37 आनुमानिकाधिकरणम्

1.4.1
(1.04.1) आनुमानिकाधिकरणम्
अथ चतुर्थपादसंगतिप्रदर्शनार्थं वृत्तमनुवदति - उक्तमिति । मोक्षसाधनत्वस्योपरि वक्ष्यमाणत्वेन पूर्वमनुक्तत्वात्साधनं जिज्ञास्यमित्यनुक्त्वा साधनतया जिज्ञास्यमिति भाषितम् । यद्वा ‘जन्माद्यस्य यतः’ इत्यत्र ‘यत्प्रयन्त्यभिसंविशन्ती’त्यावृत्तिलब्धमोक्षसाधनत्वस्यादिपदग्राह्यत्वेन ‘अथातो ब्रह्मजिज्ञासा’ इत्यस्य द्वितीयसूत्रेणैककण्ठ्ये क्रियमाणे तापत्रयातुराणां मोक्षसाधनत्वेन ब्रह्मणो जिज्ञास्यत्वसिद्धिरित्यभिप्रायेणोक्तं मोक्षसाधनतया जिज्ञास्यमिति लक्षणशब्दः स्वरूपपरः मोक्षान्वयी । जगज्जन्मादिकारणमिति द्वितीयाधिकरणसिद्धार्थकथनम् । प्रधानादिवैलक्षण्यसिद्धावपि अचिद्वस्तुवैलक्षण्यासिद्धिरिति कस्यचिन्मन्दधियः शंकापरिहाराय अचिद्वस्तुनः इति विशेषणमुपात्तम् । आकाशप्राणादिरादिशब्दार्थः । विलक्षणमिति । अनेनायोगव्यवच्छेदपरप्रथमपादः चिदचिद्वैलक्षण्यबोधनपरः इति सूचितम् ॥
अथ वैलक्षण्यसाधकहेतुनिर्देशपूर्वकं द्वितीयतृतीयपादार्थमाह - निरस्तेति । चेतनाचेतनोभयगतहेयविवक्षणाय समस्तेत्युक्तिः । मुक्तव्यावृत्यर्थः गन्धशब्दः । सर्वत्र प्रसिद्ध्यधिकरणे मनोमयः इति विशुद्धमनोग्राह्यत्वोक्तेः, मलिनमनोभिर्मलिनानामेव ग्राह्यत्वाच्च हेयप्रत्यनीकत्वादिसिद्धिरित्यभिप्रेत्य निरस्तसमस्तहेयगन्धमित्युक्तम् । समस्तकल्याणगुणात्मकमिति । समस्तकल्याणगुणात्मकोऽसावित्यत्रोक्तदिशा एतदर्थोऽनुसन्धेयः । वस्तुतः सर्वज्ञत्वादिगुणजातस्योक्तत्वेनास्य धर्मिस्वरूपपरत्वमुचितम् । सर्वेति ॥ अनेनान्तर्याम्यधिकरणसिद्धार्थः उक्तः । निरंकुशैश्वर्यमिति । इदं च तृतीयपादस्याधिकरणलब्धार्थकथनम् । “एतस्य वा अक्षरस्य प्रशासने, ईशानो भूतभव्यस्य, सर्वस्य वशी सर्वस्येशानः” इत्यादीनाम् तद्विषयवाक्यत्वेन तेन च परस्य पुंसः निरंकुशैश्वर्यप्रतीतेः । अथ चतुर्थपादे वक्ष्यमाणमनुगतमर्थमाह - इदानीमिति । कापिलतन्त्रं = सांख्यशास्त्रम् । अब्रह्मात्मकप्रधानपुरुषादिप्रतिपादनमुखेनेति । अयमाशयः कानिचिद्वाक्यानि प्रधानपुरुषादिप्रतिपादनपराणीति तत्तन्त्रप्रत्यभिज्ञापकानि । अतः प्रधानकारणत्वम् फलिष्यतीति । नच विशिष्टाद्वैतिनामपि मते प्रधानपुरुषाद्यभ्युपगमात् तादृशवाक्यानाम् तत्तन्त्रप्रत्यभिज्ञापकत्वं कथमिति मन्तव्यम् । अब्रह्मात्मकप्रधानप्रतिपादकत्वेन प्रत्यभिज्ञापनसम्भवात्, नच तादृशवाक्येषु प्रधानस्य ब्रह्मात्मकत्वं न कण्ठोक्तमिति वाच्यम् । तन्मतरीत्या “अव्यक्तात्पुरुषः परः” इत्यनन्तरम् “पुरुषान्न परं किंचिदिति पंचविंशकपुरुषरूपजीवतत्त्वातिरिक्तनिषेधेन तदन्यस्य ब्रह्मणः असिद्ध्या अव्यक्तशब्दबोधित प्रधानस्याब्रह्मात्मकत्वसिद्धेः । एतत्सूचनाय - अब्रह्मात्मकेत्युक्तम् ॥
