(1.04.2) चमसाधिकरणम्अत्रापीति । पूर्वाधिकरणे रूपक प्रकरणस्थशरीरशब्दमुपजीव्यपारिशेष्यन्यायात् महतः परममव्यक्तमित्यत्राव्यक्त शब्दस्य शरीरपरत्वसिध्यास्वतन्त्र प्रधानपरत्वं निराकृतम् । अत्राजामन्त्रे तथाविधप्रमाणाभावेनस्वतन्त्रप्रधानपरत्व मेवास्तु इत्याक्षेपेणोत्तराधिकरणप्रवृत्तिरितिसंगतिः । “तदधीनत्वादर्थवत्’ इति सूत्रं मनसि निधायाह - न ब्रह्मात्मकानामितिनिरस्यत इति संबध्यते । कुतः स्वरूपस्यैव न निरासः इत्यत्राह - श्रुतीतितत्प्रतिपादनमेवोपपादयति - यथेति । विकारजननीं = महदादिविकारजननीम्अष्टरूपां =पञ्चभूत मनोबुध्यहंकाररूपांअजां=उत्पत्तिशून्याम् । ध्रुवां=नाशरहिताम् । ध्यायते=परमात्मसंकल्परूपज्ञानेन विषयीक्रियते । तेनाध्यासिता=परमात्मनाऽधिष्ठिता । तन्यते=तनुविस्तारे । स्थूलावस्थं क्रियते । समष्टिस्वरूपेण क्रियते । प्रेर्यते=सृष्ट्यर्थंप्रेर्यते । पुरुषार्थं=पुरुषैरर्थनीयम् । जगत्=भोग्यभोगस्थान भोगोपकरणरूपं जगत् । जनित्री=व्यष्टिजननी । भूतभाविनी=समष्टितत्वजननीसिताऽसिता रक्ताच=सत्त्वरजस्तमोमयी । तेजोजलपृथिवीद्वारा सितासितरक्तवर्णासर्वकामदुघा=लीलारसदोग्घ्री । विभो= ब्रह्मणः । भोक्तृगतकर्मानुगुणपरिणामित्वादविषमात्वंअविज्ञाताः=देहविलक्षणत्वेन विविच्य आत्मज्ञानशून्याः । एकत्वोक्त्याजीवव्यावृत्तिः । स्वच्छब्दः अकर्मवश्यः । वशानुगां=स्वसंकल्पानुवर्तिनीम्ध्यानं=संकल्पः । क्रिया=सृष्ट्यादिव्यापारः । पीड्यमानां=कर्मवश्यजीवभोक्तव्यफलानुगुणंपरिणममानाम् । आदिशब्देन महदादिग्रहणम् । ननु “तेनाध्यासिता अधिष्टिता’इत्यादिभिरधिष्ठान कर्तृत्वेनोक्तः जीव एव स्यात् स्वच्छब्दः इत्यादिकमपिजीव एव कथंचिदुपपादायितुं शक्यं अतिरिक्तस्य ब्रह्मणः अभावात् - तत्राह - यदात्मकाश्चेतितं षड्विंशकमिति । अयं भावः - अस्यामेव मन्त्रिकोपनिषदि पंचविशपुरुषातिरिक्तषड्विंशकतत्त्व प्रतिपादनेन परमपुरुषस्य सिध्या मुख्यतया प्रकृत्याद्यथिष्ठानकर्तृत्वं विज्ञायतेनह्यस्यापि जीवपरत्वं तस्य षड्विशकत्वा भावादिति । नहि पंचविंशेश्वरलब्धैश्वर्यशालिनो जीवस्यैवेविद्योप देशः । तथा सति संख्यायाः पृथङ् निर्देशानुपपत्तेःअत्रातिरिक्तकालतत्वस्य विशेषणतया प्रकृत्यादिष्वन्तर्भावविवक्षयापरस्य षड्विशकत्वमुक्तम् । अनन्तर्भावविवक्षयां तु सप्तविंशत्वम्प्रकृत्यादितत्वाभ्युपगमे प्रमाणान्तरमाह - अपरेचेति । अत्रैतद्वाक्योपादानंतु ब्रह्मणोत्रानिर्देशोपि पूर्वोदाहृत श्रुत्यैकार्थ्यात् ब्रह्मात्मकत्वसिद्धिर्भवतीति बोधनाय । कथं चिदप्यन्यथा सिध्यनर्हतत्त्वत्रय बोधकंवाक्यमाह - संयुक्तमिति । त्रयमिति । एतत्त्रयं यत्रविन्दते=जानातितदा ब्रह्म प्राप्नोतीत्यर्थः । अभिध्यानं अभ्यासरूप - मालम्बन संशीलनम्योजनं =योगः तत्त्वभावः= तत्वस्याविर्भावः= साक्षात्कारः। सन्ततस्मृतेरेवमुक्त्युपायत्वेन तदाधिक्यतात्पर्यकः भूयश्शब्दः । आत्यन्तिक सर्वकर्मोच्छेदमभिप्रेत्य’विश्वमायानिवृत्तिरित्युक्तंछन्दांसीति । वेदप्रतिपाद्यं छन्दप्रभृतिकं यत् तत्सर्वं अस्मात्प्रधानात्मायी सर्वेश्वरः सृजतीत्यर्थः । अवयवभूतैरिति । अवयवः अंशः । शरीरभूतैरित्यर्थःसंसारस्य मोक्षस्थिति बन्धानां हेतुरित्यर्थः । षष्टी संबन्धसामान्ये।।