(1.04.07) प्रकृत्यधिकरणम्पूर्वाधिकरणे एकविज्ञानप्रतिज्ञानादिभिः ब्रह्मणःसर्वविधकारणत्वं प्रादर्शि । तदाक्षेपेण संगतिः । निरवयवस्य ब्रह्मणःउपादानत्वासंभवात् विकारवत्वं हि उपादनत्वं, स्वरूपविकारा भाववत्वंनिमित्तत्वम् । अनयोः भावाभावरूपयोरकत्र समावेशासंभवात् । कथं ब्रह्मणःउपादानत्वम् । नहि मृदिव ब्रह्मस्वरूपं परिणमितुं शक्यम् । उपादानभिन्नत्वस्यैवनिमितत्वाच्च । अस्य निमित्तत्वे सिद्धे, उपादानत्वस्यापि स्वीकारेनिमित्तलक्षणस्यापाय प्रसंगात् । ब्रह्मणः उपादनत्वं वदतापि प्रकृतिरूपस्य वस्तुनः तत्परिणामस्यावश्यांगीकार्यत्वात्तेनैव कार्यभूतजगन्निर्वाहे तस्यैवोपादानत्वमिति किमर्थं ब्रह्मणःतत्स्वीक्रियते । ईश्वर एव नास्ति, जीवा एव निमित्तं प्रधानमेवोपादानंइत्यंगीकृर्तृनिरीश्वर सांख्यमते जगद्वाचित्वाद्यधिकरणोक्तदोषबाहुल्यस्यनिरासासंभवेपि निमित्त मात्रवादीश्वरांगीकर्तृ सेश्वरसांख्यमतेतादृशदोषाणामसत्वात् अचेतजगद्रपकार्यस्य अचेतनोपादनत्वे स्वारस्यात्चेतनरूपब्रह्मणः स्वरूपतः मृदइव परिणामासंभवाच्च युक्तमेव सेश्वरसांख्यमतमित्यभिप्रायेण पूर्वपक्षोत्थितिः ।। पादत्रयं संवृत्तम्चतुर्थेपि पादे षद् अधिकरणानि निर्वृत्तानि । कारणवाक्य जातानिब्रह्मपराणीति च सिद्धान्तितंजीवस्य कारणत्वासंभवइव प्रधानस्यापि कारणत्वासंभवः बहुधोक्तः ।कारणत्वेनाचाकाशादिषु इत्यनेन अव्याकृतस्य स्वनिष्ठस्योपादनत्वनिषेधश्चकृतः एवंचास्याधिकरणपूर्वपक्षिणः कथमुत्थितिःइति चेत्। उपादानभूतब्रह्मणःउपादानत्वनिर्वाहप्रकारप्रदर्शनार्थमस्याधिकरणस्य प्रवृत्तेः ।पूर्वपक्षीहि ईश्वरस्य निमित्तत्वेऽपि कथमुपादनत्वस्य निर्वाहःस्वरूपे पराणामाभावात् इत्याह । नच विशिष्टस्यैवोपादानत्वात्कथंचित् सद्वारकपरिणतिः वक्तुं शक्या । अधस्ताच्च बहुषु स्थलेषुइयं रीतिः प्रतिपादिता इति वाच्यम् । तथापि सद्वारकपरणतिवादिनाप्रधानमूलकमेव परिणामस्य वक्तव्यत्वात् तस्यैवोपादानत्वमस्त्वित्याक्षेपप्रवृत्तेःकिं च निमित्तोपादनयोः भेदावश्यंभावे व्याप्त्यभावः । सद्वारकपरिणाममादायैवउपादनत्वनिर्वाहः कार्यः इति निर्बन्धाभावः । अद्वारकपरिणमपुरुस्सरमपिउपादानत्वनिर्वाहसंभवः उपादान निमित्तयोःऐक्यस्वीकारः सर्वमतसिद्धश्चइत्याद्यर्थस्थापनायाधिकरण प्रवृत्तेः ।। सत्तर्कोपबृंहित श्रुतिस्मृत्युपपत्ति बलमुपजीव्य पूर्वपक्षी प्रवर्तते । अध्यासिता तेन=परमपुरुषेणाधिष्टिता प्रकृतिः । ध्यायते - कार्य हेतुतया चिन्त्यतेअत्र तेनाधिष्ठाता इत्युक्त्या अधिष्ठातुः निमित्तत्वं अधिष्टितस्योपादानत्वंचप्रतीतम् । श्रुत्यैवायमर्थः प्रोच्यते इत्याह - तथा प्रकृतिमितिश्रुतौ स्पष्टतया प्रधानस्योपादानत्व कण्ठोक्त्यभावेपि लोकस्वरससिद्धमुपादानत्वंन परित्यागार्हम् । एवं सति स्फुटतया प्रतिपादनानन्तरमपि, विक्रीतेकरिणि किमंकुशे विवादः इतिवत् नैव विवाद प्रसक्ति=इत्याशयेनाह एवमश्रुतेपीतिकेवलोपादानाद्वा केवलनिमित्ताद्वा केवलसहकारितो वा न कार्योत्पत्तिः,कार्यात्पत्तेः नियमेनानेक कारक सव्यपेक्षत्वस्य दर्शनात् । एकस्यैवत्रिविधहेतुत्वासंभवाच्च न ब्रह्म उपादानम् इत्यभिप्रयन्नाह - एवमेवलोके इति । एकस्यैव यदि निमित्तत्वोपादानत्वे, तर्हि तस्यैव सहकार्यादिसर्वविधकारणत्वंस्यात्नचेदमिष्टम् । तथा सति कार्यजगत एवोत्पत्यसंभवात् । कारणकलापरूपसामग्रीजन्यत्वव्याप्यत्वात्कार्यत्वस्य । नच कारणरूपपरमात्मैव कार्यं प्रत्यपिसामग्रीरूपं नान्यापेक्षकत्वमस्या सामग्रयाः अतो न दोषः इति वाच्यम्अन्यानपेक्षकस्य सामग्रीरूपस्य भगवतः सर्वदा सत्वात् सदा कार्योत्पत्तिप्रसंगादितिभावः । न प्रभवन्तीति । परिणामित्वापरिणामित्वयोः चेतनत्वाचेतनत्वयोःप्रेर्यत्व प्रेरकत्वयोश्चैकस्मिन् वस्तुनि व्याहतं इति भावः ।तथा च ईश्वरःद्रव्यनिरूपितोपादानत्वाभाववान् चेतनत्वात् जीववत्विमतमुपादानं स्वकार्यनिमित्तात् भिन्नं उपादानत्वात् मृत्पिण्डवत्विमतं कार्य मनेककारकसापेक्षं कार्यत्वात् पटवदित्यनुमानि विवक्षितानि।।सिद्धान्ते - प्रकृतिशब्दस्यार्थान्तर भ्रमशंकानिवृत्त्यर्थं उपादानंचेति व्याख्यानम् । मूलप्रकृतिग्रहणे हेत्वन्वयविरोधात् उत्तरसूत्राणामप्यनन्वयात्जनिकर्तुः प्रकृतिरिति उपादानवाचकत्वस्य प्रमाणसिद्धत्वात् ।तदुपपादयति न निमित्तकारणमात्रमिति । ब्रह्मैवेति । सर्वं वाक्यंसावधारणमितिन्यायमनुसृत्योक्तिः । प्रकरणबलात् ब्रह्मशब्दाध्याहारःतमादेशमिति - आदिशतीत्यादेशः ।