(1.04.6) वाक्यान्वयाधिकरणम्पूर्वाधिकरणे कर्मशब्दश्रवणात् बद्धजीवपरत्वंप्रकरणस्येति पूर्वपक्षे अपहतपाप्मत्वादिपूर्वकमोक्षार्थोपासनकर्मत्वस्यसुषुप्तिकालीनजीवायासपरिहारकत्वादेः जीवकर्तृकाधिपत्योपासन कर्मत्वस्यसाधारणस्य धर्मस्य श्रवणात् परमात्मपरत्वं निर्णीतम् । अत्र मैत्रीयीब्रह्मणेजायापत्यादि लौकिकार्थानुवादपुरस्सरं स्वात्मेष्टसिध्यै अन्येषुप्रतिसंबन्धिषु प्रियत्वबोधनात् जीवैक्योक्तेः जीवातिरिक्तनिषेधाच्चइदं प्रकरणं जीवातिरिक्त विषयकं न भवतीत्याशयेन संगतिः । यद्वाबद्धासाधारण कर्मसंबन्धश्रवणात् कर्म रहित शुद्धस्वरूप बोधनं सांख्याभिमतंपूर्वपक्षरीत्यापि न सेत्स्यतीत्युक्तं अत्र आत्मशब्दस्य बद्धमुक्तोभयसाधारणत्वात्मुक्तलिंगश्रवणाच्च शुद्धात्मस्वरूपपरत्वं स्यादित्याक्षेपेण संगतिःकर्मशब्दस्यावयवव्युत्पत्त्या प्रकरणं ब्रह्मपरमिति स्थापितं, अत्रतथा योगव्युत्पत्तेः निदानाभावात् कर्मफलभोक्तृत्वस्य श्रवणाच्चतन्त्रसिद्धपुरुष परत्वाश्रयणे न दोषः इति संगतिः । उत्तराधिकरणेसेश्वर सांख्यनिरासः । अत्र निरीश्वरसांख्यनिरासः । कर्मशब्दस्यपुण्यपापमात्रवाचित्वं न भवति, जीवेप्राण व्यतिरकस्येव जीवव्यतिरेकस्यापिपरमात्मनि बाधकानां उपनिषद्वाक्यानां सत्वेन अजातशत्रूपदिष्टविद्यायाःब्रह्मपरत्वमेवेत्युक्तं सगच्छते । अत्रतु जीवात्मगतप्रियत्वाद्युक्तेःआत्मशब्दो जीवपर एवेत्याक्षेपात् संगतःअधिकरण सारावलि व्याख्यानचिन्तामणौ श्रीविष्णुचित्तीयसंगतिमालाग्रन्थानुवादपुरस्सरमेवं संगतिरुक्ता - कर्मशब्दवाच्यत्व मनैकान्तिकम् । कर्मशब्दस्यअन्यथाप्यर्थ वर्णन संभवात् । अत्र प्रकरणे विज्ञानधन एव…प्रेत्यसंज्ञाऽस्ति, परादात् योऽन्यत्रात्मनः सर्वं वेद, यत्र हि द्वैतमिवभवति, इत्यादिना पंचविंशाद् जीवादधिकस्य निषेधदर्शनात् अस्य जीवपरत्वशंकान केवलं लिंगमात्रात् । इति । सांख्योक्तप्रक्रिया शंकामुखेनत्रिभिरधिकरणैः एका पेटिका प्रवृत्ता । अधुना पुनः कारणत्वादिभिरधिकरणैप्रकृत्यधिष्ठातुः जीवत्वमाशंक्य निराक्रियतेअव्याकृतस्य कारणत्वं, न तु ब्रह्मणः । तस्यनिर्विकारत्वात् कर्मसंबन्धिकर्तृत्व श्रवणात् जीवस्यैव, जीवैक्यकथनात् अतिरिक्तब्रह्मणो नात्रप्रसक्तिरिति शंकात्रयेणोत्थानादन्या पेटिका इति ।।बृहदारण्यके चतुर्थे षष्टे चाध्याये मैत्रीयब्रह्मणस्य श्रुतत्वोदत्रोभयमपिविषयः । य एषोऽन्तरादित्ये, एषोऽन्तरक्षिणि इति वाक्यद्वयमपिअन्तराधिकरणे यथा विषयः । उपक्रमे पतिजायादिप्रियत्व रूपभोक्तृत्वबोधनात्मध्ये पंचभूतारब्धदेहेनसह - प्रेत्य इति प्रायणकथनाच्च उत्पत्तिविनाशबोधनात्अन्ते उक्तो विज्ञातृशब्दोपि भोक्तृजीवपर एव । नेश्वरः । तस्य भोक्तृत्वोत्पत्तिविनाशयोरसंभवादितिभावः ।न वाइत्यादिवाक्यादुपक्रमे एवामृतत्वप्राप्ति हेतुत्वबोधनात् नतस्य वाक्यस्य तन्त्र सिद्ध पुरुषप्रतिपादनपरत्वं मोक्षोपायवस्तुनएव बोधनीयत्वादिति शंकते - नन्विति । समाधत्ते - अत एवेति । जीवयथाम्यविज्ञानस्यैवामृतत्वप्राप्त्युपायत्वेनतन्त्रसिद्धत्वात् अमृतत्वस्य तु नाशा इत्यादिकमस्मन्मतस्यैवानुगुणमितिभावः । अचिद्धर्माध्यासवियुक्तेति - तन्मते आत्मनः शुद्धचैतन्यरूपत्वमेवन तु ज्ञानगुणकत्वं अध्यासादेव धर्मप्रतीतिः अत एव ज्ञानविषयत्वरूप ज्ञेयत्वमपि नास्ति । एतदाशयेनैव विज्ञातारमरे केन विजानीयादितिश्रुतिरपिप्र वृत्तातादृशात्मविज्ञानमेवामृतत्वप्राप्त्युपायभूतमिति ।