41 जगद्वाचित्वाधिकरणम्

(1.04.5) जगद्वाचित्वाधिकरणम्संगतिं प्रदर्शयति - पुनरपीति । पूर्वाधिकरणेहि चेतनस्यैव सर्ववेदान्तेष्वपि कारणत्वमुच्यते इति जगतो ब्रह्मैककारणत्वंनिर्णीतम् । तत्र चेतन विशेषस्य कारणत्व सिद्धावपि स चेतनविशेषःन प्रधानाधिष्ठातृ कर्मवश्यपुरुषातिरिक्त इति न ब्रह्मकारणत्वंयुक्तमित्याक्षेपसंगतिः । अथवा - सदसदव्याकृतादिशब्दानां ईक्षत्यधिकरणपूर्वपक्षानुसारेणप्रकृतिपरत्वमाशंक्य अनन्यथासिद्ध प्रकरणबलेन परमात्मपरत्वं निर्णीतम्अथ कर्मत्वाद्यनन्यथा सिद्धलिंगबलेन कारणतयोक्तः पंञ्चविंशकःपुरुष एवेति स एव परतत्वं जगत्कारणंचेति आनन्दमयेक्षया शंकया संगतिःसांख्याभिमताचेतनविषयक विचारः वृत्तेनाधिकरण चतुष्टयेन । तदभिमतचेतनविषयकविचारःउपरि अधिकरण चतुष्टयेनेति विभागः।।तथाहीति भोक्तारमेवेत्यवधारणेनाकर्मवश्यपुरुषव्यावृत्तिः । यद्वावेद्यतयाऽध्ययने प्रसिध्यतिशयः सूच्यते ।। गार्ग्यः बालाकिर्हिनाम काश्यमजातशत्रुमुपेत्य ब्रह्म ते ब्रुवाणीत्युक्तवान् । तेनच सन्तुष्टोऽजातशत्रुः जनक एव ब्रह्मविदिति मत्वा तमेव सर्वे जनाधावन्ति । यतस्त्वं मां ब्रह्मविदं मत्वा ब्रह्म ते बुवाणीति वदसिअअतस्तव सहस्रं ददामीत्युक्त्वा ब्रह्म ब्रूहीत्युवाच । तदनन्तरंच बालाकिना आदित्यमण्डलाद्यधिकरणस्थानां पुरुषाणां ब्रह्मत्वस्वोपास्यत्वप्रतिपादने अजातशत्रुः “मा एवमस्मिन्संवादयिष्ठाः इति तेषां ब्रह्मत्वंप्रतिक्षिप्य अज्ञातब्रह्मतत्त्वाय तस्मै स्वयं ब्रह्मोपदेशाय “योवै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यःइति वाक्यमुक्तवान्स वै वेदितव्यः स एव वेदितव्य इत्यर्थः । अयमेव बालाक्यजातशत्रुसंवादः ।।कौषीतकिन इति । बृहदारण्यकेपि बालाकि संवादो दृश्यते । तथापि जगद्वाचित्वादितिसूत्र मनुसृप्य जागद्वाचिवाक्य प्रदर्शनार्थं इयमुदाहृता । उपक्रमेवक्तव्यतया बालाकिनोपक्षिप्तं ब्रह्मेति । “एतेन यो वै बालके” इत्यजातशत्रुप्रतिवचनस्योप क्रमस्य ब्रह्मविषयत्वं स्थिरीकृतम् । तेन च प्रतिवचनस्यब्रह्मभिन्नजीवस्यैव कर्मसंबन्धप्रतिपादकत्व शंकनं निरस्तम् ।।नन्वस्तु प्रतिवचनस्य ब्रह्मोपदेशपरत्वं तेनभोक्तुः पुरुषस्यैववेद्यत्वोपदेशः कथमित्यत्राह - यस्य वैतत्कर्मेति । कर्मसंबन्धादित्यनेनस्वपक्षे हेतुरुक्तः । वेद्यतयोपदिष्ठं ब्रह्मेतिनन्वत्रोक्तयक्त्या भोक्तुः पुरुषस्यैव वेद्यत्वोपदेशोऽस्तु तथापितस्य कथं कारणत्वसिद्धिः । कथंतरां चाने जगतो ब्रह्मैककारणत्वासिद्धिःउच्यते, उपास्यतयोक्तमेव हि जगत्कारणं न तु कारणादन्यस्योपास्यत्वम्कारणं तु ध्येयः इत्युक्तेः । इत्थं च पूर्वमुपक्षिप्तस्य ब्रह्मणःकर्मसंबन्धप्रतिपादनमुखेन वेदितव्यत्व प्रतिपादनात् भोक्ता पुरुषएव जगत्कारणमुपास्यं चेति प्रतीयते । एतदाशयेनैव भोक्तारमेव पुरुषंकारणं वेद्यतयाऽघीयते इति पूर्वं भाषितम् ।। अत्रापि कर्तेति कारणत्वमुक्तम्अनभ्युपगमादिति । यथा प्रकृतेः नात्र वेद्यत्वोपदशस्तथैव भवदभिमतेस्वरस्यमपीति भावःअनेन परपक्षे बाधकप्रमाणमुपन्यस्तम् । ननु “यस्य वैतत्कर्म” इत्यनेनयस्य भगवतः एतत् यज्ञादिकं कर्म प्रीणनं मित्यर्थस्यापि विवक्षणसंभवात्न भोक्तृपुरुषप्रतिपादनपरत्वमित्यत्राह - कर्मच पुण्यापुण्यलक्षणमितिअत्र कर्मशब्दस्यासंकोचवृत्त्या पुण्यपापरूपोभयकर्मप्रतिपादकत्वेनभगवतः पुण्यकर्माराध्यत्वेपि पापाराध्यत्वासंभवेन, प्रीणनमित्यर्थविवक्षणासंभवात्न चात्र कर्म शब्दसंकोचेनैवार्थ वर्णनं युक्तम् । संकोचे प्रमाणाभावात्न चोक्तबाधकयुक्तिरेव प्रमाणम् । मिथः संश्रयात् । संकोचे सत्युक्तार्थवर्णनसिद्धिःअर्थसिद्धौ संकोचसिद्धिरिति ।