रसक्तम् । येन पंकजनिकर्तृत्वस्य शक्यतावच्छेदकत्वंसप्रयोजनं स्यादितिअत्र साप्रदायिकाः प्रमाणम् । नियन्तुं शक्यं इति प्रथमलक्षणे - यद्द्रव्यं इत्यत्र स्वभिन्नमिति उपस्कार्यम् । “यस्यचेतनस्य यत् द्रव्यं"इति संसबन्धिकपदनिर्देसभंग्यैव तत्सिध्यतीत्यभिप्रायेण न तत् कण्ठोक्तम्अन्यथा जीवं प्रति स्वस्यैव शरीरत्वापत्तिः । पूर्वमकृत्यकरणेप्रवृत्तः देवदत्तः खलु अदृष्टवशात् सञ्जातबुद्धिः स्वात्मानं ततोनिवर्तयति । स्वसंकल्पाधीनत्वरूपनियाम्यत्वस्य स्वस्मिन्नपि संभवात्एवं परमात्मानं प्रत्यपि परमात्मनः शरीरत्वापत्तिः । बहु स्यांप्रजायेय तदात्मानं स्वयमकुरुत” आत्मकृतेः इत्यादिभिः स्वनिरूपितनियमनविषयत्वस्यस्वस्मिन् सत्वात्अन्यथा उपादानत्वानुपपत्तेः । प्राणेन्द्रियाणामपि जीवनिरूपितशरीरत्वं"सर्वात्मना’ इत्यनेन निवार्यते । सर्वात्मना=स्वाभाविकम् । जीवमुक्त्यनन्तरंप्रत्यात्पूर्वं वा तेषां जीवेन परित्यागात् । भावत्सत्तं नियाम्यत्वाभावात्न चैककल्पमुक्तस्य यावत्सत्वं तन्न्याम्यित्वानपायात् तं प्रतितेषां शरीरबं दुनिर्वारं इति वाच्यम् । जीवस्य देहसृष्टेः पूर्वंसमष्टिदशायां च इन्द्रियाणां सत्वेन यावत्सत्तं नियाम्यत्वाभावात्न चावयवातिरिक्तावयव्यनभ्युपगन्तृणां भवतां मते चतुर्बिंशति तत्त्वमयस्यदेहस्य भूतप्राणेन्द्र्यादि समुदाय रूपत्वेन यावत्सत्तं इन्द्रियादीनामनियाम्यत्वात्लक्षणस्यैवासंभवः इति वाच्यम्जीवस्य भूतप्राणेन्द्रियसमुदायरूप शरीरसंबन्धात्मक रूपव्याकरणसमयेएव तत्र शरीरत्वव्यवहारात् । ततः पूर्वं शरीरत्वाव्यवहाराच्च ।भूतप्राणेन्द्रियादीनां पूर्वं पृथक् पृथक् अवस्थितेः । यदा च शरीरत्वव्यवहारः तदा प्रभृति यावत्सत्तं नियमेन धार्यत्वनियाम्यत्वादीनांसत्वात् पश्चात् मृतशरीरस्येव पूर्वमपि तस्य शरीरत्वा भावात्”.अत्रेदं बोध्यम् - द्रव्यत्वं चेतनाचेतन साधारणम् । नियाम्यत्वस्यचेतने वाचेतने घटादौ नास्ति । देवदत्तनियाम्य यज्ञदत्त इतिवत् देवदत्तनियाम्योघटः इति न व्यवहियते । प्रधानस्याचेतनस्य नियाम्यत्वाभावाद्धि कर्तृत्वंप्रधाने सूत्रकारेण निषिद्धम् । सति नियाम्यत्वे भोक्तृत्वमपि स्वीकर्तुंशक्यते “स्वर्गमोक्षादिफलस्य भोक्तारमेव कर्तृत्वे नियुञ्जते ।न हचचेतनस्य कर्तृत्वे अन्यो नियुज्यते । इति हि श्रीभाष्यम् ।