सर्वविज्ञानोपपत्तिप्रकारमाह - सर्वेषामात्मनामिति प्रकृतिवियुक्तात्मस्वरूपत्वमविशिष्टंसर्वेषाम् । अतः एतादृशसाम्यमादाय प्रतिज्ञोपपत्तिः । एकात्मत्वोपदेशोपिसर्वभूतवृत्त्यात्मस्वरूपस्य एकरूपत्वादुपपत्तिः । विद्याविनयसंपन्ने -पण्डिताः समदर्शिनः इति हि गीतावाक्यम् । आत्मस्वरूपमेकाकारमित्यत्रनावयोः विप्रतिपत्तिः । एको ब्रीहि इति साजात्यमवलब्य अनेकेष्वपिएकत्वव्यवहारो युज्यते । एकजातीयत्वरूपमैकात्म्यं नैव बाधितम् ।तस्मात् जीवानां बहुत्वेपि मिथः कार्यकारणभावाभावेपि प्रतिज्ञैकात्म्याद्युपदेशःसमञ्जस एवभवतिननु आत्मनां बहुत्वात् परस्परभेदात् आत्मान्यस्य देवाद्याकारस्यच सत्वेन कथं अन्यत्वनिषेधः उपपद्यतामिति शंकां परिहरति - देषाद्याकाराणामितिदेवमनुष्यादिदेहरूपाकाराणां ज्ञानैकारभूतात्मन्यत्वं तु सिद्धम्तस्मात् आत्मनः अन्यत्वदर्शनं निष्कृष्टात्मस्वरूप व्यक्तिरिक्तदेवाद्याकारदर्शनम् । तच्चानर्थहेतुः ।। देहाद्याकाराः अनात्माकाराःआत्मा देवो मनुष्यो जातः इति व्यवहारबलेन देवादिशब्दा आत्मपर्यन्तवाचकातदैवतेषां वस्तुत्वमिति निश्चितम् । एवं सति आत्मनामेव देवादिशब्द वाच्यत्वात् तेषामात्मानां आत्मान्यत्वेन दर्शनं देवाद्याकारस्यात्मत्वदर्शनमिव भ्रान्तिसिद्धंअत एवं द्रष्टारं निन्द्यादित्यर्थः । यत्र हि द्वैतमिवेति । ज्ञानरूपत्वेनात्मनामेकाकारत्वादैक्यंदेवत्वाद्याकारास्तु अनात्माकाराः इति तेषां बहुत्वम् । इत्थं चैकाकारेआत्मनि बहुत्वाकारापन्नदेवत्वादिनिषेधः क्रियते । नानावस्तुनः प्रामाणिकत्वेद्रष्टृ दृश्येन्द्रियादि भेदस्स्यात् । सर्वस्याप्यात्मपर्यन्तस्यैववस्तुत्वात् तस्यचैकरूपत्वेनैकत्वात् कथं द्रष्ट्टदृश्यादि भेदव्यवहारः।। प्रकृतेरधिष्ठातृत्वेनेति प्रकृतिनिरूपिताधिष्ठातृत्वेनेत्यर्थःचेतनसान्निध्यात् प्रकृतेः शब्दादीनां तदर्थानां चोत्पत्तिः यथासतः पुरुषात् केशलोमादीनामुत्पत्तिःअयमत्र पूर्वपक्ष्याशयः - मैत्रीयीब्राह्मणे आत्मा वाद्रष्टव्यः इत्यादौद्रष्टव्यत्वेनोक्तः आत्मा जीव एव । पूर्ववाक्ये आत्मनस्तु कामायइत्युक्तात्मशब्दार्थस्य जीवत्वात् तदैकार्थ्यायात्रापि जीवपरत्वावश्यंभावात्तत्र पतिजयादि भोक्तृ जीवस्यैव प्रतिपन्नत्वात् जीवपरत्वं सिद्धम्न वापत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय इति वाक्येजायानिरूपित प्रीतिविषयत्वं पतौ दृश्यमानं न पत्युः इष्टसिध्यर्थंपरंतु स्वात्मभूतायाः इष्टपूर्त्यर्थं इत्यर्थः लोकसिद्धः अनूद्यतेन चात्र विवादः । नवा “इत्यस्य नैवेत्यर्थःनह्य चेतनस्य वित्तस्यतृध्यर्थं स्वामिनः वित्तेप्रियत्वं भवतिपरं तु स्वामी वित्तमूलं सुखानुभावादिप्राप्त्यर्थं वित्ते प्रियत्वंनिदघाति एवमेव सर्वत्र । अतस्तत्रात्मशब्दो जीवपर एव । तदैकार्थ्यात्आत्मा वा इत्यत्रापि जीवपर एवेषितव्यः अन्यथा वैरुप्यम् । एवमादौइष्टप्रतिसंबन्धित्वरूपार्थस्वारस्यात् जीवत्वं निश्चितम् । एवंमेव मध्येपि विज्ञानधन एव एतेभ्यो भूतेभ्यः समुत्याय तान्येवानुविनश्यतिइति वाक्यमपि जीव प्रतिपादकमेव । अत्र देहेन सहाविर्भावतिरोधानंचोपदिष्टं विज्ञानधनस्य । अतो विज्ञानधनशब्दोपि जीवपर एवउपरिच ब्रह्म तं परादात् योऽन्यत्र आत्मनो ब्रह्म वेद् इत्युक्तम्अत्र द्वितीयब्रह्मशब्दः ब्राह्मणक्षत्रियादिवाचकः । आत्मान्यत्वेनब्राह्मणक्षत्रियवादि दर्शने दोषस्योक्तत्वात् आत्मनः ब्राह्मणादेश्चैक्यंप्रतीतम् । अतो जीव एव विवक्षितः । अन्तेच विज्ञातारमरे केन विजानीयात्इति विज्ञातृशब्देन जीवो निर्दिष्टः । अनेनाचेतनवैलक्षण्यं जीवेज्ञापितम् । अत्र विज्ञातृशब्दो न परमात्मपरः । यदित्वस्मिन्नर्थेश्रुतेः विवक्षास्यात् तदा ईश्वरमरे केन विजानीयादिति निरदेक्ष्यतअतस्सर्वं प्रकरणं जीवपरमेवेति ।