प्रकृतिमिति । यद्यपि प्रकृतिपुरुषयोः उभयोरन्योन्यसंसृष्टत्वस्यानादित्वबोधनंबन्धहेतुभूतेच्छाद्वेषविकारादीनां मोक्षहेतुभूतानाममानित्वादिगुणानांच प्रकृतिसंभवत्वबोधनं चानेन क्रियते । अथापि प्रकृति पुरुषयोस्सद्भावस्यप्रकृतेः कारणत्वस्य चानेन सिध्यवश्यंभावादत्रानुकीर्तनम् । प्रधानाद्यभ्युपगमस्यप्रधानस्य कारणत्वाभ्युपगस्यैव हि प्रकृतोपयुक्तत्वम् । एवमुत्तरत्रापिबोध्यम् । कार्यं=शरीरम् । करणानि=समनस्कानीन्द्रियाणि । तेषांक्रियाकारित्वे पुरुषाधिष्टिता प्रकृतिः हेतुरित्यर्थः । पुरुषः=प्रकृतिसंसृष्टः पुरुषःसुखदुःखानां भोक्तृत्वे हेतुः=सुख दुःखानुभवाश्रयः । पुरुषः इतिस्वतः स्वानुभवैकसुखः पुरुषः प्रकृतिसंसृष्टः प्रकृतिसंसर्गोपाधिकान्सत्वादिगुणकार्यभूतान् अनुभवति । पुरुषस्य प्रकृतिसंसर्गे हेतुःक इत्यत्राह - कारणमिति । पूर्वपूर्व प्रकृति परिणामरूप देवमनुष्यादियोनिषुस्थितः, पुरुषः तद्योनिप्रयुक्तसत्वादिगुणकार्यभूतसुखदुःखानुभवासक्त्यातत्साधनभूत पुण्यपापकर्मानुष्ठाने सति तज्जन्यफलानुभवाय साध्वसाधुषुयोनिषुजायते । ततश्च कर्म करोति पुनश्च जायते । ततश्च - पूर्व पूर्व देहसंबन्ध प्रयुक्तगुणसंगात् कर्मानुष्ठानं ततो योनिविशेषप्राप्तिःततश्चगुणसंगः ततः कर्म,पुनः योनिप्राप्तिरित्येवं गुणसंग एव परंपरयापुरुषस्यप्रकृतिसंसर्गे हेतुरित्यर्थःसत्वमित्यादिना योनिविशेषेषु जातानां पुनःपुनः तत्रैव जन्महेतुकथनम्प्रकृतिसंभवाः - प्रकृतेः स्वरूपानुबन्धिनः । तेषां स्वरूपनिरूपकधर्मत्वेनकदाचिदपि धर्मिपरित्यागाभावात् । तेषां संभवत्वकथनं कार्यदशायांविषमतयोद्भवमात्रमभिसन्धाय ।। एवं प्रकृत्यादीनां तत्ब्रह्मात्मकत्वस्यचप्रमाणप्रतिपन्नत्वात्तन्निरासो न युक्त इति आवश्यकतत्प्रसिद्धायथास्थितप्रक्रियानिरासःक्रियत इत्याह - तस्मादिति ।।सांख्यैः ब्रह्माभ्युपगमेपि प्रधानस्य तदात्मकत्वं तु न स्वीक्रियतेइति शंकापरिहाराय केवलेति शिरोनिधानम् । केवला=स्वतन्त्रा । तन्मतप्रत्यभिज्ञापनायतन्त्रसिद्धत्वोक्तिः । अकार्यत्वश्रवणादिति । कार्यत्वेहि कारणात्मकत्वापत्त्याकारणीभूतब्रह्मात्मकत्वसिद्धिः । अस्याश्चाकार्यत्वोक्त्या स्वतन्त्रत्वम्ब्रह्मात्मकत्वस्याकार्यत्वस्य च विरोधादित्याशयः । सृजमानामित्यत्रकर्तर्यर्थकशानच्श्रवणेन स्वतन्त्रत्वसिद्धिरित्याशयेनाह - स्वातन्त्र्येणेतिब्रह्माधीनसृष्टत्वेहि ब्रह्मपरन्त्रत्वं कथंचिदापद्येत । नहिसृष्टौकारयितृत्वमस्याः श्रुतंप्रप्युत स्वतन्त्रकतृत्वमेव श्रूयते इति भावः ।।विशेषाप्रतीतेरिति अनेनाविशेषादिति पदं व्याख्यातम् ।