(1.04.4) कारणत्वाधिकरणम्कारणत्वाधिकरणसंगतिमाह - न वेदान्तेष्विति । पूर्वत्रेन्द्रियाणामाकाशादीनांच ब्रह्माश्रितत्वकथनेन ब्रह्मात्मकत्वलाभात् अब्रह्मात्मकस्य प्रधानस्यकरणत्वं न संभवतीत्युक्तम् । संप्रति वेदान्तेषु कारणवाक्यानांब्रह्मपरत्वे ऐककण्ट्यासंभवात् प्रधानपरत्वे तत्संभवाच्चाब्रह्मात्मकप्रधानकरणत्वे एव श्रुतीनां तात्पर्यामाश्रयणीयमिति न तदतिरिक्तब्रह्मणः तत्कारणत्वस्य च सिद्धिरिति शंकया संगतिः । ब्रह्मैककारणत्वं=ब्रह्मणएव कारणत्वम् । एवकारः अयोगव्यवच्छेदपरः । अन्यथा निरीश्वरसांख्येनतत्प्रतिक्षेपासंभवात् ।। ब्रह्मणः कारणत्वे ऐककण्ठ्यासंभवमेव उत्थाप्यपरिहरति - कथमित्यादिनाउदाहृतवाक्यत्रयफलितमर्थमाह - अत इति । स्रष्टुः =सृष्टिकारणस्य ।इदंशब्दवाच्यजगतः प्रलयकाले अव्याकृतात्मकत्व बोधनेना व्याकृतेजगतः लयसिद्धिरित्यभिप्रेत्याह - प्रधाने जगतः प्रलयमिभिधायेति ।अनेन प्रधानस्य लयाधारत्वेन कारणत्वमावश्यकमिति सूचितम् । साक्षात्कारणत्वबोधिकांश्रुतिमाह - तदिति । नन्वव्याकृतस्य लयाधारत्व जगत्स्रष्ट्टत्वयोरुक्तावपिप्रधानस्य कथं कारणत्वनिश्चयः इत्यत्र प्रधानमेवाव्याकृतशब्दवाच्यमित्याह - अव्याकृतमितिअव्यक्तस्याव्याकृत शब्दवाच्यत्वमेवोपपादयति - नामरूपाभ्यामितिनन्वव्याकृतत्वं नाम नामरूपाभ्यां व्यक्तत्वाभावः - तच्च कथं प्रधानेइत्यत्र - उक्ताव्यकृतत्वस्य व्यक्तशब्दवाच्ये एवोपपत्या प्रधानस्यचाव्यक्त शब्दवाच्चयत्वात् अव्याकृतशब्दवाच्यमपि प्रधानमेवेत्याशयेनाह - अव्यक्तंप्रधानमेवेतिएवकारः सिद्धान्त्यभिमतज्ञापनार्थः । ननु “सदेव - असद्वा - असदेवेदमित्यादिकारणवाक्यैः स्रष्टुरव्यवस्थित्यवगमात् प्रधानस्य वा कथं कारणत्वनिश्चयःइति शंकां - सद सच्छब्दयोः प्रधानविषयत्व संभवेन ब्रह्मणीवात्र विरोधस्याभावेनप्रधानकारणत्वनिश्चयस्सुकर इत्याशयेन परिहरति - अस्यचेति । स्वरूपनित्यत्वेनेत्यनेनसच्छब्दस्य, परिणामाश्रयत्वेनेत्यनेनासच्छब्दस्य च निर्वाहकत्वम्ब्रह्मणः स्वरूपनित्यत्वेन तत्र सच्छब्दोपपत्तावपि परिणामित्वाभावात्असच्छब्दोपपत्ति र्न संभवति । परिणामस्वभावस्य वस्तुनो हि कार्यावस्थावैशिष्ट्येनासच्छब्दव्यपदेशस्यो पपत्तिस्सुकरेति भावःवस्तुतः स्वरूपनित्यत्वेपि न ब्रह्मणः सच्छब्दवाच्यत्वं, इदंशब्दनिर्दिष्टजगदभेदेस्यतस्मिन् बाधादित्याशयः । ब्रह्मणीवेति व्यतिरेकदृष्टान्तः । ननुतद्धेदं तर्ह्यव्याकृतमासीत् इत्येतत्प्रकरणे एव चेतन संभविनामीक्षणादिधर्माणांश्रुतत्वेन कथमव्याकृतशब्दस्य ।