सिद्धान्ते - न वाइत्यादेरयमर्थः - कामः संकल्पः सं कल्पं सफली कर्तुंइत्यर्थः । क्रियार्थोपपदस्य च कर्मणि स्थानिनः इति चतुर्थी । हेमैत्रीयि, पत्यौ=स्वस्मिन् । जायानिरूपित प्रियत्वम् । अहमस्याःप्रियः स्यां इति पतिसंकल्पसाफल्याय न भवति । पति संकल्पायतं नभवतीति फलितम् । वेदाध्ययनं सफलीकर्तुं यज्ञः इत्युक्ते वेदाध्ययनस्ययज्ञः फलमिति सिध्यति । तद्वत् संकल्पसाफल्याय प्रियमित्युक्तेसंकल्प फलं प्रियत्वमिति फलति । अहमस्याः प्रियः स्यां इति पतिःसंकल्पयन्नपि न स तस्याः प्रियो भवति । परं तु=आत्मनः परमात्मनःसंकल्पादेव प्रियोभवतिएकैकस्मिन्नपि वस्तुनि स्थितं किंचित् प्रियत्वं भगवत्संकल्पाधीनम्नतु स्वसंकल्पाधीनम् । तथा सति सर्वदा प्रिया एव स्युः - न तु द्वेष्याःअस्मदीयसंकल्पमप्यतिक्रम्य स्थितेः । अस्माभिः संकल्प्य प्रीतिप्रदर्शनेपितेषामस्मासु प्रियत्वादर्शनात् । अत एवहि लोके स्त्रीणां पुरुषाणांवा व्यभिचारादिः जायते । अतो भतृर्गतं भार्यानिरूपित प्रियत्वंभर्त्रृधीनं न भवति, भार्या इच्छति चेत् भर्तरि प्रियत्वं दधातिनो चेन्न । तर्हि भार्यासंकल्पाधीनं भवतु इति चेत्तदपि न । कदाचित्प्रियत्वं वाच्छति कदाचिच्च न, कुत इति चेत् तस्याः अपि इच्छायाःभगवत्संकल्पाधीनत्वात्अतो भगवत्संकल्पायत्तमेव सर्वेषां सर्वत्र प्रियत्वम् । भार्यासंकल्पाधीनतायाःप्रियत्वेऽभावसूचनायैव वित्तोदाहरणम् । नहिवित्त मचेतनं यजमानेस्वसंकल्पात् प्रियत्वं निक्षिपतीति वक्तुं शक्यम् । परसंकल्पाधीनत्वेतु न दोषः। यथा वित्तगतं अस्मदादिनिरूपितं प्रियत्वं वित्तसंकल्पायत्तंन भवति अचेतनत्वात्, तथा अस्माकं चेतनत्वेपि नास्मत्संकल्प प्रयुक्तंअन्यत्र प्रियत्वमित्युक्तं भवति ।अतो पतिजायादीनां प्रियत्वं यत्संकल्पात् भवति स आत्मा द्रष्टव्यःतस्यास्मासु प्रसादसिध्यर्थम् । एवं व्याख्यानात् प्रसन्नः परमात्मासर्वेषां वस्तूनां पतिजायादिवत् ततोऽधिकं वा प्रियत्वमापादयतिइति सिद्धम् । अयमर्थः उपनिषद्भाष्यकारानुसारेणोक्तः । श्रीमद्भाष्यानुसारेत्वेवम्- कामाय= इष्टसंपत्तये इत्येव पूर्वपक्षे इव सिद्धान्तेऽप्यर्थःपत्यादीनां प्रियत्वं परमात्मन इष्टसंपत्तये एव । नतुपत्या दीनामिष्टसंपत्तयेअस्माभिराराधितो भगवान् आराधके अन्यनिरूपित प्रियत्वं इष्टं मन्यते(संकल्पयति) अत एवाराधाकपत्यादिविषये भार्या प्रीतिं निक्षिपतिपतिश्च भार्याप्रियो भवति । अतो भगवत्संकल्पाधीनं सर्वप्रियत्वमितिफलितम् । एवं सिद्धान्त्यर्थे आत्मनः कामाय, आत्मा वाद्रष्टव्यइत्युभयत्रार्थस्यैकरूपता । पूर्वपक्षिमते वैरुप्यम् । एवं पतिप्रतिसंबन्धीजीवोऽन्यः जाया प्रति संबन्धी जीवश्चान्यः अतः आत्मनस्तुकामाय इति भिन्नभिन्नजीवग्रहणं पूर्वपक्षिमतेः इत्याधिकं दूषणंच । तस्य पतिजायादिषु यत्प्रियत्व मनुभूयते तत् पत्यादि फलसिध्यैन भवति । परंतु स्वफललाभार्थमेव । इदमेव च लोके दृश्यते । यदा पत्यादिमूलं