सिद्धान्तयुक्तिमाशंक्य परिहरति - नच वाच्यमिति । क्षेत्रज्ञादर्थान्तरमेवेतियोगव्युत्पत्त्या कर्मपदस्य कार्यभूतजगदर्थकत्वात् जगतश्च ब्रह्मप्रति कार्यत्वात् ब्रह्मणो जगत् कर्मभूतमित्यर्थविवक्षणेनापि “यस्यवैतत्कर्म” इत्यस्योपपत्त्या न भोक्तृ पुरुषप्रतिपादनपरत्वेऽनन्यथासिद्धं लिंगं समस्तीति शंकातात्पर्यम् ।। पृथङ्निर्देशवैयर्थ्यादिति"यस्य वैतत्कर्म” इत्यनेनैवोक्तार्थलाभेन यो वै बैलाके एतेषांपुरुषाणां कर्ता इत्यस्य व्यर्थत्वापातादित्यर्थः । एवं सिद्धान्त्यभिमतेऽर्थेअनिष्टमापाद्य कर्मशब्दस्य तथा़र्थवर्णनमपि न समीचीनमित्याह - कर्मशब्दस्यचेति । योगतोरुढेर्बलीयस्त्वादितिभावः । ननु भोक्तुर्जीवस्य कथमादित्यमण्डलाद्युधिकरणकपुरुषान्प्रतिकर्तृत्वमित्यत्राह - तत्तदिति । जगदुत्पत्तेः तत्तद्भोक्तृकर्मनिमित्तत्वादित्यन्वयःभोक्तुःउपपद्यते इति । आलोकप्रदानादिना आदित्यादीनां स्वभोगोपकरणभूतत्वात्अदृष्टद्वारकं तत्कर्तृत्वं भोक्तृरूपपद्यत इति भावः ।अथ स्वमते अपौनरुक्याभिव्यक्यै अत्र निर्दिष्ठानामादित्यादीनांअनिर्दिष्ठानां च तत्सजातीयानां ज्ञातत्वेन वेदितव्यत्वोपदेशवैयर्थ्यपरिहृत्यैच वाक्यार्थं दर्शयति - तदयमर्थ इति । क्षेत्रज्ञ भोग्यभोगोपकरणभूतानामितिअनेनादित्याद्युक्तिः क्षेत्रज्ञभोग्यभोगोपकरणसर्ववस्तूपलक्षणार्थेतिसूचितम् । एतत्कारणभावहेतुभूतमिति । अदृष्टद्वारकं भोक्तुः कर्तृत्वंपूर्व वाक्ये उक्तम् । अदृष्टद्वारा कर्तृत्वनिर्वाहकं भोक्तृसंबन्धिकर्म यस्य वैतत्कर्म इत्यनेनोच्यते इति भावः । तत्स्वरूपमिति ।आदित्यादीनां तत्सजातीयानां च ज्ञातत्वे़पि शुद्धस्वरूपस्याज्ञातत्वात् न वेदितव्यत्वोपदेशविरोधः। कर्मसंबन्धस्तूपलक्षणभूतःइति भावः ।।एवं जीवत्वापादकः कर्मनिमित्तभोक्तृत्वरूपः हेतुरुक्तः । अथ यष्ठिधातोत्थापनरूपहेतुंतादृशमाह - तथोत्तरत्रेति । हेत्वन्तरमाह - तथोपरिष्टादपीति । तद्यथाश्रेष्टीति । अनेन श्रेष्टि दृष्टान्तरूपहेतुरुक्तः । सुषुप्तिप्रबोधादि योगरूपं हेत्वन्तरमाह - तथेति . क्वैष इति । तं होवाचाजातशत्रुःक्वैष एतद्वालाके पुरुषोऽशयिष्ट ,क्ववा एतदभूत् कुत एतदागादितिअत्र प्रश्नत्रयं पृष्टम् । सर्वत्र एतच्छब्दः सप्तम्यन्तः ।एतस्मिन्काले इत्यर्थः । क्व स्वप्नमनुभूतम् । सुप्तः कुतो निर्गतःइत्यर्थः । तदुह बालाकिः र्न विजज्ञौ ( न ज्ञातवान्) इति श्रुतिमभिप्रेत्य - अर्थमजामतेतस्मै इत्युक्तम्तं होवाचाजातशत्रुः “यत्रैष पुरुषोऽशयिष्ट यत्रैदभूत् यत एतदगात्(तदुच्यते) इति श्रुतिमभिप्रेत्य स्वयमेवाजातशत्रुरुवाचेत्युक्तम्देवेभ्यो लोकाः इत्युवाचेत्यन्वयः । हिता नाम नाड्यः इति । अनेननाडीनामेव सुषुप्तिस्थानत्वं न परमात्मनः इत्युक्तं भवति । तदा=सुषुप्तिवेलायामित्यर्थःअथास्मिन्प्राण एवैकधाभवतीत्यस्यार्थः अनुपदं स्वयमेव प्रदर्शयिष्यतेवाक्सर्वैरित्यादि । अनेन सुषुप्तिदशायां तत्तत्करणानामुपरतस्वस्वव्यापारत्वमुक्तम् । अत प्रबोधप्रकारः उच्यते - सयदा प्रति बुध्यते इति । एतस्मादात्मनःजीवात्मनःप्रणाः=पञ्चवृत्तिप्राणाः । अयंच पूर्वपक्ष्यभिमतोऽर्थ देवाः इन्द्रियाणिलोकशब्दः ज्ञानार्थको विषयार्थकोवा ।ननु अथास्मिन्प्राण एवैकधा भवतीति प्राणशब्देन परमात्मनो निर्देशात्कथमत्र प्रकरणे भोक्तुरेव प्रतिपादनमित्युच्यते इत्यत्राह - सुषुप्त्याधारतयेतिसुषुप्तिमत्वेनेत्यर्थः । जीवात्मानं सुषुप्तिमत्वेनोक्तवानित्यर्थः।ननु कथं प्राणशब्दस्य जीववाचकत्वं तस्य मुख्यप्राणवाचकत्वस्यैवयुक्तत्वात् । अत एव ह्यत्रैवह्यात्मनः प्राणाः इत्यत्र प्राणशब्दस्यमुख्यप्राणपरत्वं त्वयैव स्वीकृतम् । प्राणयति सर्वाणि भूतानीतिव्युत्पत्त्या परमात्मवाचकोवायुक्तः इत्यत्र किं प्राणशब्दस्य जीवपरत्वंन संभवति किंवा संभवेऽपि प्रकृते मुख्यप्राणेश्वरन्यतरान्यवचकत्वेहेतुर्नास्ति इति विकल्पं हृदि निघायाद्यं निरस्यति - अस्मिन् जीवात्मनीतिप्राणभृत्वनिबन्धन इति । प्राणो वा आशाया भूयानित्यादौ हि प्राणशब्दस्यप्राणसहचरित जीव लक्षकत्वं स्वीकृतम् । तथैवात्रापि जीवपरत्वं युक्तमितिभावः । द्वितीयं अपास्यति - स यदेति । अत्र तच्छब्दो हि पूर्व प्रस्तुतप्राणशब्दनिर्दिष्टवस्तुपरामर्शीतिभावः । एवं प्राणशब्देन जीवप्रतिपादनसंभवं प्रकृते तत्परत्वे उपपत्तिंच प्रदर्श्य मुख्यप्राणादि परत्वा संभवं प्रकृते व्याचष्टे - मुख्यप्राणस्येति।।