कृत्यल्युटो बहुलं इति कर्तरि धञ्उपदेष्टारमित्यर्थः । आदिष्टा रघुपुंगवेन कवयः इति महाकवि प्रयोगश्चएएतस्य वा अक्षरस्य प्रशासने, प्रशासितारं सर्वेषां इत्यादि श्रुतिस्मृति संप्रतिपन्नस्य प्रशासितृत्वस्य स्वीकारे न बाधकमपिप्राशसकत्वोक्त्या धारकत्वरूपात्मत्वमपि फलितम् । प्रशासितारं किंपृष्टवानिति वाक्यार्थः ।।इदमत्रावधेयं - आङ् पूर्वक दिशघातोः प्रशासनार्थकत्वेन प्रसिद्धस्यउपदेशार्थकत्व स्वीकारे लक्षणा । प्रशासनार्थकत्वस्वीकारे “अकर्तरिच कारके इति विहितस्य धञः कर्तरि लक्षणा । प्रकृत्यर्थस्यवा प्रत्ययार्थस्यवा लक्षणामंगीकृत्य निर्वाहः पक्षद्वयेपि समानः । तत्र प्रकृत्यर्थलक्षणापेक्षयाप्रत्ययार्थलक्षणाया एवौचित्यं शास्त्र सिद्धम् । प्रथमश्रुत प्रातिपादिकस्यप्रशासनार्थत्वं स्वरसतः प्राप्तमिति तदविरोदेनैव वाक्यार्थस्यवर्णनीयत्वात् । प्रकृत्यनुरोधेन प्रत्ययार्थस्य च लक्षणा शास्त्रसिद्धायथा प्रयाजशेषेणह वींष्यभिधारयतीत्यत्र प्रयाजशेषस्य प्रातिपदिकानुसारेणतृतीयायाः लक्षणया द्वितीयार्थो स्वीक्रियते पूर्वतन्त्रेउत्तरतन्त्रेपि तथा, “प्राणा वा ऋषयः” इत्यत्र ऋषिशब्दस्वारस्यमुपजीव्यबहुवचनश्रुतेः गौणत्वमिष्यते । “गौण्यसंभवात् तत्प्राक् श्रुतेश्च"इति सूत्र सिद्धमिदम् । “प्रकृति प्रत्ययौ सहार्थं ब्रूतः तयोभ्तुप्रत्ययो बलीयान् इति वैयाकरणन्यायस्त्वत्र बाधितः ।।अपिच कर्तुरेव साधकतमत्वरूप करणत्वविवक्षायां “अकर्तरि च कारके’इति सूत्रस्याविरोधः । न च करणस्य कर्तृपरतन्त्रत्वात् करणत्वविवक्षाजघन्या स्यादिति वाच्यम् । प्रबलचक्राद्यायुधानां सत्वेपि नृसिंहोहिरण्यं स्वेनैवजघान इति करणत्वविवक्षायाः अतिशय हेतुत्वदर्शनात्अत्र दर्पणं - प्रमातरि आप्ते आप्तप्रामाण्यादिति प्रमाकरणत्वंन्यायसूत्रोक्तम् । तदयोगव्यवच्छेदः प्रमाण्यं इति चोदयनाचार्यःसाधकतमस्य फलायोगव्यवच्छेदात् । तेन प्रशासनस्य सार्वकालिकत्वसिद्धिरितिएवं कर्ताप्ययं जीवकर्मानुगुणादेशकरत्वात् अकर्ता भवति परतन्त्रइवेति ज्ञापनमपि कर्तृत्वत्यागफलं इतिएवं जीवेनात्मनाऽनुप्रविश्य इत्यत्रापि कर्तुः करणत्व विवक्षादृष्टचरी ।किं च - स एव सृज्यः सच सर्गकर्ता स एव पात्यत्ति च पाल्यते च इतिपराशर ब्रह्मर्षिवचनानु सारेण प्रशासनकर्मत्वमपि ब्रह्मण्य बाधितंविशिष्टयोः उपादानोपादेयभाव स्वीकर्तृणां मते । अतो लक्षणां प्रत्ययस्यविनापि निर्वाहः । नच तमादेशं इति प्रसिद्धवाचकतच्छब्दः श्रूयतेप्रसिद्धिश्चान्तर्यामि ब्राह्मणादौ । तत्र च प्रशासनकर्तृत्वमेवप्रसिद्धं नतु कर्मत्वं करणत्वं वा । अतोऽत्र कर्तरि प्रत्ययस्यलक्षणा आवश्यकीति वाच्यम् । आदेशकर्मत्वस्यापि भवदभिमतस्य प्रमाणान्तराप्रसिद्धत्वेनप्रसिद्धिवाचक तच्छब्दस्यान्वय दौर्घट्यात्अपिच “उपदेशेऽजनुनासिकः इति सूत्रे “करणाधिकरणयोश्च” इति ल्युडाबाधितस्य धञः अकर्तरि च कारके इत्यनेनाप्रसंगमाशङ्क्य कृत्यल्युटोबहुलं इति घञ् भाष्यकृता समर्थितमिति तन्न्यायेनात्रापि घञ्सिद्धिःइति कर्त्रर्थकत्वं स्वरससिद्धमेवेति न प्रत्ययलक्षणापि ।अपिच घञन्तात् भाववाचिनः आदेशशब्दात् अर्श आद्यच्प्रत्ययस्वीकारेपिआदेशोऽस्यास्तीति अर्थलाभेन प्रशासनकर्तृत्वं सुवचमेवेत्यलम् ।येनाश्रुतमित्यादि । येन श्रुतेन मतेन विज्ञानेन अश्रुतममतं अविज्ञानंश्रुतं मतं विज्ञातं भवतीत्यर्थः । आत्मनि दृष्टे श्रुते, कस्मिन्नु भगवो विज्ञाते इदं सर्वं विदितं भवतीति प्रश्न पूर्वकं प्रतिवचनदर्शनात्अत्रापि तदैकार्थ्यम् । अनेनादेशशब्दार्थः आत्मा इत्यप्यवगम्यतेब्रह्मस्वरूपसत्तामात्रात् अश्रुनानां श्रुतत्वापादकत्वं नास्तिअतस्तज्जानमपेक्षितम् । इदं सर्वं विदितं भवतीत्युक्त्या अत्रापिसर्वमिति संपद्यतेयेन श्रुतेन सर्वं श्रुतं भवतीति वाक्यार्थः । अत्र विज्ञानपदंध्यानार्थकम् । श्रोतन्यो मन्तव्यो विदिध्यसितव्यः इति क्रम प्रत्यभिज्ञानात्एतेन अश्रुतश्रुतत्वापादकं प्रशास्तित्वविशिष्टवस्तुविषयकं यज्ज्ञानंतद्विषयात्मस्वरूपं पृष्टं भवति । यन्मयंच जगद् ब्रह्मन् यतश्चैतच्चराचरमितिविष्णुपुराणे यन्मयं, यतश्चैतच्चराचरं इति प्रश्नद्वयपर्यालोचनेआत्मस्वरूपोपादन प्रश्नौ अवगतौ भवतः । अत्रापि सन्मूलाः इत्यादिप्रश्ने सदायतनाः इति सतः आत्मत्वं=सन्मूलाः सत्प्रतिष्टाः इतिसतः उपादानत्वं च प्रतिपाद्यते । एतावता जगदुपादान भूतं जगदात्मभूतंवस्तु किं पृष्टवानसि इति प्रश्नतात्पर्यम् “कथं नु भगवः स आदेशः"इत्यनेन अन्यज्ञानेन