स्वस्य फलेच्छा तदा तेषु प्रियत्वं दधाति । नान्यथाइदं च कथमिति चेत् कर्मानुसारात् । कर्म चेश्वरसंकल्प रूपः । अतोभगवत्संकल्पात् प्रियत्वम् । अतः औपाधिकं प्रियत्वम् । भगवति निरूपाधिकशेषित्वात् सर्वदैव प्रियत्वमस्तीति स एव सेव्यः इति विशिष्ट वाक्यार्थःन चात्मशब्दस्य जीवपरत्वमेवांगीकृत्य आत्मानुभवरूपकैवल्यविषयकमेवेदंवाक्यं भवतु इति वाच्यम् । अमृतत्वस्यतु नाशाऽस्तीति पूर्ववाक्यविरोधात्अतस्सर्वत्रात्मशब्दार्थस्य परमात्मपरत्वं स्वीकृत्य वाक्यार्थवर्णनेएव वाक्यानामन्वयः स्वारसिको भवति ।। अन्यथा वाक्यानामनन्वय एवअपि चामृतत्वोपायबोधकानां अन्यत्र श्रुतानां तमेवं विद्वानमृत,इत्यादीनां चान्वयः स्वरसःअपि च पूर्वपक्षिमते स्वाभिमतसिध्यर्थं पत्यादीनां प्रियत्वेप्रियस्यैवोपास्यत्वात् पत्यादीनामेवोपास्यत्वं स्यात् नतु पत्यादिप्रतिसंबन्धिनःआत्मवस्तु । प्रियमेवहि उपादेयं न तु प्रियत्वरहितं स्वम् । अपिचवित्तस्यैवप्रियत्वात् वित्तमेव हि उपासते जनः । कोन्वर्थतृष्णांविसृजेत् प्राणेभ्योपि गरीयसीं इत्युक्त्या अर्थस्यैव गरीयस्त्वात्तस्यैवोपास्यत्वं इति अन्यत्रापि पत्यादीनामुपास्यत्वं न स्वस्येतिआत्मा वाइत्यनेनानन्वयश्च प्रसज्यते । वितं प्रियं भवति इति श्रुतिगतंवित्तमपि मनसिकृत्य वित्ताद्यनादरेण इति भाषितम्अंगभूतात्मयाथात्म्यज्ञानस्यापेक्षितस्यात्र निरूपणं क्रियते इतिजीवात्मपरत्व शंकानिवृत्यर्थमाह - परमपुरुषविभूतिभूतस्येत्यादिनासत्यसंकल्पत्वाद्यनाविर्भावात् न बद्धस्य कारणत्वम् । भवदभिमतस्यमुक्तस्य निर्व्यापारत्वान्न कारणत्व मित्याह - अन्यस्य कर्मपरवशस्येतिपरोक्तसर्वविज्ञानोपपादनप्रक्रियां निरस्यति । अचेतनविज्ञानस्याप्यावश्यकतांप्रतिपादयति - प्रतिज्ञोपपादनायचेति । एतदिति भाष्ये अधिकम् । प्रमादाल्लिखितंवा । अत्र कारणतादात्म्यं कार्यस्योपदिष्टम् । इदं भवत्पक्षेऽनुपपन्नमित्याह - नहीतिसर्ववेदननिन्दाचेतिसर्वमपि परमात्मात्मकमेवेति तदात्मकत्वानुसन्धाननिषेधः न्याप्यःपूर्वोत्तरमैत्रेयी ब्राह्मणयोः एकार्थ्यावश्यकत्वात् । पूर्वत्रोक्तगुणानांपरमात्मन्येव संभवः उत्तरमैत्रेयीवाक्येपि परमात्मैव प्रतिपाद्यःइत्याह - तथा प्रथमे चेति । प्रियवियुक्तं=प्रियत्ववियुक्तं भार्यादीन्प्रति पत्यादीनां प्रियत्वे प्रियत्वयुक्तं पत्याद्येवान्वेष्टव्यं, नतु प्रियत्ववियुक्तं स्वरूपम् इति भावः । असंगतं भवतीति । पत्यादीनांप्रियत्वेन तत्परित्यागपूर्वकं पतिनिरूपितप्रीतिविषयस्य स्वस्यान्वेष्टव्यत्वमसंगतम्पत्नीशेषत्वेन पत्यादीनामेवान्वेष्टव्यत्वं च स्यात् इत्यनभिमतार्थसिद्धिश्चेत्याह - प्रत्युत इतिवित्तादीनामनुपायत्वे बोधनाय अमृतत्वे नित्यनिर्दोष निरतिशयानन्दरूपत्वोक्तिःननु जायानिरूपित प्रियत्वस्य पत्यौ सत्वेन प्रियभूतपतेरेवान्वेष्टव्यत्वंनतु प्रीति निरूपकजायायाः आत्मशब्दवाच्याया इति दूषणमनुपपन्नम्यतः पत्यादेः प्रियत्वं स्वेष्टसंपत्तये तत एव स्वमात्मा अतिप्रियोभवतिपति मूलं स्वस्यातिशय स्वीकारार्थं हि पत्यादयः प्रियाः आसन्अतस्तैरतिशयभाजः शेषिण एवाति प्रियत्वमिति आत्मनोन्वेष्टव्यत्वसिद्धेःइत्यत्राह - जीवात्मपरत्वेपीति । “सर्वेषामेव जन्तूनां नृप स्वात्मैववल्लभः । इतरेऽपत्य वित्ताद्याः तद्वल्लभतयैव हितद्राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् । न तथा