नन्वेवं सति प्राणशब्दस्य लाक्षणिकत्वं आत्मनः प्राणाः इत्यत्रमुख्यप्राणपरत्वाभ्युपगमेन वैरुप्यं चेत्यत्र योजनान्तरमाह - अथवेतिपूर्वत्र सप्तम्यन्तपदयोः अस्मिन् प्राणे इत्यनयोः सामानाधिकरण्यस्वारस्यम् । अत्रतु नास्तीति विशेषः । वैयधिकरण्यं प्रतिज्ञायार्थमाह - अस्मिन्नात्मनीतिएकधा भवतीति श्रौतं व्याख्येयं पदम् । तद्वचाख्यानं वागादिकरणग्रामःइति । नन्वस्तु प्राणशब्दो मुख्यप्राणपरः अथापि अस्मिन्नितीदंशब्दःपरमात्मपरस्स्यादित्यत्राह - प्राणशब्दस्येति । जीवोपकरणत्वादितिअस्मिन् प्राणे इति वैयधिकरण्येन निर्दिष्टयोः परस्परं उपकरणोपकरणिभावसंबन्धप्रतीतेःपरस्य च प्राणोपकरणित्वा भावात् तदुपकरणित्वेन प्रसिद्धः जीव एवेदंशब्देननिर्देष्टुं युक्तः इति भावः । अथात्र “अस्मिन् प्राण “एवैकधाभवती"त्यत्रप्राणशब्दः प्रथमान्तोपि स्यात् । मैवं तथा सति एकधाभवतीति तस्यापिनिवृत्तव्यापरत्वबोधनापत्तेः। न चेष्टापत्तिः । स्वापे प्राणव्यापरस्योपलब्ध्याविरोधापत्तेः । अत एव ह्यवधारणनिर्देशः संगच्छते । अन्यथा प्राणएवैकधाभवतीत्यनेन प्राणस्येव निवृत्तव्यापारत्वमित्युक्त्वा वाक्सर्वैरित्यादिनावागादीनामपि तथात्वबोधनानुपपत्तेः । नच प्राण एवैकधा भवतीत्यनेनानुपरतव्यापारस्यैवप्राणस्य स्वापे एकरूपतया़वस्थिति रुक्ता, वाक्सर्वै रित्यादिना वागादीनां विवृतव्यापारत्वंचोच्यतेइति वाच्यम् । स्वापदशदयां प्राणस्यैकरूपतयावस्थितेः प्रत्यक्षसिद्धत्वेनतत्प्रतिपादनवैयर्थ्यात् । नन्वेवं प्रतिपादनेन स्वापे प्राणस्यस्वाधीनेन्द्रियस्थिति प्रवृत्तित्वरूप प्राधान्यं बोधितमिति नवैयर्थ्यमिति चेत् एतादशप्राधान्यस्य सर्वकालेपि सत्वेन स्वापेतत्प्रतिपादनस्यासंगतत्वापत्तेः । अतस्सप्तम्यन्तमेव तत्पदमितिपूर्वपक्षं निगमयति - अत इति ।अयं भावः कर्तृत्वनिर्देशात् जीवसंबन्धित्वेन कर्तृत्वोपयोगिकर्मनिर्देशात्कर्मशब्दस्य पुण्यपापरूपकमेण्येव पुण्यो वै पुण्येन कर्मणा, पापःपापेन, ना भुक्तं क्षीयते कर्म इति श्रुत्यादि स्वारस्यात् रूढ्यतिशयाच्चप्रसिद्धः कर्ता जीव एव न चास्य जीवस्यादित्यादिसर्वपुरुष कर्तृत्वंकथमिति वाच्यम् । तत्पुरुषोत्पादनानुगुण संकल्पादेः अभावेपि सर्वस्यपुरुषस्य एतत्कर्माधीनत्व संभवेन तदादाय कर्तृत्वोपपत्तेः । साक्षात्सृष्ट्यौपयिकप्रयत्नाश्रयत्वा भावेपि एतत्कर्मपरिणाम रूप कर्तृत्वस्य संभवात्"स्वकृतपरिणतेः कर्ता पुंसां स एव” इत्यधिकरणसारावलिःस्वकर्मपरिणतेः पुत्रादीनां पुरुषादीनां कर्ता स एव पितृत्वेन अवस्थितःपुरुष एव वेद्यः इति चिन्तामणिः । अतः कर्मवश्यजीवस्यैव कर्तृत्वम्एएतदुपपादनार्थमेव यस्य वा एतत्कर्म इति प्रवृत्तम् । परस्परोपकार्योपकरणभावेनपरस्परापेक्षितकार्यकरणेन परस्परं भोजनरूपानुभवेनच तत्तदीयकर्माधीनत्वस्यसर्वेषु संभवात् कर्मवश्य जीवस्यैव कर्तृत्वे इदमुपपादकम् । अतएव यथा श्रेष्टी स्वैर्भुङक्ते, यथा श्रेष्टिनं इत्याद्युपपत्तिःउपरि एतत्कर्तृ बोधनार्थ मेवाजातशत्रुः सुप्तं पुरुषमुत्थापयतिसुषुप्त्याधारत्वं चास्य वदति । बृहन् पाण्डरवासः इति प्राणवायुंच निर्दिशतिअतः प्राण भृत् जीव एवात्र प्रकरणे वेद्यतया निर्दिष्टः इति ।सिद्धान्तमाह - इति प्राप्ते इति । ब्रह्म ते ब्रुवाणि इत्युक्त्वाअब्रह्मजीवानां ब्रह्मत्वं मन्यमानेन बालाकिनोपदिष्ठानां न ब्रह्मत्वंइति प्रति बोध्य वास्तव ब्रह्म बोधनार्थं प्रवृत्तो अजातशत्रुःपुनरपि तस्मै कथमब्रह्म बोधयेत् । बालाक्यज्ञाततत्वान्तरोपदेशरुपत्वस्यवक्तव्यत्वान्न जीवः कर्मवश्योऽत्र प्रकरणे वेद्यः ।