चेतन वाचित्वसंभवः । असच्छब्दादीनांचाव्याकृतशब्दसमानयोगक्षेत्वात् तेषामपि नाचेत परत्व संभवः । एवंप्रायशः कारणवाक्यप्रकरेणेषु ईक्षणादिधर्माश्च श्रुताः । अतो नप्रधानस्य हेतुत्वनिश्चयः इत्यतः आह - एवमिति । एवं=कारणवाक्यानांब्रह्मपरत्वेऽसामञ्जस्यात् प्रधानपरत्वे सामञ्जस्याच्चेत्यर्थःनिश्चिते सतीति । अव्याकृतशब्दस्याचेत नवाचित्वस्वारस्येन प्रथमतएव तस्य प्रतिपन्नत्वात् कारणत्वनिश्चय आदावेव जातः । अतः पश्चादवगतस्येक्षणादेःगौणत्वकल्पनमेव युक्तम् । एवमन्यत्रापि प्रकरेणेषु ईक्षणादिधर्मबोधकानांधर्मिवाचकपदनिर्दशानन्तरमेव निर्दिष्टत्वात् सर्वशाखाप्रत्ययव्यायेनधर्मिवाचक पादानां अव्याकृतशब्द समानार्थकत्वनिश्चयात् उपक्रमस्थस्यअव्याकृतशब्दस्य प्रधानवाचित्वस्य स्थापितत्वात् सर्वकारणवाक्यगतधर्मिवाचकपदं प्रधानमेव बोधयतीति तदनन्तरनिर्दिष्टगुणानां च तदैकान्तानांगौणत्वकल्पनमेवोचितम्किंच चिदचिद्विशिष्ट ब्रह्मणः कारणत्वाभ्युप गन्तृणां मते विशिष्टान्तर्गतेविशेषणे अचिदेशे मुख्येक्षणानुपपत्त्या अमुख्यत्वस्यकल्पनीयत्वात्तत्रचक्वचिन्मुख्यत्वं क्वचिदमुख्यत्वमिति आश्रयणस्यान्यायत्वत्अचितोऽव्यक्तस्य स्वरसप्रतिपन्नं कारणत्व मभ्युपगम्येक्षणपदानामेकरूपगौणत्वाभ्युपगम एव सुशोभनः इत्यभिप्रायः । ईक्षणदावित्यत्रादिशब्दःचेतनैकान्तालोचनाप्रयत्नपरः। नन्वव्याकृत शब्दवत् चेतनैकान्तवाचिनोःब्रह्मात्मशब्दयोः उपक्रमस्थत्वात् कथं प्रधानहेतुत्वनिश्चयः ।सर्वशाखा प्रत्ययन्यायेनैतदनुरोधेनैवाव्यकृतशब्दस्य नयनसंभवादित्यत्राह - ब्रह्मेतिब्रह्मात्मकशब्दघटितकारणवाक्यस्य हवैशब्दघटितत्वेनानुवादरूपत्वात्सुशीघ्रमर्थस्य निश्चेतुमशक्यत्वात् पुरोवादगतसाधारणसच्छब्दस्याव्याकृतशब्दानुरोधनार्थस्य वक्तव्यत्वाच्च सर्वशाखा प्रत्ययन्यायेन ब्रह्मात्मशब्दयोरेवगौणत्वाभिप्रायेणान्यथाऽर्थो वर्णनीयः । वस्तुतः ताभ्यां बृहत्वव्यापित्वमात्रबोधनेन तयोश्च प्रधानेपि संभवान्न चेतनैकान्तार्थवाचित्वमितिन कश्चिद्विरोधः । यद्यपि ईक्षत्यधिकरणे “गौणश्चेन्नात्म शब्दात्"गतिसामान्यात् “इत्यादिभिः” प्रधानस्य जगत्कारणत्वं निरस्तम् ।