अतः शरीरलक्षणस्याव्याप्तिरेव अत्रायं परिहारः - स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदत्वस्यभगवति स्वीकारात् चेतनस्येवाचेतनस्यापि काचित् प्रवृत्तिः वाच्यासाच किं रूपेति विवेचने - अचेतन धर्मभूतज्ञानस्य प्रवृत्तिर्नाम - विषयप्रकाशकत्व - शरीरादि प्रेरकत्व - संकोच विकासकत्व - आनुकूल्य प्रातिकूल्यप्रकाश मुखेन भोगरूपावस्थावत्वादिः । त्रिगुणद्रव्यस्य प्रवृत्तिर्नान - समविषमरूपेणपरिणामसन्तत्याश्रयत्वं देहेन्द्रियादिरूपेण तन्तद्ध्यापारजनकत्वंबद्धानांरजस्तमोद्वारा तत्वाच्छादकत्वं सत्वविवृद्धया यथावदर्थप्रकाशकत्वादि च । एता - सर्वा अपि ईश्वरसंकल्पाधीनाः । तदनुरूप विचित्रपरिणामादिरूपाःइति भगवदधीनत्वम् । स्पष्ट मिदं श्रीमद्रहस्यत्रयसारे तत्त्वत्रयचिन्तमाधिकारेएतादृशप्रवृत्तिमत्वमादायैवात्रापि - चेतननियाम्यत्वमचेतनस्येतिएवं प्रवृत्तेः चेतनाचेतनसाधारण्यमुपपद्य नर्वाहकरणे द्रव्यस्येवगुणक्रियादिष्वपि साधारण रूपत्वं प्रवृत्तेरूपपाद्य निर्वाहकरणेगुणादीनामपि शरीरत्वमुपपादयितुं शक्यम् । तदा द्रव्यपदस्य लक्षणकोटिप्रविष्टत्वंन स्वीकार्यम् । परंतु - देवदत्तस्येदं शरीरं इति व्यवहारवत् रूपंदेवदत्तशरीरम् । इति व्यवहाराभावेन तस्य शरीरत्वं नेष्यते । लोकमर्यादामभ्युपगम्यसर्वं स्थापनीयम् । लोकानु सारस्यावश्यांगीकर्तव्यत्वात् । यत्रशरीरत्वव्यवहारः तत्रैव तन्निर्वहणमावश्यकमिति भाष्यकृता शरीरलक्षणेद्रव्यमिति पदं निर्दिष्टम् । एवं वेदव्यवहारमप्यनुसृत्यशरीरलक्षणंनिरुक्तमिति ध्येयम्अथ रुग्णशरीरादिषु स्वयमेव शरीरलक्षणस्य समन्वयमाह - रुग्णेति। ननूक्तलक्षणत्रयमपिमृतशरीरेऽव्याप्तम् । तस्यचेतननियाम्यत्वाद्यसंभवात् । अतोऽस्याप्यननुयायित्वादनुगतंलक्षणान्तरमेववक्तव्य मित्यत्राह - मृतशरीरंचेति । पूर्वं शरीरतया स्थितस्य द्रव्यस्यचेतनवियोगानन्तरक्षणे एव नाशाभ्युपगमात्तस्य शरीरत्वे एव विवादात्तत्रलक्षणासमन्वय इष्ट एवेति भावः । तर्हि चेतनवियोगानन्तरमपि तत्रशरीरत्वव्यवहारः कथं घटते इत्यत्राह - पूर्वं शरीरतयेति।संघातैकदेशत्वेनेति।अनेन तद्व्यवहारस्यगौणत्वमुक्तम् । मृतशरीरस्य जीवशरीरत्वाभावे़पि परमात्मशरीरत्वं तु संमतमेव परमात्मनियाम्यत्वादीनां सत्वादितिध्येयम् । उक्तलक्षणत्रयस्यापि परमात्मशरीरतयाऽभिमते चिदचिदात्मकेजगति समन्वितत्वं दर्शयति - अतस्सर्वमिति। नन्वेवं सति परमात्मशरीरप्रतिक्षेपकवचनानांका गतिरित्यत्राह - अशरीरमिति। एतत्=सर्वशरीरित्वम् ।सशरीरित्वप्रयुक्तदोषव्युदसनेन सशरीरत्वमेवहि - भोक्त्रापत्यधिकरणेतरव्यपदेशाधिकरणादिषुस्थाप्यते इति भावः ।तर्हि न तु दृक्तान्तभावात् इत्यत्र किमर्थंस्थापनमित्यत्राहअपिताविति। इत्यधिकरणसिद्धार्थस्स्मारितः इति ।इतरव्यपदेशाधिकरणमेव शरीरित्वस्थापनेदंपरंअत्रैतत्सूत्रद्वयं तु प्रसंगादागतम् । विलक्षणयोः कार्य कारणभावस्थापनेदंपरत्वादस्याधिकरणस्यअत एतत्सूत्रद्वयस्य इतरव्यपदेशाधिकरणे एव साक्षात्संगतिः । अतएव इतरव्यपदेशाधिकरणावसाने, “अपीतौ तर्द्वप्रसंगादसमञ्जसम्’, “नतु दृष्टान्तभावात्’ इतिसूत्रद्वयमेतदाधिकरणसिध्मनुवदति । तत्रहि विलक्षणयोः कार्यकारणभावसंभव एवाधिकरणार्थ इति भाषितमिति ।।