अत एव हि आदित्यगतपुरुषस्य ब्रह्मत्वोपन्यासे अजातशुत्रुणा तस्य निरासे च चन्द्रमसःपुरुषस्य उपन्यासः तस्यच निरासे अन्यस्येप्येवं क्रमेण अन्येषांनिरासात् जीवस्य ब्रह्मत्वं तेनैव निषिद्धम् ।किंच कर्मशब्दस्य न पुण्यपापरूप कर्मण्येव रूढ्यतिशयः । चलनादिकर्मस्वपितत्प्रयोगप्राचुर्यात् । वैदिके लौकिके विहिते निषिद्धे अविहितांप्रतिषिद्धेच क्रियारूपे कर्मणि कर्मशब्दप्रयोगो दृश्यते । तार्कि कादीनांमते चलनादिकर्मापि कर्मैव । द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाःइति हि तेषां पदार्थगणना । तद्यथेह कर्मचितः लोकः क्षीयते इति लौकिकेपुण्यपाप व्यतिरिक्ते कर्मण्यपि कर्म शब्दप्रयोगो दृश्यते । नहिकश्चित् क्षणमपि जातु तिष्टत्यकर्मकृत् इति गीतावचनमपि । चिन्तितनिमिषताद्यपिकर्मैव । अतः कर्मशब्दो न पूर्वपक्षिसाधकःअतः क्रियत इति कर्म इति योगव्युत्पत्तिरेव कार्या । क्रियमाणमित्यर्थःनच योगात् रुढिर्बलयसी इति न्यायास्यात्र संचारः अनेकार्थ साधारणकर्मशब्दस्यरुढ्या अर्थनिश्चयाभावात् शक्यनिर्णयत्वा संभवात् । परस्परकलहायमानत्वेनअर्थनिश्चयासामार्थ्यात् । एतच्छब्दसमाधिकरणतया कर्मशब्दप्रयोगात्एतच्छब्दस्य प्रत्यक्षादि सन्निधापितजगत्परत्वे एवौचित्यात् । क्रियतेइति कर्म इति योगव्युत्पत्या जगद्वाचित्वाश्रयणस्येव युक्तत्वम्त्वदुक्तादित्यादिपुरुषाणां यःकर्ता किंविशिष्येतावन्मात्रोक्त्यासर्वं जगत् यस्य क्रियमाणत्वेन कर्म, अतस्सर्वस्य कर्ता सन् परमपुरुषःवेद्यः इत्यर्थे एव स्वारस्यं चअत एव यस्य वेत्युक्तिः सार्थाभवति । पूर्वोक्त तावत्पुरुषकर्तृकत्वविशिष्ट एवेति न मन्तव्यं परं तु सर्वजगत्कर्तृत्व विशिष्ट इत्युक्तौस्वारस्यं च ।अतो न पौनरुक्त्यम् । त्वत्पक्षे ब्रह्म ते ब्रुवाणीइत्युपक्रमविरोधश्च ।अब्रह्मभूत पुरुषवादिनं बालाकिं अब्रह्मवादित्वेन प्रत्याख्यानविरोधःस्वयमब्रह्मण उपदेश्यत्व विरोधः इति विरोध बाहुल्यं कर्मशब्दस्यपुण्यपाप वाचकत्वमते । इत्याशयवान् समाधत्ते - एतच्छब्दान्वितस्येतिमहावाक्येन । अर्थः=योग्यता । एकस्मिनेव वाक्ये यत्यत् पदं श्रुतंतत्सर्वस्य यादृशार्थवर्णने परस्परान्वयः उपपन्नोभवेत् तादृशार्थवणनेएव योग्यता । बह्निना सिञ्चतीत्युक्ते पदस्य नैवहि योग्यता । प्रकरणं=पूर्वापरवाक्यजातम्आदि शब्देन तात्पर्यालिंग ग्रहणम् ।असंकुचितवृत्तिरिति । यस्य वा इत्यत्र यच्छब्दार्थः यः कर्ता इत्यत्रयच्छब्दश्चैकार्थकः बद्धादित्यादि पुरुषकर्तृत्वेनोक्तः यच्छब्दार्थोन मुक्तो भवितुमर्हति । निर्व्यापारस्य तस्य कर्तृत्वासंभवात् ।पुण्यपापरूपकर्मसंबन्धाभावाच्च । बद्धस्य ग्रहणे बद्धादित्यादीन्प्रतिअयं बद्धः कथं कर्ता भवेत् । पितृपुत्रभावेनोत्पादकत्वं विवक्षितंचेत् तर्हि नोपादानत्वम् । निमित्तत्वमात्रविवक्षणमपि सृष्ट्यौपयिकप्रयत्नाश्रयत्वाभावान्नसंगच्छते । एतत्कर्माधीनतया पुरुषाणां सृष्टिश्चेत् सृष्टिकर्ताअन्यः इति नास्य कर्तृत्वं स्यात्एतत्कर्म इत्यस्य एतेषां कर्म इत्यर्थोवा, एतत् कर्म इत्यर्थोवा । पूर्वत्र यस्यकर्मेति असंगतं स्यात् ।।द्वितीये एतदिति कंपरामृशति । समीपतरवर्ती पदार्थः कः । यस्य कर्म इत्येव पर्याप्तम्वा एतत् इत्यस्य वैयर्थ्यं च । एते पुरुषा यदीयकर्माधीनाः इति विवक्षायांएतत् इति लिंगं वचनं च विरुध्यते । कर्मशब्दस्य तदधीन पर्यन्तत्वे,लक्षणाच । एतत्पुरुषोत्पादकं कर्म इति विवक्षणे उत्पाद्योत्पादभावश्चन श्रुतः । उत्पाद्योत्पादकभावस्यासंभवश्च । एकजीव कर्माधीनतयासर्वोत्पत्त्यसंभवश्च ।। स्वस्वसृष्टेः स्वस्वकर्माधीनत्वविवक्षायांस्वस्व कर्माधीनतया स्वात्मानं किमन्यस्सृजति उत स्वयमेवस्वयमेवचेत् सुखवन्तमेवात्मानं सृजेत् । अन्यश्चेत् नास्य कर्माधीनसृष्टिकारणत्वम् । अतः एतच्छब्दः सन्निहित बुद्धिस्थजगत्परामृशति ।। एतत्सर्वंमनसि निधाय स्वकर्मानुगुण्येनेश्वरसृष्टं सर्वं भुङ्क्ते । इतिभाषितम् । अतः सर्व वेदान्तेस्विति - यःकर्ता इत्यनुवादरूपत्वेन प्रापकवाक्यसाकांक्षत्वात्"चक्षोः सूर्यो अजायत सूर्याचन्द्र मसौ धाता यथापूर्वमकल्पयत् ।