कथमन्यज्ञानसंभवः इति शंकाउपादानोपादेययोः तत्संभवः इत्याशयेन “यथा सौम्येकेन मृत्पिण्डेनइत्यादि प्रवृत्तम् । दाढ्यार्थम् दृष्टान्तत्रयम् । लोहमणिशब्देनसुर्वण पिण्डविशेषः उच्यते । उपादानभूतमृत्पिण्डज्ञानात् उपादेयघटशरावादि ज्ञानं जायते एवमेवेति भावः । असतः घटशरावादेः मृत्पिण्डेनोत्पत्तिदर्शनात्कार्यकारणयोः भेदात् कथमन्यज्ञानेन इतरज्ञानसंभवः इत्याशंकायांसत्कार्यवादस्थापनार्थं वाचारंभणमित्यादि प्रवृत्तम् । उपादानज्ञानेनउपादेयज्ञानं अवश्यं संभवत्येव । नच कार्य स्यासत्वात् पश्चादेवोत्पत्तेःभिन्नत्वात् कथमिति शंकनीयम् । कारणे कार्यस्य सत्वात् सत एवोत्पत्तेःभिन्नत्वाभावात् कार्यकारणयोःनिमित्तस्थलेषु कार्यकारणयोः भेद एव । अत एव वह्निज्ञानात् न धूमज्ञानम्उपादानोपादेयस्थले तत्संभवति । मृद एव हि घटत्वादिलक्षण विकारवत्वंघटशरावादिनामधेयवत्वं च । प्रागवस्थायोगित्वं ह्युपादानत्वम् ।अनेन एकमेव कारणं वस्तु कारणत्व दशायां एकावस्थावत् कार्यदशायांइतरावस्यावत् च भवतीति सूच्यते । कारणावस्थायां पिण्ड इति व्यवहारःकार्यदशायां घट इति व्यवहारः । अत एकस्यैव वस्तुनः अवस्थाद्वय संयोगात्कारणं कार्यदशायामपि वर्तत एवेति सत एव कार्यस्योत्पत्तिः । अतएव मृदयं घटः इति व्यवहारः । मृण्भयं घटादिकं मृक्तिकेत्येव प्रमाणप्रतपन्नंन तु तद्भिन्नत्वेन ।सर्वं मृण्भयं विज्ञातं स्यात् इत्यत्र विकारार्थकमयड्प्रत्ययःतेन घटत्वाद्यवस्थावद्द्रव्यरूपविकारः उक्तः । नत्ववस्थारूपविकारःतथा सति द्रव्यस्यावस्थायाश्च भिन्नत्वेन एकविज्ञानेनापरविज्ञानरूपप्रतिज्ञायाः अनुपपत्तेः । अवस्थावद्द्रव्यरूप विकारवाचकत्वे प्रतिज्ञोपपत्तिःभवति । एवं चात्र द्रव्यवाचकत्वम् । वाचा आरंभणं विकारः इत्यत्रविकारशब्दः नावस्थावद्द्रव्यरूप विकारवाची इति वैषम्यमस्त्येव ।अत्रापि अवस्थावदद्रव्यरूपविकार वाचकत्वं नाभ्युपगन्तुं शक्यतेयतो मृदद्रव्येन घटत्वाद्यवस्थायाः स्पर्शेन आत्मनः स्पर्शाभावात्न ह्यात्मैव आत्मना स्प्रष्टुं शक्यः । मृत्तिकेत्येव । सत्यमित्यत्रसत्यमिति नपुसकलिंगदर्शनात् मृण्मयमित्यस्यैव संबन्धात् सर्वं मृण्भयंमृत्तिकेत्येव सत्यं इति प्रतीतेः मृण्मयशब्दो अवस्थावत्द्रव्यरूपविकार वाचीति नानुपपत्तिः ।पूर्वाह्णे मृत्पिण्डं दृष्ट्वा ग्रामं गन्तुः अपराह्णे पुनरागमनकालेकुलालादिना मृत्पिण्डेभ्यः उत्पादितानां घटशरावादीनां मृत्पिण्डैकोपादानत्वात्एतेषां दर्शने पूर्वाह्णे एतत्सर्वं मृत्पिण्ड एवासीदित्युच्यतेअत्र कारणभूतमृत्पिण्डज्ञानात् उपादेयभूतघटत्वाद्यवस्थापन्नमृद्रव्यस्यज्ञातता उच्यते । ननु कारणज्ञानात् कार्यज्ञानमसंभवि । कस्यचित्पुरुषस्यवस्तुतः किंचित्कार्य निरूपित कारणत्वा श्रयस्य वस्तुनो दर्शनेपिइदं कारणं एतत्कार्यजनकमिति विशिष्य तत्कार्यज्ञानाभावात् वस्तुतःकारणभूतवस्तुदर्शनेपि कार्यज्ञानाभावात्तत्र कारणभूतं वस्तुदृष्टमेव, परंतु कार्यज्ञानं तु नासीत् । नचएकवस्तुज्ञानात् अन्यवस्तुज्ञानं नोच्यते किंतु उपादानज्ञानात्उपादेयज्ञानमेव । तेन एतत्कार्यनिरूपितोपादनत्वाश्रय ज्ञानवत एवतत्सिद्धिः । इदं वस्तु एतत्कार्यं प्रति उपादानमिति यस्य विशिष्यज्ञानंतस्यैवेति नदोषः इति वाच्यं, तर्हि पूर्वमेव कार्यज्ञानस्य ज्ञातत्वात्कारणज्ञानाधीनत्वस्य कार्यज्ञानेऽनपेक्षितत्व प्रसंगात् । तथाचकारणज्ञानात् कार्यज्ञानमिति प्रतिज्ञाया एवानवसरप्रसंगात् । प्रतीतिबलात् उपादानत्व सिद्धिः इत्यस्याप्यसंगतत्वापत्तेः पूर्वमेव उपादाननिरूपितोपादेयत्ववतःज्ञातत्वादिति चेत् अत्र ब्रूमःविशिष्य एकैकस्थलेपि इदं एतत्कार्योपादानं इदंच एतत्कारणोपादेयमितिवशिष्यज्ञानवतामेव कारणज्ञानात् कार्यज्ञानं इति नब्रूमः । येनैषदोषःप्रसज्येत परंतु मृत्पिण्ड घट, तन्तु प्रभृति कार्यकारणभावस्थलेकारणज्ञानात् कार्यस्यज्ञातत्वानुभवात् उपादानज्ञाने उपादेयज्ञानंसंभवतीति सामन्यतो ज्ञानं दुरपह्णवम् । एवं च यत्र ययोः कार्यकारणभावोन ज्ञातस्तत्र तत्ज्ञानात् अस्य ज्ञानं भवतीति परेणोक्ते तं प्रतितस्य कारणत्वमनुमिनोति । तेन कार्यकारणभावसिद्धिरित्येतावन्मात्रेतात्पर्यमित्यदोषात् । अतः ब्रह्मज्ञानात् सर्वप्रपञ्चविज्ञानस्योक्तौकार्यकारणभावमन्तरा न सेत्स्यतीदं इति प्रपंचं प्रति ब्रह्मणः कारणत्वसिद्धिरितिनच मृद्द्रव्यस्य परिणामशालिनः घटं प्रति उपादनत्वं संभवति । निरवयवब्रह्मणः कथं प्रपञ्चोपादानत्वम् । न हि यादवमते इव त्वन्मते ब्रह्मणएव स्वरूपपरिणतिरिष्यत इति वाच्यम् । सूक्ष्मचिदचिद्विशिष्टब्रह्मणएव स्थूलचिदचिद्विशिष्टं ब्रह्म प्रति कारणत्वेनादोषात् । ब्रह्मणिचिदचिद्वैशिष्ट्यबोधकानि प्रमाणान्यनन्तानि सन्ति । वैशिष्ट्यंह्यपृथक्सिद्धिः । साच शरीरित्व पर्यवसानरूपा । जगच्च चिदचिन्मिश्रंतस्य शरीरमित्यादिकं अन्तर्यामि ब्राह्मणादिसिद्धम् ।