प्रधानकारणत्वप्रतिपादनच्छायानुसारीणीति । अनेन प्रधानादिलिंगप्रतिपादकवाक्यानां अस्फुटत्वादितारतम्यमवलंब्य त्रिपाद्या विचारः कृतः । अत्र तु लिंगिनामेव प्रधानादीनां कारणत्वप्रतिपादनशंकाग्रस्तानां वाक्यानां विचारः इति वैषम्यं सूचितम् ॥ आनुमानिकमपीत्यपिशब्दस्वारस्यमवलम्ब्योक्तं - कासुचिदिति । अयं भावः - अस्तु ब्रह्म जगत्कारणम्, अथापि प्रधानमपि जगत्कारणं भवितुमर्हति । क्वचित् ब्रह्मणः कारणत्वप्रतिपादनवत् क्वचित् शाखासु प्रधानस्य तत्त्वप्रतिपादनात् इति । ब्रह्मैककारणत्वस्थेम्ने इति । ब्रह्म जगत्कारणमेव, ब्रह्मैव जगत्कारणम् इति द्विविधावधारणमभ्युपगम्य कारणत्वस्यायोगान्ययोगव्यवच्छेदौ स्वीकृतौ ॥ इदं च ब्रह्मान्यस्य जगत्कारणत्वनिराकरणे एवोपपद्यते । अतस्संग्रहेण सूचितार्थस्य अयोगव्यवच्छेदपादेन स्थिरीकरणवत् अनेनापि अन्ययोगव्यवच्छेदपादेन ब्रह्मान्यस्य कारणत्वयोगव्यवच्छेदः स्थिरीक्रियते । न चान्ययोगव्यवच्छेदो नाम ब्रह्मान्यस्मिन्प्रधानादौ कारणत्वयोगव्यवच्छेदः, तत्र प्रधानादिनिष्ठकारणत्वस्यैवाप्रसिद्ध्या तद्व्यवच्छेदकरणं कथमिति शंक्यम् । प्रधानादिनिष्ठकारणत्वयोगशंकाव्यवच्छेदस्यैव अत्रान्ययोगव्यवच्छेदशब्दार्थत्वात् । वस्तुतः अकारणेऽपि प्रधानादौ कारणत्वशंकायाः सुलभत्वात् । तथाच प्रधानादिनिष्ठत्वप्रकारकज्ञानविशेष्यकारणत्वयोगव्यवच्छेदस्यात्र क्रियमाणत्वेन विरोधाभावात् । यद्वा कारणत्वे प्रधानत्वादि प्रसिद्धस्य प्रधाननिष्ठत्वरूपयोगस्य व्यवच्छेद एव सः इति न कोऽपि दोषः ॥ स्थेम्ने इत्यनेनानन्तरपूर्वपादद्वयोक्तं अन्ययोगव्यवच्छेदलब्धं ब्रह्मैककारणत्वमेवात्र स्थिरीक्रियते इति पूर्वपादद्वयस्यान्ययोगव्यवच्छेदपरत्वं दृढीकृतम् ॥ तत् = प्रधानादिकारणत्वम् । यद्वा तच्छायानुसारित्वम् ॥
अथाधिकरणमारभते - कठेत्यादिना । पूर्वाधिकरणसंगतिस्तु - ननु मुक्तादपि परस्य वैलक्षण्योक्तिः कथम्? प्रत्यगात्मापेक्षया पुरुषान्न परं किंचिदिति “परस्य निषेधेन तदसिद्धेः इति रीत्या आक्षेपसंगतिरिति बोध्यम् । स्वमते अव्यक्तशब्दस्य प्रधानवाचकत्वानभ्युपगमेन “उत ब्रह्मात्मकं प्रधानम् इति संशयशिरः अनिर्दिश्य “उत नेति’ प्रदर्शितम् । प्रक्रियाप्रत्याभिज्ञापनेनेति । बुद्धेरित्यहंकारस्य महत इति महत्तत्वस्य (अव्यक्तमिति प्रधानस्य) पुरुषः इति पंचविंशकपुरुषस्योक्तत्वेन तन्मतप्रक्रियाप्रत्यभिज्ञापनेन मध्ये उक्तस्याव्यक्तशब्दस्य प्रधानवाचित्वं योयुज्यते इति भावः ॥
ननु सिद्धान्तेपि प्रधानादितत्त्वाभ्युपगमेन तत्प्रक्रियाप्रत्यभिज्ञापनमेव कथमिति चेन्न, सिद्धान्तिना भूतसूक्ष्मस्य प्रधानस्यानभ्युपगतत्वं मत्वा पूर्वपक्षकरणात् । अत एव हि यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते, कापिलतन्त्रसिद्धोपादाने कः प्रद्वेषः इति “तदधीनत्वादर्थवदि"तिसूत्रावतरणिका संगच्छते । तत्र प्रधानस्य सिद्धान्त्यभिमतत्वे तन्मताविशेषः इति तन्मते द्वेषनिबन्धनं किमित्युक्त्या ततः पूर्वम् पूर्वपक्षिणः प्रधानस्य सिद्धान्त्यनभिमतभ्रान्तिरस्तीति प्रतीयते । अतः प्रधानस्य तन्मतमात्रसिद्धत्वेनैतद्वाक्यस्य तत्प्रक्रियाप्रत्यभिज्ञापकत्वं युक्तमेवेति । यदि तु प्रधानस्य सिद्धान्त्यभिमतत्वपरिज्ञानं पूर्वपक्षिणः अस्त्येव, कथमन्यथा अदृश्यत्वाद्यधिकरणादिषु प्रधानस्य जगत्कारणत्वनिषेधः सिद्धान्तिना कृतः सांख्यानाम् पूर्वपक्षे । यदि प्रधानं नाभिमतमभविष्यत्तर्हि प्रधानस्यासत्वमेवावक्ष्यत् । परंतु तस्य भूतकारणत्वानभ्युपगमभ्रम एव । “सूक्ष्मं तु इति सूत्रखण्डेन प्रधानस्य भूतसूक्ष्मत्वं शरीरस्य तत्कारणकत्वं चोक्तमिति तस्य भूतकारणत्वाभ्युपगमेन सांख्यमताविशेष इति तत्र द्वेषः किंनिबन्धनः इति पृष्टम् । अत एव तत्रापि हि भूतकारणमेवाव्यक्तमुच्यते इति तत्रैव विवृतमिति मन्यसे तदा हेत्वन्तरमाह - पुरुषादिति । तत्त्वनिषेधादिति । यदि तु “तं षड्विंशकमित्याहुः सप्तविंशमथापरे” इत्युक्तरीत्या पंचविंशकातिरिक्ततत्त्वमप्यत्राभिमतमभविष्यत्, तदा पुरुषान्न परं किञ्चिदित्यादि न निरदेक्ष्यत् । अतोऽत्र तथानिर्देशाभावेन त्वत्प्रक्रियायाः अनभिमतत्वप्रतीतेः बाधकाभावेन तत्प्रक्रियाप्रत्यभिज्ञानम् युक्तमेवेति ।
ननु अव्यक्तशब्दस्य प्रधानवाचित्वेपि कथं तस्य कारणत्वसिद्धिः ? कथंतरां चास्य विषयवाक्यस्य प्रधानकारणत्वप्रतिपादकत्वम् ? तद्वाचकपदाश्रवणादित्यत्राह - अतः इति । अतः प्रधानस्याव्यक्तशब्दवाच्यत्वादेव । अयं भावः । अत्र ब्रह्मतत्त्वनिषेधेन ब्रह्मणः करणत्वकथनासंभवात् तन्मतप्रत्यभिज्ञानेन तन्मते प्रधानस्य कारणत्वाभ्युपगमात्, बुद्धिशब्दबोधिताहंकारात् महति उक्तस्य परत्वस्य कारणतायां पर्यवसानात्, अत्राप्युक्तम् अव्यक्तस्य महतः परत्वं, कारणतयैवेति निश्चीयत इति ।
उक्तशंकायाः उत्सूत्रत्वशंकां व्युदस्यति - तदिदमिति । शंकापरसूत्रखण्डार्थमाह - एकेषामिति पूर्वत्र परमात्मनिषेधेन प्रधानाद्येव जगत्कारणमिति प्रत्यवस्थितम् । इह तु तमभ्युपेत्य प्रधानाद्यपि कारणमिति प्रत्यवस्थीयते । अतो ब्रह्माभ्युपगमेन क्वाचित्कोऽयं विचारः इत्येतत्सूचनाय सूत्रकारः अपिशब्दं प्रयुक्तवान् इत्याशयं स्फुटीकर्तुं प्रधानमपि कारणमिति भाषितम् । युक्तं चैतत् । अत एव हि अत्राप्यपिशब्देन समुच्चेतव्यतया प्रकृतस्य ब्रह्मणः “तदधीनत्वादर्थवदित्ये"तदधिकरणगुणसूत्रे तच्छब्देन परामर्शः युज्यते । एवं प्रकृतिश्चेति एतत्पादान्तिमाधिकरणे निमित्तेश्वरवादिमतनिरासश्च कृतो घटते । केचित्तु त्रिपाद्याः अन्ययोगव्यवच्छेदपरत्वेन तत्प्रथमपादे अपिशब्दाप्रयोगात् भाष्ये “पुरुषान्न परम् किंचित्” इति श्रुतिं प्रदर्श्य पंचविंशकपुरुषातिरिक्ततत्त्वनिषेधपूर्वपक्षस्य वर्णितत्वात्, आनुमानिकाद्यधिकरणेषु निरीश्वरसांख्यप्रतिक्षेपेऽपि प्रकृत्यधिकरणे सेश्वरसांख्यप्रतिक्षेपसंभवात्, शास्त्रमात्रे ब्रह्मणो बुद्धिस्थत्वेन तच्छब्दस्य सर्वनामत्वेन च तदधीनत्वादित्यत्र तच्छब्देन ब्रह्मपरामर्शसंभवाच्च नात्रापिशब्दः ब्रह्मसमुच्चायकः, अपि तु महदादीनामेव तेन समुच्चयः इति वदन्ति ॥
शरीररूपकेति । रूप्यतेऽनेनेति रूपकं दृष्टान्तः इत्यर्थः । रूपकत्वेन विन्यस्तम् रूपकविन्यस्तम् । शरीरं च तत् रूपकविन्यस्तम् चेति विग्रहः । अत्र शरीरस्य विशेषणत्वेन उपसर्जनं पूर्वमिति शास्त्रेण पूर्वनिपातः । विशेष्यभूतम् रूपकविन्यस्तम् कीदृशमित्याशंकायाम् शरीरशब्देन तद्विशेष्यते, अतोऽत्र रूपकविन्यस्तशरीरगृहीतेरिति सूत्रविन्यासः आवश्यकः इति शंका निरस्ता इत्याशयसूचनाय शरीराख्यरूपकविन्यस्तस्याव्यक्तशब्देन गृहीतेः इत्युक्तम् । रूपितस्य शरीरस्य गृहीतेः इति पर्यवसितम् । अत्र रूपकविन्यस्तस्यैव विशेष्यत्वविवक्षा किमर्थेति चेत्? उपक्रमस्थस्य रूपणप्रकरणस्य प्राधान्यसूचनार्था । रूपणप्रकरणानुगुण्येनैव इन्द्रियेभ्यः पराः इत्यादावुक्तं प्राधान्यं वशीकार्यतायामेव । अव्यक्तशब्दश्च शरीरमेव बोधयतीत्यर्थस्फुटीकरणार्था ।