दिवं च पृथिवींच” इत्यादि प्रापकवाक्ये आदित्यादिकर्तृत्वेन परमात्मनःप्रतिपन्नत्वात् स एव परमात्मा अत्रानूद्यते । यतो वा इमानि इत्यादिष्विवसर्ववेदान्त प्रसिद्धः परम एव कारणमनूद्यतेपुष्करपलाशवत् निर्लेपस्य मुक्तस्वरूपस्य सृष्टिकर्तृत्वासंभवात्न मुक्तात्मपरतामाताबद्धस्य जायापुत्र सहोदरमाता पित्राद्युपकरणानांबद्धकर्माधीनोत्पत्यभ्युपगमेपि न तस्य तेषां प्रति सृष्टिकर्तृत्वम्देशान्तरस्थफलाद्यनु भवस्य अस्माकं सत्वेन तदुत्पत्तेः अस्मत्कर्माधीनत्वेपिन तत्प्रति अस्माकं कर्तृत्वम् । फलादिवस्त्वनुभव हेतुभूतपुण्यानांअस्मत्कर्तृत्वेपि न वस्तुकर्तृत्व मस्माकम् । पापजन्य दुःखानुभवहेतुभूतपापकर्तृणांपापं प्रत्येव हेतुत्वं नतु तज्जन्यफलं प्रति । न च सुख दुःखाद्यनुभवहेतुभूतपुण्यपापकर्तुः पुण्यपापद्वारा फलहेतुत्वं स्यादिति वाच्यंतथा सति स्वस्यैव सुखदुःखादि कर्तृत्वे पापकरणेपि स्वयं सुखमेवसृजेत् न तु स्वस्य दुःखमपि । सूचकश्च इतिन्यायेन तत्कर्तृत्वासंभवात्परंपरया हेतुत्वमस्ति न तु तथापि तत्कर्तृत्वम् । एतेषां पुरुषाणांकर्ता इत्यस्या संगतत्वात् । क्षेत्रे बीजं निक्षिप्तवतोपि नांकुरकर्तृत्वम्अतः कर्तृत्व कर्मवत्वमादाय नास्मिन्प्रकरणे जीवस्य वेद्यत्वम्।। कर्मशब्दस्य कार्यसामान्यवाचित्वेन न पुण्यापुण्यमात्रवाचित्वम्पुण्यापुण्यस्यपि कार्यत्वेन कार्यभूत जगदन्तर्गतत्वात् । भाष्येक्रियामात्रवाची इति दृष्टन्ततयोपादानम् । सर्वस्यापि कार्यस्यअदृष्टार्थकर्मापेक्षत्ववत् लौकिकक्रियाया अप्यपेक्षाऽस्त्येव ।उपचित पुण्यविशेषस्य जगत्करणत्ववादेपि कर्मातिरिक्तालोकिकक्रिया अपेक्ष्यत एव । अतः कर्मशब्दः लौकिकक्रियाबोधकोपि स्यात्जगत् सृजतः परमात्मनोपि संकल्पादि लौकिकक्रिया अवश्यंमाविनी ।कर्मशब्देन परमात्मवारणं त्वन्मतेपि न सेत्स्यति । अतः पुण्यपापरूपकर्मणोवातदतिरिक्तक्रियाया एव वा न वाचकः कर्मशब्दः । परं तु कार्यभूतजगद्वाचक एवेति ।

जीवमुख्येति - जीवलिंगं - एनं यष्ट्या चिक्षेप स तत एव समुत्तस्थौइत्युक्तयष्टिघातोत्थानम् । “क्वैष एतद्वालाके पुरुषोऽशयिष्टक्ववा एतदभूत् कुत एतदागादिति प्रतिपादितस्य प्रश्नत्रयस्य” हितानाम हृदयस्य नाड्यः हृदयात्पुरीततं अभिप्रतिष्ठन्ति, यदा सुप्तोन कंचन पश्यति अथाऽस्मिन् प्राण एवैकधा भवति तदैवं वाक् सर्वैःनामभिः सहाप्येति स यदा प्रतिबुध्यते यथाग्नेः विष्फुलिंगाः विप्रतिष्ठेरन्एवमैवेतस्मादात्मनो यथा यथं प्रतिष्ठन्ते । प्राणेभ्यो देवाः देवेभ्यो लोकाः” इतिसमाधानवाक्येषु उक्तं सुषुप्त्याधार करणग्रामाप्यय जागरितावस्थानुगमादि,यथा श्रेष्ठी स्वैर्भुङ्क्ते, यथा श्रेष्ठिनं स्वा भुञ्जते एवमेवैषःप्राज्ञ आत्मा एतैरात्मभिः भुङ्क्तेइत्याद्युक्तं भोक्तृत्वं च । मुख्यप्राणलिंगं - इन्द्रियाणां परमात्मनश्चव्यावृत्यर्थं मुख्यत्वविशेषणम् । तं हा अजातशत्रुः आमन्त्रायांचक्रे - बृहन्पाण्डरवासः सोमराजन् इति प्राणना मामन्त्रणम् । अत्रोक्तं बृहत्वंपाण्डरवासस्त्वं सोमराजत्वं मुख्यप्राणस्यैव । अत एव एवं शब्देनामन्त्रणम्प्राणे मुख्यत्व विशेषणं सूत्रे एतदर्थ मेव । प्राणो वा ज्येष्टश्चश्रेष्टश्च इति ज्यैष्ठयस्य श्रौष्ट्यस्य च प्रतिपादितत्वात् तदात्मकबृहत्वं तस्य ।