इदमत्रावधेयं - कारणज्ञानेन कार्यज्ञानमित्यत्र तृतीयार्थो न प्रयोज्यत्वंकिं त्वभेदोऽर्थः। कारणज्ञानाभिन्नं कार्यज्ञानमित्यर्थः । कारणज्ञानेकार्यज्ञाने च विषयस्येकत्वात् । मृदयं घटः इत्यादौ पिण्डत्वावस्थापन्नस्यघटत्वावस्थापन्नस्यैकस्यैवविषयत्वम् । एवं कारणभूतसूक्ष्मचिदचिद्विशिष्टब्रह्मज्ञानेपि चेतनाचेतनयोः तद्वैशिष्ट्यस्य ब्रह्मणश्च विषयत्वमस्तितत्र सूक्ष्मत्वस्थूलत्व विषयकत्वे एव भेदः । वीथ्यां आगच्छन्तंदेवदत्तं दृष्ट्वा, कश्चित् कंचित्प्रति किमयं ज्ञातः इति प्रश्ने,पृष्टः, पूर्वमेवज्ञात एवेति वदतितत्रावस्थाद्वयस्यैव स्थितिगमनरूपस्य विषये एव भेदः । न तु देवदत्तस्यज्ञातत्वविषये । तथा च सूक्ष्मचिदचिच्छरीकब्रह्म ज्ञानाभिन्न स्थूलचिदचिच्छरीरकत्वोपलक्षितब्रह्मज्ञानमित्यर्थः । आत्मनि खल्वरेदृष्टे इति सप्तमीप्रयोगात्दाने कर्णसमः इत्यादाविव सप्तम्याः अभेदार्थकत्वम् । अतो एकविज्ञानेनसर्वविज्ञानं प्रतिज्ञातमित्यत्रापि तृतीयाः अभेदार्थकत्वं स्वीकर्तव्यम्इयं च प्रतिज्ञा कार्यकारणयोरभेदमन्तरा न निर्वहतीति तयोरभेदःसिध्यति । “तस्मात् परमकारणात् ब्रह्मणोऽनन्यत्वं जगतः आरम्भणशब्दादिभ्यःतदुपपादयद्भ्यो़वगम्यते, इति, तस्मादनतिरिक्तद्रव्यतया तज्ज्ञानेन ज्ञातता इत्यर्थःइतिचारम्भणाधिकरणभाष्यमस्मिन्नर्थेऽत्यन्तानुकूलम् । एकविज्ञानेनसर्व विज्ञानप्रतिज्ञानिर्बहणाय सर्वत्र विशिष्टाभेदोपपादनं अपृथक्सिध्युपपादनेएव पर्यवस्यति । अत एव तादात्म्य संबन्धावच्छिन्नकार्यतानिरूपिततादात्म्यापृथक् सिध्यन्यतरावच्छिन्नकारणताश्रयत्वं उपादानत्वंइत्युच्यते ।। पूर्वमश्रुतं इदानीं श्रुतं भवतीत्युक्या उद्देश्यतावच्छेदविधेययोःसमानकालिकत्वाभवः प्रतीयते इत्येतावन्मात्रे अस्वारस्यं सोढव्यम्मृदि घटत्वं पिण्डत्वमुभयमप्यस्ति । घटत्वावच्छिन्नघटाभिन्नमृदिघटत्वस्यसत्वात् । घटत्वावच्छिन्नाविषयक प्रतीति रूपायां पिण्डः इति प्रतीत्यांपिण्डत्वं विषयतावच्छेदकम् । घटं प्रति पिण्डस्य कारणत्वात् घटत्वावच्छिन्ननिरूपितकारणावच्छेदकत्वंपिण्डत्वेऽस्ति । तदुक्तं वादावल्यां - स्वावच्छिन्नाभिन्नवृत्तित्वस्वावच्छिन्नाविषयक प्रतीति विषयतावच्छेदकत्व स्वावच्छिन्न निरूपितकारणतावच्छेदकत्वैतत्रितयसंबन्धेनधर्मविशिष्टधर्मवत्वं प्रतिज्ञार्थः । मृत्पिण्डघटादिस्थले घटत्वपिण्डत्वरूपधर्मद्वयमादाय, ब्रह्मणि स्थूल सर्वशरीरकत्व सूक्ष्म सर्वशरीरकत्वरूपधर्मद्वंय मादाय चोपपादनीयमितिप्रकृतिशब्देन=प्रकृतिवाचकेन शब्देन । गौरनाद्यन्तवती इत्यत्र प्रकृतिशब्दाभावात्व्यतिरिक्त वस्तु पृथक्सिद्धवस्तु । सर्वस्यापि ब्रह्मात्मकत्वात्सर्वस्यापि जगतः ब्रह्मात्मकत्वे श्रुतीः प्रदर्शयति - सर्वं खल्वित्यादिना।।ब्रह्मण एव कार्यत्वे कारणत्वेचोपपत्तीः श्रुत्या दर्शयति - एतदुक्तंभवतीति ।अव्यक्त अक्षर तमसां तत्राप्यविभक्तविभक्तयोश्च भेदप्रदर्शनार्थंचोद्यमुत्थापयति - ननु चेति । आजामेकां इत्यत्र अजापदं, गौरनाद्यन्तवतीइत्यत्र गोपदंच नाव्यक्तपरम् । परं तु तमः परम् । इदमेवच मूल प्रकृतिःत्रिगुणावस्थापन्नम् । गुणत्रयसाम्यावस्थापन्नम् । तदा गुणवैषम्यप्रयुक्तव्यक्तत्वावस्थानास्ति । लयो नाम पूर्वावस्था प्रहाणेनोत्तरावस्थाप्राप्तिः । पृथिवीजलादिषुदृष्टमिदम् । प्रकृतेरेव अव्यक्तत्वावस्था अक्षरत्वावस्था तमस्त्वावस्थातत्रापि विभक्तत्वाविभक्तत्वावस्था इति विभागो द्रष्टव्यःसर्वत्र लीयते इति वदन्ती श्रुतिः । तमः परे देव एकभवती"त्युक्तवतीअत्र एकीभावः वस्तुद्वयनिषेधार्थकः इति न । वस्तुद्वयसत्वेपिएकीभावोक्तिसंभवात् । वस्तुस्वरूपैक्याभावेपि तदन्तर्भावमात्रेणएक शब्द प्रयोगो दृष्टचरः । विविच्य ज्ञातु मशक्यस्थले विभागानर्हसंसर्गमात्रेऐक्यशब्द प्रयोगः । नद्यः समुद्रे एकीभवन्तीत्युच्यते । उक्तं चसारावल्यां “स्यादयस्तोयनीत्या” इति । अत्र पदयोजयामेवं विवृतं - नहि तोयस्य स्वावस्था प्रहाणेनायस्ताप्राप्तिः । सलिलनिर्गममूलिकादिक्षोदलेपनेपुनः तावतस्सलिलस्य बहिर्निस्सरणदर्शनादितिअतः पृथक् प्रतिपत्यनर्ह