ननु शरीरं केनाकारेण रूपितम् । आत्मादीनामपि रूपितत्वाविशेषेण रूपकविन्यस्ताऽऽत्मादेर्वा कुतो न ग्रहणम् इत्यत्राह - आत्मेति । रथरूपणेन विन्यस्तस्येति । शरीरं रथत्वेन रूपितम् । तेन रूपेण रूपितस्यैव चात्र ग्रहणम् । आत्मा तु रथित्वेन रूपितः इति न तस्याव्यक्तशब्दवाच्यत्वमिति भावः । ननु आत्मादीनां रथित्वादिना रूपितत्वं च कथं ज्ञायते ? किमर्थं च तथा रूपणं ? रूपितानामेवात्र वाक्ये ग्रहणमित्यत्र च को निर्बन्धः ? तत्रापि रथत्वेन रूपितस्यैवाव्यक्तशब्दवाच्यत्वमित्यत्र किं विनिगमकम् ? इत्यत्राह - एतदुक्तमिति । विषयान् शब्दादिविषयान् गोचरान् = मार्गान् । विषयान् गोचरान् विद्धि इत्यन्वयः । गोचरत्वेन रूपिता विषयाः इत्युपरि वक्ष्यमाणत्वात् । इत्यादिनेति । अस्य रूपयित्वा इत्यनेनोन्वयः । रूपकवाक्यस्थत्वात् आत्मादीनाम् रथित्वादिना रूपितत्वं ज्ञातमिति भावः । यस्यैते इति अनेन रूपणस्य वशीकार्यत्वज्ञापनं फलमिति दर्शितम् । वशीकरणफलमाह - स एवेति । “यस्तु विज्ञानवान्भवति युक्तेन मनसा सह । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः । यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते” इत्युक्तेरिति भावः । यानि येभ्यो वशीकार्यतायां प्रधानानि तान्युच्यन्त इति । अनेन वशीकार्यतायां प्राधान्याप्राधान्यज्ञापनार्थं रूपितानामेवात्र ग्रहणं कर्तव्यमिति सूचितम् ।
अयमत्राशयः - इन्द्रियेभ्यः पराः इत्यत्रोक्तं परत्वं न तावद्भेदरूपम् । तस्य प्रत्यक्षसिद्धत्वेन तदुपदेशवैयर्थ्यात् । नापि कारणत्वरूपम्, अर्थानामिन्द्रियकारणत्वाभावात् । अन्यच्च दुर्वचम्, अतः, इन्द्रियादीनां रथित्वादिरूपणेनोपासनोपकरणत्वावगमात् “यस्त्वविज्ञानवा"नित्यादिना इन्द्रियवशीकरणावशीकरणयोरर्थानर्थहेतुत्वोक्तेश्चात्रोक्तं परत्वं वशीकार्यतायां प्राधान्यमित्यवगम्यत इति । अथोक्तं परत्वं क्रमेणोपपादयति - तत्रेति । दुर्निग्रहत्वादिति । अर्थेषु हेयताज्ञापनेन तदसन्निधापनं अर्थवशीकरणमिति भावः । “अभ्यासेन च कौन्तेय वैराग्येण च गृह्यत” इति गीतार्थं स्मरन् मुहुर्मुहुर्विषयदोषचिन्तनेन तेभ्यो निवर्तनसंशीलनमेव मनसो वशीकरणमित्याशयेन मनसः परत्वमुपपादयति तेभ्योऽपीति । विषयेषु हेयत्वनिश्चयरूपाध्यवसायाभावे विषयप्रवणरहितस्यापि मनसः कदाचित् विषयप्रवणत्वमपि स्यादिति विषयदोषदर्शन संशीलनेन विषयात् मनसः निवर्तनपाटवापादकं हेयत्वाध्यवसाय दृढीकरणरूपं बुद्धेः वशीकरणमित्यभिप्रयन् तस्याः परत्वमाह - तस्मादपीति । अध्यवसायाभावे इति । अनेन बुद्धिशब्दस्याध्यवसायपरत्वं दर्शितम् । अन्तःकरणपरत्वे तु तत्कार्याध्यवसायाभावो विवक्षितः इति ध्येयम् । अथात्मनः परत्वं दर्शयति - तस्या अपीति । कर्तृत्वेन अध्यवसायाश्रयत्वेन । बुद्धिशब्दस्यान्तःकरणपरत्वे तस्योपकरणत्वेन आत्मनश्चोपकरणित्वात् प्राधान्यमिति ज्ञेयम् । अत्र “आत्मा कर्तृत्वेन