01 स्मृत्यधिकरणम्

(2.1.1) द्वितीयाध्याये प्रथमपादः - स्मृत्यधिकरणम्अथ पूर्वापराध्याययोः संगतिविशेषसिध्यै प्रथमाध्यायोक्तमर्थं संक्षेपेणप्रदर्शयति - प्रथमेऽध्यायेइति । प्रत्यक्षादीत्यत्रादिपदेनानुमानपरिग्रहःप्रत्यक्षप्रमाणगोचरत्वं अचेतनस्य । अनुमानप्रमाणगोचरत्वं चेतनस्येतिविभागः । अनेनान्दमयाधिकरणस्य - ईक्षत्यधिकरणानन्तर्ये हेतुरप्युक्तोभवति । अचेतन पृथिव्यादीनां प्रत्यक्षसिद्धतया प्रसिध्यतिशयेन तदनुरूपकारणाणुमानात्ततः परम् । प्रत्यगात्मनि जगत्कारणत्व बुध्यवतारः इति ।निरस्तेति।अत्र गन्धशब्देन मुक्तव्यावृत्तिः ।अनन्तेति। अनन्तत्वं परिच्छेदरहितत्वंतच्च ज्ञाने सर्वविषयकत्वं आनन्दे अवधिरहितत्वम् ज्ञानानन्दयोरेकतानं=मुख्याधारभूतमित्यर्थःउत्तरत्रगुणशब्दे न तद्नतिरिक्तगुणपरिग्रहःअपरिमितेतिअपरिमितः उदारगुणसागरःयस्येति बहुब्रीहिः । अन्यथा पुल्लिंगनिर्देशापत्तेः ।सागरशब्दश्चसमूहार्थकः । भगवद्गतस्योदारत्वस्यगुणे आरोपेणोक्तिः । देवः स्वगतसौशील्यज्ञानक्षमादिभिःखलु अस्माकमुपकरोति । निर्गुणस्योपकारकत्वाभावात् । भगवतोऽप्युदारत्वं"उः लक्ष्मीः दाराः यस्य" इति व्युत्पत्त्या । लक्ष्मीपतिकत्वात्दातृत्वरूपदानशीलत्वम् । न विद्यते अथ = अथ शब्दः पश्चात् इति शब्दःयस्मिन्निति नाथत्वं भगवतः । यथा । मध्यम-अधमानामेव याचकविषये पश्चात् शब्दः ।ब्रह्मणः आकाशादिसर्वं प्रति कारणत्वबोधनाय निमित्तोपादानरूपोभयविधकारणत्वबोधनायच - निखिलजगदेककारणमित्युक्तम् । ननु ब्रह्मणो जगदुपादानत्वे जगदैक्यावश्यकतयाहेयप्रतिभटत्वमभिमतं न सेत्स्यतीत्यत्राह - सर्वान्तरात्मभूतमिति।अनेनानन्यत्वं हेयप्रत्यनीकत्वं चेत्युभयमपि रक्षितम् भवति । अथद्वितीयाध्यकृत्यं दर्शयति - अनन्तरमिति। संभावनीयेत्यनेन विरोधप्रसंगःउक्तः । समस्तप्रकारेत्यनेन पादचतुष्टयोक्तविरोधावतरणप्रकारभेदाःसूचिताः । अयमाशयः - यद्यपि प्रथमाध्याये अयोगान्ययोगव्यवच्छेदमुखेनवेदान्तवाक्यानां तत्तत्पर्यपर्यालोचनया ब्रह्मैककारणत्वं स्थापितमितिनात्र वक्तव्यं किंञ्चिदवशिष्यते तेनैव निपुणंबुद्धिमतां अवश्यज्ञेयवेदान्ततात्पर्यार्थनिश्चयस्योत्पत्तेः अथापि प्रथमाध्यायोक्तमेवजगन्निमित्तोपादानत्वरूपकारणत्वं बाह्यतर्कविरोधादिभिः चालयितुंन शक्यते इति बाह्यतर्कविरोधादिपरिहारमुखेन स्थूणानिखनन्यायेन हेतुवादिभिराक्रमणमाशंकमानेनसूत्रकारेण पुनरपि स्थाप्यते इति भावःतत्र चास्मिन्नाध्याये प्रथमपादद्वयं कारणभूतपरब्रह्मणि वेदबोह्योक्तबाधप्रतिरोधरूपयोःनिवर्तकम् । अनन्तरपादद्वयं तु? हारेणोत्यिति तस्यं वेदान्तवाक्यानामन्योन्यविरोधस्यपरिहारपरम् । अथवा पूर्वपादद्वयेनेश्वरस्य कारणत्वायोगः क्रियतेउत्तरपादद्वयेन ईश्वरस्य कारणत्वाभ्युपगमेऽपि न तस्य सार्वत्रिकत्वंआकाशादेर्नित्यत्वेन तत्र तत्र कारणत्वा भावात् इति शंकानिवर्तकम्प्रथमपादे अधिकरणद्वयेन स्मृतिविरोधपरिहारः क्रियते अवशिष्टैरष्टभिरधिकरणैन्यायविरोधपरिहारःक्रियते इति विवेकः । अथ प्रथमाधिकरणकृत्यमाह - प्रथमंतावदितितावदिति वाक्यालङ्कारे । सर्वव्याख्यानाधिकरणे व्याख्याताः इतिउपनिषदां उपब्रह्मणरूपं व्याख्यानमुक्तम् । श्रुतीनामुपबृंहणं चस्मृत्यैवकर्तव्यम्?मन्वादिस्मृतयः कर्मप्रतिपादनपरत्वेन कर्मभागोपबृंहणसरूपाःउपनिषदां सांख्यस्मृतिं विनाऽन्योपबृंहणादर्शनेनोपनिषत्तपस्विनीन्यायोपबृंहणे सांख्यस्मृति मेवाश्रयते । ततश्च समाश्रयणीय सांख्यस्मृत्यपेक्षयाउपनिषदो दुर्बलत्वात् तदनुरोधेनैवेयमुपनिषन्नेया इति पूर्वाधिकरणसंगतिरूह्या ।। एवमुपनिषदां उपबृंहणसापेक्षतया तदुपजीवकत्वेन दौर्बल्यात्निरवकाशसांख्यस्मृतीनामुपबृंहणरूपतयोपनिषदाऽऽश्रयणीयत्वेन प्राबल्याच्चसांख्यस्मृत्यनु सारेणैवोपनिषदामर्थोवर्णनीयः इति पादसंगतिरपि । ननु कपिलस्मृतिविरोधेन वेदान्तानामतत्परत्वाशंकैवन भवति श्रुतिस्मृतिविरोधे श्रुतेर्निश्चलत्वस्य कर्मकाण्डे विरोधाघिकरणादौस्थापितत्वेन तेनैव पूर्वोत्तरमीमांसयोरैकशास्त्रयवादिनामस्माकमर्थसिद्धेः, पुनरत्र तत्साधनेपौनरुक्त्यं चेत्याशयेन शंकते - कथमिति।स्मृतिविरोधादिति।