39 संख्योपसंग्रहाधिकरणम्

(1.04.3) संख्योपसंग्रहाधिकरणम्नन्वजाशब्दबोधित प्रकृतेः ब्रह्मात्मकत्वकथनमयुक्तंतथा सत्यतिरिक्तब्रह्मणः अभ्युपगमावश्यकत्वेन तत्त्वसंख्याधिक्यप्रसंगात्,नचेष्टापत्तिः । तत्वसंख्याविशेषनिर्देशक वाक्यविरोधात् परामत्मनाविनापिउक्तसंख्यापूर्तेः इत्यधिकरण संगतेः स्फुटत्वात्तदुपेक्ष्य विषयादिकंदर्शयति - वाजसनेयिनः इति । पंचविशतितत्व प्रतीतेरिति । ननु “स्युःपुमांसः पञ्चजनाः” इति पञ्चजन शब्दस्य मनुष्यवाचितया पठितत्वात्,एवं समुद्रान्तर्वर्तिदानवविशेषे प्रयोगदर्शनाच्च मनुष्य पञ्चकबोधकत्वंदानवविशेषपञ्चकबोधकत्वमेव वा संभवतीति कथं पञ्चविशतितत्वग्रहणसंभवः,एवं सप्तर्षिमध्ये एकैकस्य सप्तस्वन्यतमत्ववत् मनुष्याणां दानवविशेषस्यवापञ्चस्वन्यतमत्वाभावेन संख्यान्वयप्रतीत्यनुपपत्तेः समास सामर्थ्यमपिनास्तीति चेत्? सत्यम्पञ्चजनशब्दघटक पञ्च शब्दात् पञ्चत्वसंख्यायाः स्वरसतः प्रतीयमानत्वात्तत्परित्यागे प्रमाणाभावाच्च संख्यापूर्वसमासत्वं युक्तमिति पञ्चशब्दविशेषितात्पञ्चजनशब्दात् तादृशतत्व प्रतीतिर्युक्तैवेति । अत एव तत्त्व प्रतीतेरितिभाषितम् ।। समाहारविषय इति । ननु पञ्च जनशब्दस्य समस्तत्वनिर्णयःकथं पञ्च पञ्च, जनाःइति व्यस्तत्वस्यापि संभवात् तथा च दशत्वमेवप्रतीयते - इति चेन्न, पञ्चानां त्वापञ्चजनानामित्यत्र समस्ततया प्रयोगदर्शनेनेहापि स्वरसतः तत्प्रतिपत्तेः एकपदत्वनिश्चयात् ।एवं द्वितीयपञ्चशब्दसमभिव्याहारादपि पञ्चशब्दस्य संख्यापरत्वप्रतीत्या समाहार समासावश्यकत्वेनसमस्तत्वनिर्णयात्ननु त्रिभुवनमित्यादाविवात्र स्त्रीलिंगस्मृतेरपवादाभावेन कथंपुलिंगत्वं तत्राह - पञ्च जना इतीति । मोक्षाधिकारादिति । अनेनास्मिन्मन्त्रेपंचविशति पदार्थावगतावपि तन्त्रसिद्धतत्त्वानामेव ग्राह्यत्वमित्यत्रकिं नियामकमिति शंका निरस्ता । विद्वान्ब्रह्मामृतोऽमृतमित्युक्त्यामोक्षप्रस्तावात् मुमुक्षूणां ज्ञातव्यत्वेन तत्स्मृतौ प्रकृत्यादिपदार्थानामुक्तत्वाच्चतन्त्रसिद्धपदार्थस्यैव प्रतीतिरिति । अथ तत्प्रसिद्धिसूचनार्थंकपिलोक्त सूत्राणां लुप्तत्वेन कपिलसूत्रसमनार्थकं सर्वैः प्रमाणतयास्वीकारविषयं कारिकाग्रन्थं मुदाहरति - मूलेतिअविकृतिः=विकृति भिन्ना । स्वस्याः सर्वनिदानत्वेनाकार्यत्वात्कस्यचित्विकृतित्वासंभवात् ।। पूर्वपक्षमुपसंहरति - अत इति । ननुयस्मिन्निति पंचविंशतत्वाधारत्वेन