प्राधान्यात्परः इत्युक्त्या “बुद्धेरात्मा महान् परः” इत्यत्र आत्मशब्दः विशेष्यवाची, महच्छब्दः तद्विशेषणवाची, न तु विपर्यासेनेति दर्शितम् । रूपकविन्यस्तस्यैवात्र ग्राह्यत्वेनात्मनः रूपकविन्यस्तत्वात् । महत्तत्वं तु न केनाप्याकारेण रूपितम् । नन्वणुत्वेन संप्रतिपन्नः आत्मा महानिति कथं विशेष्यते इति शंकां परिहरन् आत्मनो वशीकरणस्वरूपं फलतो दर्शयति - सर्वस्येति । अस्य = अध्यवसायपर्यन्तस्य आत्मेच्छायत्तत्वादिति । इन्द्रियाणि स्वाधीनानि कृत्वा समीचीनार्थेऽध्यवसायः कर्तव्यः इत्येतादृशात्मगतेच्छायत्तत्वादित्यर्थः । ततश्चैतादृशातिशयबोधनार्थं महत्त्वविशेषणमिति भावः । अत्रात्मस्वरूपयाथात्म्याध्यवसायप्रावण्यरूपेच्छोपादानमेवात्मनो वशीकरणमिति फलितम् ॥
तदायत्तत्वात् = शरीरायत्तत्वात् । शरीरं हि स्वगतगुणोन्मेषानुगुणं आत्मनि ज्ञानमुत्पाद्य ऐहिकादिसमस्तपुरुषार्थसाधनेषु प्रवृत्तिमुत्पादयतीति भावः । रजस्तमोहेतुभूतापरिशुद्धाहारासेवनेन केवलसत्त्वप्राचुर्यकरपरिशुद्धाहारनिषेवणेन सत्वोद्रिक्ततापादनमेव शरीरवशीकरणमिति ज्ञेयम् ॥
अध्वनः पारभूतः इत्यनेन “सोऽध्वनः” इति श्रुत्यर्थः उक्तः । अनेन रूपकप्रकरणानन्तरं “सोऽध्वनः पारमाप्नोतीति प्राप्यभूतविष्णोः निर्देशात् अत्रापीन्द्रियादिवशीकरणोक्त्यनन्तरं पुरुषः पर इति परत्वेन तन्निर्देशो युक्तः इति सूचितम् । आत्मपर्यन्तस्य = शरीरपर्यन्तस्य । यद्वा “आत्मानं रथिनं विद्धि शरीरं रथमेव चे"त्यादौ शरीरात् प्रथमं आत्मनो निर्देशात्तदभिसन्धाय - आत्मपर्यन्तस्येत्युक्तम् । सर्वस्यापि परमात्मसंकल्पाधीनप्रवृत्तिमत्त्वेन परत्वमुपपाद्य प्रकृतोपयुक्तं तद्वशीकरणहेतुमाह - स खल्विति । उपासननिर्वाहकत्वात्तद्वशीकरणमावश्यकम् । अत एव च परत्वमिति भावः । अथ परमपुरुषस्य निर्वाहकत्व-दृढीकरणाय जीवगतकर्तृत्वस्य परमपुरुषायत्तत्वं सप्रमाणमुपपादयति - परात्त्विति ॥
ननु पुरुषशब्देन कथं परमात्मग्रहणम् । न हि पुरुषविशेषणतया परमत्वादिकं श्रूयते येन तद्बोधः उक्तस्स्यादित्यत्राह - वशीकार्येति । निर्वृत्तिः = निष्पत्तिः, वशीकार्यभूतानाम् उपासननिष्यत्त्युपायानां काष्ठाभूतः इत्यर्थः । परमप्राप्यः इति श्रुतिस्थगतिशब्दो विवृतः । अयं भावः - अव्यक्तात्पुरुषः परः इत्युक्तात्पुरुषात् परं निषिध्य तस्य च काष्ठात्वपरमप्राप्यत्वयोः बोधनात् अनयोर्जीवेऽसंभवात्, संभवेऽपि आत्मा महान्परः इति तस्योक्तत्वाच्च परमपुरुष एवात्र प्रतिपाद्यत इत्यभ्युपगन्तव्यमिति । अत एवाध्वनः पारत्वेन रूपितः परमपदवाच्यः परमपुरुषः । अन्यथा रूपकप्रकरणे उक्तस्य परमपुरुषस्यात्रानुक्तौ न्यूनतापत्तेः इति । उक्तार्थे श्रुतिमाह - तदिदमिति । पुरुषान्न परं किंचिदित्यनेन परस्मात्पुंसः उपायकोटिकाष्ठाभूतमन्यन्नास्तीत्युक्तम् । सा काष्ठा इत्यनेनास्य तत्काष्ठाभूतत्वमुक्तम् । सा परा गतिरिति प्राप्यत्वकथनेनोपायभूतेन्द्रियादिव्यावृत्तिरुक्ता । उभयत्रापि विधेयप्राधान्यात् स्त्रीलिंगनिर्देशः ॥