स्मृतिशब्दो न्यायस्याप्युपलक्षणम् । पूर्वत्रभाषितं वेदान्तानामतत्परत्वंअन्यपरत्वरूपमेवेति बोधयन्नाह - श्रुतेरन्यपरत्वमिति। शंकितुराशयंव्यनक्ति - उक्तं हीति । हिशब्दो हेतुवाची । विरोधे त्वनपेक्ष्यं स्यादसतिह्यनुमानमिति ।विरोधाधिकरणसूत्रम् । अस्यायमर्थः । विरोधे = प्रत्यक्षश्रुतिविरोधेस्मृतिवचनमनपेक्ष्यम् प्रत्यक्षश्रुतिविरुद्धं स्मृतिवचन मनादरणीयमेवेतियावत् । स्मृतेरपि स्मृतित्वहेतुना श्रुतिमूलकत्वानुमानेनादरणीयत्व"शंकाव्यावृत्त्यर्थं असति" ह्यनुमानमित्युक्तम् । प्रत्यक्षश्रुतिविरोधेऽसतिहिस्मृतिमूल स्मृत्यनुमानमिति तदर्थ इति । उदुम्बरवृक्षकृतः स्थाणुविशेषःयज्ञशालायांनिरवातोभवति । तं स्पृशन् उद्गानं कुर्यात्’ इति श्रुत्यर्थःवस्त्रेण वेष्टनं स्मृतिः बोधयतिएवं वस्त्रवेष्टने साक्षात्स्पर्शरूपः संयोगः श्रुति विहितो बाध्यतेअतः स्मृतेः उपेक्षैव । नच कृचिद्भागे वस्त्रावेष्टनं अन्यत्रस्पर्शः इति वक्तुं सांप्रतम् । सर्वा वेष्टयितव्येति कार्त्स्न्येनवेष्टनस्य, स्मृत्या विधानात् ।। नच “सकलमपि वपुः विभूष्य तन्व्याः"इति साकल्यस्यापेक्षिकत्वं इवात्रापि वक्तुं शक्यते । नहि द्रौपद्याःशरीरे अनलंकृतभागो नास्तीति इति कश्चित् ब्रूयादिति वाच्यम् । तत्रप्रत्यक्षविरोधस्येवात्रानुपपत्त्यभावात् । नहि श्रुति - विहित स्पर्शान्यथानुपत्तयासर्वशब्दसंकोचः कर्तुं शक्यः अन्योन्याश्रयात्उक्ताक्षेपमपाकरोति - सत्यमितिइदं चार्धाङ्गीकारे । श्रुतिविरुद्धस्मृतेरनादरणीयत्वेअङ्गीकारः। अधिकरणस्यानरंभणीयत्वादावनंगीकारः । यत्र प्रत्यक्षश्रुतेरेकर्थकत्वनिश्चयेनाव्याकुलार्थकत्वं तत्र स्मृतिन्यायनिरपेक्षं स्वत एवार्थनिश्चये संभवेन विरुद्धार्थ स्मृतेः रनादरणीयत्वं यत्रतु श्रतेरनेकार्थकत्वसन्देहेनव्याकुलार्थकत्वं तत्र स्मृति निरपेक्षं स्वत एवार्थनिश्चयासंभवात्अनिश्चितार्थक श्रुत्या स्मृति विरोधोद्भावनस्यासम्भवाच्चोपबं्रह्मणसापेक्षायाःतादृशश्रुतेः स्मृतिन्यायसापेक्षतयैवार्थो निश्चेयः । इत्थं च नानार्थकत्वेनप्रतीयमानस्य वेदान्तवाक्यस्य केवलब्रह्मपरत्वे कपिलस्मृतिविरोधोदुर्वारः इत्यभिप्रत्यन् हेतुं प्रकटयति - औदुम्बरीं स्पृष्ट्वेति"औदुम्बरीं स्पृष्वोद्गाये"दिति श्रुतिस्तु स्वतःएवार्थ निश्चयसमर्थाएकस्यर्थस्यैव प्रतीतेः । अतः श्रुतेरयमेवार्थः इति निश्चितत्वेन"औदुम्बरी सर्वा वेष्टयितव्या” इति स्मृतिः तद्विरुद्धेति परित्यज्यतेइति भावः ।।एतदेवाहस्वत एवेति। वेदान्तवाक्यानां संदिह्यमानार्थकत्वेन स्मृतिन्यायनिरपेक्षमयमेवार्थ इति निश्चेतुं न शक्यत इति तदर्थं स्मृति रपेक्षणीयैवेतितद्विरोधे परब्रह्मार्थकत्वनिश्चयो न संभवतीत्याह - इहत्विति। संवादजननायपरमर्षि प्रणीतत्व विशेषणम् ।अयमर्थइति । प्रथमाध्याय प्रतिपादितएवार्थ इत्यर्थः । ननु स्मृतिविरोधेपि प्रथमाध्यायोक्त तर्कबलेनोक्तार्थनिश्चयःकिं न स्यात् ? नैवं न्यायस्य दुर्बलत्वात् । न हि वचन विरोधे न्यायःप्रभवति । ननु श्रुतेरूपबृंहण सापेक्षत्वेपि कपिलर्षिप्रोक्तस्मृत्यैवोपबृंहणंकार्यमिति को निर्बन्धः? कपिलस्य परमर्षेित्वादिति चेत् तत्रैवकिं प्रमाणं परमर्षित्वेपि वा परमाप्तत्वेनैव प्रसिद्ध बृहस्पत्याद्युक्तलोकायतादिवदनारणीयत्वंकिं न स्यादित्यत्राशयं व्यनक्ति - एतदुक्तंभवतीतिप्राचीनभागेत्यादिना लोकायतमतप्रर्वतकबृहस्पतेरवैदिकत्वेन परमर्षित्वमेवनास्ति,कपिलस्य वैदिकत्वेन परमर्षित्वंचेति सूचितम् । ऋषिं प्रसूतं कपिलंमहान्त"मित्यनेनाप्ततमत्वं दर्शितम् । ननु कपिलनिबद्धा स्मृतिःपूर्वभागोप बृहंणमात्रे चरितार्था भवतु इत्यत्राह - परमनिःश्रेयसेतिअअनेनानन्यपरत्वं प्रदर्शितम् । ननु स्मृतिं विनैकार्थनिश्चयः क्रियतेइत्यत्राह - स्मृत्युपबृंहणेन विनेति। स्मृतिरूपोप बृहणं विनेत्यर्थःन्यायस्यापीदमुपलक्षणम् । विपर्यये बाधकमप्याह - यथाश्रुतेति। ननुकपिलस्मृतिविरोधपरिहाराय कपिलस्मृत्यनुसारे मन्वादिस्मृतिविरोधपरिहारायअन्यानु सारो़पिकर्तव्य इति वेदान्तार्थो दुरवबोध एव अनवकाशत्वं चोभयत्र समानमितिशंकां सकलाया एवानवकाशप्रसंगादित्यनेन सूचितहेतुना