ममतालंबीपुत्रवित्तगृहादिषु इत्यादि” प्रमाणपरामर्शे अन्यत्र प्रियत्वनिक्षेपःस्वेष्टपूर्त्यर्थकः इति निश्चितम् । अत एवातपतप्तः शुष्कतृणपुत्रभार्यादीनपिमार्गे निक्षिप्य तदुपरिगत्वा स्वात्मरक्षणं करोति मातापित्रादिकमपिहढात्हत्वापि स्वमात्मानं रक्षति । लोकानुभसिद्धमेवेदम् । अथापिआत्मशब्दस्योभयत्र भिन्नार्थकत्वं माभूदिति आत्मनस्तु कामाय आत्मनस्तुकामाय इति प्रतिपर्यायं विभिन्नात्मग्रहणं माभूदिति च हेतोः तत्रापिपरमात्म परत्वाश्रयणम् । वस्तुतः तपसा चीयते ब्रह्म, तस्माद्ब्रह्मनामरूपं,इत्यादौ ब्रह्मशब्दस्य भिन्नार्थकत्वाश्रयणवदत्रापि परमात्मपरत्वस्वीकारात्लोके कस्यचित् कस्मिंश्चित् व्यक्तिविशेषे प्रीत्यादरादि प्रदर्शनंकुतः? तन्मूलकं स्वस्य परमानन्दसिध्यर्थमिति वक्तव्यम् । यः परमानन्दंददाति तस्मिन्नेव प्रीतिं प्रदर्शयन्ति । सुखाप्रदेवा अल्पसुखप्रदेवा प्रीतिं न प्रदर्शयन्ति । उपर्युपरि यन्मूलमानन्दलाभः तमेवंप्रीत्या सत्कुर्वन्ति । उद्योगे वर्तमाना अपि स्वात्मतृप्त्येअधिकवेतनदायिनमेवानुसरन्ति । अल्पसुखदायिनि सुखानुभववेलायामेव दुःखप्रदायितिच नैव स्पृहां कुर्युः । पत्यादयः अल्प सुख प्रदाः दुःख प्रदाश्चस्वस्यानभिमतौ जायादिपरित्यागाच्च । अतः एते पत्यादयः स्वात्मेष्टसंपत्तयेअनुपयुक्ताःजायादिकमपि स्वविषये पूर्णतृध्यभावे पत्यादीन् परित्यजन्तिच । अतःस्वपरित्यागसंभावनानर्हे निरवधिकानन्ददातरि दुःखामिश्रानन्दस्वरूपेवस्तुन्येव स्वात्मकाम्यसंपत्तये प्रीतिः प्रदर्शनीया । तच्च वस्तुअनवधिकाति शयानन्दरूपं ब्रह्मैव, नतु पत्यादिकम् । अतस्तत्परित्यज्यआत्मा=परमात्माऽन्वेष्टयः । परमात्मा तु अनवधिकानन्दातिशयरूपत्वात्नास्माभिः परित्यागसंभवनार्हः । सत्यसंकल्पः सोपि करूणामूर्तिःआश्रितान् न परित्यजति । प्रियोहि ज्ञाननोत्यर्थं अहं स च मम प्रियःस महात्मा सु दुर्लभः इति भगवतैवोक्तेः ।। अतः पत्यादिकं सोपाधिकंबन्धुं परित्यज्य निरूपाधिकबन्धुः भगवानाश्रयणीयः इति प्रघट्टार्थः"अनर्थिनः सुतास्सर्वे भर्तारो भ्रातरस्तथा । सर्वै सर्वं परित्यज्यराममेवान्वचिन्तयन्” इति श्रीमद्रामायणश्लोकोऽत्रानु संधेयः ।।वनंगच्छन्तं रामं दृष्ट्वा कौसल्या न निवारितवती । अतो मातरः निष्प्रयोजनाःइति सुताः जननीः अत्यजन् । रामोपि मातरं मुक्त्वा वनं गतः इति पुत्रेणनार्थः इति मातरः सुतानत्यजन् । भर्तारः पत्युपद्रवकारिणीं कैकेयीमवेक्ष्यस्वभार्याः अत्यजन् । भार्या अपि कौसल्यामुपेक्ष्य वनं गमयन्तंराजानमवेक्ष्य स्वभर्तृन् अत्यजन् । भ्रातरोपि भरतं रामराज्यापहारहेतुभूतं मत्वा भ्रातृनत्यजन् । अतस्सर्वेपि सर्वं परित्यज्य राम एवसर्वेषां सर्वविधवन्धुःइति विरचितकलहाः अन्वचिन्तयन्=अन्वधावान्" इति तात्पर्यम् ।। पूर्वकल्पेआत्मशब्दार्थ वैरुप्यं न अत्र तत्सत्वेपि अर्थपुष्टिरधिकेति मन्तव्यम्।। पूर्व कल्पं स्मारयति - अस्मिंस्तु प्रकरणे इति ।