अथ पुरुषान्न परमित्याद्युपदिष्टमर्थमन्तर्यामिब्राह्मणप्रदर्शनेन स्फुटीकरोति - तथा चेति । नियमयतीत्युक्त्वेति । अनेन सा काष्ठेत्युक्तम् उपायकोटिकाष्ठाभूतत्वं भगवतः प्रदर्शितम् । सर्वसाक्षात्करणपूर्वकं सर्ववस्तुनियमनाश्रयत्वं हि उपायकोटिकाष्ठाभूतस्यैवेति भावः । नियन्त्रन्तरम् निषिध्यत इति । अनेन पुरुषान्न परं किञ्चिदित्यंशो व्याख्यातः । “नान्योऽतोऽस्ति द्रष्टेत्यत्र” द्रष्ट्रन्तरनिषेधेऽपि नियन्त्रन्तरनिषेध एव पर्यवसानम् । भगवत इव करणनिरपेक्षज्ञानवतः मुक्तादेस्सद्भावेन निषेधासंभवात् । अतः अन्तरो यमयतीत्युक्तनियमनाश्रयत्वविशिष्टद्रष्टुः परमात्मनः तादृशद्रष्ट्रन्तरनिषेधावश्यकत्वेन विशेषणनिषेधे एव पर्यवसानात् । एवं निर्वाहकत्वोपपादकधर्मबोधकश्रुतिं तत्र प्रमाणीकृत्य साक्षात् तत्र बोधिकां भगवद्गीतां प्रमाणयति - भगवदिति । “पंचैतानि महावाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्” इत्युक्त्वा दैवं चैवात्र पंचममित्युक्तेः । दैवशब्दवाच्यस्य परमपुरुषस्य निर्वाहकत्वं स्फुटम् । एवमुत्तरत्र पंचैते तस्य हेतवः इत्यपीति भावः ॥
नन्वत्र दैवशब्दः कर्मपरः, कर्माराध्येन्द्रादिदेवतापरो वा स्यात् । अन्यथा ‘सोऽहं चैवात्र पंचमम्’ इति भगवता कुतो न गीतम् ? तत्कथं परमपुरुषस्य निर्वाहकत्वप्रतीतिः? - तत्राह - दैवमिति । अयं भावः - ‘न दैवं केशवात्परं’, ‘श्रूयतां परमं दैवम्’ इत्यादिषु परमपुरुषवाचितया दैवशब्दप्रयोगात् अर्जुनस्य ज्ञातत्वेन तथोपदेशाच्च नानुपपत्तिरिति । अथोभयसाधरणदैवशब्दस्य परमपुरुषवाचकत्वे नियामकमपि दर्शयति - सर्वस्येति । अत्र ‘मत्तः’ इति स्वस्य स्मृतिज्ञानादिहेतुत्वोक्तेः हेतुतया निर्दिष्टो दैवशब्दवाच्यः स्वात्मकपुरुष एवेति निश्चीयते इति भावः । नच मत्तः इत्युक्तस्य स्वस्याधिष्ठानादिष्वन्तर्भावसंभवः असंभवात्कर्तृशब्दस्य जीवपरत्वात् । न च सः परमात्मनोऽपि वाचकः । एकवचनान्तत्वव्याघातात्पंच हेतवः इत्युक्तस्यासाङ्गत्यापत्तेः । तावतापि परमपुरुषस्यकार्यनिवर्तकत्वानपायात् । ननु तस्योपसनादिनिर्वतकत्वसिद्धावपि कथमनीश्वरः संसारी तं वशीकुर्यात् अशक्यत्वात् । अत एव हि तद्वशीकरणप्रकारः कुत्रापि न श्रूयते - इत्यत्राह - तस्य चेति । इयं च शरणागतिः गीताभाष्ये शरणागतिगद्ये च स्फुटं प्रतिपादिता । गीताव्याख्यानावसरे अङ्गप्रपत्तिपरतया, गद्ये स्वतन्त्रप्रपत्तिपरतया च, चरमश्लोकव्याख्यानं चकार ॥
‘यद्येन कामकामेन न साध्यं साधनान्तरैः । मुमुक्षुणा यत्सांख्येन योगेन नच भक्तितः ॥ …न्यासेनैव महामुने’ इति अस्याः सकलफलसाधनत्वात् भक्तिविरोधिपापनिवर्तकत्वं सकलपापनिवर्तकत्वं चास्तीत्याशयेन तथोदाहृतम् । भक्तिस्थाने प्रपत्तेर्विधानात् । यथा भक्तेः सर्वपापप्रायश्चित्तरूपत्वं, तथाऽस्याः अपि सकलपापनिष्कृतिरूपत्वम् उपपद्यते । ‘आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासः गोप्तृत्ववरणं तथा । आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः’ इति प्रत्येकं शरणागतित्वोक्तावपि न्यासः पञ्चाङ्गसंयुतः ‘आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते’ इत्यादिप्रमाणबलात् आनुकूल्याद्यङ्गपञ्चक-संपन्नस्यैवात्मनिक्षेपापरपर्यायस्य न्यासस्यैव शरणागतिरूपत्वम् । भक्तिस्थानापन्नत्वं चेति निश्चेयम् ॥