परिहरति - न चवाच्यमितिधर्मप्रतिपादनद्वारेति। मन्वादिस्मृतेर्नकार्त्स्न्येन निरवकाशत्वंधर्मप्रतिपादकत्वेन पूर्वभागोप बृंहणरूपत्वेन सावकाशत्वात् ।। कपिलस्मृतिस्तुन धर्मप्रतिपादनपरापि येन तावतैव सावकाशत्वं भजेत । न च साकल्येननिरवकाशत्वमेवेष्टं भवति । आप्ततमत्वेन तन्निबंद्धुः श्रुतिप्रसिद्धेःअनन्तगम्भीरशाखापरिच्छेद्यार्थस्य दुरवबोधत्वेनोपनिषदा निरवकाशस्मृत्यपेक्षणाच्चतस्मात् मन्वादीनांकेवलकर्मठत्वेनास्य च ज्ञानैकनिष्ठत्वात् आप्तत्वेनश्रुतिप्रसिद्धत्वेन “यस्येयं वसुधा कृत्स्ना वासुदेवस्य घीमतःकपिलं रूपमास्थाय धारयत्यनिशं घराम्” । इति वासुदेवांशभूततया रामायणप्रसिद्धत्वेनभ्रमप्रमादाद्यसंभवाच्च तन्निबद्धस्मृत्यैव अस्मद्विदूर वेदान्तवाक्यार्थनिष्कर्षः कर्तव्य इति ।सिद्धान्तपरं सूत्रखण्डमवतारयति - तत्रोत्तरमिति। सूत्रे नेति पृथग्वाक्यम्सूत्रखण्डस्यार्थमुत्तरत्र विवक्षुः अन्यस्मृतीः तत्प्रतिपाद्यार्थंचादौ व्यनक्ति - अन्या हीति। ब्रह्मैककारणतामित्यनेन विवक्षितसर्वस्मृतीनामैककण्ठ्यं प्रकाशितम् । अथ मनुस्मृतिवचनं प्रदर्शयति - यथाहेति। उत्तरत्रकारणतादशास्फुट प्रतिपत्तये प्रथमं प्रलयावस्थाज्ञापकं वचनं आसीदिदमित्युदाहृतम्आरभ्यशब्देन परिपूर्णश्लोको विवक्षितः । अत्रासीदिदमित्यारभ्यश्लोकसप्तकंविवक्षितम् - आसीदिदं तमोभूतम - प्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयंप्रसुप्तमिव सर्वतःततस्स्वयंभूर्भगनानव्यक्तो व्यञ्जयन्निदम् महाभूतादिवृत्तौजाःप्रादुरासीत्तमोनुदः ।। योऽसावतीन्द्रियग्राह्यस्सू क्ष्मोऽव्यक्तस्सनातनःसर्वभूतमयोऽचिन्त्यस्स एष स्वयमुद्भभौ ।। सोऽभिध्याय शरीरात्स्वात्सिसृक्षुविविधाःप्रजाः । अप एव ससर्जादौ तासुवीर्यमपासृजत् ।। तदण्डमभवद्धैमं सहस्त्रांशुसमप्रभम्तस्मिन् जज्ञे स्वयं ब्रह्मासर्वलोकपितामहः।। आपो नारा इति प्रोक्ताःआपो वै नरसूनवः । ता यदस्यायतनं पुंस स्तेन नारायणस्स्मृतः ।। यत्तत्कारणभव्यक्तंनित्यम् सदसदात्मकम् । तद्विसृष्टस्स पुरुषो लोके ब्रह्मेति कीर्त्यतेइति सप्तश्लोकाःयद्यपि “धर्मान्नो वक्तुमर्हसीति मुनिभिः पृष्टेन मनुनाधर्मस्वरूपकथनमेवयुक्तं न तु ब्रह्मस्वरूपादिकथनं, अथापि वर्णाश्रमधर्माणां भगवदाराधनरूपत्वेनआराध्यज्ञानसापेक्षत्वात् आदौ आराध्य स्वरूपादि प्रदर्शितम् । अतएवोत्तरत्र धर्मस्वरूपकथनं च । धर्माणां भगवदाराधनरूपत्व चोत्तरत्रभाष्यकृतैव प्रदर्शयिष्यते ।। कारणस्यैव सर्वतदात्म्यसंभव इत्यभिप्रेत्य"यतो वा इमानि भूतानि जायन्ते’ इत्यादिवाक्यसिद्धं सर्ववस्तुतादात्म्योपपादकंपरमकारणत्वं ब्रह्मणो वक्तुं वेदान्तेषु प्रलयपूर्वकत्वेन सृष्टिप्रतिपादनमिवात्रापिप्रतिपादनीयमित्यभिप्रेत्य सुबालोपनिषदनुसारेणादौ प्रलयदशामाह - आसीदितिइदं= परिदृश्यमानं जगत्तमोभूतमासीत्=पृथिव्यादि क्रमेण तमःपर्यन्तंप्रलीनत्वात् तमोऽवस्थमासीदित्यर्थः । सुबालोपनिषदि पृथिव्यप्सुप्रलीयते इत्यादिभिः वै यधिकरण्येन प्रलयः उक्तः अत्र तु इदं तमोभूतमितिसामानाधिकरण्येन स एवोक्तः इति विशेषः । अनेन च सत्कार्यवादस्सूचितोभवति । अत एव हि । “तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत्इत्युच्यते । आविर्भावाख्यजन्मवत् तिरोभावाख्यनाशवदित्यर्थः । स्फुटएवचानेन सत्कार्यबादः।तमोभूतं= तमोभाववत् तमोवस्थमिति यावत् । तमसिलोयते इति श्रौतनिर्देशस्याप्ययमेवार्थः"अग्न्यवस्थे च सलिले वाय्ववस्थे च तेजसी"ति हि भगवता पराशरेणाप्युक्तम्अअप्रज्ञातं=प्रकृष्टज्ञानेन अपरोक्षज्ञानेन विषयीकर्तुमनर्हमित्यर्थःएवमयोग्यत्वोपपादनात् तमोवस्थस्य कारणस्य योग्यानुपलब्धिनिरस्तत्वशंकापरिहृता । कुतः प्रत्यक्षायोग्य मित्यत्राह - अलक्षणमिति। रूपादिरहितमित्यर्थः"शब्दस्पर्शविहीनं तद्रूपादिभिरसंयुत"मिति ह्युच्यते । तथाच रूपादिमतएव प्रत्यक्षयोग्यत्वादस्य च रूपादिलक्षणरहितत्वेन न प्रत्यक्षयोग्यत्वमितिभावः ।