कस्यचित् निर्देशात् आकाशश्चेतिआकाशस्य निर्देशाच्च कथमस्य मन्त्रस्य पंचविशतितत्त्व प्रतिपादनपरत्वं? उच्यते । अस्मन्मते प्रकृतेः सत्त्वरजस्तमोरुपत्वात् पृथक्द्रव्यत्वाभ्युपगमेनतेषां त्रित्वात् तदपेक्षया अत्र सप्तविंशतितत्त्वनिर्देशेन विरोधाभावात्तथा च यस्मिन्=आत्मनि उत्तरत्रात्मानमिति निर्देशात् । गुणत्रयमहदहंकाराःपंच, वायुतेजोजलपृथिवीघ्राणाः पञ्च तन्मत्राणि पंच जिह्वादि ज्ञानेन्द्रियाणिमनच्चेति पंच कर्मेन्द्रियाणि पंच आकाशशब्दनिर्दिष्टाकाशश्च प्रतिष्टितःतमात्मानममृतं ब्रह्म विद्वान् अमृतो भवतीत्यर्थःयद्वा आत्मनः स्वस्मिन्नवस्थितत्वात् आकाशस्य प्रसिद्धभूतपंचकेषुप्राथम्यप्रयुक्तादरातिशयेन भूयः कीर्तनाच्च न पंचविंशतितत्वप्रतिपत्तिविरोधःततश्चायमर्थः - पञ्चविंशतिपदार्थाः तदन्तर्भूतात्मनि प्रतिष्टिताःकिमन्यैः, तदन्तर्गताकाशोपि तत्र प्रतिष्टितः तमात्मानमिति ।सिद्धान्ते - पृथक्भावात्=अन्यत्वात् । अन्यत्वमेवोपपादयति - यस्मिन्नितिब्रह्मात्मकत्वं हीति । अब्रह्मात्मक तत्वानामेव तन्मतसिद्धत्वेनात्रच ब्रह्मात्मकतत्त्वप्रतीत्या ह्यस्मन्मतप्रतिपादितानि तत्वानिन तन्त्र सिद्धानि भवितुमर्हन्तीति भावः । ननु यच्छेदन ब्रह्मणएवनिर्देशः इति कथमवगम्यते जीवस्यापि निर्देशौचित्यात्, अतः ब्रह्माश्रयत्वाप्रतीत्यान ब्रह्मात्मकत्वसिद्धिरित्यत्राह - तमेवमिति । अयमभिसन्धिः - अस्मिन्मन्त्रेयत्तच्छब्दयोः प्रयोगात् तयोस्समानार्थकत्वमावश्यकम् । तत्र तच्छब्दार्थःकइति विमर्शे, तमात्मान ममृतं ब्रह्मेति निर्देशेन तच्छब्दस्य ब्रह्मपरत्वनिश्चयात्तदैकार्थ्याय यच्छब्दस्यापि ब्रह्मपरामर्शित्वावश्यकत्वात्अत्र भाष्ये “ब्रह्मा मृतोऽमृत"मित्युपादान मेतादृमार्ग सूचनायतमिति परामर्शेन = ब्रह्मणः तमित्येनन परामर्शादित्यर्थः ।एवं पंञ्चविंशतितत्त्व संख्याप्रतीतिमभ्युपगम्य दूषितम् । अथात्रसंख्याधिक्यदर्शनेनापि तन्मतदूषणपरं “अतिरेका च्चे"ति सूत्रखण्डंव्याचष्टे - अतिरेकाच्चेति । अतिरेकः संख्याधिक्यम् तत्त्वेति ।