ननुमृद्धिरण्यादेः घटमकुटाद्युत्पत्या तस्योपादानत्वं स्वीक्रियतेयस्य वस्तुनःपरिणामशीलत्वं तस्यैवोपादनत्वं लोकसिद्धम् । ब्रह्मणस्तुःस्वतः परिणाभावात् उपादानत्वकथनं अनुभवविरुद्धमेवयदिजगद्भ्रह्मणो शरीर शरि भावाभ्युपगमेन उपादानत्व निर्वाहः क्रियतेतर्हि इदमुपादानत्वं पारिभाषिकमेव स्यात् ।प्रधानविशिष्टब्रह्मणःउपादानत्वम्तत्र च वैशिष्ट्यं शरीरात्मभावसंबन्धमादाय । एवं चेत् मृद्विशिष्टकुलालस्याप्युपादनत्वंस्वीक्रियताम् ।वैशिष्ट्यं चाधिष्ठानाधिष्टे्यभावसंबन्धेन’ इत्यपिवक्तुं शक्यत्वात् । तथा च सर्वत्र तत्तदानुगुण्येन परिष्कारस्यसुलभत्वात् सर्वं प्रति सर्वस्याप्युपादनत्वं सुघटं भवेत् ।। अतःव्यवस्थांकोचिदायैव वक्तव्यम् । नच भाव्यवस्थावतः पूर्वावस्था योगित्व मुपादानत्वंमृदश्च घटत्वावस्थापन्नाया इदं संभवति एवमेव सूक्ष्मचिदचित्प्रकारकब्रह्मणःस्थूलचिदचित्प्रकारकत्वावस्थांभाविनी माश्रित्योपपादनत्वं संभवतीति वाच्यम्एवमपि अधिष्ठातृकुलाक्तवारणा संभवात् । कुलालस्यापि पिण्डत्वावस्थापन्नवस्त्वधिष्ठात्त्वस्य घटत्वावस्थापन्नवस्त्वधिष्ठातृत्वस्य सत्वात् नचापृथक्सिद्धिस्थलएकोपादानत्वं पृथक्सिद्धस्थले तु नास्तीतिवाच्यम् । अस्य शपथनिर्णेयत्वात्उच्यते जगद्ब्रह्मणोः उपादानोपादेयभावः अवश्यं वक्तव्यः इत्याग्रहव शान्नोच्यते ।लोकसिद्धन्यायमुपजीव्यैवप्रति पाद्यते ।बालो जातः युवाजातः इत्यादिषु आत्मनः उपादानत्वं दृश्यते । तन्निर्वाहार्वंकाचनरीतिरादर्तव्या । स्वरूपपरिणामस्तु न दृश्यते । अत्रोपादनत्वनिर्वाहःशरीरात्मभावमादायैव सर्वै उपपाद्यते । तन्न्यायमवलंब्य विशिष्टब्रह्मणोरपिउपादानोपादेयभावः प्रतिपाद्यते । अतः एतादृशन्यायसाजात्यमवलब्यअन्यां परिपाटीं स्वकपोलकल्पिता मनुभवानगतां स्वीकृत्य उपादानत्वोप्रकार न मनोहर इत्येव ब्रूमः ।।अवस्था भेदंभादाय कार्यकारणयोरनन्यत्वं यत्र तत्रोपादानत्वमिव अवस्थांप्रत्यापि द्रव्यस्य साक्षादुपादानत्वं सुवचमिति पूर्वमेवोपपादितम्तादात्म्य - अपृथक्सिद्धि - अन्यतर संबन्धावच्छिन्न कार्यता निरूपिततादात्म्य संमन्धा वच्छिन्न कारणताश्रयत्व मुपादानत्वमिति कार्यबलात् स्वीकर्तुं शक्यमिति ।।