अप्रतर्क्यमिति। बाह्यतर्काविषयभूतमित्यर्थः । अनेन कार्येषुरूपादिमत्वदर्शनेन कारणे़पि रूपादिमत्वमावश्यकमिति बाह्यतर्काणां बाधितत्वेन प्रकृतेऽप्रवृत्तिर्दर्शिताअथवाअप्रतर्क्यं= अनुमानागोचरभूतम् । अप्रज्ञातमित्यनेन हि प्रत्यक्षागोचरत्वमुक्तम्अअविज्ञेयमितिअनेन “तमः परे देव एकीभवती’ति वाक्यार्थ उच्यते ।विभागेन ज्ञातुमशक्यमित्यर्थः । परस्मात् ब्रह्मणः प्रथग्व्यपदेशानर्हावस्थापन्नमितियावत् । ननु चिंदचिदात्मकस्य जगतः कारणस्वरूपैक्यादेवाविज्ञेयत्वमित्यत्राह - प्रसुप्तमिवेति।यथा सुषुप्तौ जीवस्य परमात्मन पृथग्व्यवहारानर्हावस्थापत्तिरेवन तु स्वरूपैक्यं, तथैव प्रलयदशायामपि चिदचिदात्मकजगतः परब्रह्मणिपृथग्व्यवहारानर्हसंसर्गमात्रमेव न तु स्वरूपैक्यमित्यर्थःननु स्वरूपैक्याभावेपि सुषुप्तिप्रलययोरन्याकारेण साम्यंस्यादित्यत्राह - सर्वतइति । अनेन पृथग्व्यवहारानर्हसंसर्गांशे साम्यं दृढीकृतम् । सुषुप्तौसर्वथा साम्यव्यावृत्त्यर्थं सर्वत इति पदमिति केचित् ।अविज्ञेयमित्यनेनाचिदंशप्रलयउक्तः । प्रसुप्तमिव सर्वतइत्यनेन चिदंशप्रलयप्रकारः उच्यते इतिवा विभागः ।। ततः सर्गकाले प्राप्ते । स्वयंभूः=परमकारणभूतो नारायणइत्यर्थः । तत्रैवावयवार्थपौष्कल्यात् । अत एव पुरानारायणो देवःस्वयंभूः प्रपितामहः……..ततस्सभगवांस्तोये ब्रह्माणमसृजत् ।स्वयमिति नारायणो जगन्मूर्तिः…ततस्तेजोमयं दिव्यं पद्मं सृष्टंस्वयंभुवा तस्मात्पद्मात्समभवत् ब्रह्मा वेदमयोनिधिरित्युच्यतेअत्र नारायणशब्दविशेषणात् चतुर्मुखब्रह्मकर्मकसृष्टिकर्तृत्वश्रवणाच्चस्वयंभूशब्दस्य नारायणविषयकत्व मास्थेयम्अत्र सर्वत्र स्वयंभूशब्दोपादानं भगवतः करणान्तरसद्बावशंकाकृतोत्पत्तिप्रलयव्यावृत्त्यर्थमितिध्येयम् आत्मेश्वरं स्वे महिम्नि प्रतिष्ठितःइत्यादाविवात्रापि स्वयंभूशब्देन कारणान्तरराहित्यमुक्तं भवति ।अत्रापि स्वयंभूशब्दस्य नारायणविषयत्वज्ञापनाय, कारणत्वोपयोगिगुणपौष्कल्यव्यञ्जनाय चाह - सभगवानिति। भगवच्छब्दः नारायणासाधारण= इति तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः।शब्दोऽयं नोपचारेण ह्यन्यत्र व्युपचारतः इत्यादि प्रमाण ज्ञानसिद्धम् । इदं व्यञ्जयन्=व्यष्टि रूपकार्यजातं व्यञ्जयन् । लक्षणहेत्वोःक्रियायाः इति शतृप्रत्ययःमहाभूतादिवृत्तौजाःइति व्यष्टिकारणभूतेषु पृथिव्यादिमहाभूतेषु पृथिव्यादिमहाभूतकारणभुत महदहंकारयोश्च वृत्तं=प्रवृत्तं ओजः=संकल्परूपतेजोयस्य तादृशः इत्यर्थः । अत्यक्तः प्रादुरासीत्। अव्यक्तमस्यास्तीत्यर्शआद्यजन्तमिदं पदं, अतः पुंलिगत्वम् अन्यक्त शरीरकः प्रादुरासीदिव्यर्थःअत्र “महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते"इति अव्यक्ततमसोर्मध्ये अक्षरत्वावस्थायाः प्रमाणसिद्धत्वात् अक्षरवस्थाप्यर्थसिद्धामन्तव्या । ततश्चायमर्थः प्रलयदशायामविभक्ततमश्शरीरको भगवान् व्यष्टिसृष्टिहेतुभूततन्मात्राहंकारादिसृष्ट्यर्थंस्वसंकल्पात् विभक्ततमःशरीरकःअक्षरावस्थां प्राप्य अव्यक्तावस्थप्रकृतिशरीरको़भूदिति । अथाव्यक्तशब्दं विवृण्वन् समष्टिव्यष्टिसृष्टिमपि समासतःप्रतिपादयति - योऽसाविति । अतीन्द्रियग्राह्यः=अतीन्द्रियेण शास्त्रेणग्राह्यः । इन्द्रियग्राह्यान् विषयानतीत्य वर्तमानः ।सूक्ष्मइतिअनेनेन्द्रियग्राह्यानतीत्यवर्तमानत्वं तुच्छसाधारणमितिअस्यापितुच्छत्वापत्तिरिति शंका व्युदस्ता ।सूक्ष्मत्वादेवाव्यक्तत्वं,नतु तुच्छत्वादित्यभिप्रयन्नाह - अव्यक्तइति ।सनातनः=अव्यक्तशरीरकत्वेऽपिस्वयमप्रच्युतस्वभावः । स एष इत्युक्त्या कार्यकारणयोरेकद्रव्यत्वमुक्तम्निमित्तकारणान्तरनैरपेक्ष्यमभिप्रयन्नाह - स्वयमुद्वभावितिएकस्यैव निमित्तत्वमुपादानत्वञ्चानुपपन्नं लोके तयोर्भिन्नवस्तुवृत्तित्वदर्शनात्इति शंका निवृत्यर्थंअचिन्त्यइत्युक्तम् । सर्वभूतमय उद्बभौ=सर्वसमष्टिव्यष्टिरूपउद्धभौ इत्यर्थः । अत्र सूक्ष्मःसर्वभूतमय उद्बभौ इत्युक्त्या सूक्ष्मत्वस्थूलत्वेएव कार्यकारणभावदशावैषभ्यं ननु द्रव्यभेदादिति व्यञ्जितम् । एवंसंग्रहेण समष्टिव्यष्टिसृष्टिरुक्ता - अथ व्युत्पत्तिवैशद्याय समष्टिसृष्टिःपृथगभिधास्यते - सोऽभिध्यायेति। अभिध्यानं=संकल्पः, तदभिध्यानादेवतु तल्लिङ्गात्स इत्युक्तेः । नात्र स्वरूपेणैव व्यष्टिसमष्टिरूपेणपरिणामःतथा सति शास्त्रसिद्धनिर्दोषत्वादिविरोधापातात् । किं तु शरीरद्वारैवेत्यभिप्रयन्नाह - शरीरादिति।