श्रुतिप्रसिद्ध सर्व तत्वे तच्चेति । अनेन स्वाभिमततत्त्व प्रतिपादनेऔचित्यंच दर्शितम् । सांख्यप्रसिद्धादपि श्रुतिप्रसिद्धस्यान्तरंगत्वादितिपंचविंशतितत्वप्रतिपत्तिरेव न संभवतीति । अयमाशयः - अस्तु पंचजनशब्दः समाहार विषयः । अथापि तस्य पंचविंशतितत्व प्रतिपादनपरंत्वन संभवति । नच पंञ्चजन शब्देन पंच संख्यात्वविशिष्ट समूहोपस्थितौतादृशसमूहस्य पुनः पञ्च संख्यया विशेषणे पंचविंशतितत्व प्रतीतिःसंभवतीति वाच्यम्पञ्चसंख्यया विशेषितस्यैवार्थस्य पुनस्तया विशेषणेन पौनरुक्य प्रसंगात्नच पंचत्वसंख्याविशिष्टे वस्तुनि पञ्चत्वसंख्यायाः विशेषणत्वविवक्षयाऽपौनरुक्यमिति शंक्यम् । विकल्पासहत्वात् किमत्र विशेष्येपञ्चत्वसंख्यायाः अन्वयविवक्षा, उत विशेषणे आहोस्नित् उभयत्र ।न प्रथम= दत्तोत्तरत्वात्, संख्यायाः अभ्यासेऽभ्युपगम्यमानेपिदशत्वसंख्याया एव प्रतीतेः । न द्वितीयः पंचजना इत्यत्र पंचशब्दस्यविशेषणवाचित्वेन तेन विशेष्यपर्यन्तोपस्थापनावश्यकत्वेन तदेकदेशेपंचत्वसंख्यारूपविशेषणे तज्जातीयपञ्चत्वसंख्यायाः अन्वयासंभवात्नहि घटत्वेन घटत्वस्यैव विशेष्यत्वमभ्युपगम्यते । एतेनतृतीयकल्पोपिनिरस्तः । अंशे पौनरुक्यान् अंशान्तरे चान्वयायोग्यत्वात् । अतःन पंचविम्शतितत्वप्रतिपत्तिर्युक्तेति । ननु प्रमाणसिद्धानां द्वेशतेत्रिणि शतानीत्यादि प्रयोगाणामुपपत्तिः कथम् । शतानीत्यनेन बोधितानांबहूनां पुरुषाणां द्वित्वादि बाधात्, यदि चैकग्रामस्थित्याद्युपाधिनाशतसंख्यपुरुषसमूहस्यैक्यं विवक्षित्वा द्वे शते इत्यादि प्रयोगस्योपपत्तिःक्रियते तर्ह्यत्रापि तथैव विवक्षया पंच पञ्चजनाः इत्यस्योपपत्तिःक्रियते इत्याशायेन पृच्छति - कथमितितथा विवक्षायाः प्रकृतेऽसंभवं मन्वानः समाधत्ते - पञ्चभिरिति ।असंभवमेवोपपादयति - नहीति । एकोपाधिगृहीतत्वं हि समूहत्वं, नह्यत्रप्रत्येकमनुगतोपाधिः कश्चिदस्ति । अतः एकैकस्यपि समूहस्य तत्तदुपाधिनानुगतत्वकरणंन संभवतीति भावः । अवशिष्टनि पच्चेति । उक्ततत्व विलक्षणत्वेन प्रकृतिमहदहंकारात्ममनसामनुगतत्वसंभवः इति भावः । आकाशस्येति ।आकाशश्चेति पृथगुक्तत्वेन महाभूतचतुर्णां पञ्चजनाः इत्यनेन ग्रहणासंभवात्पंचत्व संख्या विशिष्ट भूतसमूहस्यैव पञ्चजनशब्दग्राह्यत्वादितिभावः । एतेनात्मनः आकाशस्यच पृथक् निर्दिष्टत्वात् तौ विहायावशिष्टपञ्चविंशतितत्वेषु पंच सु पञ्चसु अनुगतोपाध्यभावेन समूहत्वं न संभवतीति चसूचितम् । सत्वरजस्तमसां द्रव्यत्वमभ्युपगम्य सप्तविंशतितत्वप्रतिपादनमप्यविरुद्धमित्येतदपिन युक्तम् । तेषां गुणत्वेन श्रुतिस्मृतिप्रसिद्धेः । तथैवोत्तरत्रस्थापायिष्यमाणत्वाच्च । एवं “सात्विको राजसश्चैव तामसश्चेति योमहान् । त्रिविधो़यमहंकारो महत्तत्वादजायत इति