एतत्सर्वं श्रीमति रहस्यत्रयसारे स्पष्टम् आचार्यवर्यैः प्रत्यपादि ‘ओम् इत्यात्मानं युञ्जीत’, ‘संधां च’ इत्यादि श्रुतिभिश्चेदं प्रतिपन्नम् । ‘हविः गृहीत्वात्मरूपं वसुरण्येति मन्त्रतः’ इत्यादिभिश्चास्याः उपायत्वं स्पष्टम् । प्रपत्तेः प्रारब्धनिवर्तकत्वं विशेषः इति सिद्धान्तः ।
अत्रैवमाशङ्का । ननु सञ्चितमात्रनिवर्तकभक्तिस्थाने प्रपत्तेः विधानात् अस्या अपि तावन्मात्रनिवर्तकत्वमेव स्यात् । न तु प्रारब्धांशनिवर्तकत्वमपि ‘येन येनेष्टहेतुना’ इति वचनात् प्रारब्धनिवृत्तिरूपेष्टस्याभिमतत्वात्तद्धेतुत्वम् यदि भक्तौ स्यात् तदा तस्य दुष्करत्वमभिसन्धाय, तत्स्थाने प्रपत्तिः कर्तुं शक्या । न चैतदस्ति । यदि सञ्चितपापनिवृत्तिमात्रमपेक्षितं, तदा भक्तेः तद्धेतुत्वात् तस्य दुष्करत्वाच्च तत्स्थाने प्रपत्तिर्युज्यते । यत्र शशविषाण-जीवनाश-विभूतिनाशादीनाम् इष्टत्वं तत्र फलस्यैवाप्रसिद्ध्या तद्धेतुभूतोपायोऽपि अप्रसिद्धः । अतः तत्स्थाने न प्रपत्तिसंभवः । यत्रोपायः प्रसिद्धः तस्य च यावत्फलजनकत्वं प्रसिद्धं तावत्फलजनकोपायस्थाने एव प्रपत्तेः सुवचत्वम् ।
एवं यागस्य स्वर्गजनकत्वमेव न मोक्षजनकत्वम् । एवं च मोक्षजनकयागस्थाने मुमुक्षुणा प्रपित्सुना भगवन्तं निवेश्य यागरूपोपायान्तरनिरपेक्षरक्षको भव इति रक्षकत्वप्रार्थनं हि नैव संभवति । नच ‘उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी । साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी ॥’ इति वचनबलात् प्रपत्तेः प्रारब्धनाशकत्वमपीष्यते इति वाच्यम् । तथा सत्यस्याः भक्तिस्थानापन्नत्वं परित्याज्यं स्यात् । प्रपत्तिकरणवेलायां स्वाभिमतफलसाधनोपायान्तरनिरपेक्षरक्षकत्वप्रार्थनारूपस्यास्य भरन्यासस्यैवासिद्धेः । भक्तेः स्वाभिमतफलरूपप्रारब्धनाशजनकत्वाभावात् । स्वाभिमतप्रारब्धनिवृत्तिरूपफलजनक इत्यादिना भक्तिरूपोपायस्यैव ग्रहणासंभवात् । अतः कथं भक्तिस्थाने भगवतो निवेशसंभवः । अपि च भक्तिप्रपत्त्योः फलवैषम्यसत्त्वाच्च शक्ताशक्ताधिकारिभेदेन विकल्पकथनमपि निरस्तम् ।
न चावताररहस्यचिन्तनसहकृतायाः भक्तेः प्रारब्धनिवर्तकत्वस्यापि सत्त्वात् प्रसिद्धिसंभवः इति वाच्यम् । तस्याः भक्तेः ‘त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन’ इति वचनबलेन देहावसाने एव मोक्षजनकत्वमिति क्षणान्तरदिवसान्तरादिमोक्षजनकत्वाभावात् अत्र प्रपत्तिस्थले भक्तिस्थाननिवेशासंभवस्य तावताप्यपरिहारात् । अवताररहस्यचिन्तनसहकृतभक्तिस्थाननिवेशस्य सार्वत्रिकत्वाभावाच्च ॥
नच भगवतो उपायान्तरस्थाननिवेशो नाम भक्तिप्रतिपदोक्तप्रायश्चितस्थाननिवेश एव । सञ्चितविषये भक्तिस्थाननिवेशः । प्रारब्धविषये अभिमत्यनुसारेण प्रतिपदोक्तप्रायश्चित्तस्थाने निवेशः । एवं चोपायान्तरनिरपेक्षरक्षकत्वप्रसिद्धिसंभवः । ‘जन्मान्तरकृतं पापं व्याधिरूपेण जायते । तच्छान्तिरौषधैः दानैः जपहोमार्चनादिभिः ॥’ इति प्रारब्धांशनिवर्तकत्वमपि प्रायश्चित्तानां विद्यते इत्यधिकारिविभागश्रीसूक्त्यापि सिद्धमिति वाच्यम् । तथा सति सामान्यत एव प्रतिपदोक्तप्रायश्चित्तस्थाने एव भगवतो निक्षेपसंभवात् सञ्चितविषये भक्तेः प्रारब्धविषये प्रतिपदोक्तप्रायश्चित्तस्य चेति विभागस्यैवानावश्यकत्वात् । सञ्चितनाशकत्वस्यापि प्रतिपदोक्तप्रायश्चित्ते संभवात् ।