तमोऽव्यक्तावस्थात् चित्संसृष्टात् अचिद्वस्तुन इत्यर्थः । स्वस्योपादानत्वसिध्यैस्वादित्युक्तम्सस्वात्=स्वापृथक्सिद्धात् विविधाः प्रजाः सिसृक्षुः व्यष्टिसिसृक्षयेत्यर्थःअअप एव ससर्जादौ। अण्डकारणभूतानिसमस्ततत्वानि प्रथमं ससर्ज । अत्राप्शब्दःअण्डकारणसमस्ततत्वप्रदर्शनार्थः । पृथिवीमयमण्डं प्रत्यपामनन्तरकारणतयातच्छब्दनिर्देशः । ता इमा आपः तद्धिरण्मयमण्डमभवदिति व्याख्येयप्रत्यभिज्ञापनाय अप इत्यानूपूर्वीग्रहणम्अप एवत्यवधारणेन त्रिवृत्करणं व्यावर्तितम् ।अप एव=अत्रिवृत्कृतानिअण्डकारणभूतानि समस्ततत्त्वानीत्यर्थः ।तासु वीर्यमपासृजन्=त्रिवृत्करणजनितामण्डोत्पादनशक्तिंतास्वजनयदित्यर्थः । एवं समष्टिसृष्टिः प्रतिपादिता । अथ व्यष्टिसृष्टिःप्रतिपाद्यते - तदण्डमित्यादिनाततत्=अण्डकारणतत्त्वजातम् ।सहस्त्रांशुसमप्रभमित्यनेन इतरहेमव्यावृत्तिरुक्ताततस्मिन् जज्ञेइत्यादिना चतुर्मुखसृष्टिरुक्ता ।सर्वलोकपितामहइतिदेवमनुष्यादि स्रष्टृदक्षादीनामपि चतुर्मुखस्स्रष्टेति भावः ।अनेन भगवतःअण्डान्तर्गतवस्तुसर्गः सद्वारक इत्युक्तं भवतिस्वयं ब्रह्मा=परमकारणभूतो भगवान्नारायणः चतुर्मुखशरीरकोऽभवदित्यर्थःविष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः इति ह्युयते । अथनारायणशब्दस्य परमकारणविषयत्वं जगत्कारणत्वादिप्रवृत्तिनिमित्तप्रदर्शनद्वाराविवृणोति - आपो नारा इति प्रोक्ताइति । आपः=चित्संसृष्ठान्यण्डकारणभूतानितत्त्वानीत्यर्थः । कथं तासां नारत्वमित्यत्राह - आपो वै इति । (री)रिङ् क्षये इति घातोः ट? प्रत्यये टिलोपे च कृते र इति रूपम् ।नरः=अक्षय इत्यर्थः निर्विकार इति यावत् । स च नारायण एव । जन्हुर्नारायणोनरः इति तन्नाम्नि पाठात् । नराज्जाताः नाराःनाराः आपोऽयनमस्येति नारायणः । अयमर्थ एव - आपो वै नरसूनवः । ताःयदस्यायनंपुंसः तेन नारायणस्स्मृतःइत्यनेनाभिहितः । श्लोके अस्येतिशब्देनभगवतो नारायणस्य परामर्शः तस्मिन् जज्ञे स्वयं ब्रह्मेति तस्यैवप्रस्तुतत्वात् । अत्र नारायण इत्यत्र नरशब्देन निर्विकारत्वं,नारशब्देन जगत्कारणत्वं, अयनशब्देन जगदन्तरात्मत्वं चोक्तम् । इदमेवच सुबालोपनिषदि विशदम् । “अजो नित्यः’ इत्यादिना प्रतिपाद्य, नारायणशब्दस्यासकृदावर्तनात्उक्तधर्मत्रयमपि नारायणशब्दस्यावयवार्थः इत्युक्तं भवतीत्यभिप्रायःयत्तत्कारणमिति कारणभूतं परं ब्रह्मअव्यक्तं चिदचित्समुदायरूपाव्यक्तशरीरकम् । सदसदात्मकं=सदसच्छरीरकंभवति ।तद्विसृष्टः तेन=ब्रह्मणा विशेषेण= जीवबुध्यव्यवधानेन सृष्टःसः ब्रह्मा इति कीर्त्यते । अत्र चतुर्मुखस्य भगवद्विसृष्टत्वकथनात्चतुर्मुखस्य नारायण संज्ञत्वं चतुर्मुखसृष्ठानां इतरदेवानां परत्वंचनिराकृतम् इति । एवमत्र ब्रह्मैककारणत्व अनवकाशत्वरूपदो षस्योत्कटत्वप्रतिपादनाय स्मृत्यन्तरमप्युदाहरति - भगवदिति । प्रतिपादनात् कपिलस्मृत्यावेदान्तोपबृंहणे क्रियमाणे एतत्स्मृतेरनवकाशत्वं दुर्वारं स्यादितिभावःवविष्णोस्सकाशादितिसकाशात्=संकल्पात् शरीराद्वेत्यर्थःपूः=पुरमित्यर्थः शरीरमिति यावत् । अङ्गं वपुर्वर्ष्म पुरं प्रतीकमितिभट्टहलायुधः । परिहारपरखण्डस्यार्थं स्फुटं प्रतिपादयति - यदि कपिलस्मृत्येति।ननु वेदान्तानामुपबृंहणसापेक्षत्वं तु दुवीरम् । तत्र मन्वादिस्मृत्यैवोपबृंहणंकार्यमित्यत्र न विशेषहेतुरस्ति विनिगमनाविरहेण कपिलस्मृत्यापिउपबृंहण संभवात् । न च कपिलस्यानाप्तत्वं येन तन्निबद्धस्मृतिपरित्यागःशक्यशंकः नपिभूयसीनां मन्वादिस्मृतीनां निरवकाशत्वं तत्परित्यागेहेतुः । तासां घर्मप्रति पादनांशे सावकाशत्वस्य स्थापितत्वादित्याद्याशंकांपरिहरति - अयमर्थःइतिअतिपतितेति? संभावनाभूमिः =संभवनाविषयत्वं ब्रहुवीहिस्समासः । भूतशब्दःसिद्धपरः। सकलेतरप्रमाणाविषय - सिद्धवस्तुप्रतिपादनपरत्वादित्यर्थःउपबृंहणनैरपेक्ष्यशंकाव्यावृत्यर्थं इतरप्रमाणाविषयत्वोक्तिःअर्थस्य सिद्धत्वोक्त्या तुल्यविकल्पत्वेनाधिकारिभेदेन वाऽर्थविरोधस्स्यादितिशंका निरस्ता । अयं भावः - वेदान्तवाक्यानां कार्यरूपार्थपरत्वे तत्तत्स्मृत्यनुगुणमुपबृहंणेक्रियमाणेऽपि तुल्यविकल्पत्वेनाधिकारिभेदेनवार्थविरोधपरिहारस्सुवचःअत्र च सिद्धवस्तुप्रतिपादनपरत्वात् अन्यतरस्मृत्यनुगुणमेव वेदार्थस्यनेयत्वंसिद्धे वस्तुनि विकल्पायोगात् इति । एवं पूर्वपक्ष्यभिमतोऽर्थःस्वाभिमतः इत्युक्त्वा मन्वादिस्मृत्यैवोपबृहणीयत्वे विशेषहेतुमाह - तथापीति।