महदहंकारयोः त्रिविधत्वा वगत्या तत्वानामेकत्रिंशत्संख्यत्वंत्रित्रिंशत्संख्यत्वमेव वा प्रसज्यत इति न पंचविशतितत्व प्रतिपादनपरस्यसप्तविंशतित्व प्रतिपादनपरस्यवास्य मन्त्रस्य न तन्त्रसिद्धतत्वप्रतिपादनसंभवः । महत्त्वेनाहंकारत्वेनच क्रोडीकृत्य तत्त्वपरिगणने प्रकृतित्वेन"सदेव एकमसीदि"ति प्रमाणानुसारेण सत्वरजस्तमसां परिगणसंभवात् तत्वानांपञ्चविंशतिसंख्यत्वसिध्या, यस्मिन् आकाशश्च इत्यधिकतत्त्वद्वय बोधकस्यन पञ्चविंशतितत्व प्रतिपादन परत्वमिति । एवं जीवात्मनि जीवस्य प्रतिष्टितत्वकथनमप्यसंभवादयुक्तंस्वेमहिम्नीत्यादाविवोपपत्तिरिति चेत् ना तत्र स्ववाचिपदश्रवणेनतथोपपत्ति संभवेऽपि अत्र तदभावेन तथोपपत्तिकल्पनायोगात् । एवमाकाशस्यादरातिशयेनपुनरुक्त तेत्यप्य युक्तम् । तस्यापि कारण भूतानां महदादीनां ततोपिवैपुल्यसत्वेन तदनादरेण एतन्मात्रादरणे बीजाभावादित्यपि दूषणमत्रानुसन्धेयम्।। (लिंगव्यत्ययश्चेति) संभवन्त्यां गतौ छान्दसत्वात्रयणं न मनोरममित्याशयःननु पञ्चजना इत्येतत्समस्तं पदम् । समासश्च पदद्वयाद्यवगतार्थयोस्सामर्थ्येसति पदद्वयस्य भवति । अत्रच पञ्च शब्दस्य यद्यर्थवत्वं तर्हि जनस्यपञ्चसंख्यया विशेषितत्वात् पुनः पञ्चेति सख्ययाविशेषणमयुक्तंविशिष्टं प्रति विशेषणत्ववादस्तु पूर्वदयुक्तः, यदित्वर्थवत्वाभावःतर्हि सामर्थ्याभावेन समास एवायुक्तः इति शंकां परिहर्तुं सप्तसप्तर्षयः इति दृष्टान्तानुकीर्तनम् । ननु दृष्टान्ते एव कागतिःशृणु - यद्यपि सप्तर्षयः इत्यत्र समाससाधुता संपादनाय तद्धटकसप्तपदस्यार्थवत्वमितिअथापि तत्पद बोध्या संख्या न विशेषणीभूता । परं तु शाखावत् संज्ञिप्रतिपत्यर्थंतदुपलक्षणभूता । न हि ऋषिरित्युक्ते सप्तर्षिमध्यगतस्य कस्यचित्नियमेन प्रतिपत्तिर्जायते । सप्तर्षिशब्दकीर्तने तु नियता । इतरसप्त शब्द बोध्या संख्या तु विशेषणभूतातस्मात् गौर्गच्छतीत्यादौ गच्छतीति गौरिति व्युत्पत्त्यैव गमनस्यलाभेन गच्छतीति पुनरुक्तं, गौस्तिष्ठतीत्यादौ अवयवार्थोपस्थापितेनगमनेन तिष्टतीत्यस्य व्याघतश्चेति दूषणं, गमनस्य तटस्थत्वादविविक्षितत्वाच्चन संभवतीति यथा परिह्वियते, तथैवात्रापि सप्तशब्दबोधितसंख्यायाःसंज्ञि प्रतिपत्यर्थत्वेनोपलक्षणत्वात् समासेऽवयवार्थस्याविवक्षितत्वाच्चन पुनरुक्तता । नापि समासव्याघातः । विग्रहवाक्येऽर्थाभिधानाभ्युपगमादेव सामर्थ्य सिद्धेः एवमेव पञ्च पञ्चजना