ब्रह्मात्मकाजाग्रहणेपिबाधकाभावादितिभावः। न चाजात्वस्य तद्बाधकत्वं तस्योत्तरत्र परिहरिष्यमाणत्वात्नच विनिगमनाविरहः - विशेषहेतोश्चवक्ष्यमाणत्वादिति । अत्र चमसस्यान्वयदृष्टान्तत्वं व्यतिरेकदृष्टान्तत्वं च सुगमम् । पूर्वत्र, यथा"अर्वाग्बिलश्चमसः ऊर्ध्वबुध्नः” इत्येतन्मात्रश्रवणेन शिरसः चमसत्वनिश्चयासंभवात्चमसविशेषप्रतीतिर्न संभवति । एवं अजेत्येतावन्मात्रेण ना ब्रह्मात्मकाजारूपविशेषप्रतीतिर्युक्तेति तात्पर्यम् । द्वितीयेतु, यथा यौगिकचमसशब्दस्य"इदं तच्छिरः” इति वाक्यशेषेणार्थविशेषनिश्चयः तद्वदत्र यौगिकाजाशब्दस्यअब्रह्मात्मकत्वगमकवाक्यशेषाद्यभावात् नाब्रह्मात्मकाजारूपार्थविशेषनिश्चयोयुक्तइति तात्पर्यंभाष्यग्रन्थस्तु उभयानुगुणः । भक्षणसाधनत्वमात्रमिति । चम्यतेऽनेनेतिव्युत्पत्येति शेषः । यौगिकशब्दानामिति । उभयसाधारणमवयवार्थं बोधयतामित्यादिःअन्यथा बलभिदादिशब्देष्वपि प्रमाणान्तरापेक्षापत्तेः । अर्थः=वस्तुसामर्थ्यम्प्रकरणं प्रसिद्धम् । आदिशब्देन स्ववाक्यस्थ विशेषशब्दादीनांग्रहणम्।। दृष्टान्ते इवात्रापि अर्थविशेषनिश्चायकाधीनैव विशेषप्रतीतिर्वक्तव्येत्याह - तथाऽत्रापीतिनिश्चायकं नास्तीत्याह - नचात्रेति । सृष्ट्टत्वमात्रप्रतीतेरिति।।नच कर्तरि विहित शानच्प्रत्ययबलेन स्वातन्त्रयेण सृष्ट्टत्वप्रतीतिःशंक्या । प्रत्ययवाच्यस्य स्व व्यापाराश्रयत्वरूपस्वातन्त्र्यस्यपरप्रेर्यत्वेपि क्षतिविरहात् । कथमन्यथा रथोगच्छतीत्यादौ प्रत्ययवाच्यस्य स्वातन्त्र्यस्योपपत्तिः । स्वातन्त्र्यस्यापरप्रेर्यतारूपत्वे तत्प्रयोगोपपत्त्यसंभवात् ।। अस्तुवा तादृशं स्वातन्त्रयं,अथापि प्रमाणबलेन प्रकृतेः ब्रह्मात्मकत्वसिद्धौ अजाशब्देन प्रकृतिशरीरकब्रह्म बोधनेन उक्तस्वातन्त्र्यस्य प्रकृतिमात्राश्रयत्वे निश्चायकाभावात्विशिष्टब्रह्मगतत्वसंभवात् तस्यच ब्रह्मात्मकत्वाविरोधित्वात्
अथाजाशब्देन सामान्यतः अजामात्रबोधनसंभवेपि तस्याः ब्रह्मात्मकत्वेकिं विनिगमकम् । यावता ब्रह्मात्मकत्वे विशेषणहेतुर्न दृश्यते तावतास्वरसतः प्रतीयमानाब्रह्मात्मकत्व संशयानपायादित्याशंकापरिहारपरमुत्तरसूत्रमित्याशयेनावतारयति - ब्रह्मात्मकेति । पूर्व सूत्रे एव पूर्वपक्षस्य निरस्तप्रायत्वात् पक्ष व्यावर्तकत्वं तुशब्दस्यास्वरसमितिमत्वाप्रकृतोपयुक्तमर्थान्तरमाह - तुशब्द इति । उक्त शंकायाः समूलव्यवच्छेदनायावधारणार्थेतात्पर्यमिति भावः । ब्रह्मात्मकत्वमेवेत्युक्तेहि कदाचिदपि अब्रह्मात्मकत्वसंशयनोदेति । एतदाशयेनैव ज्योतिरुपक्रमैवैषाऽजा इत्युक्तम् । ब्रह्माभिधायेति ।पूर्ववाक्ये ब्रह्मणः प्रस्तुतत्वात्तदात्मकत्वकल्पन मुचितमित्यनेन सूचितम् । नन्वस्या उत्पत्तिः नकण्ठोक्ता नाप्येतत्प्रकरणे अन्येषां ब्रह्मणः उत्पत्तिः । येनतत्प्रकरणस्थत्वेनास्या अप्युत्पत्त्यभ्युपगः तत्प्रयुक्ततदात्मकत्वसिद्धिश्चयुज्येत इत्यत्राह - सप्त प्राणाः इति । नन्वस्याः उत्पत्ति प्रकरणस्थत्वेपिकथं उत्पत्तिसिद्धिः कतंतरांच ब्रह्मात्मकत्वसिद्धिः, वस्तुतःपूर्वमेवसृष्टिप्रकरणविच्छेदात् न सृष्टि प्रकरणस्थत्वमपि, अत एव हि “जहात्येनांभुक्तभोगामजोऽन्यः इत्यसंभावितोत्पत्तिकस्य मुक्तस्य प्रस्तुतत्वोपपत्तिरित्यत्रसूत्रतात्पर्यमाह - सर्वस्येतितदात्मकत्वोपदेशे प्रक्रियमाणेऽभिघीयमानत्वादिति । अयमाशयः इडोयजतीत्यादिस्थलेषु कण्ठतः अंगत्वानुक्तावपि दर्शपूर्णमासाभ्यामित्यादिप्रकरणस्थत्वमात्रमुपजीव्ययथा अंगत्वं निश्चुनुमः तथैवात्रापि उत्पत्तिप्रकरणस्थत्वात् ततःउत्पत्तिः तदात्मकत्वंचेति ।