44 सर्वव्याख्यानाधिकरणम्

(1.04.08) सर्वव्याख्यानाधिकरणम् ।अतिदेशाधिकरणम् । अत एव प्राणः इत्यादिवत्भाव्यम् । एतेन इत्येतत् प्रकृत्यधिकरणन्यायं वा तत्पूर्वाधिकरणन्यायंवा चतुर्थपादाधिकरणन्यायं वा मनसि कृत्य प्रवृत्तमिति न मन्तव्यंपूर्ववृत्तसर्वाधिकरणमप्युपजीव्यैवात्रतिदेशः क्रियते इति सूचनायभाष्ये - पादचतुष्टयोक्त न्यायकलापेन इति भाषितम् । जगत्कारणवादिवाक्यविशेषाःअत्र विषयाः । व्याख्याताः इति द्विरुक्तेः प्रयोजनमाह - अध्यायपरिसमाप्तिद्योतनर्थःइति । एतेन सर्वे - अव्याख्याताःव्याख्याताः इत्यपि पदच्छेदः कर्तुंशक्यःएतावत्पादपर्यन्तं यानि विषयवाक्यान्यादाय व्याख्यानं न कृतंतान्यपि उक्तन्यायात् व्याख्यात प्रायाणीत्यर्थःअत्र ईक्षत्यधिकरणप्रभृति सर्वाधिकरणैश्च अचेतन सामान्य अचेतनविशेष,चेतन सामान्य चेतनविशेषाणां कारणवाक्यप्रतिपाद्यत्वं नैव संभवतीतिविशदं श्रुतिभिः सत्त र्कैश्चस्थापितत्वेनाधिक शंकाया एवाभावात्अतिदेशाधिकरणस्य नैव प्रसक्तिः इति यद्यपि शंका भवेत् तथापि कानिचित्कारणवाक्यानि चतुर्मुखदीनां कारणत्वप्रतिपादकानि सन्ति तेषामपिपरात्मपरत्वमेव नतु हिरण्यगर्भ शिवादि प्रतिपादकत्वमिति व्यङ्कुंअतिदेशसूत्रं मिति अतिदेशकृत् सूत्रकारस्याशयः इति, अग्रे संवर्तनंभाति इत्यधिकरणसारावलिश्लोके स्वामि पादैः प्रदर्शितम्ननु गतिसामान्यात् इत्येकमेव सूत्रं पर्याप्तम् । परमात्मनो नारायणस्यकारणत्व प्रतिपादने । विशेषवाक्यानां या गतिः सैव सामान्यवाक्यानामित्युक्तम्एको हवै नारायण आसीत् न ब्रह्मा नेशानः इति वाक्यबलात् विशेषेचपर्यवसानं व्यरचि । अतः कथमत्राधिकाशंकायाः प्रसक्तिरितिचेत् सत्यंसदेवसोम्य इदमग्र इतिवत् हिरण्यगर्भः समवर्तताग्रे भूतस्य जातःपतिरेक आसीत् इति श्रुतिर्हि हिरण्यगर्भस्य चतुर्मुखस्य प्रलयकालवर्तित्वंप्रतिपादयति । प्रलयकाले जीवस्यानादित्व बोधकमिवचेदं वाक्यं न भवतिहिरण्यगर्भः इति श्रवणात् । भूतस्य पतिरेक आसीत् इत्युक्त्याजगत्पत्तित्वं प्रतिपादितंअतो जगतां पतित्वस्य आद्यत्वस्य च कथनात् सर्वशेषित्वं कारणत्वंचोक्तं भवतीति अयमेवोपास्यः इति सिध्यति । अपिच, यदा तमः तन्न दिवान रात्रिः न सन् न चासन् शिव एव केवलः इतीदमपि वाक्यं केवलस्य परमेशस्यप्रलयकाले सत्वं प्रतिपादयति । अतो नारायण चतुर्मुख शंभुषु कस्यवा कारणत्वं