इत्यत्रापि, “अत्रसप्तजना नाम मुनयः संशितव्रताः । सप्तैवासन्” इति च रामायणेसप्तविंशतिः तत्वानि । तत्र प्रकृतिरपि घटकभूता । सा तु सत्त्वरजस्तमोरूपतत्वत्रयात्मिकाअतः तत्वद्वयं अधिकम् । अतः सप्तविंशतिः । आकाशस्य आत्मनश्च पृथगुक्त्याअव शिष्ट तत्वानां पंचविंशतित्वम् । एवं पंचविंशति तत्वानां आत्मनिप्रतिष्टितत्व बोधनं आत्मतदितरतत्वविषयक ज्ञान संपादनतात्पर्यकम्व्यक्ताव्यक्तज्ञ विज्ञानात् मोक्षफल सिद्धिरिति हितन्मते । व्यावर्त्याचेतनज्ञानंस्वात्मज्ञानं चावश्यकमिति अनया श्रुत्या बोध्यते इति पूर्वपक्ष्यभिप्रायःसिद्धान्तिनस्तु - ब्रह्म - भूताकाशरूपतत्वद्वयव्यतिरिक्तपंचविंशतिबोधकत्वमत्र । अतः सप्तविंशतितत्त्व सिद्धिः । अथवा आकाशः परमाकाशरूपनित्यविभूतिपरः । तथा च उभयविभूतिप्रतिष्टाभूतं ब्रह्म इति अनया श्रुत्या बोध्यते ।।

प्राणस्येति । एवद्वाक्यशेषार्थः उपरिष्टात् स्वयमेव विवरिष्यते ।ब्रह्माश्रयाः इति यस्मिन्निति निर्देशार्थकथनम् । ननु पूर्वोत्तरमीमासयोरैकशास्त्र्याभ्युगमात् भाष्यकृतैव क्वचित् पूर्वमीमांसाधिकरणेनचरितार्थत्वमाशंक्य निराकरणाच्चात्र तद्बोधनाय सूत्रप्रणयनं निष्फलमितिचेन्न । पूर्वत्र वाक्यशेषेण सन्देहनिरासस्य कर्तव्यत्व सिद्धावपि,वाक्यशेषस्य तेजो वैघृतमित्यस्येव निर्णीतार्थकत्वाभावे तेन संशयनिरासःअनुपपन्नः, अत्र च प्राणस्येति वाक्यशेषो न निर्णीतार्थकः प्राणान्नयोरिन्द्रियवाचित्वाभावात्मुख्यप्राणपरत्वमभ्युपगम्यैव पञ्चजनशब्दार्थनिर्णयोऽप्यसंभवी । प्राणादिपञ्चसुसंख्या निवेशनिमित्तैकोध्याभावात् ।अतो वाक्यशेषस्य सन्दिग्धत्वात् अनेन सन्देहनिरासासंभवात् वाक्यशेषस्यार्थनिर्णयार्थमिदंसूत्रमावश्यकमेव । ननु तर्हि वाक्यशेषस्यार्थो ह्यत्रवक्तव्यः नतुवाक्यशेषेण पञ्चजनशब्दार्थः इति चेत् । वाक्यशेषार्थनिर्णये एवसूत्रातात्पर्यात् । अयमाशयः अन्यपरयोःद्वयोरेव प्राणान्न शब्दयोःश्रवणात् इन्द्रियपराणां चक्षुः श्रोत्रमनश्शब्दानां त्रयाणां श्रवणाच्चअग्र्यप्रायन्यायेन प्राणान्नशब्दयोरपि इन्द्रियपरत्वाभ्युपगमएवोचित इति ।