बह्वीनां सरूपाणां प्रजानां स्रष्ट्रीति । अनेन सृष्टि प्रकरणविच्छेदोऽपिनास्तीति सूचितम् । “यस्माज्जाता न परा नैव किंचने"त्युत्तरत्रापिसृष्टेरभिधीयमानत्वेन प्रकरणाविच्छेदः इत्यपि विवक्षितम् । कर्मवश्येनेत्यादिकंमुक्तसंकीर्तनस्योपपत्ति सूचकम् । यथा च बद्धकीर्तनं न प्रकरणविच्छेदकंएतद्विशेषणत्वेन प्रतिपाद्यमानत्वात् । तथैव मुक्तकीर्तनमपीति भावःपूर्वसूत्रे चमसस्य दृष्टान्तत्व कीर्तन फलमनुस्मरन् सूत्रार्थंनिगमयति अतःइति । एवं तैत्तिरीयशारवागतं सरूपं एतदर्थप्रत्यभिज्ञापकंवाक्य मुदादृत्य ब्रह्मात्मकत्वं स्थापितम्अथ स्वप्रकरणपर्यालोचनेपि ब्रह्मात्मकत्वसिद्धिरित्याह - इहापीतिपरब्रह्मेति देवात्मशब्दविवरणम् । शक्तिरूपायाः अजायाः अवगतेरितिकार्योपयोग्यपृथक्सिद्धविशेषणत्वस्यैव शक्तिशब्दार्थत्वात् अपृथक्सिध्यर्हद्रव्यत्वस्यैव च शरीरत्वादिति भावः ।अयमत्र प्रघट्टार्थः - “अणोरणीयान् महतो महीयान् आत्मा गुहायां निहितोऽस्यजन्तोः तमक्रतुं पश्यति वतिशोकः धातुः प्रसादान्महिमानमीशं” इत्यारभ्य"सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्तजिह्वाः।।इत्यादिना परमात्मनः सकाशात् विश्वोत्पत्तिरभिहिता । तत्प्रकरणेएव “अजामेकां इति मन्त्रोपि पठितः । ब्रह्मकार्येषु मध्ये पाठात्अस्याः अपि ब्रह्मकार्यत्वं सिद्धम् । अत्र विश्वोत्पादकत्वेनाभिहितःआत्मैव मुण्डकोपनिषदि “सप्त प्राणाः प्रभवन्ति तस्मात्” इत्यादिनाविश्वोत्पादकत्वेनाभिहितः । एतस्माज्जायते प्राणः इति प्राणजनकत्वेनोक्तश्चैकएव । अतः प्राणादिजनकत्वेनाभिहित परमात्मात्मकत्वं अजायाः प्रतीयते ।नच वाच्यं तैत्तिरीये प्राणसमुद्रपर्वतादीनामिवास्याः अजायाः उत्पत्तिर्नाभिहिताप्रत्युत “अजामिति अनुत्पन्नत्व मेव चाभिहितम् । अतः कथं ब्रह्मकार्यत्वसिद्धिरिति । अजायाः ब्रह्मकार्यत्वानभिमतौ तत्कार्य वर्गमध्यपाठस्यानपेक्षितत्वप्रसंगात् । ब्रह्मणस्सृज्यमानवस्तु परिगणनमध्ये किमर्थमस्याः पाठःअतोऽवगम्यते तत्कार्यत्वमस्याः । अजात्व श्रुतिविरोधस्तु उत्तरसूत्रेणपरिह्रियते ।एवं तैत्तिरीयश्रुत्यनुसारेण श्वेताश्वतरोपनिषदि श्रूयमाणायाः “अजामेकां"इतिश्रुतेरर्थो विवृतः । तावत्पर्यन्तानुधावनं मास्तु अत्रैवाजायाःज्योति रूपक्रमात्वं कण्ठोक्तं इत्याशयं मनसि निधाय “किं कारणंब्रह्म” इत्यारभ्य इति भाषितम् । एतेन “ज्योतिरूपक्रमा’ इति सूत्रप्रणयनं"किं कारणं ब्रह्म’ इति एतत्प्रकरणस्थवाक्यमनुसृत्यैवेति सूचितम्तथा ह्यधीयत एके इति सूत्रएव सेवादसूचनार्थमिति मन्तव्यम् ।।उपरिष्ठाच्चेतिपूर्वमन्त्रे मायीति निर्देशः उत्तरवाक्ये मायाशब्दविवरणपूर्वकंईश्वरस्य मायित्वनिर्देशः । तेनच प्रकृति नियन्तृत्वं फलितं, अतःप्रकृतेर्भगवन्नियाम्यत्वसिद्ध्या शरीरत्वसिद्धिः नियाभ्यवस्तुनएव शरीरत्वात्य इति । योनिः सर्वकारणीभूतः । योनिं=उपादान भूतां प्रकृतिम् ।अनेन परब्रह्मणः प्रकृत्यधिष्ठातृत्व बोधनात् सृजमानां इति प्रतीयमानंस्वातन्त्र्यमपि अब्रह्मात्मकत्वविरोधि इति दर्शितम् ।