त्रिमूर्तेः कारणत्वं वा अन्यतमस्य कारणत्वं वा त्रिमूर्त्युत्तीर्णस्यकारणत्वं वा । एकैव मूर्तिः विभिदे त्रिधासा सामान्यमेतत् प्रथमावरत्वंइति कालिदासोक्तन्यायेन एक एव मूर्तित्रयविशिष्टः इति तस्यैव कारणत्वंवा इत्यादिशंकायाः अवतारात्सर्वविलक्षणस्य श्रीमन्नारायणस्यैव कारणत्वं नतुपूर्वोक्तरीत्याअन्यस्य इति सूचयितुमतिदेशः । पूर्वोक्तवाक्यानां का गतिरिति चेत्सर्वेषां हिरण्यगर्भ शिवादीनामपि ब्रह्मशरीरत्वेन, अन्तर्बाहिश्चतत्सर्वं व्याप्य नारायणः स्थितः इति प्रमाणपर्यालोचने सर्वान्तर्यामित्वप्रतीत्या च कारणवाक्योक्त हिरण्यगर्भशिवाद्युपलक्षित ब्रह्मण एवकारणत्वमवगम्यते । अन्यथासिद्धलिंगाभावेच योग व्युत्पत्यावा परमात्मपरत्वात्तस्यैवकारणत्वम् । नारायणानुवाके स ब्रह्मा स शिवः सेन्द्र सोक्षरः परमःस्वराद, इति इन्द्राद्यविशेषेण तयोरपि पठात् तेषामिव एतेषामपि नकारणत्वसिद्धिःश्रीश्च ते लक्ष्मीश्च पन्त्यौ इति श्रीपतिरूपनारायणस्यैव कारणत्वदार्ढ्याच्च । आनन्दमयाधिकरणे एव “ते येशतं प्रजापतेरानन्दाः, सएको ब्रह्मण आनन्दः” इति चतुर्मुखानन्दस्य ब्रह्मानन्दैकदेशत्वोक्त्यापिन सातिशयानन्दस्य हिरण्यगर्भस्य कारणत्व प्रसक्तिः । ईक्षतिकर्मव्यपदेशाधिकरणेचतुर्मुखस्य कारणत्वं च सम्यगेव प्रतिषिद्धम् । कल्पभेदेन कारणत्वमपिअन्तरधिकरणे प्रतिक्षिप्तम् । तत्रैव “पुण्डरीकमेवमक्षिणी इति पुण्डरीकाक्षस्यैवकारणत्वोक्तेः । विरूपाक्षस्य न जगत्कारणत्वमिति सिद्धम् । इन्द्रप्राणाधिकरणेचइन्द्रस्य तत् निरस्तम्अदृश्यत्वाधिकरणेच रूपोपन्यासात् इति सूत्रपर्यालोचने “भूःपादौयस्य नाभिरि"त्यादिनोक्तं द्युप्रभृति मूर्धादिमत्वरूप जगच्छरीरकत्वंविष्णोरेवेति च सिद्धम् । सूत्रकृत् बादशायण एव तत्वमेको महायोगीहरिः नारायणः परः इति, आलोड्य सर्व…ध्येयो नारायणस्सदा इति चनारायणस्यैव परदेवतात्वं जगत्कारणत्वमत एवोपास्यत्वं च प्रतिपादितवान्,काशीवृकान्धक शरासन बाण गंगा संभूति नाम कृतिसंवदनाद्युदन्तैः स्वोक्त्यम्बरीषगुरुशापमुखैश्चशभुं तन्निध्नमीक्षितवतां इह कः शरण्यः इति प्रत्यपादि श्रीदेशिकचरणैःइदं सर्वमभिप्रेत्यैव आत्मैक्यं देवतैक्यं त्रिकसमधिगता इत्यादिपरदेवतापारमार्थ्याधिकारे स्पष्टं तैरेव न्यरूपि ।आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽजुन इति ब्रह्मलोकस्य तदधिपतेश्चतुर्मुखस्यच नश्वरत्व प्रतिपादनं गीतायामपि वर्तते, जातः पतिरेक आसीत् इतिहिरण्यगर्भस्य जातत्वमप्युक्तं,अद्भिः संभूतः हिरण्यगर्भः इत्यपितस्योत्पन्नत्वे प्रमाणम् । शिवशब्दः मंगलार्थकः “अतोऽहमपि तेदासः इति शिवेनैव महाविष्णुं प्रत्युक्तेश्च तस्य तं प्रति शेषत्वमवगम्यतेइति सर्व श्रुतीनामपि पूर्वोक्तदिशैव निर्वाह कार्यः इत्युक्तं भवति ।।ननु श्रीपतेरेव कथं सर्वेश्वरत्वं ब्रह्मत्वं वा । ब्रह्मविष्णुरुद्रेन्द्राप्रजायन्ते इति श्रुत्यैव कर्मवश्यब्रह्मरुद्रेन्द्रादि सहपठितत्वात्विष्णोरपि कर्मवश्यत्व प्रतीतेः । अतो विष्णु शब्दावाच्यः नारायणःकथं कर्मवश्यः जगत्कारणमिति चेत्? रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्इति श्रीमन्नारायणः एव मत्स्याद्यवतारवत् रामकृष्णाद्यवतारवत् लोकरक्षणरूपंकार्यं उत्पत्तिरक्षणविनाशमध्यगतं कर्तुमवततारः । अतः इदमवताररूपम्परव्यूहविभवार्चाऽन्तर्यामिरूपेण पंच प्रकारेण तस्यास्थितिःश्रुतिस्मृत्यादिसिद्धाअतः “देवोनः शुभमातनोनु दशधा निर्वर्तयत् भूमिकां” इत्युक्तरीत्याविष्ण्वादि भूमिकापरिग्रह एव । नतु कर्मवश्यजीवादिवत् उत्पत्तिःनचावताररूपत्वे कथं अपहतपाप्मनः अनवधिकातिशयानन्दशालिनः “राज्यात्भ्रशो वनेवासः” व्यसनेषु मनुष्याणां भृशं भवति दुःखितः इत्यादिविविधदुःखसद्भाव इति वाच्यम् । निजविभूति भूतमत्स्यादिसजातीयत्वेनानुकरणवत्दुःखानुकरणस्यापि प्रदर्शनमिति सर्वं न टनमात्रम् । स्त्रीसंगिनांगतिरिति प्रथयंश्चचार इति हि प्रशस्यते, आत्मानं मानुषं मन्ये इतिमनुष्यभूमिका परिग्रहात् तदनुगुणनाट्यस्यावश्यकर्तव्यत्वात्मनुष्यदोहिनां चेष्टा इत्युक्तेश्च । एकोहवै नारायण आसीत् न ब्रह्मानेशानः इत्यारभ्य…तस्य ब्रह्मा चतुर्मुखोऽजायत, ततस्तस्यध्यानान्तरस्थस्यललाटात् स्वेदोऽपतत् स्वेदात् बुद्ध्बुदमभवत् बुद्बुदात् त्र्यक्षश्शूलपाणिःपुरुषोऽजायत इति ब्रह्मरुद्रादीन् प्रत्यपि स्रष्ट्टत्वेन पुरुषोत्तमस्यनारायणस्य प्रतिपन्नत्वात् कथमस्य जगत्कारणत्वप्रतिक्षेपस्संभाव्येतब्रह्मत्वंहि बृहत्व बृंहणत्वरूपम् । अनन्तत्वेनस्थितस्यास्यनिखिलजगत्कारणरूप बृंहत्व मस्यैवोचितं श्रुतिप्रतिपन्नं इति पुरुषसूक्तप्रतिपाद्यः श्रीमन्नारायण एव सर्वान्तर्यामी सकलेतरविलक्षणःपुरुषोत्तमः इति निरवद्यम् ।।