उत्तरसूत्रमवतारयति - अथ स्यादिति । अयमाशयः - उक्तं प्राणादीनां वाक्यशेषबलात्पंचजनत्व मयुक्तम् । मन्त्रवाक्यशेषयोः पाठद्वयसमानत्वेऽपि काण्ववाक्यशेषेअन्नपाठादर्शनात् चतुर्णामेव पञ्चजनत्व प्रतीतिरिति तेषां मन्त्रेपञ्चजनशब्देन प्राणादीनां विवक्षितत्वे तत्र पञ्चत्वसंख्यान्वयोन संभवति । नच सर्वशाखाप्रत्ययन्यायेन माध्यंदिनपाठ पठितस्यान्नपाठस्यकाण्वपाठेऽप्युपजीव्यत्व संभवेन नानुपपत्तिरिति वाच्यम् । अग्त्र्यप्रायन्यायेनकाण्वानां वाक्यशेषे, प्राणशब्दस्येन्द्रियपरत्वेऽस्वारस्यात् प्रमाणाभावात्उपक्रमस्थत्वेनान्यथानयनासंभवाच्च इन्द्रिपरत्वनिश्चयासंभवेन अनुक्तेन्द्रियग्रहणाय माध्यन्द्रिनपाठोपजीव्यत्वासंभवात्अस्तुवोक्तयुक्तिभिःमाध्यन्दिन पाठपठितवाक्यशेषस्यापीन्द्रिय परत्वनिश्चयाभावेनोभयोर्वोक्यशेषयो रैकार्थ्यात् सर्वशाखा प्रत्ययन्यायेन अनुक्तान्नस्योपजीव्यत्वम्अथापि प्राणादीनामिन्द्रियपरत्वाभावेन प्रणादिपंचसु पंचसंख्यानिवेशनिमित्तोपाध्यभावेनपंचसंख्यानिवेशासंभवात् प्राणादीनां पञ्चजनत्वनिश्चयानुपपत्तिस्तदवस्थैवइति ।।अत्र सूत्रस्थ ज्योतिषेत्यतत् “तं देवाः ज्योतिषां “इत्यत्रोक्तषष्ट्यन्तज्योतिश्शब्देनेत्यर्थकम् । भाष्येपि” तथैव । ननु षष्ट्यन्त ज्योतिश्शब्देनपञ्चजनानामिन्द्रियत्वसिध्या मन्त्रे पञ्च संख्याकेन्द्रिय बोधनेऽपिवाक्यशेषे चतुष्ठयकीर्तनमनुपपन्नं स्यात् - तत्राह - तेषामिति वाक्यशेषगतप्राणादिकमन्नस्याप्युपलक्षकमिति भावः । ननु षष्ट्यन्तज्योतिश्शब्देनकथं पञ्च जनानामिन्द्रियत्वनिश्यचः? ज्योतिशब्दस्योन्द्रियार्थत्वादितिचेत् तदेव कथं? इन्द्रियवाचित्वेऽपि कथं तस्य पञ्चजनानामिन्द्रियत्वावगमकत्वमित्यत्राभिप्रायं विवृणोति - एतदुक्तमितिपूर्वस्मिन्मन्त्र इति । अनेनेन्द्रियवाचिज्योतिश्शब्दानुरोधेनपञ्चजनशब्दरर्थ वर्णने औचित्यं सूचितम् । ब्रह्माधीनस्वकार्याणीतिप्राणस्यप्राणमिति वाक्यशेषार्थ सूचनम् । अनेन प्राणस्य प्राणमितिवाक्यशेषस्य ज्योतिषां ज्योतिरित्यस्य चैकार्थ्यं दर्शितम् । प्रकाशकानीत्यनेनज्योतिषामित्यस्य प्रकाशकानामित्यर्थो दर्शितः । अनेन कर्मेन्द्रियाणिच व्यावृत्तानि । अनिर्धारित विशेषनिर्देशेनेत्यनेन ज्योतिषामित्यस्येन्द्रियपरत्वेवाक्यान्तरसापेक्षत्व मुक्तम् । अत्रेन्द्रियाणां प्रकाशकत्वोक्तिःज्ञानोत्पत्ति हेतुत्व मपेक्ष्यज्ञानस्यैव प्रकाशकत्वस्य जिज्ञासाधिकरणे भाषितत्वात् ।।