संसर्गविशेषो लयः एवं तोयस्य अयसि लयःइतिच । इत्थं च वस्तुद्वयमस्ति । परमात्मा एकः तत्रलीनं तमः एकम्इदमेवाविभक्ततमः । परसंकल्पवशात् सृष्ट्यौन्मुख्यप्राप्तौ विभक्तंतमः ।। लीयेत इत्यनुक्तेः तमस्त्वावस्थाप्रहाणं नास्तीति गम्यतेएकीभवति इति च्विप्रत्ययदर्शनादपि भेदस्थितिः सूचिता । अनादेर्भेदस्यनाशायोगेन परमात्मना अभेदो न सर्वात्मना संभवति । अतः सृष्ट्यादौतमः नोत्पन्नम् । किंतु अनादि अनन्तं चेति स्वीकार्यम् । भोक्ताभोग्यं - अजामेकां गोरनाद्यन्तवती, प्रकृतिं पुरुषेचैव विद्ध्यनादीइत्यादि प्रमाण शतान्यपि नित्यत्वं ब्रुवतेतथाच अत्यन्तसूक्ष्मावस्थं तमः अविभक्ततमः । किंचिदूनसूक्ष्मावस्थंविभक्ततमः अक्षरशब्दवाच्यजीवसंसर्गविशिष्टं वस्तु अक्षरम् । अस्यामवस्यायांगुणत्रयविवेकोपि न भवति । अव्यकपूर्वावस्था अक्षरत्वावस्था । एतदनन्तरभाव्यवस्था अव्यक्तत्वावस्था । तदनन्तरभाव्यवस्था महत्वाद्यवस्थेतिविवेकः ।एतावता प्रबन्धेन श्रुत्या एकस्यैवोपादननिमित्तभावो न बोध्यते इत्ययमंशःपरास्तः । अथ दर्शनं तर्कंच चोद्यमुखेन परास्यति - यत्त्विति । मृदादेःकुलालाच्च वैलक्षण्यं ब्रह्मणि दर्शयति - मृदादेरिति । उपादानकारणभिन्नंकारणं निमित्तकारणं इति वा निमित्तकारणभिन्नं कारणं उपादानं इतिवा नलक्षणं भवितुमर्हति । एककार्यं प्रति उपादानस्य अन्यकार्यंप्रतिनिमित्तत्व संभवात् । घटनिमित्तस्य कुलालादेः स्वदेहगतसुखादीन्प्रतिउपादानकारणत्व दर्शनात् । अतः उपादान कारणताभिन्नकारणतावत्वमितिलक्षणं स्वीकार्यम् । घटनिरूपितकारणता अन्या सुखादिनिरूपितकारणताचान्येति समन्वयः कार्यःएवंचैकस्मिन्नेव कारणताद्वयसमवेशस्याङ्गीकृतत्वात् ब्रह्मणि उभयविधकारणतापिसमावेशार्हा । पूर्वावस्थायोगित्वरूपोपादनता अन्या, संकल्पाश्रयत्वाख्यनिमित्ततात्वन्येतिअतो ब्रह्मणि उपादनत्वशक्तिः निमित्तत्व शक्तिश्च स्तः इति उभयमुपपन्नम्,, मृदितु निमित्तत्व शक्तिः नास्ति । कुलाले उपादनताशक्तिर्नास्तीतिवैषम्यम् । तथा च ब्रह्म नोपादानं निमित्तत्वादित्यनुमाने उपादनताशक्तिराहित्यमुपाधिःकुलालादौ व्यापकत्वस्य पक्षे अव्यापकत्वस्यचोपाधौ सत्वात् । एवंब्रह्म सहकार्यनपेक्षं कारणं न भवति कारणत्वादित्यनुमाने सत्यसंकल्पत्वाभावःउपाधिःइदं विचित्र परिणामशक्तिविरहात् असत्यसंकल्पतया च इत्यनेन ज्ञापितम्एकैकस्याप्यात्मनः स्वीर्कायज्ञानचिकीर्षादि प्रति कारणत्वात्निमित्तत्वम् । स्वस्मिन् समवायेन ज्ञानादेरुत्पत्त्या समवायि कारणत्वलक्षणस्यसत्वात् उपादानत्वंच । परमाण्वादीश्वरसंयोगे वा घटादीश्वरसंयोगेवा सर्वकर्तुःपरस्य निमित्तत्वं संयोगादेः ईश्वरनिष्टत्वात् उपादानत्वंचसमवायि, असमवायि निमित्तभेदात् कारणं त्रिविधमिति नैयायिकाः उशन्तियत्समवेतं कार्यं तत्समवायि कारणं इति प्रथमस्थ लक्षणं यथा तन्तवपटस्य । अवयवद्रव्येषु अवयविनः नूतनस्य द्रव्यस्य समवायसंबन्धेनजायमानत्वात् पटं प्रति तन्तूनां समवायिकारणत्वम् । यत्समवायिकारणंतदेव उपादनमित्युच्यते । उपादीयते स्वनिष्टतया स्वीक्रियते कार्यंयेन द्रव्येण तत् उपादानम् । अवयवेषु अवयवि द्रव्यस्य, द्रव्येगुणस्य क्रियायाश्चोत्पत्तिः । अतः स्वगतद्रव्यं प्रति स्वं उपादानम्स्वगत गुणक्रियादीन् प्रति स्वं द्रव्यमुपादानम् । पाकात् द्रव्येपूर्वरूपध्वंसपूर्वकरूपान्तरोत्पत्तौ पूर्वरूपध्वंसस्यापि घटे जायमानत्वेनध्वंसं प्रति द्रव्यस्य घटस्य उपादानत्व प्रसंग परिहारार्थं जायमानकार्यंप्रति यत्समवायेनाधारभूतं तत् उपादानं इति समवायसंबन्धनिवेशःअत एव समवायीत्युच्यते । अवयविद्रव्यस्य अवयवद्वयसंयोगाभावेऽनुत्पत्यासंयोगस्य कारणत्वार्थं असमवायिकारणमप्यभ्युपगम्यते । कपाल द्वयसंयोगस्यघटं प्रत्यसमवापि कारणत्वात् ।उभयभिन्नं कारणं निमित्तमिति । तन्तु, तन्तुद्वय संयोग विलक्षणस्यदण्डचक्रादेर्निमित्तत्वम् । संकल्पाश्रयस्यैव निमित्तत्वं इतिन निर्बन्धः । दण्डः अदृष्टं कुलालःसर्वेपि निमित्तत्वेन व्यवह्णियन्तेचेततः संकल्पाश्रयः कर्तापि निमित्तमेव । अत्र, घटं प्रति निमित्तकारण भूतस्य दण्डस्य स्वगतगुणक्रियादीन्प्रति समवायिकारणत्वात्समवायि कारणभिन्नं कारणं निमित्तमिति न लक्षणं समन्वेति । तत्तत्कार्यंप्रति यत्समवायि असमवायीच तद्भिन्नं कारणमिति कार्यविशेषपुरस्कारेणलक्षणपरिष्कारोपि न युक्तः । एकस्यैव तन्तोः पटं प्रतिनिमित्तत्वस्योपादानत्वस्यस्वीकारात्पटं प्रति तन्तोः उपादानत्वं सिद्धम् । एवं