किं मे वास इति प्राणवायुः पप्रच्छ, आपो वास इति प्रत्युत्तरितम्अतः प्राणवासस्त्वस्य जले प्रतीयमानत्वात् पाण्डरवासोदकत्वं प्राणस्यनच जलवस्त्रकत्वं नोक्तमत्रेति वाच्यम् । जलस्यैव पाण्डरत्वात्पाण्डरशब्देनार्थसामर्थ्यात् जलस्य विवक्षेत्यदोषात् । यच्छुक्लंतदापां, इति प्रमाणबलात् अपां शुक्लवर्णत्व प्रतीतेः। सोमशब्देनामन्त्रणमपिप्राणस्यैव । अथैतस्य प्राणस्याऽऽपः शरीरं ज्योतीरूपम सौ चन्द्रइति चन्द्र संबन्धसत्वात् । प्राणो वै सम्राट् इत्युक्तत्वात् राजेत्यामन्त्रणमपियुक्तम् । अतः इमानि प्राणलिंगानियथा प्रतर्दनविद्यायां त्वमेव मे वरं वृणीष्व । इत्यादिना इन्द्रस्यामन्त्रणंतत्र लिगंम् । एवमत्रापि । पूर्वपक्षे देहेन्द्रिय प्राण व्यतिरिक्तत्वेनजीवं प्रदर्श्य “तं होवाचजातशत्रुः क्वैष एतत् बाल्मके पुरुषः इत्यादिनाउपरि जीवस्यैव प्रस्तावः नतु तदतिरिक्तपरमात्मनः । अतस्तदनुसारेणार्थोवाच्यः । क्ववाशयिष्टः इति सुषुप्ति प्रश्नः शयनाधार प्रश्न इतियावत् । क्ववा एतदभूत इति कारणजातं तदा कुत्राभूदिति प्रश्नः ।“एतदिति करणजातमभिप्रेतम् । कुत एतदागात् इति जागरितावस्थाप्रश्नःवक्ष्यमाणं समाधानमपि एतस्यैवानुगुणम्हिता नाम हृदयस्य नाड्यः इत्युक्तत्वात् शयनाधारत्वं नाडीनाम् ।यत्र सुप्तः न कंचन पश्यति अथास्मिन् प्राण एवैकधा भवतीति समाधानंइन्द्रियविषयकमेव । अत्र यदा सुप्तो न कंचन पश्यति इत्यस्य पूर्वत्रान्वयःअथास्मिन् इत्यत्र करणग्रामाप्ययविषयत्वम् । एकधाभवनकर्तृत्वंइन्द्रियस्यैव विवक्षितम् । प्राणशब्दः प्राणसहचारिजीवविषयः । अस्मिन्प्राणे= प्राणभृति जीवे । स यदा प्रतिबुध्यते इति प्राणशब्दनिर्दिष्टजीवस्य प्रबोधश्रवणात् । केवल प्राणोवा परमात्मा वा नोत्तरवाक्यप्रतिपाद्यःतयोः सुषुप्ते र्वा प्रबोधस्य वाऽसंभवात्अतो जीव संबन्धिकरण ग्रामस्याप्ययप्रश्नः क्ववा एतदभूत् इत्यत्रविवक्षितःतदिदं वागप्येति इति विवरण बलादपि ज्ञायते ।ननु प्राण शब्दस्य जीवपरत्वे एतस्मादात्मनः प्राणाः इत्यत्र प्राणशब्दस्यन जीवपरत्वं एतस्मादात्मनः इत्यस्यानन्वयात् प्राणपरत्वे प्राणानांलयाभावेन निष्क्रमणवर्णनमपि न युक्तं इति चेत् तत्र प्राण शब्दप्राणवायुपर एव । प्रकरणपठितस्य प्राणशब्दद्वयस्य अर्थवैरुप्यमपिनास्ति । अस्मिन् प्राणे इत्यस्य सामानाधिकरण्यसंपादयार्थं तथाऽर्थस्वीकारात्।वैयधिकरण्याश्रयणे नार्थवैरुप्यम् । अस्मिन्नात्मनि जीवे वर्तमानाप्राणा इत्यर्थ वर्णनेन सामञ्जस्यात् । तथा च तस्मिन् प्राणे वागादिकरणग्रामः एकधा भवतीत्यर्थ स्वीकारात्न च प्राणशब्दस्य मुख्य प्राणपरत्वे जीवस्य कथमेतत्प्रकरणप्रतिपाद्यत्वंइति न शंक्यम् । प्राणस्य स्वत एव जीवोपकरणत्वात् तद्विशिष्टजीवस्यप्रतीतेः । आत्मनः प्राणाः इत्यत्र बहुवचन श्रवणात् इन्द्रिय प्रवृत्यनुकूलव्यापाराणां विवक्षया निष्क्रमणवचनोपपत्तिः अतस्सर्वस्य सामञ्जस्यम्सिद्धान्ते - परमात्मन एवात्र प्रधानप्रतिपाद्यत्वं सच जीवविलक्षणःजीवश्च प्राणविलक्षणः देहेन्द्रियमनः प्राणधीन्योऽन्योऽनन्यसाधनःइत्युक्तरीत्या जीवः इन्द्रियप्राणविलक्षणः । सुषुप्तिदशायां उपरतव्यापारेभ्यःशरीरेन्द्रियेभ्यः जीवस्यान्यत्वं सुव्यक्तम् । तस्यामपि दशायांअनुपरतव्यापारात् प्राणात् अन्यत्वं ज्ञापनीयं इत्याशयवान् अजातशत्रुःप्राणनामभिः आमन्त्रयांचक्रे । तथाप्यनुत्थानात् दण्डताडनेनोत्थानाच्चप्राणव्यतिरेको दर्शितः । एवं देहेन्द्रिय मनः प्राणव्यति रिक्तंजीवं प्रदर्श्य अस्मादपि परमात्मनो व्यतिरेक प्रदर्शनाय - तं होवाचअजात शत्रुः इत्यादिप्रकरणमागतम्अतः त्रिष्वपि प्रश्नेषु एतदिति सप्तम्यन्तम् । एतस्मिन्काले इत्यर्थःएतस्मिन् काले क्वस्वप्नमनुभूतं, क्व सुप्तः कुतो निर्गतः इतिप्रश्नत्रयस्यार्थः । स्वप्नसुषुप्ति निर्गमन प्रश्नाः कृताः ।