अयमाशयः ज्योतिषामित्युक्तज्योतींषि आदित्यादिरूपाणि न वेति संशये,ज्योतिषामिति षष्ट्यन्ततयोक्तस्य चक्षुषः श्रोत्रस्य मनसः इति षट्यन्ततयानिर्देशेन प्रत्यभिज्ञायमानत्वात् ऐकार्थ्याव गमात् प्राणस्येत्यादेश्चयस्मिन्निति मन्त्रवाक्यशेषत्वाच्च पञ्चजनशब्दनिर्दिष्ठानां ज्योतिषामितिनिर्दिष्ठानां चैकार्थ्यसिध्या पञ्चजनशब्दनिर्दिष्ठानां पञ्चत्वसंख्ययाविशेषितत्वात् पंञ्चसंख्याकज्योतिस्सिध्या आदित्यादिज्योतिषां पंचत्वसंख्ययाविशेषणासंभवात् प्रकाशकानि पञ्च ज्ञानेन्द्रियाण्येवेति न प्रसिद्धादित्यादिज्योतींषीतिनिर्णीयतेअतः षष्ट्यन्तज्योतिश् शब्दस्येन्द्रियार्थकत्वेन काण्वानां वाक्यशेषेअन्नपाठाभावेपि पञ्चजनशब्दनिर्दिष्टनीन्द्रियाणीति शक्यं ज्ञातुमितिअअत्र ज्योतिषामित्यस्येन्द्रियपरत्वं संख्येयविशेषोपस्थापकवाक्यान्तरसापेक्षम्पञ्चजन शब्दस्येन्द्रियपरत्वंच ज्योतिषां ज्योतिरि वाक्यसापेक्षमितिमिथः - संश्रयापादनं न युक्तम् । ज्योतिषामित्यस्येन्द्रियपरत्वेपञ्चत्वसंख्यविशेषितत्वस्यैव हेतुत्वात् पञ्चजनशब्दस्येन्द्रियपरत्वेषष्ट्यन्त ज्योतिश्शब्दस्य हेतुत्वात् । वाक्यशेषस्येन्द्रियपरत्वनिश्चयस्तुज्योतिषां ज्योतिरिति वाक्यसापेक्षः इति ध्येयम्केचितु सूत्रस्थज्योतिषेत्यस्य ज्योतिषां ज्योतिरिति द्वितीयान्तज्योतिशब्दवाच्यब्रह्मणाइत्यर्थ माहुः । तच्च न युक्तम् । तथासतिशाखाद्वयगतस्य यस्मिन्निति मन्त्रस्यार्थ भेदप्रसक्या अस्वारस्यात्माध्यन्दिनपाठपठित पञ्चजनशब्दस्यान्नपञ्चमपदार्थपरत्वं काण्वपाठपठितपञ्चजनशब्दस्य ब्रह्मपञ्चमपदार्थ परत्वं इत्यंगीकारात् । अपिच काण्व मन्त्रे पञ्चजननिर्दिष्ट ब्रह्मण एव यस्मिन्नितिनिर्दिष्ट ब्रह्माधारत्व प्रसक्तिः । न चस्वे महिम्नीत्यादाविव निर्वाहः शक्यः । तस्य चागतिकविषयत्वात् ।पूर्वोक्तयुक्त्या मुख्यार्थे संभवति “यस्मिन् प्रतिष्ठित” इत्यनयोःअमुख्यार्थत्व कल्पनायोगात्तस्मात् यस्मिन्निति ब्रह्मणो निर्दिष्टत्वात् तदाधारकतया स्वरसतःप्रतीयमानं पञ्चजनशब्दनिर्दिष्टं ब्रह्मव्यतिरिक्तमेवेति न ब्रह्मपञ्चमस्यप्राणादिचतुष्टयस्य पञ्चजनशब्द वाच्यत्वम् । अतः द्वितीयान्तज्योतिशब्दवाच्येन पञ्चजन शब्दार्थ निर्णयोऽयुक्त एवेति ।।ज्योतिषां ज्योतिरित्युपक्रमवाक्येन वाक्यशेषस्यार्थमाह - प्राणस्येतिवायुसंबन्धित्वं वाय्वाप्यायितत्वम् । ज्योतिश्शब्देन= षष्ट्यन्तज्योतिशब्देन । मुख्यप्राणस्य प्रकाशकत्वासंभावादिति भावः । अन्नशब्देऽप्यंन्यायो योज्यः । चक्षुष इति - अत्र प्रसिद्धार्थचक्षुरादि पदव्याख्यानंषष्ट्यन्तज्योतिश्शब्दनिर्दिष्टा एव ऐकैकशः षष्ट्यन्तपदैरेवोच्यते,इति