लोहितशुक्लकृष्णरूपायाः इति हेतुगर्भविशेषणम् । अजाशब्द शब्दितप्रकृतेः कार्यावस्थायां हि लोहितशुक्लकृष्णरूपत्वं तदैव ब्रह्मकारणकत्वाभ्युपगमेसाक्षादुक्तं अजात्वमनुपपन्नं इत्याशयः ।सूत्रस्थं चशब्दं प्रयोजननिर्देशपूर्वकं त्वर्थकतया व्याचष्टे - प्रसक्तेतिसूत्रस्थकल्पनशब्दस्य अतस्मिन् तद्भावारोपणरूपार्थपरत्वशंकानिवृत्तयेउत्तरत्र प्रमाणं विवक्षुः पूर्वमर्थमाह - कल्पनमिति । कस्य सृष्टिरित्याशंकांव्युदस्यन्नर्थसिद्धमर्थमाह - जगत्सृष्टीति । यथा “धाता यथापूर्वमकल्पयदित्यत्रकल्पन शब्देन सृष्टिरुच्यते इत्यर्थः । प्राकल्पयद्यो भुवनानि सप्तइत्यादि स्मृति रप्यनेनोपलक्षिता । ननु “यथा पूर्वमकल्पयन्’ इत्यत्रसृष्ट्युपदेशात् कल्पनशब्दस्य सृष्टिपरत्वं युक्तम् । अत्र तदनुपदेशात्कथंतत्राह - अत्रापीतिसृजते इति सृष्टेः विषयवाक्यस्थत्वेऽपि सूत्रेकल्पनशब्दोपादानमुक्तप्रकारेणसृष्टिकल्पनयोरैकार्थ्यज्ञापनाय । उदाहृतप्रकृतसूत्रविषयवाक्यस्यार्थमाह - स्वेनेतिमायीति । प्रकृतेः नियाभ्यायाः स्वापृथक्सिद्धि बोधनात् स्वेनाविभक्तादितिभाषितम् । अवस्थाद्वयान्वयोऽवगम्यत इति - कथं? इत्थं - पृथिव्यादिक्रमेणतमः परे देव एकीभवतीति तमः शब्दवाच्य प्रकृतेः ब्रह्मणि एकीभावःश्रुतः । सचैकीभावः सूक्ष्मस्थितिरूप विभागानर्हापृथक्सिद्धिसंबन्धविशेषःतदानींच न महदादि भूतानामस्तित्वम् । तदनन्तरं च सृष्टिकाले एतस्याएव महदादिसृष्टीरीश्वरेण क्रियते, अस्मान्मायीत्युक्तेःततश्चास्याः सूक्ष्मदशायां कारणत्वं महादादिरूपेण परिणतायाः अस्याएव स्थूलदशायां कार्यत्वंच सिध्यति । अताेऽस्याः कार्यकारणरूपेणावस्थान्वयोऽस्तीत्यवगम्यतेइति ।अवस्थाद्वययोगमेव दर्शयति - साहीति । ब्रह्मतापन्ना=ब्रह्मशरीरतापन्नाब्रह्मशरीरभूतेतियावत् । उद्भूतसत्वादिगुणाः उद्भूतसत्वादिगुणवैषम्याअथाविरोधं दर्शयति - अत इति । कारणदशायामस्याःअनुत्पन्नत्वादजात्वव्यवहारः । कार्यदशायां च महदादिरूपेण परिणममानत्वात् ज्योतिरूपक्रमात्वमितिन विरोध इति भावः । मध्वादिवदिति । ईश्वरेणेत्यस्य एकस्येत्यनेनान्वयःईश्वरेणैकस्य=अविक्तनामरूपस्य । न विरुध्यतइति । उदयास्तमयकल्पनाभावेनेतिशेषः । मधुत्वकल्पनानुगुणतया उदयास्तमयादिकं कल्पितम् । तच्च कार्यावस्थायां,तदभावकल्पनं च कारणावस्थायामिति न विरोधः तथैवात्रापीतिउक्तार्थे आमूलाग्रं प्रमाणं दर्शयति - तदुक्तमिति । ननु तज्जलान्इति हेतोः सर्वस्य ब्रह्मात्मकत्वं प्रतिपादितम् । तत्र जन्यत्वंहेतुः ब्रह्मात्मकत्वे । अजामिति अस्याः जन्यत्वनिषेधश्च कृतः अतोऽब्रह्मात्मकत्वंस्वतः सिध्यति । अत एव सृजमानामिति स्त्रष्टृत्वे स्वातन्त्र्यमपिसिध्यतीति चेत् - मैवं ब्रह्मजन्यत्वं ब्रह्मात्मकत्वे हेतुरितीदंवास्तवम् । तावता जन्यत्वनिषेधेन कथं ब्रह्मात्मकत्वनिषेधः । नहि धूमनिषेधेन वह्नि निषेधस्सुवचः । प्रमाणबलाच्च सिद्धं ब्रह्मात्मकत्वंनापह्नोतुमर्हीति । नह्यजन्यस्य जीवस्य ब्रह्मात्मकत्वं न स्वीक्रियतेप्रकृतेः विषमावस्था साम्यावस्था इति अवस्थाद्वयमस्ति । यदा महत्तत्वस्यप्रकृतौ लयः तदा विषमावस्था प्रहाणेन साम्यावस्था । सापि भगवत्संकल्पेनजायमानैव । अतः प्रकृतिरपि साम्यावस्थापन्ना जायमानेति ब्रह्मकारणकत्वंस्पष्टम् ।