अथापि तत्रोक्तार्थस्यैवात्राक्षेपेणाधिकरणस्य प्रवृत्या नानुपपत्तिःननु तर्हि अयोगव्यवच्छेदपादे एवेदमधिकरणं कुतो न प्रवर्तितं? प्रधानप्रतिपादनच्छायानु सारिविषयवाक्यत्वस्य चतुर्थ पादोपाधित्वात् ।।युक्यन्तरं समुच्चयन् उपसंहरति - अतः इति । स्मृति प्रसिद्धमित्यनेनोपबृंहणानुसारेणश्रुत्यर्थस्य वर्णनीयत्वमुक्तम् । न्यायप्रसिद्धमित्यनेन कार्यकारणयोस्सारुप्यमुक्तम् ।सिद्धान्ते ब्रह्मण एवेत्यत्रैवकारः - प्रसिध्यर्थकः - यद्वा न संख्येतिसूत्रस्थ नञः अनुषंगेन तत्फलितप्रधान प्रतिक्षेपसूचकः । सूत्रस्थपदानामन्वयप्रदर्शनपूर्वकंहेतुमाह - आकाशादिष्विति । स्वारस्यात् सूत्रव्यपदिष्टत्वमेव यथाव्यपदिष्टत्वमित्यभिप्रयन्नाह - सर्वज्ञत्वादीतिश्रुति व्यपदिष्टत्वोक्तौहि प्रधानस्य तच्छंकायां “ब्रह्मण एवपरमकारणत्वेन श्रुतिभिः प्रतिपादितत्वं प्रागुक्तन्यायैस्समर्थितमितिवक्तव्यम् । तदपेक्षया निरपेक्षहेतुत्वस्योचितत्वात् जन्माद्यस्ययतः इत्यादौ स्वेन जगत्कारणत्वस्य समर्थितत्वान् ब्रह्मणकारणत्वेनसूत्रव्यपदिष्टत्वमेव युक्तमिति भावःआकाशादिषु=आकाशादीनाम् । आकाशादिपदचिह्नितेषु वाक्येष्विति वाऽर्थःकारणत्वेन स्थापित ब्रह्मणः श्रुतिभिरपि कारणत्व बोधनादिति भावःअत्राकाशोपादानं स्वतश्चेतनमात्रवाच्यात्मशब्दघटित प्रकरणज्ञापनायब्रह्मणः एव कारणत्वमुपपादयति - तथाहीति । प्रकृतं विपश्चिदेकंब्रह्मेति । अनेन पश्चाच्छ्रुतेक्षणादीनां गौणत्वं कल्पनमुचितमितिशंकाच निरस्ता । प्रथमत एव सत्यं ज्ञानमनन्तं ब्रह्मेति ब्रह्मशब्दवाच्यस्यज्ञानरूपत्व ज्ञानवत्वयोर्बोधनात् । मध्ये च ब्रह्मणा विपश्चितेतितस्यैव विपश्चित्व बोधनाच्च न गौणत्वकल्पन मुचितमितिसर्वकारणवाक्येष्वपि चेतनैकान्तधर्मामां श्रुतत्वात् भूयसां बलीयस्त्वमितिन्यायेनतेषां प्रबलत्वाच्च न गौणत्वाश्रयणंयुक्तमित्यभि प्रायेणाह - एवमितितत्तेजोऽसृजत इतिकारणत्व प्रतिपादनात् पूर्वमेव तदैक्षतेति सच्छब्दबोधितस्येक्षणाश्रयत्वबोधनात् उपक्रमश्रुतेक्षणानुगुणमेव पश्चादुक्तकारणत्वस्यनेतव्यत्वात् नेक्षणस्य गौणत्व कल्पनं युक्तमित्याभिप्रायवानाह - तथेतिननु सदैक्षतेत्यतः पूर्वमेव सदेवेति सच्छ श्रवणात् तस्यच प्रधानार्थत्वात्तदनुगुणतयैव पाश्चात्यमीक्षणं नेयं नच सदिति पदस्य साधारणत्वात्न तदनुरोधेनेक्षणस्य नयन संभवः इति वाच्यंतद्धेदं तर्ह्यव्याकृत मासीदित्यत्र अव्याकृतशब्दस्य प्रधानपरत्वेनसर्वशाखाप्रत्ययन्यायेन सच्छब्दस्यापि