तदर्थानुसारिणीनां= न्यायानुगृहीतश्रुत्यर्थानुसारिणीनामित्यर्थःआप्ततमप्रणीतानामिति । “ऋषिं प्रसूतं कपिलं महान्तमिति कपिलस्यमहर्षित्वोक्त्या मन्त्रद्रष्टृत्व यथावस्थितकतिपयार्थद्रष्टुत्वपूर्वकयथादृष्टार्थवक्तृत्वरूपाप्तत्वाभ्युपगमेऽपि सार्वत्रिकयथावस्थितदर्शनपूर्वकयथा दृष्टार्थवादित्वरूपमाप्ततमत्वं तु नास्ति “ऋषि’ प्रसूतमितिश्रुतेः तावताप्युपपत्तेः । मन्वादीनां तु निरुक्तमाप्तत्वं श्रुतिसिद्धमेव “यद्वैकिंचन मनुरवदत्तद्वेषजमिति सार्वत्रिकयथावस्थितदर्शनस्ययथादृष्टार्थवादित्वस्यचोक्तेः अतः कपिलस्याप्तत्वे़पि मन्वादिवदाप्ततमत्वाभावेन न तन्निबद्धस्मृत्योपबृंहणं युक्तमितिभावः ।।तदुपबृहणाय प्रवृत्तानामित्यनेन धर्मप्रतिपादनद्वारा अन्यथासिद्धिशंकनं निरस्तम् । श्रुतिविरुद्धार्थेति । न्यायानुगृहीत श्रुतिविरुद्धार्थत्यर्थःन्यायाविरुद्धस्मृत्यनुऽगृहीत श्रुतिविरुद्धार्थेति यावत् ।अयंत्विह भावः - न हि वचनविरोधे न्यायः प्रभवतीति न्यायानुगृहीत श्रुत्यपेक्षयास्मृत्यनुगृहीत श्रुतेःप्रबलत्वात् कपिलस्मृत्योपबृंहणं कार्यमितिहि शंकितम् । तत्र न्यायविरुद्धस्मृत्यनुगृहीतश्रुत्यपेक्षया न्यायाविरुद्धस्मृत्यनुगृहीतश्रुतेःप्रबलत्वात् आप्तप्रणीत स्मृत्यनुगृहीतश्रुत्यपेक्षया आप्ततमप्रणीतस्मृत्यनुगृहीतश्रुतेःप्रबलत्वात् एकस्मृत्यनुगृहीतश्रुत्यपक्षया बहुस्मृत्यनु गृहीतश्रुतेः प्रबलत्वाच्च न कपिलस्मृत्योपबृंहणं युक्तमितिअथ तदर्थानुसारिणीनामिति विपर्यये व्यञ्जितं उपबृहंणानुपपत्तिरूपंदूषणं प्रदर्शयितुं उपबृंहणस्वरूपं प्रदर्शयति - उपबृंहणं चेति। श्रुतिप्रतिपन्नार्थविशदीकरणम्=स्वावगतवेदवाक्यार्थव्यक्तीकरणमित्यर्थः । ततः किमित्यत्राह - तच्चेति।विरुद्धार्थतया=न्यायानुगुण स्मृत्यनुगृहीतश्रुतिविरुद्धार्थतयेत्यर्थः । नहि - श्रीमद्रामायणप्रतिपन्नार्थविशदीकरणं करोमीत्युक्त्वा, पार्वती रामरूपेणा वततार, शिवश्च सीतारूपेणदशाननेन कैलासाचलचालनसमयसंजातपार्वतीकर्तृक स्वयंग्रहाश्लेषसुखास्वादस्यपार्वत्यै सूचनार्थम् । अत एव परमशिवावतारभूता सीता पार्वत्यवतारभूतरामंखरादिबधानन्तरं स्वयमेवागत्य परिषस्वजेइति तात्पर्यकथने कथं तस्य श्रीमद्रामायणविशदीकरणरूपत्वं भवेत्तथैवात्रापि नोपबृंहणरूपता कपिलस्मृतेः ।। अथ परेण शंकितं स्मृत्यन्तराणांसावकाशत्वं प्रतिक्षिपति - नचैतासामिति। धर्माणां भगवदाराधनरूपत्वेप्रमाणमाह - तथाहीव्यादिना ।यतः=परस्मात्पुरुषात् । ततम्=व्याप्तम्स्वकर्मणा=स्ववर्णाश्रमादि सम्बन्धिकर्मणेत्यर्थः । सद्धिं=परमनिःश्रेयसम्अत्रोदाहृतवचनेषु सिद्धिं विन्दति ब्रह्मलोकमवाप्नोति, आत्मविमुक्तयेमायां तरन्तीत्युक्तेः कर्मणां भगवत्प्रासाधकोपासनाङ्गत्वं प्रस्फुटम्इदमत्र तात्पर्यम् । आशुतरविनाशिनां कर्मणां साक्षात् कालान्तरभाविफलप्रदत्वासंभवेनसद्वारकतयैव तथात्वस्य वक्तव्यतया तत्रापि चेतनद्वारा फलजनकत्वंउताचेतनद्वारेत्यपेक्षायां श्रुतिबलात् इर्श्वररूपचेतनद्वारकत्वस्यसिद्धत्वात्सर्वकर्मणामपि परब्रह्माराधनरूपत्वमेवेति निश्चीयते ।अन्यथा श्रुतानाह?स्मृत्यन्तराणांपरे ब्रह्मणि तात्पर्यं सुस्थिरम् । एवमुपनिषद्भागोपबृंहणपराणामितिहासपुराणानांअन्यत्र निरवकाशत्वात् परब्रह्मणि तात्पर्यमावश्यकमेव । तत्र धर्मकीर्तनंतुभगवदुपासनाङ्गगत्वेन । अतः स्मृत्यन्तरैः कर्माराध्यभगवत्प्रतिपादनानभ्युपगमेधर्मप्रतिपादनपरत्वमपि न संभवतीति सावकाशत्वमपि न सूपपादमितिनन्वनभिसंहित फलकानां कर्मणां हि भगवदाराधनरूपत्वम् । स्मृत्यन्तराणांचैहिकामुष्मिक फलाभिसंहितकर्मप्रतिपादकत्वेन भगवदाराधनरूपत्वाभावेनभगवति तात्पर्यानाभ्युपगमेऽपि न कश्चिद् दोष श्रुतकल्पनाप्रसङ्गात्व्यवस्थापयिष्यते चेदं फलाधिकरणे । इत्थं च कर्मप्रतिपादनपराणांइति नापि न्यपिसावकाशत्वक्षतिरितिशंकां व्युदस्यति - नचैहिकेति ।