ज्ञापनाय । तेनच प्राणशब्दस्योपक्रमस्थत्वेपि पदत्रयानुगुणमेवार्थोवर्णनीय इति सूच्यते । तस्याप्युपक्रमे ज्योतिषां ज्योतिरित्यनेनप्राणीदीनामिन्द्रियपरत्वविश्चयेनैतद्वाक्योपक्रमस्थत्वमकिंचित्कारम्अतः अग्र्यप्रायन्यायेन प्राणादीनामिन्द्रियपरत्वाभ्युपगमोऽवश्यकएवेति । रसनेन्द्रियमपि गृह्यत इति । प्राण शब्दस्य प्राणसंबन्धिलक्षकत्ववत्अन्नशब्दस्यापि अन्नसंबन्धिवस्तुलक्षकत्वमिति अन्नशब्देनो भयोपादानमितिभावः । नन्विन्द्रियाणि पञ्चैकं च मन इति वाक्यशेषे प्रतिपाद्यते,तथा च कथं पञ्चत्वमित्यत्राह - प्राणेति । निर्देश्यापेक्षया न पञ्चत्वं,परंतु निर्देशापेक्षयेति भावः । ननु निर्देश्य पञ्चत्व संख्याऽविरोधायैवान्नशब्देन घ्राणरसनयोरन्यतर देवोपादीयता मित्यत्राह - प्रकाशकानीति ।अयं भावः ज्योतिश्शब्देन प्रकाशकवस्तुबोधनात् ध्राणरसनयोरपि प्रकाशकत्वाविशेषात्इन्द्रियाणांच पञ्चत्वसंख्यया विशेषितत्वाच्चोभयोपपत्त्यर्थंतन्त्रेणोपादानमभ्युपगम्यत इति ।अतः द्वादशमासाः पञ्चर्तवः इत्यत्र ऋतुषट्के सत्यपि हेमन्तशिशिरसमुदायगतैकत्व विवक्षया पञ्च संख्या व्यपदेशवत् इहाप्यवयवगत द्वित्वानादरेणप्राणरसनासमुदायगतैकत्वविवक्षया तथा व्यपदेश इति न विरुद्धः इतिपंचजन शब्दः कर्मेन्द्रियस्याप्युपलक्षकः इत्यभिप्रायेण पञ्चजनशब्दनिर्दिष्टानिइन्द्रियाणीति सामान्यतो भाषितम् । ननु कथं कर्मेन्द्रियोपलक्षकत्वं,तथा सतिहि पञ्चत्वसंख्याविरोधस्स्यात् । संख्ययाविशेषितत्वेतूपलक्षकत्वंकथंचिद्युज्येत इति चेन्न, अत्र नेन्द्रिय सामान्यस्य पञ्चत्वमुक्तंज्ञानेन्द्रियस्यैव तच्छब्दवाच्यत्वात्अतोऽत्र पञ्चज्ञानेन्द्रियोपादानं कर्मेन्द्रियस्याप्युपलक्षकमितिन विरोध इति । आकाशशब्दः महाभूत तन्मात्रोपक्षकः इत्याशयेनोक्तंमहाभूतानीति । कललदधि नयादेव तन्मात्राभूतभेदात् न तन्मात्राणांपृथगुक्तिः । यद्वा भाष्यस्थ महाभूतशब्दः तत्मात्रोपलक्षकः इतिनन्वत्र प्राणान्नशब्दयोरिन्द्रियपरत्वोपपादनमेवापेक्षितम् ।तेनचात्र अग्रयप्रायन्यायात् वाक्यशेषद्वयस्यैकार्थ्यसिध्या अन्नपाठाभावेपिसर्वशाखा प्रत्ययन्यायेन सिद्धेरिति चेत् सत्यम् । अथापि शाखान्तरीयवाक्यस्यानुपजीवनेऽपिस्वप्रकरणपठितवाक्यादप्यर्थ निर्णयः सुकरः इत्येतदर्थ मेवमुपन्यासःउपसंहरति - अतः इति । सूत्रस्थापिशब्दमुपजीव्य तदभावे इत्युक्तम्इति संख्योपसंग्रहाधिकरणम् ।।