नाडीना मेव स्वप्नाधारत्वं न सुषुप्त्याधारत्वं सामधानवाक्यपर्यालोचनयाप्रथम प्रश्नः स्वप्न प्रश्न एव । अतः हिता नाम नाड्य इत्यादिकंस्वप्नस्थान प्रश्न समाधानम् । सुषुप्तिस्थानप्रश्न समाधानं - यदासुप्त इत्यादि । वाक्यस्वारस्य पर्यालोचने यदा सुप्त इत्यादि नपूर्वत्राम्वेतुं शक्यम् । सुप्तः =वर्तमाने क्तः ।। स्वपनं् सन्उपरतस्वप्न दर्शनो भवतिअथ स्वप्नानन्तरम् । अस्मिन् प्राणे=परमात्मनि । योगेनापर्यवसानवृत्याप्राणशब्दस्य परमात्मपरता पूर्वमेवनिर्णीता । परस्य बुद्धिस्थत्वात्अस्मिन्निति निर्देशः । तत्=तदा । एवं परमात्मानमपियन्तं जीवं वागित्यादि=वागादीन्द्रियाण्यपितत्तत्स्वकार्येण सह अपियन्तीत्यर्थः। उद्गमनोपादान प्रश्नस्योत्तरं - सयदा प्रतिबुध्यत इत्यादि । एतस्मादात्मनः=परमात्मनः प्राणाः जीवाःप्रस्थिता भवन्ति । प्राणेभ्यः=जीवेभ्यः । देवाः इन्द्रियाणि ।देवेभ्यः=इन्द्रियेभ्यःलोकाः =ज्ञानानि प्रपञ्च विषयक ज्ञानानिएवमेवैष प्राज्ञ आत्मा इदं शरीरमात्मानं अनुप्रविष्टः आलोमभ्यःआनरवेभ्यःव्याप्य इत्यध्याहारः । प्राज्ञ आत्मा=परमात्मा इदं=पुरोवर्ति शरीरं=देहंव्याप्य वर्तमानं आत्मानं जीवात्मानं अनुप्रविष्टः =अन्तर्यामितयाअनुप्रविष्टः । एतेन परमात्मनः सुषुप्त्याधारत्वं उद्गमनोपादानत्वंचोक्तं भवति । तमेतमात्मानं एत आत्मनः अन्ववस्यन्ति । इमं परमात्मानंजीवात्मानः अनुवर्तन्ते । तत्र दृष्टान्तः यथा श्रेष्टी इत्यादिजीवात्मानः परमात्मदत्तोपकरणाः सर्वैश्वर्यादिविशिष्टं तमनुभूयइष्टाः भवन्ति । परमात्माच स्वोपकरणभूतैः जीवात्मभिः लीलारसं भुंक्तेअथ फलश्रुतिः - अथ हत्वाऽसुरान् विजित्य सर्वेषां देवानां श्रैष्ट्यंस्वाराज्यं आधिपत्यं पर्येति य एवं वेद इत्यादिसर्वान् पाप्मनोऽपहत्य इति सर्वपापापहतिबोधनात् अपहृतपाप्मत्वादिकमुक्तम्स्वाराज्यं=स्वाधीनत्वम् । एतेन सत्यकामत्व सत्यसंकल्पत्वादिकमुक्तंभवति । ब्रह्मोपासानैकान्तं फलं इति भाषितम् । इदमेकमेव पर्याप्तंअस्याः ब्रह्मविद्यात्वे । अतोऽस्य प्रकरणस्य ब्रह्मपरत्वनिश्चयात्जीवलिंगानि मुख्यप्राणलिंगानि तदनुरोधेन नेतव्यानि इति । तद्व्याख्यातमितिसूत्र खण्डेन विवृतम् ।अत्र एतदुक्तं भवति….इति वर्णनीयानि इति पर्यन्तं सूत्राभिप्रायवर्णनम्प्रातर्दने हि इत्यादिना अनन्तरसूत्रावतारिका इति केचित् । अन्येतुलिंगं युज्यते इत्येतावत्पर्यन्तं पूर्वसूत्रविवरणम् । जीवलिंगानांपुनः कथं ब्रह्मपरत्वं इत्यत्राह - इत्येतदेव उत्तरसूत्रावतारिकाइति वदन्ति । वस्तुतः वर्णनीयानि इति पर्यन्तं प्रकरणस्य परमात्मपरत्वस्थापनमुखेनलिंगानां श्रुतानां निर्वाहः कथंचित् कर्तव्यः इत्येतावन्मात्रमेवप्रतिपादितम् । तत् व्याख्यातमित्युक्तस्य निर्वाहप्रकारस्यापिवक्तव्यतया तत्खण्डनिरूपणमत्रावश्यकर्तव्य मुपरि वाक्येन प्रतिपाद्यतेइत्यभ्युपगमे सामञ्जस्यमस्ति इति द्रष्टव्यम् ।प्राणशरीरक ब्रह्मोपासनार्थमित्युक्त्या जीवलिंगानां सद्भावेपितद्विशिष्टोपासनं विवक्षितम् । अस्याः परमात्मविद्यात्वेपि प्रतर्दनविद्यान्यायेनप्राणशरीरक ब्रह्मोपासनमेव विवक्षितं नतूपासने जीव शरीरकत्वस्यापिनिवेशः इति सूचितम् । अत एव जीवलिंगानां पुनः कथं ब्रह्मपरत्वमितिपृथक् शंका कृता ।।

पूर्वसूत्रकृतनिर्वाहापेक्षया जीवप्राणलिंगकीर्तनस्यान्यथा निर्वाहःअत्र सूत्रे क्रियते इति शंकां निवर्तयति तु शब्द इत्यादिना । प्रधानपूर्वपक्षव्यावृत्त्यर्थस्तु शब्दः - इति पर्यवसितम् । यद्वा जैमिनिस्तु इत्यन्वयस्वीकारेप्राणजीवलिंगसद्भावेपि प्राणशरीरकस्य जीवशरीरकस्य चोपासनं विधीयतेनात्र प्रतर्दनविद्यान्यायस्यावकाशः । तत्र उभयविशिष्ट ब्रह्मोपसनंआवश्यकम् । तथोपासनहेतोरत्राभावात् केवल ब्रह्मोपासनमेव । न विशिष्टपरमात्मोपासनंइत्यर्थोपि सूचिनः । अत्र प्राणनामामन्त्रणापेक्षया नान्यत् प्राणलिंगंविद्यते येन प्राणविशिष्टोपासनस्य विहितत्व सिद्धिःयष्टिघातोत्थानादि जीवलिंगसद्भावेपि तद्विशिष्टोपासनं नात्र विहितम्प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व इति