तन्तुद्वयसंयोगः तुरीतन्तुसंयोगश्चकारणम् । प्रथमः असमवायि कारणं द्वितीयः निमित्तकारणम् । अतो द्विविधकारणभिन्नत्वंन समन्वितं भवति । तस्मात् द्विविधकारणताभिन्ना या कारणता तद्वत्वंनिमित्तत्वं इति वक्तव्यम् । एवं रीत्या ब्रह्मणोऽप्येकस्य द्विविधकारणत्वसमावेशो न दोषाय । अस्माकंतु उपादानताभिन्नकारणत्वमेव निमित्तत्वंउपादानत्वं च तादात्म्य अपृथक्सिद्धयन्यतर संबन्धावच्छिन्नकार्यतानिरूपित तादात्म्य, संबन्धावच्छिन्न कारणता श्रयत्वम् । घटादौ पाकवशात्रूपोत्पत्तौ संयोगादिगुणोत्पत्तौच रूपं प्रति संयोगं प्रति च घटस्योपादानत्वंस्वीक्रियत एवकारण कार्यभूतयोः घटतद्रूपयोः तादात्म्यघटितकारणस्य कथमुपपत्तिःइति शंका च निरस्ता अपृथक्सिद्धिसंबन्धस्यापि कार्यतावच्छेदकसंबन्धकौटौनिवेशात् ।नन्वेवं पिण्डस्य घटं प्रतीव घटत्वा वस्थां प्रति उपादानत्वंस्यात् इति चेत् इष्टापत्तेः । अत एव मनुष्यादि शरीरं प्रति जीवस्योपादानत्वम्तादृशजीवं प्रति ईश्वरस्योपादानत्व मिष्यते । अत एव एतस्माज्जायतेप्राणः इत्यादौ कार्यवाचि प्राणशब्दाः न विशिष्टपराः । प्राणादिमात्रपरत्वेपिउपादानत्वनिर्वाहात् । आत्मनः आकाशः संभूतः इत्यत्रापि आकाशब्दःविशिष्टपरत्वेनैव निर्वाह्य इति न निर्बन्धःनचापृथक्सिद्धिसंबन्धमादायैव उपादानत्वनिर्वाहे तादाम्य संबन्धस्यघटनमेवानपेक्षितमिति वाच्यम् । यत्र सामानाधिकरणनिर्देश पुरस्सरंकार्यकारण भावप्रदर्शनं तत्र निर्वाहार्थं तस्य निवेशः । सन्मूलाःसौम्येमाः प्रजाः सदायतनाः सदेव सोम्येद माग्र, आसीत् इत्यादौ ।इदं सर्वं अभिनवदेशिककृते अधिकरणसारावलिव्याख्याने स्पष्टम् । अस्मदीयब्रह्मसूत्रविमर्शे मुम्मत सारे च अतिविस्तृतम् । तत्रैव द्रष्टव्यमित्यलम्
अभिध्योपदेशाच्च । ध्यै चिन्तायामिति धातुः । अभितो ध्यानं = अभिध्या ।ध्याने चतुर्मुखत्वोक्त्या सर्वप्रकारध्यानं विवक्षितम् । सर्वप्रकारत्वंस्वरूपकर्तृत्वे स्वरूपकर्मत्वे चेतनविषयकत्वे अचेतनविषयकत्वे चतथा च चेतनाचेतन शरीरकस्वकर्मक स्वकर्तृकध्यानं इति पर्यवसितम्अकामयत =इत्यनेन संकल्पेकर्तृत्वम् । अहं स्यामित्यनेन स्वकर्मकत्वम्बहू इत्यनेन चेतनाचेतनोभयवैशिष्ट्यं संकल्पकर्तरि । अतः उपादानत्वंनिमित्तत्वं चसिध्यतीत्यभिप्रायः । रामकृष्णादिबहुभवनं नात्र विवक्षितंतत्तेजोऽसृजत इति उपरि श्रूयमाणत्वात्अत एव चिदद्रूपेण बहुत्वं च सिद्धम् । मृदाद्यचेतनस्य बहुभवनं दृष्टम्अत्र बहु स्यामिति चेतने बहुभवन मुक्तम् । यथा सौभरिः पंचाशतंकन्याः ऊढ्वा ताभिः रमणार्थं अहं बहुः स्यां इति संकल्प्य पंचाशच्छरीरकःआसीत् । तथा भगवानपि चेतनाचेतनशरीरकः इत्युपादनं संकल्पाश्रयत्वान्निमित्तंच । सौभरिविषये बहुत्वं न शरीरमात्रे । अहं बहुस्यां इति अहमर्थात्मनिष्टत्वेनबहुत्व प्रतीतेः । एकस्यापिसौभरेः तत्तद्देहविशिष्टवेषेण बहुत्वगुणसमवायस्संभवत्येव । आदौ एकमात्र शरीरक एवासीत् । तद्देहविशिष्टत्वरूपावस्थामादायउपादानत्वंतत्तद्देहविशिष्टत्व रूपनानादेहविशिष्टरूपावस्थामादाय उपादेयत्वम्यथा वालो युवा जात इत्यत्र । बाल्य यौवनरूपावस्थावैशिष्यष्ट्यमादायोपपत्तिःबालत्वादिविवक्षां विना तत्तद्देहविशिष्टत्वरूप विकारग्रहणे साक्षादेवतदाश्रयत्वम् । बालो युवा जात इति रीत्या बालत्वयुवत्वादीनां विकाररूपत्वेतद्विशिष्टदेहविशिष्टत्वं इति परंपरया विकारवत्वम् । अधिकरणसारावल्यांबहुभवनं सौभरिन्यायसिद्धमित्युक्तम् । किं च कुलालादेः अहं घटस्स्यामितिन संकल्प पूर्विका सृष्टिः । अतः कुलाल वैषम्यम् ।।
साक्षाच्चोभयाम्नानात् । पूर्वं श्रुत्यर्थापत्ति तर्कबलात् उभयविघकारणत्वमुक्तम्अत्र श्रुत्यापि तत्सिध्यतीत्याशयः । उभयाम्नानात् इत्येव पर्याप्तंअथापि साक्षात्पदं उपादानत्वस्यामुख्यत्व व्यावर्तकम् । च शब्दःहेत्वन्तर नैरपेक्ष्यं द्योतयति । ब्रह्मण एव सर्वविधकारणत्वं प्रश्नपूर्वकं प्रतिपादितमिति नात्र विवादस्यैवावकाशः इति व्यंक्तुं साक्षात्पदम्लोके अधिष्ठानं अधिष्ठेयं उपादानं सहकारि च पृथक् पृथक् । अत्रब्रह्मणा अधिष्ठेये प्रकृतिरूपे वस्तुनि सर्वमन्तर्गतं इति ज्ञप्तयेचः ।