अत एव सूत्रे ज्योतिरात्मिका इत्यनुक्त्या ज्योति रूपक्रमा’इत्युक्तम् । यथा जीवस्याजन्यत्वेपि अवस्थाद्वारा ब्रह्मकारणकत्वंतथा प्रकृतेरपि । जीवस्य प्रकृतेश्चोपादानकारणं तु नास्तीति तुनिर्विवादम् ।एतेन - पिण्डत्वावस्थाप्रहाणेन घटत्वावस्थाप्राप्तावपि घटत्वा वस्थायाःतद्वतश्च कार्यत्वं स्वीक्रियते । नतु पिण्डत्वावस्थायाः तद्दतोवा द्रव्यस्य । एवं च महत्वावस्थायाः कार्यत्वं भवतु नाम । न तुप्रकृति त्वावस्थायाः। अतः ब्रह्मकार्यत्वं कथं प्रकृतेः इति शंकानिरस्ता” चेतनाचेतनेश्वररूप तत्त्वत्रयस्य च नित्यत्वेपि अस्मन्मतेकार्यत्व मप्यस्ति । ईश्वरस्य विशिष्टवेषेण जीवस्य ज्ञानद्वारा,“जीवधर्मज्ञानस्य नित्यत्वेपि ज्ञाने अवस्थास्वीकारात् अवस्थाविशिष्टतादृशज्ञानवत्वमादाय जीवस्य कार्यत्वं, अचेतनस्य प्रधानस्य स्वरूपतोनित्यत्वेपि बह्ववस्था स्वीकारेण कार्यत्वंअतः प्रकृतेः ब्रह्मकार्यत्वस्य अजात्वस्य च न विरोधः । न च प्रकृतित्वावस्थायाःन कार्यत्वं इति वाच्यम् । जीवत्वावस्थाया इवास्या अपि कार्यत्वाभावेपिक्षतिविरहात् । जीवत्वं हि नित्यम् । न तु अजीवस्य जीवत्वम् । तद्वत्प्रकृतित्वमपि नित्यम् । नच “अजामेकां” इति प्रकृतेरेव ह्यजात्वमुक्तम्कथं तद्दशायां ब्रह्मकार्यत्वमिति वाच्यम् । क्रमेण तत्त्वानांलयकाले महत्वा वस्थाप्रहाणेन प्रकृतित्वावस्था जायते । प्रकृतित्वावस्थाहि साम्यावस्था । सा च प्रलये । सृष्टिदशायां वैषम्यावस्था । तत्रमहत्वावस्थानाश पूर्वक साम्यावस्थारूप प्रकृतित्वावस्था भगवत्संकल्पाधीनाअतः साम्यावस्थापन्न प्रकृतिरपि भगवज्जन्या भवतीत्यविरोधात्ननु उत्पत्तिकाले महत्त्वावस्थां प्रति प्रकृतित्वावस्थायाः पूर्वभावित्वेनकारणत्ववत् लयकाले प्रकृतित्वावस्था पूर्व भावित्वं महत्त्वा वस्थायाइति तां प्रति महतः कारणत्वं भवतु । कार्यनियत पूर्ववृत्तित्वस्यैवकारणत्वान् इति चेत् मैवम् । प्रकृतित्वावस्था हि गुणसाम्यावस्या,सा तु पूर्वमेवासीत् । अद्यतु महत्वावस्था पूर्वभाव्यवस्था सजातीयेयमवस्थाअतः कार्य नियत पूर्ववृत्तित्वं नास्तीत्यदोषात् ।।“यदग्नेः रोहितं रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति प्रमाणबलात्तेजसो रोहित रूपस्य जलस्य शुक्ल रूपस्य पृथिव्याः कृष्णरूपस्यचावगमःप्रतीयते । “अजामेकां लोहित शुक्लकृष्णामित्यत्र श्रूयमाणत्वात्ज्योतिरन्नामत्र श्रुतौ ग्रहणं सूच्यते । यथा वाक्यान्तरात् शिरोरूपचमसविशेषप्रतीति तथाऽत्र लोहितशुक्लकृष्णामित्यतः तेजोबन्न प्रतीतिः इति"ज्योतिरूपक्रमा’ इति सूत्रस्यार्थः ।एवं लोहितादि रूपायाः अस्याः प्रकृतेः छागस्त्री सादृश्यात् अजात्वपरिकल्पनं चास्यां श्रुतौ क्रियते इति कल्पनोपदेशाच्च इति सूत्रस्यार्थःइति वदतां मतं प्रतिक्षिपति - ।