कुतइत्यत्राहयतस्तेषामपीति । उक्तार्थे प्रमाणमाह - यथोक्तमिति।प्रभुःफलप्रदःअथ पराभिमतं कपिलस्याप्तत्वसंकीर्तनप्रयुक्तं तन्निबद्धस्मृत्यनुसरणंप्रतिबन्द्या निराकरोति - यदुक्तमित्यादिनाश्रुत्यर्थव्यवस्थापनप्रसक्तेरिति । ननु वेदोक्ताग्निहोत्रादिकर्मणांकपिलेनाभ्युपगमात् लोकायतेच तदनभ्युपगमात् अस्तिवैषम्यमिति चेन्नतादृशवैषम्यस्याप्रयोजकत्वात् । न्यायानुगृहीतश्रुतिविरोधादेवहिलोकायतं परित्यज्यते, स विरोधोऽत्रापि समानश्चेत् कथं तदपरित्यागःवस्तुतः वेदविहितकर्मणां न यथावदभ्युपगमः कपिलेनापि । अनभिसंहितफलकानांतद्भिन्नानां च कर्मणां भगवदाराधनरूपत्वेन तदाराध्यत्वेन परब्रह्मानभ्युपगन्तुःतथात्वेनानङ्गीकारात् । ननु सर्वकर्मणामपि भगवदाराधनरूपत्वं स्मृत्यन्तरेणैवह्यस्थेयं स्मृत्यन्तराणां च कपिलस्मृत्यनुगृहीतश्रुतिविरुद्धार्थत्वेनपरित्यागावश्यकत्वेन कथं प्रामाण्यं अन्यथा़न्योन्याश्रयात् इति चेन्न , विपर्ययस्यापि संभवात् । नन्वेवंसति वेदान्तार्थ निश्चय एव न स्यात् कया स्मृत्योपबृंहणं कार्यंकयाचेनेत्यत्र विनिगमकाभावादिति चेत् - मैवं; आप्ततमप्रणीत न्यायानुगृहीतानेकस्मृत्यनुगृहीतश्रुतेःआप्तोक्तन्यायविरुद्धेकस्मृत्यनुगृहीतश्रुत्यपेक्षया प्राबल्यात्विनिगमकस्योक्तत्वादिति ।

उत्तरसूत्रं चोद्यमुखेनोत्थापयति - अथ स्यादिति । मन्वादिस्मृतीनां कर्मकाण्डोक्तधर्मविशदीकरणरूपत्वं दृष्टं, अतो मन्वादीनां धर्मप्रवर्तनव्यापृतत्वेनान्यपर्यात्न योगप्रसक्तिः कपिलस्मृतेस्तु ज्ञानकाण्डोक्ततत्त्वविशदीकरणैदंपर्येण प्रवृत्तत्वात् योगेनतत्वार्थसाक्षात्काराभावे उपबृंहणासंभवाच्चकपिलस्य योगावश्यकतया तत्साक्षात्कृतार्थतत्त्ववता कपिलेन निबद्धास्मृतिः कथमुपक्ष्येत्याशयः । सूत्रार्थमाह - चशब्दस्त्वित्यादिना।स्वयोगमहिमेति।अनभिसंहितफलककर्मणां योगां गत्वेनात्यन्तानुकूलत्वात् तदनुष्ठानेव्यापृतानां मन्वादीनां न योगानवसरः इति भावःकपिलोपलब्धिर्भ्रान्तिमूलेति। बहूनां स्मर्तृणां योगजतत्त्वोपलब्धिविरोधात्कपिलस्य स्वस्मृतिप्रकारेण तत्वोपलब्धिः भ्रान्तिरेवेत्यर्थः ।स्मृत्यधिकरणं समाप्तम् ।अत्रायं पूर्वपक्षसारः - प्रधानकारणवादिकपिलः कर्मकाण्डोदित ज्योतिष्टोमाग्निहोत्रादि सर्वकर्माभ्युपगन्ता अतीवास्तिकः कर्मव्यापृतिं विना योगप्रभावात्वेदान्तार्थोपबृंहणे केवलं प्रवृत्तः “ऋषिं प्रसूतं कपिलं” इति वेद प्रसिद्धःजन्म प्रभृति ऋषि भूतः “यस्येयं पृथिवी कृत्स्ना वासुदेवस्य धीमतः । कापिलंरूपमास्थाय धारयत्यनिशं धरामिति वासुदेवावतारत्वेनश्रीमद्रामयणप्रसिद्धश्च । स्मृत्युपबृंहणं विना दुरवबोधः वेदान्तवाक्यार्थःतदर्थ प्रवृत्त कपिलस्य स्मृतिसाहाय्येनैव उपबृंहणं कार्यम्मन्वादिस्मृतीनां धर्मप्रतिपादकत्वात् तेनैव तेषां चारितार्थ्यसंभवेनवेदान्तोपबृंहणविषये सावकाशत्वाभावेपि दोषाभावात्ननु “मुनीनामप्यहं व्यासः” वेदव्यासेन बादरायणेन प्रथमाध्यायपर्यन्तेनस्थापितस्य ब्रह्मकारणत्ववादस्य का गतिरिति चेत्, सत्यं - व्यासस्यतामस राजसादिसर्व प्रमाणकर्तृत्वेन तदुक्तौ अविश्वासात् । कपिलस्यतिप्राच्यत्वात्तदुपदेर्शितार्थे एव विश्वासाधिक्यात् । एतावता ब्रह्मकारणत्व निर्णेतारंव्यासं प्रत्येव संप्रति प्रश्नकारणात् । नहि व्यासः स्वयमेव आत्मानंकपिलापेक्षया उत्कृष्टं ब्रूयात् । पूर्वाध्यायन्तिमाधिकरणाक्षेपेणैवास्याधिकरणस्योत्थानात्सर्वासामपि शाखानां परमात्मपरता कथम् । सर्वशाखाभिज्ञ सर्वज्ञकपिलेनवासुदेवापरावतारभूतेन प्रधानस्यैव कारणत्वप्रतिपादनात्अतः कपिल स्मृतिरेवादरणीयेति ।। सिद्धान्तसारस्तु - ब्रह्मकारणत्वेबहूनां ऋषीणां संवादात् । कपिलेन पूर्वकाण्डप्रतिपादितकर्मणां अभ्युपगपोपिन समीचीनः । ब्रह्मणस्तेनानभ्युपगमात् । कर्मणां तदाराधनरूपत्वपरित्यागात्इष्टापूर्वं बहुधा…भुवनस्य नाभिं इति कर्मणां भगवदाराधन रूपत्वस्मरणात्भगवदाराधनबुद्ध्या कर्माननुष्ठानेपि तत्स्वाभाव्यापरित्यात् ।“येऽप्यन्यदेवताभक्ताः…….