किं स्वित् =पूर्वं कुत्र स्थितःकार्योत्पत्ति प्रदेशप्रश्नः । कउ सवृक्षः । किमुपादानं यदध्यतिष्टत्…धारयन्=भुवनानि धारयता ईश्वरेणाधिष्टेयं उपकरणं किम् । धारयन् इत्यनुवादरूपत्वात्निमित्तत्वे निश्चयः । “पृच्छत तत्” इति पाठः । “पृच्छतेदु” इतिपाढे इत् उ इत्येतदवधारणे । किमिति पृच्छतैव । अवश्यं मनसा विचारयतएव । ईश्वरः यत् वस्तु अधिष्ठानं चकार तदुपकरणजातं मनसा विचारयत।। निष्टतक्षुः=ससर्ज बहुवचनमविवक्षितम् । एकस्यैव भगवतः स्रष्टृकर्तृत्वेनबहुत्वाभावात् । अत्र श्रुतौ निमित्तत्व सिद्धवत्कारेण उपादानत्वसहकारित्वेसाक्षात् बोध्येतेकिंस्वित् वनमित्युपादान प्रश्नः । क उ स वृक्षः आसीत् इति उपकरणप्रश्नःयतः उपादानात् द्यावापृथिवी भगवान् ससर्ज । ब्रह्मेति = मनीषिणःइति संबोधनम् । यद्वा, मनीषिणः वनं मनसा निश्चितवन्तः । उपादानभूतात्भगवत एव सर्वोत्पत्तिरिति निश्चितवन्तः इति यावत् । सूक्ष्मचिदचिद्विशिष्टंउपादानम् । विश्वस्योपकरणभूतकालादिविशिष्टः स एवोपकरणम् । मनीषिणोमनसा पृच्छतेदु तत् = हे मनीषिणः अवधानेन मनसा एतत् शृणुत । मनीषिणोमनसा विब्रवीमि वः = शृण्वतां भवतां अनुग्रहपूर्वकं अवधानविशेषेणब्रवीमि इति चिन्तामणिः । लोके दारुणा रथादि क्रियतेतत्र वृक्षाणां उपादानत्वम् उपादानभूत वृक्षणामुत्पत्तिस्थानं वनम्वासीपरश्वथादि अधिष्ठेयं च दृष्टम् । एवमत्र त्रितयप्रश्ने व्यष्टिकारणभूतसमष्टिद्रव्याणिवृक्षतुल्यानि, तेषामुत्पत्तिस्थानं प्रकृतिः । वनं सर्व व्यापिब्रह्म वा वनम् । कालादृष्टादि अधिष्टेयं भवति । वनवृक्षाधिष्टेयप्रश्नेयत्यत् वक्तव्यं तत्सर्वं विहाय ब्रह्मैव सर्वमिति श्रुतिर्वदतिअतस्सर्वमपि ब्रह्मैव । उपादानत्वोपकरणत्वयोः कर्तृभिन्नतयैवलोकदर्शनात् निमित्त भूतस्य कर्तृभूतस्य परब्रह्मणः व्यतिरिक्ततयाउपादानं उपकरणं च वक्तव्यमिति प्रश्ने सर्वं ब्रह्मैवेति समाहितंअतः कर्ता निमित्तभूतः पर एवोपादानं उपकरणं चेति विशिष्टवाक्यार्थः ।
आत्मकृतेः - अभिध्योपदेशाच्च इत्यत्र सोऽकामयत बहुस्यां प्रजायेयइति श्रुति मवलम्ब्यार्थः उक्तः । अत्र तदात्मानं स्वयमकुरुतः इतिश्रुति मवलम्ब्य । पूर्वत्र बहु भवन संकल्पो हेतुः । अत्र बहुभवनकरणंहेतुः । कुलालः आत्मानं स्वयमकुरुत इति न व्यवहियते । अतो वैषम्यम्अत्रैकस्यैव कार्यत्व कर्तृत्वोक्तेः कर्तृत्वं सृज्यत्वं चेतिभावः । “स एव सृज्य स च पाल्यतेच " इत्यादिपुराणवचनमिहानुसन्धेयम्आत्मानं स्वयमकुरुत इति वचनबलात् ब्रह्मण एव क्रियमाणत्व मुक्तम्तेन कार्यावस्थाभाक्त्वं स्पष्टं प्रतीतम् । तस्य परस्य कारणत्वात्कारणकार्यावस्थाद्वयं ब्रह्मण्येषितव्यंस्वरूपस्य निर्विकारस्य तस्य किंचित् द्वारैवोपपाद्यम् । यथा बालोयुवा जातः इत्यत्र परंपरया । तथाऽत्रापि । यद्वा नित्यानामेवात्मनांकार्यत्वोक्तेः धर्मभूतज्ञानमादाय स्वाभाविवविकारोपपादनं क्रियतेएवमेव ब्रह्मधर्मभूतेज्ञानेपि नियन्तृत्वादिविकारमादायोपपत्तिःकार्या । जीवे संकोचविकासौ अत्र तु नियमनादीति विवेकः । तथाच चेतनाचेतनगतशूक्ष्मत्वस्थूलत्वादि विकार मादाय परंपरया तादृशचेतनाचेतनविशिष्टत्वमादायवा भगवद्गत स्वभावभूतधर्मज्ञानगतनि यमनादिकमादाय वा साक्षात् उपपादनंसुशकमिति ।।
उत्तरसूत्रं चोद्यमुखेनोत्थापयति - सत्यमिति ब्रह्मणो विकार शून्यत्वात्सदाऽऽनन्द रूपत्वात् आनन्दाश्रयत्वात् हेयगुणादिरहितत्वात् चेतनाचेतनगतदोषगन्धप्रसंगाभावाच्च कथमुपादानत्वं तथा सति अचेतनमृद इव चेतनस्येव वा विपरीतसर्वापुरुषार्थप्रसंगात् । अतो स्वस्यैव बहुभवनकरणमनुपपन्नं इति शंकाशयः ।परिणामात् । परिणामाभ्युपगमे दोषोक्तौ स एवपरिणामः कथं परिहारहेतुःतत्राह - स्वाभाव्यादिति तत्रापि शंकायां विवृणोति - न स्वभाव इति ।तत्वदभिप्रे परिणामः दोषावहः । अस्मदुक्तस्तु अतिशयावहः । अतिशयावहत्वंउपपादयति - अशेषेति । स्वलीलेत्यादिना जगत्सृष्टेः प्रयोजनमुक्तम्वस्तुजात शरीरतयेति विरोधपरिहारःउक्तः । प्रपञ्चे तन्मात्रेत्यादिनासाक्षात्परिणामः न स्वस्मिन्निति दर्शितम् । स्वस्मिन्नेकतामापन्नेइति तमः परेदेव एकीभवति इति श्रुत्यर्थः प्रतिपादितः । जगच्छरीरतयाआत्मानं परिणमयतीति परिणामस्य वैलक्षण्यं प्रादर्शिशरीरात्मभावश्रुतीः प्रदर्शयति तथैवेति । यस्य बुद्धिः शरीरं इत्यादिसुबालोपनिषदि अधिकांशः । यं मृत्युर्न वेद इत्यत्र मृत्युशब्दःन यमादिपरः अचिद्वस्तुपर एव । स्थानप्रामाण्यात् । मृत्युशब्दवाच्यत्वमुपपादयति सर्वेषामिति । यत् ज्ञानावारकं तदेव तमः यो ज्ञानविरोधःस एवानर्थः । अतो मृत्युशब्दवाच्यतेति भावः । न कर्माविभागादितिसूत्रं प्रलयकालेपि चेतनाचेतनयो सूक्ष्मरूपतया अवस्थितिद्योतनायअन्यथा अकृताभ्यागम कृतविप्रणाशादिप्रसंगः । सृष्टि प्रकारमाह - तदयमर्थःइत्यादिना । परमात्मनः परिणामेपि दोषाभावः इति