प्रधानपरत्व निश्चयादितिचेन्न । अव्याकृत शब्दस्यैव प्रधान मात्रपरतायाः उपरि निराकरिष्यमाणत्वात्एवं चेतनैकान्तधर्माणां कारणवाक्येषु श्रुतत्वात् तेषांचभूयसांबलीयस्त्वमितिन्यायेन प्रबलत्वात् कारणत्वप्रतिपादनात्पूर्व मेवश्रुतत्वाच्च नेक्षणस्य गौणत्वशंकासंभव इत्यभिप्रयन्नाह - एवमितिसूत्रार्थमुपसंहरति - अत इति । ननु ब्रह्मणःकारणत्वे तत्प्रतिपादकसदादिशब्देनकथमिदंशब्द सामानाधिकरण्यमिति चेन्न, उभयोर्विशिष्ट परत्वेन सामानाधिकरण्यस्यानुपपत्त्यभावात्
उत्तरसूत्रमवतारयति - नन्विति । ब्रह्मणा विपश्चिता, अन्योऽत्तरआत्माऽनन्दमयः सोऽकामयत इति वाक्यदृष्ट्या विपश्चिदानन्दमयं सत्यसंकल्पंब्रह्मैवेति भाषितम् । समाकृष्यते इति । तस्यैव पूर्वप्रस्तुतत्वादितिभावः । साक्षित्वेनोदाहृतोऽयंश्लोक इति । अनेन प्रकरणात् श्रुतेर्बलीयस्त्वमितिपूर्वपक्ष्युक्तं निरस्तम् । पूर्वोक्तार्थस्य प्रतिपादकतया साक्षित्वेनेतच्छ्लोकावतारेणान्यथाऽर्थकथनस्यासंभवात् ।।सामान्यतः प्रयुक्तस्य समाकर्षादित्यस्योत्तरत्रापि विवक्षितत्वमित्याशयेनाह - तथेतिअस्मादित्यस्य प्रकृतब्रह्मपरामर्शित्वस्वारस्यादिति भावः । ननुब्रह्मणि कथमसच्छब्दोपपत्तिरित्यत्राह - तदानीमिति । अयमाशयः - ततोवै सदजायत, तदात्मानं स्वयमकुरुत, इत्यादिना तस्यैव स्वात्मनः कार्यभूतदेवमनुष्यादिजगदाकारेण करणाभिधानात् ततः पूर्वं तस्य देवमनुष्यादिजगद्रूपकार्याकारेणासत्वात्तदभिप्रायकः असच्छब्दव्यपदेशः इति । अयमेवनिर्वाहःइति । असद्वाइदमिति कारणवाक्यस्थसच्छब्दैकार्थ्यादिति भावः ।अव्याकृतशब्दस्य तच्छरीरकपरमात्परत्वे प्रमाणमाह - स एष इति । स एषइत्यादिनानामरूपव्याकर्तुः पूर्वप्रस्तुतस्य परमार्शात् कार्यजगति तस्य प्रवेशस्यदर्शनश्रवणादि ज्ञानविशेषाणां चाभिधानात् चेतनविशेष एव नामरूपव्याकर्तेतिनिश्चीयते, ततश्च स एव स एष इत्यव्याकृतशब्दवाच्यानुकर्षेण अव्याकृतशब्दवाच्योऽपीत्यवसीयतइति ।। पूर्ववाक्यगतस्योत्ररत्र संबन्धादनुकर्षः इति भाषितम् ।समाकर्षादिति सूत्रस्यानुकर्षेपि तात्पर्य मस्तीति सूचितम् । अथनामरूप व्याकरणयोः परमात्मधर्मत्वे प्रसिद्धिमाह - तत्सृष्ट्वेतिननु प्रधानस्यापि स्वकार्यानुप्रवेशः किं न स्यादित्यत्राह - अन्तःप्रविष्ट इतिनियमनार्थत्वादनु प्रवेशस्येति । अन्तः प्रविष्टः शास्तेत्युक्तेरितिभावः यद्यपि नियमनं पुरुषस्यापि व्यावर्तकं