यजन्त्यविधिपूर्वकम् । इत्युक्तेःकपिलस्मृतिरीत्या परब्रह्मण एवानंगीकारे तदाराधनरूपधर्मप्रतिपादकत्वरूपस्यमन्वादिस्मृतीनामप्यसंभवेन पूर्वभागोपबृंहणे केवलं सावकाशत्वमित्यस्याप्यसंभवेनपूर्वभागोपबृंहणे केवलं सावकाशत्वमित्यस्याप्यसंभवात्"यज देवपूजायां” इत्यनुशासनबलात् धृत्यात्मकप्रीतिहेतुत्वस्यैवधर्मत्वरूपत्वाच्च कर्मस्वरूपस्येव तदाराध्येन्द्रादिदेवतानामपिअस्थिरत्वेन फलप्रदत्वासंभवात् अपूर्वस्य चाप्रामाणिकत्वाच्च ।स्थिरदेवतायाः परमात्मरूपायाः अंगीकारणावश्यकत्वाच्चकपिलकर्तृकभगवन्निषेधस्यानुपपत्तेः ।प्रतिपन्नार्थविशदीकरणस्यैवोपबृंहणरूपत्वेन कपिलस्मृतेः श्रुतिविरुद्धार्थ प्रतिपादकत्वेनोपबृंहण रूपत्वासंभवाच्च । ननु श्रुतिप्रतिपन्नार्थ विशदीकरणं ह्युपबृंहणम् । श्रुतिप्रतिपन्नार्थः एवकःइत्यत्रैवविवादात् । कथमस्याः उपबृंहणरूपत्वा संभवकथनम् । ब्रह्मैवजगत्कारणं इत्यर्थस्य श्रुतिप्रतिपन्नत्वे तद्विरुद्धार्थकथनमितिवक्तुं शक्यम् । प्रधानमेव जगत्कारणं इदमेव श्रुति प्रतिपन्नमित्युक्तौमन्वादिस्मृतीनामपि नोपबृंहणरूपत्वसंभवः इति चेत् सत्यं - ऐककण्ढ्येनबहु महर्षिभिः ब्रह्मैककारणत्वकथनात् जगत्कारणं ब्रह्मइत्येतदेव श्रुति प्रति पन्नमिति निश्चयसंभवात् । वस्तुतः “सदेव’आत्मा वै “एको हवै नारायण इत्यादिसृष्टिवाक्यैः नारायण एव जगत्कारणमितिप्रतिपन्नत्वाच्च विवादासंभवात् ।वस्तुतः यथावस्थितार्थ द्रष्टा यथादृष्टार्थबादीच यः स एवाप्ततमःकेषांचित् यथावस्थितार्थ द्रष्टृत्वं न स्यात् यथादृष्टार्थवदित्वंकामं भवेत् । अन्येषां यथादृष्टार्थ वादित्वं कामं भवेत् यथादृष्टार्थवादित्वं ज स्यात् अतः एतेषां कथंचित् आप्तत्वसंभवेपि निरूक्तमाप्ततमत्वंन भवेत् । कपिलस्तु अन्यतरकोटि प्रविष्टो भवेन्नामानायं कपिलःभगवदतार भूतः। ऋषिं प्रसूतं कपिलं इति त्वदुपदर्शितमन्त्र एवास्यभगवदधीनज्ञानसंपन्नत्वं ब्रवीति । “यस्तमग्ने ज्ञानैः बिभर्ति जायमानंच पश्येदिति” उपरि श्रवणात् । सृष्टिकाले तं सर्वज्ञं चकारजायमानकटाक्षविषयं चकार । इति ह्युच्यते । श्री रामायणमपि कपिलस्यांशावतारविषयत्वतात्पर्यकम्अंशावतार भूतानां सर्वेषामपि यथावस्थितार्थग्राहित्वमिति नियमोपिनास्ति । वेदविरुद्धार्थप्रतिपादनस्य तेषामपि क्वचित् कृचित् संभवात्अत एवायं कपिलः ज्योतिष्टोमादि कर्मणां पशुविशसनरूपाणां हिंसात्वेनपुरुषानर्थ हेतुत्वमुवाच । वस्तुतस्तु क्रत्वर्थत्वात् नतेषां हिंसात्वमितिसिद्धान्तितम् । भागवतेपि देवहूतिकपिल संवादः । श्रूयते । स्वमात्रेदेवहूत्यै धर्मानुपदशिति । परमात्मसद्भावमपि वदति । मात्तृगर्भस्थशिशोःचिन्तना प्रकारमतिश्येनोपदिशति -“एवं वसन्नपि विभो बहुदुःखवासं गर्भान्न निर्जिगमिषे बहिरन्धकूपेयत्रोपयात मुपसर्पति देवमाया मिथ्यामतिः यदनु संसृति चक्रमेतत् ।।भूयो यथा व्यसनमेतत् अनेकरन्ध्रं मा मेऽभविष्यदुपसादित विष्णुपादःइति । एवं परं ब्रह्मांगीकृत्य बहुधोपदेशस्यानेन करणात् कथं निरीश्वरवादी भवेत्"अतोऽस्य दशाद्वयं कल्पनीयम् । पूर्वदशायां निरीश्वरवादी । पश्चात्सेश्वरवादी ।अत एव सांख्येषु द्वैविध्यमभूदिति वक्तव्यम् । स्वपूर्वदशायांविरचिता स्मृतिरियमिति न वेदोपबृंहणरूपा । अन्यो वाऽयं कपिलः स्यात् ।अत्रेदं तत्वं । वेदबाह्यागमाः न स्मृतिरूपतां भजन्ति । कपिलादिस्मृतेरपितथात्वमेव । श्रुतिप्रतिपन्नार्थाविशदीकरणात् विरुद्धार्थ प्रतिपादनाच्च ।मन्वादिधर्मशास्त्राणि इतिहासपुराणानि च स्मृतिरूपत्वात् उपबृंहणरूपाणि ।अपि च कपिलस्य वेदे श्लाघाकरणमपि अन्यार्थमेव । मन्वादीनामिव विश्वसनीयत्वमपिनास्ति” यद्वै किंच मनुरववत् तद्भेषजमिति मनुवाक्यस्य भेषजत्वोक्तेःहिततमत्वं सिध्यति । नन्वत्र मनुशब्दो मन्त्रपरः । नतु मनुमहर्षिपरः । यागविशेषे अन्यथानुष्ठाने यजमानस्य जायमानश्वित्रदोष परिहारकतयाउक्त मन्त्रपरोऽयम् । उक्तं च” मानव्यौ ऋचौ धाय्ये भवतः इतिः चेत्अस्तु तावता नास्माकं क्षतिः । मानव्यौ इति मनुसंबधित्वोक्तेः । यद्वैकिंच इति, अवदत् इति च निर्देशस्वारस्यादपि । अनेनैव न्यायेन मनुवचनसामान्यस्यभेषजत्व सिद्धेः ।।