प्रदर्शयति - एवमितिअथ जगत्सृष्टेः लीलात्वेन प्रयोजनवत्वं प्रमाणपुरस्सरं प्रदर्शयति - सर्वाणीत्यादिनाउपसंहरति - अत इति । इदमत्र प्रघट्टतात्पर्यं - निष्कलं निष्क्रियंशान्तमित्यादिभिः ब्रह्मणः निर्विकारत्वं श्रुतं, अपहतपाप्मा इत्यादिनादोषाभाववत्वम् । सदेव सोम्य, एको हवै नारायण आसीत् यद्भूतयोनिंपरिपश्यन्ति इत्यादिना ब्रह्मणः उपादानत्वं यः पृथिव्यां तिष्ठन्इत्यादिभिः अस्यैव सर्वशरीरित्वम् । अजामेकां लोहितकृष्णशुक्लां,गौरनाद्यन्तवतीति स्वरूपतः परिणममानप्रकृतेः उपादानत्वं च । एवंसर्वश्रुत्यर्थ निर्वहणाय विना वैमनस्यं विरोधं च साक्षात्परिणममानप्रकृति शरीरक ब्रह्मण एवोपादनत्वं स्वीक्रियतेभाव्यवस्थावतः पूर्वावस्यायोगित्वमुपादानत्वमित्युक्तत्वात् । अवस्थाश्रयत्वशून्ये ब्रह्मणि कथ मुपादानत्वमिति शंका परिहारानुगुणतयाब्रह्मण्यपि निर्विकारत्वाद्यविरोधि परिणामविशेषस्य सद्वारकस्यांगीकारःसुवचः । तथाच ब्रह्मणि साक्षाद्विकाराभावमादाय अपरिणामित्वनिर्विकारत्वादिश्रुतीनांनिर्वाहः। परंपरया परिणाममादाय बालो युवा जात इत्यादाविव उपादानत्वश्रुति, तदर्थापत्ति सत्तर्काणां निर्वाहः । बालयुवान्यायेन सौभरिन्यायेनच सूक्ष्मत्व स्थूलत्वादिविकारमादायोपपादने परंपरया । स्थूलत्वविशिष्टचेतनाचेतन शरीरकत्वमादायोपपादने साक्षात्जीवधर्मभूत ज्ञानवत् परमात्मगत स्वभाव भूतज्ञानगत नियमनाद्यवस्थामादायोपपादनेततोप्यन्तरंगतया अवस्था श्रयत्वं इति जगदुपादानत्वं स्वरसतएव संभवतिअतः सर्व श्रुत्यैकरस्य प्रणयिभिः तत्त्वविद्भिः निमित्तत्वंउपादानत्वं संयगेवोपपादितं भवति । तस्मात् विशिष्टाद्वैतमतरीत्यासर्वासामपि श्रुतीनां अविरोधेनार्थवर्णनं ब्रह्मणोनिर्विकरत्वाद्युपपादनमेवचेति शोभनः पन्थाः । अतो यतिपतिकथित प्रधानप्रतितन्त्ररूप शरीरात्मभावसंबन्धमंगीकुर्वतां विरोधिसकलमतनिरासः अयत्नसिद्धः । यदम्बु वैष्णवःकायः तत्सर्वं वैहरेः तनुः, योयो यायां तनुं भक्तः इत्याद्युपबृहणबलात्यस्य पृथिवी शरीरमित्यादि श्रुतौ शरीरशब्दस्यान्यथा निर्वहणमपि निरस्तम् ।।
योनिश्च हि गीयते । उपादानवाचकशब्दमूलमेवोपादानत्वसिद्धिः इत्यभिप्रायः ।श्रुतौ योनिशब्द एव श्रूयते इति शंकां परिहरति - योनिशब्दश्चेतियोनिः कारणं इत्येतावन्मात्रं न । उपादानकारणमित्यर्थः । अत्राधिकरणसारावलिः"कार्यैक्ये हि प्रतिज्ञा तदनुगुण उदाहारि दृष्टान्तवर्गः” इतिवाक्यशेषादवगम्यत इति । ननु ऊर्णनाभि दृष्टान्तः कथमुपपद्यताम् ?न ह्यूर्णनाभेः उपादानत्वं संभवति । स हि स्ववक्त्रतः ऊर्णाशब्दवाच्यंतन्तुं विसृजति - समये ग्रसति च । तेनास्य निमित्तत्वमेव । तन्तूपादानंतु ऊर्णा । ऊर्णाशब्दो वा तन्तुशब्दो वा नोर्णनाभिं वदतिअतस्स्वशरीरैकदेशात् कार्यमुत्यादयतीत्येवावगमात् ईश्वरस्यापि स्वशरीरभूतप्रकृतितः उपादानत्वमुक्तं स्यात् इति चेत्, मैवं - कुलालात् मृदःयथा पृथक्सिद्धत्वं न तथा प्रकृतेः ईश्वरात् । ऊर्णनाभिदृष्टान्तबलेनपरमात्मापि स्वशरीर भूतापृथक्सिद्ध वस्तुना जगत्दुत्पादयतीत्येतावन्मात्रसिद्धावपिअस्माकमभिमतार्थसिद्धिः भवति । ऊर्णा शब्दो वा तन्तु शब्दो वानोर्णनाभिवाचकः निष्कर्षक शब्दत्वात् । अत्र तु शरीर वाचक प्रकृत्यादिशब्दः अपर्यवसानवृत्या परमात्मपर्यन्तवाचकः देवदत्तादिशब्दवत् ।बालो युवा इत्यादिवत् आत्मपर्यन्तवाचकत्वात् शब्दस्ययथा तत्र विशिष्टस्योपादनत्वं तथाऽत्रापि सूक्ष्मचिदचिच्छरीकस्यपरस्योपादानत्वसिद्धिः । एवमेव हि सौभरिविषयेपि । तन्तुसृष्टिकर्तापिऊर्णनाभिः अहं तन्तुर्भविष्यामि इति न संकल्पयति । परमात्मा तुअहमात्मानं सृजामि इति संकल्पयति । अतो महद्वैलक्षण्यं, सृजामीतिसंकल्पाश्रयत्वात् विमित्तत्वमपि । प्रकृतिश्चेति सूत्र वत् योनिश्चेतिसूत्रमपि उभयविधकारणत्व बोधनार्थम् ।अत एव तत्रेवात्रापि चशब्दप्रयोगः । ऊर्णनाभिदृष्टान्ते साक्षाद्विकारभावस्य देहद्वारा विकारवत्वस्यचप्रदर्शकः ।। अत्र दृष्टान्तत्रयमुक्तं - ऊर्णनाभिदृष्टान्तेनस्वशरीरादेवोत्पादकत्वं उक्तम् । अनेनाचेतनशरीरकत्वं फलितम् ।सतः पुरुषादिति चेतनशरीरकत्वम् । पृथिव्यामोषधयइत्यनेन साक्षादेवोपादानत्वं स्पष्टीकृतम् । किं बहुना आकुञ्चितस्वहस्त प्रसारणे अस्मच्छरीरे एव अस्माकमुपादानत्वमस्ति । सूक्ष्मएव हस्तः प्रसारण समये अवस्थान्तरमापन्नो भवति । एवमेवास्मच्छरीरावयवेषुसूक्ष्मत्वप्रहाणेन स्थूलत्वमापादयाम इति उपादानत्वं सर्व संप्रतिपन्नमित्यलंविस्तरेण ।।