अन्येत्विति । एकाजात्वेन परिकल्प्यमानंवस्तु तेजोबन्नान्येवेति प्रथमशिरसः अर्थः । अजात्वस्यैकत्वस्यब्रह्मकारणत्वस्यचसिध्यर्थं ब्रह्मणः एव तेजो रूपत्वमिति द्वितीयंशिरः । तेजोबन्नवाचिशब्देन तत्कारणे लक्षणामभ्युपभ्य तत्कारणभूतंवस्त्वत्रोच्यते इति अन्तिमं शिरः इतिभिदा । अत्र, मन्त्रे लोहितशुक्लकृष्णामित्युक्तेः तेजोबन्नानां निवेशः तदभिमतःत्रिवृत्करणेनैकतापत्तिरिति । वस्तुत्रयस्यैकीकरणं हि त्रिवृत्करणम्अत स्तेजोबन्नाना मनेकत्वेपि एकत्वमुपपद्यते इति शंकाग्रन्थतात्पर्यम्भूतानि द्वेधाकृत्वा तत्राप्येकैकमर्धभागं द्विधा कृत्वा पादभूतमेकैकंभागं भूतद्वये संयोजनमेव त्रिवृत्करणं, अतश्च बहुत्वं न कदाचिदप्यपगच्छतीतिएकत्वोक्तिर्भवतां विरुद्धैवेत्याशयेन दूषयति - त्रिवृत्करणेपीतिबहुत्वसद्भावमेवोपपादयति - इमाइति । अत्र तिस्त्रो देवताः इति वस्तुत्रितयमुपदिश्यऐकैकां करवाणीति तेषां प्रत्येकं त्रिवृत्करणं ह्युपदिश्यते । अतएकैकस्यापिवस्तुनः त्रिवृतत्वमिति वस्तुनः त्रित्वस्य नामगमः इतिभावःकिं ब्रह्मविकार भूताः तेजोवन्न विकाराःअजाशब्दवाच्याः,उत ब्रह्मस्वरूपमेवेतिद्वितीयशिरोविकल्पग्रन्थार्थः । विकाराणां अजाशब्दितानामनेकत्वेनैकत्वविरोधःइति दूषयति - प्रथम इति । ब्रह्मस्वरूपस्य लोहित शुक्लकृष्णत्वाभावेनतद्बोधकपदस्यास्वारस्यं स्यादित्याशयेन निराकरोति - द्वितीयेऽपीतिननु तेजोबन्नादि सर्वात्मकस्य ब्रह्मणः लोहित शुक्लकृष्णत्वंन विरुद्धमित्यत्राह - स्वरूपेणेति । तेजोबन्नादिसर्वात्मकस्य ब्रह्मणःसद्वारकतया लोहितशुक्लकृष्णत्वेपि अद्वारकस्य स्वरूपे एव तथात्वमनुचितमितिभावः । सद्वारकत्वे तु अस्मत्पक्षः एवएतेन तेजोऽबन्नावस्थाविशिष्टब्रह्मणः अजाशब्दवाच्यत्वाभ्युपगमोपिनिरस्तः । अद्वारकतया लोहितत्वाद्यभावात् सद्वारकत्वे स्वपक्षविरोधात्ततोवरमिति । यद्यप्यस्मिन्पक्षे लोहितशुक्लकृष्णत्वं अजात्वंएकत्वं चाविरुद्धमेव । अथापि ते जोबन्नवाचक शब्दाभावेन आजा शब्दस्यैवलोहित शुक्लकृष्णामिति पदश्रवणबलेन तत्परत्वमारोप्य तेन तत्कारणस्योपस्थापनमावश्यकम्तदपेक्षयापि श्रुतिसिद्धायाः कारणभूतायाः प्रकृतेरेव अजाशब्देनाभिधानंमुख्यवृत्तं भवति ।। लोहित शुक्लकृष्णामित्यस्यापि तेजोबन्नद्वारासिताऽसितरक्तपरत्वेन मुख्यवृत्त्यैव निर्वाहसंभवात् इति भावःअथ कल्पनोपदेशादिति सूत्रस्थ कल्पनशब्दस्यारोपणरूपपरिकल्पनपरत्वंवदतां मतं दूषयितु मनुवदति - यत्पुनरिति । कल्पनशब्दः छागत्वपरिकल्पनपरइत्याशयेनोक्तं - छागत्वपरिकल्पनमिति । तथा च प्रकृतेः अजाशब्देनछागत्वपरिकल्पनमनेन मन्त्रेणोपदिश्यते इति सूत्रार्थः इति भावःकल्पन शब्दस्य परिकल्पनरूपगौणार्थ स्वीकारे (प्रमाणा भावात्)रूढियोगान्यतरप्रतिपाद्यमुख्यार्थं दूषयति - तदपीति । अथातस्मिन् -तद्भावारोपणे रूपपरिकल्पनस्थले किंचित्प्रयोजनस्य दृष्टतयाऽत्रच तदभावेन चायुक्तमित्यभि प्रायवानाह - निष्प्रयोजनत्वादिति । शरीरादिषुरथादिरूपणमित्यत्र न क्रमविवक्षाएवं सूत्रस्य भवदुक्तरीत्या अर्थवर्णने मध्वादिवदिति दृष्टान्तकीर्तनमप्ययुक्तम् । मधुत्वकल्पनस्य भोग्यताख्यापनार्थत्वे सप्रयोजनत्वादत्रच प्रयोजनादर्शनादित्याशयेनाह - यथा चादित्ये इति ।