प्राणविशिष्टोपासनस्यतत्र विहितन्वात् । न तथा अत्र प्रकरणे विधिरस्ति । तर्हि प्राणजीवप्रस्तावः किमर्थ इति चेत् इन्द्रियदेहादिभिन्नस्य जीवस्य प्राणव्यतिरिक्तत्वबोधनार्थम् । तथाविधजीव व्यतिरिक्तत्व बोधनार्थं ब्रह्मणःइति प्रकरणपरामर्शे सिध्यति । अवश्यवेदितव्ये ब्रह्मणि जीवव्यतिरेककीर्तनमावश्यकं चेत् प्रतियोगिभूत जीवज्ञान मवश्यापेक्षितम् । अतो जीवकीर्तनम्एवमेव जीव प्राणव्यतिरेक बोधनाय प्रतियोगिभूत प्राणनिर्देशः आवश्यकइति प्राणस्यामन्त्रणंअतो जीव प्राणोभयकीर्तनमपि अन्यर्थं इतिजैमिनिमुनेराशयः । अस्यपक्षस्य अत्यन्त समीचीनत्व ज्ञापनार्थमेव जैमिनिस्तु अन्यार्थंइति खण्डः प्रवृत्तः । स्वपृष्टप्रश्नस्य स्वेनैव विवरणकरणमभिप्रेत्यव्याव्यानमित्युक्तं, न तूत्तरमिति । यद्यपि क्वैष एतत् इत्यादिप्रश्नव्याख्या जीवे एव, न तु प्राणेपि अतो जीवकीर्तन मात्रस्यान्यर्थत्वसाधन मेवात्रोक्तं भवति, न तु प्राणकीर्तनस्यापि, अथापि तुल्यन्यायेनतस्यापि सिद्धिः एष्टव्या । यतः प्राणकीर्तन सन्दर्भेवा जीवकीर्तनप्रधट्टेवा नोपासनं विहितं, यथा प्रतर्दनविद्यायां प्राणोऽस्मि इत्यादिना विधानंदृश्यते । अतः उपास्याकार समर्पकं न भवतीतिजैमिन्याशयः । अत एव प्रबुद्धप्राणस्यैव, प्राणादिव्यतिरिक्तं जीवंप्रतिबोध्य इति भाषितम् । प्राणस्य प्रबुद्धत्वं नाम उच्छ्वासनिश्वासादिव्यापारवत्वम्सुप्तपुरुषेऽयं व्यापारः प्रत्यक्षदृष्टः । यथा सुषुप्तिकालेजाठराग्नेः जागरणं तथा तदा प्राणवायोरपि । प्राणाग्न्य एव जाग्रतिइति प्रश्नोपनिषदि सुव्यक्तम् । प्रतर्दने उपासात्रैविध्यरूपप्रयोजनसिध्यर्थंजीवमुख्यप्रणलिंगानां ब्रह्मपरत्वं उक्तं न तथाऽत्रेति सूचनार्थंमेव उत्तरसूत्र प्रवृत्तिःप्रतर्दनविद्यायामुपक्रम एव जीवलिंगावगमः । महावाक्यानां परामर्शेपरमात्मपरत्वे एव स्वारस्यम् । अतो विशिष्टावलम्बिता । अत्र तुन तथा “साक्षादप्यविरोधं जैमिनिरिति साक्षत् निर्वहणे एव जैमिनेःअभिमतिः पूर्वमुक्ता (अत्रापि विशिष्टपरत्वं विहाय साक्षान्निर्वणमेवन्याय्यमिति सूचयतीव जैमिनिः । जीवव्यतिरेक प्रदर्शनार्थमेव जीवनिरूपणमित्येतन्दृढीकरणार्थमुक्तम् ।अपिचैव मेके इति सूत्रखण्डं विवृणोति - बाजसनेयिन इति । बृहदारण्यकेजीवव्यतिरेकः स्पष्टमुक्तः । तत्रापि वालाक्याजातशत्रुसंवादो वर्ततेयत्रैष इति । यत्र=यद्वा । य एष विज्ञानमयः पुरुषः जीवः । यदासुप्तो भवति तदा प्राणानां=इन्द्रियाणां यत् कार्यं विज्ञानं, तेनसर्वेण सह - विज्ञानं=मनः धर्म भूतज्ञानं वा ऽऽदाय=इन्द्रियाणिधर्मभूतज्ञानं चोपरतानि कृत्वा आकाशे=परमात्मनि हार्दे इत्यर्थःअत्र जीवस्यैव कर्तृत्वंप्रतीयते । अत एकधाभवन कर्तृत्वं नेन्द्रियस्य ।।“एवं जीवातिरिक्ते प्रकरणनियते तत्र यज्जीवमुख्यप्राणाख्यानं न तेन क्षतिरिह च तथा तद्विशिष्टे ह्युपासा ।प्राणस्य प्राणभाजोऽप्यधिकरणतया वाजिवाक्योक्तनीत्याब्रह्मज्ञप्त्यै तदन्यप्रकथनमिति हि स्थापना सार्वभौमी ।।“इत्यधिकरणसारावलिः । य एषोऽन्तर्हृदये इत्यादि बृहदारण्यकवाक्यम्आकाशे शेत इत्यस्य परमात्मनि शेते इत्यर्थवर्णनं क्रियते । तद्वदेवअस्मिन्प्राणे जीवः शेते इतीदमपि प्राणजीवोभयातिरिक्ततया परब्रह्मप्रतिबोधनार्थम्मुख्यप्राण प्रति बोधनं तद्विलक्षणत्वे जीवज्ञापनार्थम् । एवमेवजीवं प्रति बोधनमपि तद्विलक्षण परब्रह्मज्ञापनार्थम् । यथा बृहदारण्यकेआकाशवैलक्षण्यं परमात्मनि बोध्यते । परंतु प्रतर्दनविद्यायामिवात्रविशिष्टोपासनमस्ति वा नवेति विमर्शे सारावली ग्रन्थः उभयघापि योज्योभवति ।। न तेन क्षतिरिह च इति पाठे विशिष्टोपासन प्रतीतिःक्षतिरिह, न तथा तद्विशिष्टे इति पाठे न विशिष्टोपासनप्रतीतिः ।केषु चित्कोशेषु नञ्द्वयमस्ति, केषुचिच्च न तेन क्षतिरिह च इत्येवदृश्यते । अतो यथासंप्रदायमर्थ ऊह्यः । इति जगद्वाचित्वाधिकरणम् ।।