(2.1.2) योगप्रत्युक्त्यधिकरणम्कपिलोपनिबद्धस्मृतेर्भ्रान्तिमूलकत्वसंभवेऽपि वेदान्तप्रवचनाधिकृतहिरण्यगर्भप्रणीत स्मृतेः भ्रान्तिमूलकत्वासंभवात् तयैव वेदान्तोपबृहंणंकार्यमिति शंकया संगतिः । सूत्रार्थमाह - एतेनेत्यादिना । न्यायतौल्येअतिदेशः किमर्थः इत्याशंक्याधिकां शंकां दर्शयति - कापुनरित्यादिना ।ईश्वराभ्युपगमादिति । अनेन योगस्मृतेः कपिलस्मृतितौल्यं न संभवतीत्युक्तंभवति तत्रहि ब्रह्मैवानभिमतम् । अतो मन्वादिस्मृतिवत् अस्यापि प्रामाण्यमेषितव्यमितिभावः ।वेदान्तविहितयोगस्यचाभिघानादिति। अनेन श्रुतिप्रतिपन्नार्थविशदीकरणरूपमुपबृंहणमनयापि कर्तुं शक्यं अविरुद्धार्थकत्वादित्युक्तं भवतिएवं तत्त्वविषये अनुभवविषयेच संवादमुक्त्वा वक्तृवैलक्षण्यमपि प्रदर्शयति - वक्तुरिति"यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै"इति प्रथमं भगवतस्सकाशात् हिरण्यगर्भस्य वेदलाभोक्तेःविद्यास्थानेषुप्रवर्तकत्वेन नियुक्तत्वात् वागीशत्वेन सर्वलोकप्रसिद्धत्वात्तत्वानुष्ठानयोरविसंवादित्वेन च तन्निबद्धस्मृतिः सर्वस्मृत्यपेक्षयापिप्रमाणमूर्घन्यभूता । अतस्तत्स्मृत्यैव उपब्रंहणसापेक्षसंदिग्धार्थकवेदान्तार्थव्यवस्थापनंकार्यमिति पूर्वपक्ष्याशयः । उक्तशंकायाः परिहारमाह - परिहारस्त्विति।अब्रह्मात्मकेतिअनेन कपिलस्मृतिसादृश्यं दर्शितम् । नकेवलं ब्रह्माभ्युपगमादेववैषभ्यम् । तदभ्युपगमेऽपि कपिलस्मृताविव अब्रह्मात्मकप्रधानस्यैवकारणत्वाभ्युपगमात् तस्य च न्यायाविरुद्धस्मृत्यनुगृहीतश्रुतिविरुद्धत्वेनदुष्टत्वात् । तर्हि ईश्वरः कथमभ्युपगतः इत्यत्राह - निमित्तकारणेतिएवं च तत्वेवैषम्यं दर्शितम् । अथानुष्ठानेऽपि तदाह - ध्यानात्मकस्येतिअअवैदिकत्वादिति। न्यायाविरुद्धस्मृत्यनुगृहीतश्रुतिबहिष्ठत्वादित्यर्थःजीवात्मनोहि ब्रह्मात्मकत्वं ईश्वरस्य च जगदुपादानतादि सर्वकल्याणगुणात्मकत्वंश्रुतिसिद्धम् । अतोध्येयभूतयोरात्मेश्वरयोस्तथात्वानभ्युपगमेनतद्विषयकध्यानस्य मोक्षकारणत्वाभ्युपगमात् ध्यानानुष्ठानमपि अन्यथाभूतम्न हि ध्यानसामान्येन तदभिमतध्यानस्यापि मोक्षोपायत्वसंभवः । अन्यथाकामिनीध्यानादीनामपि तथात्वापत्तेः । अतो ध्येयविशेषविषयक ध्यानमेवमोक्षोपायःइति भावः । वक्तृवैलक्षण्यमपि नास्तीत्याह - वक्तुरिति।क्षेत्रज्ञभूतस्येति । यो ब्रह्माणं विदधातीत्यनेन हि सृज्यत्वमुक्तं,सृज्यत्वं च कर्मकृतनामरूपाभ्यां योजनीयत्वमेव । अत इन्द्रादीनामिवतस्यापि क्षेत्रज्ञत्वमिति तत एव रजसातमसा चा भिभवसंभव इति तस्यापिभ्रान्त्यादिर्युक्ता । अत एव हि हिरण्यगर्भस्यापि मधुकैटभकृतवेदापहारादिविविधदुःखानुभवः । तदानीं च सर्वज्ञत्व सर्वविद्यातियुक्तत्वं क्व गतम् ?तस्मात् वेदापहारादिविपद्दशायां वेदज्ञानाभावेन वेदवित्त्वमेव कादाचित्कमितिन यथावस्थिततदर्थवित्त्वम् ।।अतो न्यायानुगृहीतवेदाविरोधेनार्थस्य वर्णनीयत्वात् तादृशे च विषयेकपिलस्मृतिवदस्या अपि न प्रामाण्यमभ्युपगन्तुं शक्यमिति भावः ।अथ प्रतिबन्दीमभिप्रेत्य योगस्मृतेः भ्रान्तिमूलत्वे तन्निबद्धपुराणमेवदृष्टान्तयति - तत्प्रणीतेति । अयमाशयः - वक्तृवैलक्षण्यादेव न योगस्मृतेःप्रामाण्यं, तथा सति तत्प्रणीतपुराणान्तरस्यापि प्रामाण्यापत्तेः ।यदि श्रुतिविर्रोधात् पुराणान्तरस्याप्रामाण्यमित्यभिमानः तदायोगस्मृतेरपि श्रुतिविरोधस्सुवच एव । तत्त्वानुष्ठानविषये श्रुतिविरोधश्चदर्शित इति । उपसंहरति - इति न तथेति।। अत्र हिरण्यगर्भस्य भगवदंशत्वबोधकवचनानांशौनकादिभिरुदाहृतानां “त्वमप्यत्र महाभाग मदंशः कमलोदरात्मन्नाभिसंभवाज्जातः प्रजासृष्टिकरः परः” इत्यादीनां हिरण्यगर्भेभगवदनुप्रवेश एव तात्पर्यमिति ध्येयम् । एतेन हिरण्यगर्भस्य भगवदंशत्वात्तत्कृतयोगस्मृतेः कथमप्रामाण्यमिति शंकनं निरस्तम् ।भगवदवतारभूतबुद्धागमस्येवाप्रामाण्यसंभवात् । वस्तुतो न भगवदंशत्वमपि कर्मवश्यत्वात् । बृहस्पतिरपिहि स्वद्धार भूतायां तारायां मदनार्दितस्य बुधजनकस्य शशांकस्य वृत्तंनाभिजानाति स्य । अतः कर्मवश्यस्यः न सर्वज्ञः । अत एव हि “आब्रह्मस्तम्बपर्यन्ताःजगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः” इति तस्यापिकर्मपरवशत्वं स्पष्टं प्रतिपादितमुपपद्यते ।न चात्राङ् नाभिविध्यर्थकः , किंतु मर्यादापर इति न चतुर्मुखस्यकर्मपरवशत्वमावश्यकमिति मन्तुं शक्यम् । तथा सति स्तम्बस्यापि कर्मपरवशत्वानापातात्न चेष्टापत्तिः, “पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तुभूपैते कर्मयोनय” इति स्थावरदेहस्य कर्मनिबन्धनत्वस्मरणादिति दिक् ।योगप्रत्युक्त्यधिकरणं समाप्तम् ।।