एवं सूत्रस्थाविरोधपदमपि न स्वरसं भवताम् । प्रकृतेः अजा शब्देनछागत्वपरिकल्पनोक्तौ विरोधादित्याशयेनाह - न केवलमिति । अत्यल्पप्रजासर्गकरेतिकृत्स्नजगत्कारण भूतायाः इत्यस्य विपरीताकारनिर्देशः । अनादिकालसंबन्धेत्यस्य आगन्तुकसंगमचेतन विशेषेति । अयं च बहुव्रीहिः । विशेषेतिनिर्देशःसर्वेषामेव चेतनानामित्यस्य विपरीताकारः । निखिलेत्यादिपर्यालोचनयाएकरूपात्यल्प प्रयोजनसाधनेत्युक्तम् । स्वपरित्यागाहेतुभूतस्वसंबन्धिपरित्यागसमर्थत्वोक्तिःअचेतनायाः इत्येतल्लब्ध स्वसंबन्धिपरित्यागा सामर्थ्य प्रत्यनीकारप्रदर्शनार्थास्वपरित्यागाहेतु भूतो यः स्वसंबन्धी तत्परित्यागसमर्थः इत्यर्थःअथाजाशब्देन तथोपदेशोप्य नुपपन्नः प्रकरणस्थतादृ शब्दस्य द्विरूपार्थवत्वापत्तेरितिअभिप्रायेण दूषणान्तरमाह - अजा मेकामिति । अत्राजशब्देन बद्धमुक्तबोधनादितिभावः। - ऐकरुप्यसंपादनाय शंकते - सर्वत्रेति । दूषयति - जहातीति । विदुषइत्यादिकंविरोधप्रदर्शनोपयुक्तम् । अनेनाऽन्येनवेति सामान्ये नपुंसंकम्प्रसिद्धाजस्तु पुनरपिसंबन्धाभिलाषी तद्योग्यश्च, मुक्तस्तु नतादृशइति कथं तादृशाजत्वेन रूपणं युज्यत इति भावः ।। अतोऽर्थविरोधात्अनेकाजशब्दस्य गौणार्थपरिकल्पनास्वारस्यात् अर्थोचित्यरूपप्रयोजनाभावाच्चन छागत्वरूपणं युक्तमितिनन्वत्रार्थविरोधापादनं नयुक्तं, कार्यकारित्वस्य प्रयोजनसाधनत्वस्यचेतनसंगमादेश्चैव विवक्षायां रूपणाभ्युपगमात्, नहि सर्वधर्मांशेऽपिरूपणविवक्षा अंगीकर्तव्या । अत एव ह्यात्मानं रथिनं विद्धीत्यादौआत्मादीनां रथित्वादि धर्माविवक्षया रूपणम् । एवमेवहि सर्वत्र दार्ष्टान्तिकेदृष्टान्तगतसर्वधर्माणामापादनं निराक्रियते । एवमर्थानौचित्यमपिनास्ति - गौरनाद्यन्तवतीत्यादौ प्रकृतेर्गोत्वेनरूपणवदत्रापि रूपणौचित्यात्एतेनाजशब्दे गौणार्थपरिकल्पनास्वारस्यस्य बाधकत्वमपि निरस्तमितिचेन्न आत्मानं रथिनं विद्धीत्यादौ रुप्यरूपकवाचिपद श्रवणेन तद्वैयर्थ्यपरिहारायरूपणाभ्युपगमे़पि अत्र तादृशपदाभावेन तदभ्युपगमे प्रमाणाभावात् । अत एव येनाकारेणसाधर्न्यं योग्यं भवेत् तदाकारमात्रं विवक्षितं तत्र । अत्रतु अनेनैवाकारेणसाधर्म्यं विवक्षितमित्यत्र न नियामकं किंचिदुपलक्ष्यत इति अविशेषात्सर्वाकारेणापि प्राप्तस्य साधर्म्यस्य प्रसक्तिरित्यर्थ विरोधोदुरपह्नव एव वस्तुतः बर्ह्वीः प्रजाः सृजमानामित्युक्तिरेव विरुध्यतेगौरनाद्यन्तवतीत्यत्र साक्षात् रूप्यवाचि पदश्रवणात् (अजा शब्दवत्)गोशब्दस्यावयवशक्त्या प्रकृत्त्युपस्थापनासंभेन गत्यभावाच्च तदभ्युपगतम्अत्र तु अजाशब्दस्यावयवशक्त्या प्रकृत्युपस्थापनसंभवेन अगतिकत्वाभावात्गौणार्थपरिकल्पन मनुचितमिति अमुख्यार्थस्वीकाररूपानौचिरूपंदुरूद्धरमेवअत एवावैरुप्याय अनेकाज शब्दस्य छागपरत्वस्वीकारः आवश्यक इत्यस्वारस्यमपितदवस्थमेवेति । इति चमसाधिकरणम् ।।