प्रतिज्ञासिद्धेर्लिंगमित्यादि । विज्ञानघन एवैतेभ्यः इत्यत्र विज्ञानघनशब्दःयद्यपि जीवपरः उत्पत्तिविनाशान्वयोक्तेः । अथापि परमात्मासाधारणामृतत्वप्राप्युपायत्व सर्वज्ञत्व कारणविज्ञानाधीन सर्वविज्ञान व्यतिरिक्तवेदननिन्दादिभिःप्रकरणस्य परमात्मपरत्वदार्ढ्यात् विज्ञानधनशब्दोपि परमात्मपर एवमहद् भूतमनन्तमपारं इति परमात्मासाधारणमहद्भूतत्वादिवाचकशब्दैसामानाधिकरण्य दर्शनाच्च । परमात्मपरत्वेन निश्चित बहुवाक्यस्वारस्यादपिएकजीववाचकशब्दस्य परमात्मपरत्वांगीकारे न क्षतिः । न च महद्भूतमनन्तमपारंइति निर्दिष्टस्य विज्ञानघनत्वात् समुत्थायानुविनश्यति इति संसारित्वमावेदयतीतिवाच्यं, विकल्पासहत्वात् । महद्भूत मित्यादिनापि जीवविवक्षा क्रियते वापरमात्मविवक्षा वा । नान्त्यः परस्य संसारित्वप्रतिपादनायोगात्निरनिष्टो निरवद्यः इत्यादि श्रुति विरोधात् । नाद्यः जीवस्यअनन्तत्वापारत्वादीनामसंभवात् । तर्हि कथं सामानाधिकरण्यमिति चेत्शरीर शरीरिभावेन तदुपपत्तेः । मोक्षधर्मे जनकयाज्ञवलक्य संवादेअन्यश्च राजन् स परस्तथान्यः पंचविंशकः । तत्स्थत्वादनु पश्यन्तिह्येक एवेति साधवः इति सूक्तम् । शरीर शरीरिणोः वस्तुतो भेदेपिअन्तःस्थितस्य शरीरिणः एकत्वात् अन्तरवस्थितिनिबन्धन प्रकारैक्यविषयत्वमभेदव्यवहारस्येष्यतेअतः सैन्धवनघन शब्दः जीवशरीरकपरमात्मपरः । नच परस्याप स्वरूपतोविज्ञानधनत्वात् साक्षाद्वाचकत्वमस्तु इति वाच्यम् । परमात्मनःस्वरूपेणोत्थानविनाशासंभवात् । अतो देहविशिष्टजीवस्वरूपेणेति वक्तव्यमितिजीववाचकशब्दस्यान्यस्याभावाच्च विज्ञानधनशब्देनैव बोध्यत्वात् विशिष्टपरमात्मपरत्वमिष्यतेअत एतत्प्रकरणं महावाक्यस्वारस्यबलात् परमात्मपरमेवेति निर्वाहःसिद्धान्तितः ।यादवप्रकाशपक्षेणापि निर्वाह प्रकारं वक्ष्यति ।मतान्तरेणेत्यनेनसूत्रकाराभिमत्यभावः सूचितः । यादवप्रकाशपक्षे कार्यात्मना कारणात्मनाचजीवब्रह्मणोः भेदाभेदौ स्वाभाविकौ । अत्र हि, मैत्रेयि, आत्मनोवादर्शनेन श्रवणेन मत्वा विज्ञानेनेदं सर्वं विदितं भवति इति एकविज्ञानेनसर्वविज्ञानं प्रतिपादितम् । उपादानोपादेयभावमन्तरा नेदमुपपद्यतेकार्यकारणयोर भेदनैवास्योपपत्तिस्सुवचा । अनेन जगदुपादानत्व मुक्तंभवति । एतेन सर्वविज्ञान प्रतिज्ञारूपेणैतेन उपादानोपादेयभावस्याक्षिप्तत्वात्तेन परस्य जीवस्या भेदो लब्धः । तत्सूचकमेवात्र जीवधर्माणां कीर्तनम्उपरिच जगतो ब्रह्मभिन्नत्वात् कथं ब्रह्मज्ञानेन जगतोज्ञानमित्याक्षिप्यात्मनःअन्यत्वेन दर्शनं निषिद्धं च । ब्रह्म तं परादात् इत्यादि । यः=अधिकारीब्रह्म=बाह्यणवर्णं आत्मनोऽन्यत्र= परमात्मनोभिन्नं, वेद=जानीयात्तं ब्रह्म=स ब्राह्मणवर्ण एव परादात्=पराकुर्यात् अभिभवेत् । आत्मनोऽन्यत्वेनावगतोब्राह्मणवर्ण एव संसारयतीत्यर्थः । सिद्धान्ते तु आत्मनोऽन्यत्रस्थितं= नतु परमात्मनि स्थितं अब्रह्मात्मकं स्वनिष्टं वेद इत्यर्थःननु कथं जीवस्य कार्यत्वं उत्पत्तिविनाशयोरभावादित्यत्र, श्रुत्युर्थापत्तिंश्रुतिं च प्रमाणयति - आत्मावा इतिजीवानां प्रलयकाले सत्वे एकत्वावधारणमनुपपन्नं भदेदित्यर्थः । यथेति - भावानामुत्पत्तिःअप्ययश्च यथार्थ एवेति दृष्टान्तस्वारस्यात् सिध्यतीत्याशयः । एकविज्ञानेनसर्वविषयकविज्ञानविषयक प्रतिज्ञायाः सिद्धिः=निष्पत्तिः । प्रतिज्ञयानिष्पत्तिः अवगमः यस्य ऐक्यस्य इति वाऽर्थः । उपक्रमे उपसंहारेच परमात्मलिंगसत्वेन प्रकरणस्य परमात्मपरत्वध्रौव्येन मध्यगत जीवलिंगस्यान्यथाकरणासंभवात्विज्ञानधनशब्दस्य जीववाचकत्वस्यावश्यकत्वेपि परमात्मपर प्रकरणानुरोधेनपरमात्मपरत्वस्थापन मावश्यकमित्युक्तम् । जीववाचकत्वे सूत्रकारःमतत्रयमुपदिशति । मतद्वयं सूत्रकारानभिमतम् । तृतीयमतमेवेष्टम् ।।