उत्तरसूत्रं व्याचक्षाणः चशब्दार्थं दर्शयति - न केवलमिति । सूत्रार्थं दर्शयन्फलितमर्थमाह - प्रधानेति । दुष्टत्वादित्यनेन दोषशब्दार्थः उक्तः ।शुद्धब्रह्मणः कारणत्वं नास्माकमभिमतम् । येन भवदुक्तदूषणानां प्रसक्तिःस्यात् ।। विशिष्टस्यैव स्वीकारात् हेयप्रत्यनीकत्वं निर्विकारत्वंकारणत्वं सर्वं समन्वितं भवति नात्र कुतर्कापेक्षा । ब्रह्मकारणतावादस्यश्रुतिमूलत्वात् । द्वारमात्रे सूक्ष्मत्वस्थूलत्वादिविकारवत्वमभ्युपगम्यतेबहुभवननियमनादिरूपस्वाभाविकविकारवत्वमप्यभ्युगम्यते । कुत इत्यत्राह - तत्रहीति। हिर्हेतौ । प्रकृतिसन्निधानायत्त प्रकृतिधर्माध्यासनिबन्धनत्वेनजगत्प्रवृत्तेरभ्युपगमादिति भावःअस्त्वेवमभ्युपगमः, तेन कथं जगत्प्रवृत्त्यनुपपत्तिरित्यत्राह - निर्विकारस्येति।किंरूपमितिविवेचनीयमिति । दुर्निरूपमिति भावः । अथ दुर्निरूपत्वमेव विकल्पपरिहारमुखेनद्रृढयति - किं प्रकृतेरिति। पाश्चात्येन बुद्धिस्थं विकल्पं दूषयति - नतावदिति।अनभ्युपगमादिति । अत एव हि निर्विकारस्य चिन्मात्ररूपस्येतिविशेषणद्वयंपूर्वमुपात्तम् । मध्यमं विकल्पं निरस्यति - नापीति।अध्यासकार्यतयेतिप्रकृतिधर्माध्यासहेतुभूतं प्रकृति सन्निधानमिति हि भाषितम् ।ततश्चान्योन्याश्रयो दोषः । इति भावः । प्रथमविकल्पे दूषणं ब्रुवन्कल्पत्रयेपि फलितं दूषणमाह - सद्भावमात्रस्येतिजगत्प्रवृत्तिर्नोपपद्यते इति । ब्रह्मणो जगद्विलक्षणत्वेन जगदुपादानत्वंन संभवतीति तदूषणं सिद्धान्ते हि भवद्भिरापादितं तद्भवतामेव मतेसुप्रतिष्ठितमिति भावः । प्रपञ्चयिष्यते इति । अनेन पौनस्क्तय परिहारोव्यञ्जितः । प्रसंगबलेन दिड् मात्रं प्रदर्शितम् । तत्रैव तु विशदीकारइति भावः ।।

सूत्रार्थं प्रदर्शयन् पर्यवसितार्थमाह - तर्कस्येति । केवल तर्कस्येत्यर्थः ।वेदाननुगुणस्येति यावत् । अथ पर तर्कस्याप्रतिष्ठितत्वं कथमित्यत्राह -शाक्येति । शाक्यः = बौद्धः । औलूक्यः = उलूकरूपधारिणा महेश्वरेणोपदिष्टार्थग्रहीता कणादः ।

अन्यथेत्यस्य प्रधानकारणवादमतिक्रान्ततदुपदर्शित दूषणेत्वेनेति विवरणम् ।देशान्तरेत्यादि । यथा भूत तर्को भूततर्कान्तरप्रतिहतः तथैव त्वयाइष्यमाणो भावितर्कोऽपि भावितर्कान्तरेण प्रतिहतो भविष्यतीति भावःअत एव दूष्यत्वसंभावनयेत्युक्तम् । ननु किं कुर्मः अन्यथा वेदान्तोपबृंहणमेवन स्यात् तर्कश्चानुपादेयः स्यादित्यत्राहअतइत्यादि । आर्षं - वेदमित्यर्थःननु शास्त्राविरोधितर्केणात्यनुसन्धेयत्वमुक्तम् । सांख्यमपिशास्त्रमेवेत्यत्राह - वेदाख्येति। न द्वन्द्वसमासोऽत्र विवक्षितइति भावः । इत्थंच सन्दिग्धार्थक वेदस्य निश्चितार्थकवेदाविरोधितर्केणार्थोवर्णनीयइति भावः । “पितृदेवमनुष्याणां वेदश्चक्षुस्सनातनम् । अतर्क्यं चाप्रमेयंच वेदशास्त्रमिति स्थितिः” इति हि वेदशास्त्रस्य बाधकागोचरत्वरूपातर्क्यत्वंसाधकाविषयत्वरूपाप्रमेयत्वंचात एव ह्युक्तमिति भावः । उपसंहरति - अत इति ।विलक्षणत्वाधिकरणं समाप्तम् ।।