अथापि प्रकृतोपयुक्ताचेतनव्यावृत्तिरुक्ताइतरेणाव्याकृतत्व शंकाव्युदासाय श्रुतौ तच्छब्दः प्रयुक्तः इत्याशयाविष्करणायतदेवेति भाषितम् ।। स्वयमेव व्याक्रियत इति । असच्छब्दोक्त कारणविषयेतदात्मानं स्वयमकुरुत इत्युक्त्या तदैकार्थ्यादिति भावः । एवमव्याकृतादि शब्दानां ब्रह्मण्युपपत्तिरुक्ता । अथेक्षणादीनां प्रधानेअनुपपत्तिमाह - एवमिति । मुख्या एव भवन्तीति । ईक्षणादेर्गौणत्वंविनैव सर्वश्रुत्यपपत्तौ वृथैव गौणत्वकल्पनं भवतामिति भावःब्रह्मेति । बृहति बृंहयति तस्मादुच्यते परं ब्रह्म, बृहात्वाद्ब्रह्मणत्वाच्चतद्ब्रह्मेत्यभिधीयते इति निर्वचनसिद्धब्रह्मशब्दार्थस्य कथं चिदपिनोपपत्तिः । अन्तः प्रविष्टश्शास्ता जनाना मिति श्रुतिप्रतिपन्नशासनार्थव्यापित्वबोधकात्मशब्दस्यापिनैव तत्रोपपत्तिरिति भावः ।।ननु सिद्धान्ते विशिष्टस्यकारणत्वात् तत्रेक्षणाद्युक्तौ तदेकदेशविशेषणीभूताचिदंशेईक्षणादीनां गौणत्वावश्यकतया न मुख्यत्वोपपादनं समीचीनमिति चेत्मैवं विशेषणे ईक्षणस्यैवानभ्युपगमात् । न हि योग्ये एव विशेषणीभूतचेतनेईक्षणादिकमभ्युपगम्यते । प्रलयावस्थस्य तस्याचित्प्रायत्वात् देवादिसर्गकरणोपयुक्तेक्षणादीनांपरमात्मनीवासंभवात् । ब्रह्मस्वरूपस्यापरिणामित्वेनो पादानत्वासंभवात्विशिष्टस्य तथात्वाभ्युपगमेपि ईक्षणादीनां विशिष्टनिष्टत्वानभ्युपगमादिति।।नन्वत्र समाकर्षादिति सूत्रं व्यर्थं, पूर्वापरवाक्यवर्णनेनासच्छब्दस्यब्रह्मपरत्वं ह्यत्र निर्णीयते इदंचानन्दमयाधिकरणे एव कृतम् इतिउच्यते - आनन्दमयाधिकरणे पूर्वापरत्वाक्यपर्यालोचनया असदादिशब्दस्यबद्धमुक्तोभयावस्थ जीववाचित्वनिरासेऽपि प्रधानपरत्वस्यानिराकृतत्वेनसंशयोत्थितेः । नच पूर्वापरवाक्यानां परमात्मपरत्वस्य निरूपितत्वेतत एव प्रकरणादसच्छब्दस्यापि परमात्मपरत्वं सुखावगममेवेति वाच्यम्प्रकरणापेक्षया श्रुतेर्बलीयस्त्वेन प्रधानवाचकसच्छब्दस्य ब्रह्मपरत्वनिश्चयासंभवात्ननु तर्हि अस्मिन्नस्यच तद्योगं शस्तीत्येतदनन्तरमेव आनन्दित्वप्राप्तिहेतु भूतवस्तुनः असच्छब्दवाच्यतया प्रधानत्वंस्यादि त्याशंक्यनिराकरणं कुतो न कृतमिति चेन्न प्रधान प्रतिपादनच्छायानुसारिवाक्यविचारस्यतत्पादे संगतत्वाभावात् ।तत्तत्पादानां तत्तद्वाक्य विचारविषयकतया व्यवस्थितत्वात् ।अयोगान्ययोगव्यवच्छेदभेदकल्पनं तु प्रायिकमेव । अतो नानुपपत्तिः ।।इति कारणत्वाधिकरणम् ।।