प्रथममते दूषणोक्तावेव द्वितीयमतस्योत्थानमिति तत्पक्षं अनूद्यदूषयति - यदुक्तमिति । इदं चाश्मरथ्यमतं यादवप्रकाशमतमेव । अजत्वश्रुतिजीवगतप्राचीनकर्मानुगुणजगत्सृष्टि विषमसृष्यनुपपत्ति उपायविधानानुष्ठानानर्थैक्य मोक्षापुरुषार्थत्व प्रसंगादिरूपबहुविधानुपपत्तिबलेन जीवोत्पत्तिःनाङ्गीकर्तुं शक्या । एकत्वावधारणस्य उत्पत्तिप्रलयबोधकश्रुतीनांचान्यपरत्वस्यावश्यकत्वात् । अतः अन्यप्रकारेणैव विज्ञानधनशब्दस्यपरमात्मपरत्वं निर्वाह्यम् । मोक्षदशायां परमात्मभावाभ्युपगमात्जीववाचक शब्दः परमात्माभिधायी । “आमुक्तेः भेद एव स्यात् जीवस्यच परस्यचमुक्तस्यतु न भेदोऽस्ति भेदहेतोरभावतः” । इति प्रमाणबलात् मुक्तदशायांभावि नमभेदमाश्रित्य परमात्मनि जीवधर्माभिधानमितिअस्य मतम् ।।
काशकृत्स्नमतं वक्ति - अवस्थितेरिति । अवस्थितिः वर्तमानता । अनवस्थितेरसंभवाच्च। इति अवस्थितेः वर्तमानरूपतोक्ता । जीवात्मनि परमात्मनः स्थितत्वात्इत्यर्थः । अन्तर्यामितया जीवात्मनि परमात्मनोऽवस्थितिः अन्तर्यामिब्राह्मणसिद्धाअतः आकृत्यधिकरणन्यायेन शरीरभूत जीववाचिशब्दः शरीरिणं परमात्मनंअभिधत्ते । अतोऽत्र प्रकरणे जीवलिंगानां सत्वेपि तादृशलिंगविशिष्टजीवशरीरकपरमात्म बोधनात् न काचिदप्यनुपत्तिरिति काशकृत्स्नमतम् । एतदुपरिपक्षान्तरानुपन्यासात् पूर्वोक्तपक्षद्वयस्य दुष्टत्वाच्च इदमेव सूत्रकाराभिमतम् ।अत एव सूत्रकारो बादरायणः भारते “तत्स्थत्वादनुपश्यन्ति ह्येकएवेति साधवः” इति याज्ञवल्क्यमतमुपन्यस्तवान् ।।अत्रेदमपि बोध्यं - आत्मनस्तु कामाय, आत्मा वा अरे द्रष्टव्यः इत्यत्रआत्मशब्दः आप्नोतीत्यात्मा इति व्युत्पत्त्या निरूपाधिकसर्वव्याप्तिपुरस्कारेणब्रह्मवाचकः इत्येकः पक्षः । रुढिशक्तिमभ्युपगम्य शरीर प्रतिसंबन्धिरूपार्थकत्वमुखेन सर्वशरीरक ब्रह्मपरः इत्यपरः पक्षः । आत्मनः कामाय इत्यस्यआत्मनः इष्टसंपत्तये इति पूर्वपक्षिणोक्तमर्थमभ्युपगम्य तत्रात्मशब्दस्यजीववाचित्व मुररीकृतम् । अथापि आत्मा इत्यस्य परमात्मपरत्वं च ।अत्र प्रकरणे जीववाचक शब्दानां कथं परमात्मपरत्वं इति प्रश्नपूर्वकंमतत्रयमुपन्यस्य जीवविशिष्टपरमावाचित्वं स्थापितम्अतःआत्मशब्दो जीवविशिष्ट वाचीत्यन्यः पक्षः । तथा च पक्षत्रयेणआत्मशब्दः परमात्मवाची । तत्र तृतीयपक्षे सूत्रकाराभिमतिः । प्रसंगात्मतद्वयं चोपन्यस्तम् । अत्र सारावलि श्लोकेऽनुसन्धेयः । “व्युत्पत्त्याह्यात्मशब्दः"इत्यादिः । तदप्ययुक्तमिति । अद्वैति छायानुसारी औडुलीमिः । अनेवंभावः=ब्रह्मभेदः । ब्रह्मभावो नोपपद्यते इति । मुक्तिदशायां इति शेषः।। भेदे जाग्रति कथमभेदः । अपुरुषार्थत्वादीति मोक्षस्य स्वविनाशरूपत्वात्पुरुषार्थत्वं कथम् । कथं स्वात्मविनाशः स्वेनैव पुरुषार्थत्वेनार्थ्यतेइति । मयि नष्टेपि मत्तोऽन्या काचित् ज्ञप्तिरवस्थिता । इति तत्प्राप्तयेयत्नः कस्यापि न भविष्यतीति भावः । प्रागपि ब्रह्मैवेत्येतस्य विवरणम् अस्मिन्पक्षे इत्यादिकम् । उपाधिः परमार्थः ब्रह्म च एतद्व्यतिरिक्तं चवस्तु नास्ति । निरवयवं ब्रह्म च छेदनानर्हम् । अत उपाधिगत एव भेदइति वक्तव्यत्वात् उभयोरभेदः पूर्वमपि सिद्ध इति । उत्क्रमिष्यतःएवंभाव इति कथनमसंगतं स्यात् इति । औपाधिकापारमार्थिकभेदवादे दूषणमाह - कस्यायमित्यादिनाअस्मात् शरीरात्समुत्थाय इत्यादिश्रुतेस्तात्पर्यं वदति - अस्मादितिकाशकृत्स्नमतं बहुप्रमाणसिद्धमुपपादयति - अत इतिकाशकृत्स्न मतस्यैव सूत्र कृत्संमतत्वे उपपत्तिं दर्शयति - एवमित्यादिनामैत्रेयीब्राह्मणस्यविशिष्टार्थवर्णन मुखेन उपनिषत्तात्पर्यं विवृणोति - अयमत्रेतिदुन्दुभ्यादीति - स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान्शब्दान्शक्नुयात् ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दोगृहीतः इति वाक्यं विवक्षितम् । इन्द्रियाणां स्वस्वव्यापारे प्रवृत्तौसत्यां बाह्यार्थ ज्ञानस्य निरोधो न संभवति । यथा दुन्दुभिहननेबहिरागत शब्द निरोधो न शक्यः । दुन्दुभि निरोधे तत्ताडयितृपुरुषनिरोधेतुशक्यः । शब्दस्यैवाप्रवृत्तेः । तस्मात् इन्द्रियनिरोधः कार्यःतेन तत्प्रवृत्तिमूल मनसोपि निरोधो भवतितथा च परमात्मसाक्षात्कारविरोधि बाह्यार्थ ज्ञानं निरुद्धं भवतिएवमेव तत्रोक्त शंख वीणादृष्टान्तोपि संगमयितव्यः इति । तान्येवअनुविनश्यति - भूतेषु नश्यत्सु एषनश्यतीत्यर्थः । अस्य नाशः न स्वरूपनाशःअविनाशी वाऽरेयमात्मा इत्यनन्तरवाक्यविरोधात् । परंतु अत्यन्तज्ञानसंकोचरूपोविनाशः । न प्रेत्येति । प्रेत्यशब्दः चरमदेहावसानवाची । प्रेत्यन संज्ञा अस्तीत्युक्तत्वात् नोपजनं स्मरन् इदं शरीरमिति श्रुत्यन्तरंप्रत्यभिज्ञायते । तच्च चरमशरीरविषयकम् । अत्रापि एतावदेव खल्वरेअमृतत्वं इतिवचनाच्च । अधिकरणार्थमुपसंहरति - अत इत्यादिनास यथेति - स यथा आर्द्रेधाग्नेः अभ्याहतात् पृथक् घूमाः निस्सरन्ति,एवंवामहतो भूतस्य निश्वसितमेतत् ऋग्वेद इति । एधश्शब्दः अकारान्तःइन्धनवाची । धूमोत्पत्तौ अग्नेः निमित्तत्वं इन्धनस्योपादानत्वम्अभ्याहितात्=आध्मान वीजनादिना प्रवर्तितात् इन्धनसहितात् अग्नेःपृथग्विधा धूमाः विनिर्गच्छन्ति एवं निश्वासवत् अनायासेन सर्वंउद्गतम् । समुद्र एकायतं इत्यादिनेति । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञावचनेनैवसर्वं प्रति कारणत्वमवगतं एधाग्निदृष्टान्तेनापि निमित्तत्वमुपादानत्वंच सर्वासामपां इत्यादिनाप्येतत्सिद्धिरित्यभिप्रेत्य निखिललगदेककारणत्वमिति भाषितम्स यथा सैन्धवधनः इत्यादि । द्वितीये मैत्रेयीब्राह्मणे सैन्धवधनइति । प्रथमेतु सैन्धवखिल्यपदम् । स यथा सैन्धवखिल्य उदके प्रास्तःउदकमेवानुविलीयेत न हास्य उद्ब्रह्मणायैव स्यात् यतो यतः त्वाददीतलवणमेवेति । लवणखण्डः उदके प्रक्षिप्तः उदकमनुप्रविश्य विलीयत एवअस्य निलीनस्यो द्ग्रहणाय=पृथक्कृत्य ग्रहणाय न कोपि शक्तः ।तत्तोयं मध्यतो पार्श्वतोव ग्रहणेपि लवण मयमेव भवति । अतः जले लवणव्याप्तिरुक्तादृष्टान्तेनेन जगति परमात्मव्याप्तिः स्थापिता । सद्विद्यायामपिएवमेव, द्वितीयमैत्रेयी ब्राह्मणे विज्ञानधन इत्यस्य सैन्धवधन दृष्टान्तःअनेन लवणे यथारसव्याप्तिः एवं आत्मनि धर्मभूतज्ञानव्याप्तिः अभिमताएवं भगवतःसर्वत्र व्याप्तिरुक्ताः सर्वावस्थास्वपि जीवस्वरूपेपरमात्मव्याप्त्या जीवस्वरूपो न स्वतन्त्रः । अतो जीववाचिशब्दःपरमात्मानमेव निर्दिशेत् इति सूचनाय एवं वाइदं महद्भूतमनन्तमपारंविज्ञानधन एवेत्यादि । अनुनश्यति - देहोत्पत्तिविशानुविधायि उत्पत्तिविनाशवान्भवति इत्युक्तम् । येनेदमित्यादेः अर्थान्तरभ्रमशंकानिवृत्यर्थमर्थमाह -जीवात्मेति । येन ज्ञानेन सर्वं गृह्णाति तत् अन्येन न गृह्यते इति नार्थः ।नेति नेति - अत्र सर्वनिषेधो न प्रतिपाद्यते, नेति = अचेतन सलक्षणं न भवति ।नेति = चेतनसलक्षणमपि न भवति । विकाररूपहेयराहित्यं अपुरुषार्थ राहित्यंचोक्तम् । इति वाक्यान्वयाधिकरणम् ।।