नच चरमश्लोकाधिकारश्रीसूक्तौ सिद्धौषधदृष्टान्तवाक्यपर्यालोचने प्रतिपदोक्तप्रायश्चित्तस्थाने एव भगवतो निवेशः । न तु भक्तिस्थाने इति प्रतीतेः इष्टमेवेदम् । तत्र पशुपुत्रान्नादिविभिन्नफलेच्छया प्रयतमानानां तत्तत्फलसाधनयागादिस्थाने निवेशस्येव तत्तदनिष्टनिवृत्तिरूपफलेच्छायामपि तत्तत्फलसाधकप्रतिपदोक्तप्रायश्चित्तस्थाने निवेशस्यापि वक्तुं शक्यत्वादिति वाच्यम् । सकलफलसाधनभूतायाः प्रपत्तेः परभक्तिस्थाने निवेशः इत्युपायविभागाधिकारश्रीसूक्तिविरोधापत्तेः, ‘अत्र भक्तियोगस्थाने प्रपत्तेः विधानात् ईश्वरस्योपायान्तरस्थाननिवेशः कथं’, इत्यादिद्वयाधिकारश्रीसूक्तिविरोधापत्तेश्च । ‘वेद्यत्वद्रूपभेदो विविधः इह स तूपायतान्यानपेक्षा’ इति न्यासतिलकसूक्तिविरोधश्च । अतो भक्तिस्थाने एव परमात्मनो निवेशः । नतु प्रतिपदोक्तप्रायश्चित्तस्थाने इति चेत्, अत्र ब्रूमः -
मामेकमित्यत्र एकशब्दस्य षडर्थाः प्रतिपादिताः । तत्र ‘सर्वसाध्येष्वभिन्नता’ इत्यर्थस्वीकारे एव भगवतः उपायान्तरस्थाननिवेशः । तत्रैव हीदमुक्तम् - ‘यद्येन कामकामेन’ इति । चरमश्लोकस्य संग्रहरूपेऽर्थेऽस्मिन् अभिमतसाधनस्थाने भगवतो निवेशः प्रतिपादितः । ‘एकैकफललाभाय सर्वलाभाय केशवः’ । सर्वफलजनकत्वं सर्वोपायस्थाने निविष्टस्य भगवतः सिद्धत्वात् उपायान्तरनिरपेक्षरक्षकत्वप्रार्थनारूपभरन्यासः अवश्यं कार्यः इति प्रतीयते । तदा स्वरूपसमर्पणफलसर्मपणयोरिव भरसमर्पणमपि कर्तव्यमेव । तत्र भरसमर्पणं नाम यथा मत्स्वरूपं त्वदीयं, यथा च फलमपि त्वदीयं, तथा मद्रक्षणमपि त्वदीयमेवेति मोक्षार्थप्रपत्तौ रक्षणभरः भगवति निक्षिप्यते । रक्षणभरो नाम अनिष्टनिवृत्तिपूर्वकेष्टप्रापकत्वप्रार्थनमेव भगवति । न तूपायान्तरस्थाननिवेशरूपः । प्रतिपदोक्तप्रायश्चित्तस्य यथा तत्तत्पापनिवर्तकत्वं, तथा अस्याः प्रपत्तेरपि सर्वपापप्रायश्चित्तत्वं स्वीक्रियते । यथा भक्तेरेव सर्वसञ्चितपापप्रायश्चित्तरूपता, ‘अग्नौ प्रोतं प्रदूयेत’ इत्यादिवचनबलसिद्धा, तथा अस्याः सर्वपापप्रायश्चित्तरूपतावचनसिद्धा - ‘साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी’ इति । ‘सर्वपापेभ्यो मोक्षयिष्यामि’ इति कृष्णवचनमप्यत्र प्रमाणम् । अत एवात्रैवाधिकारे - मोक्षयिष्यामि इत्यस्य व्याख्यानावसरे - अत्र सर्वपापप्रायश्चित्तरूपत्वात् अनेनोपायेन सर्वपापानि क्षाम्यति इत्युक्तम् । उपायान्तरस्थाननिविष्ट एव भगवान् रक्षति इति न निर्बन्धः । अकिञ्चनस्यानन्यगतेः अधिकारिणः स्वरक्षणप्रार्थनापूर्वकं भगवन्तमध्यवस्यतोऽपि रक्षणं कुर्यात् । नच रक्षकत्वं भगवतः सर्वाधिकारिविषयेऽपि तुल्यमिति प्रपन्नेऽधिकारिणि को विशेषः इति मन्तव्यम् । तत्र यागादिकरणानन्तरं रक्षकत्वम् भगवति । अत्र तु तथा नास्तीति वैषम्यात् । तर्हि तत्स्थाननिवेश एव भगवति फलितः इति चेत् अनालोचितविशेषाशेषलोकशरण्यस्य तत्तदभिमतफलविरोधिनिवर्तनस्वभावस्य एतादृशप्रार्थनामात्रेण रक्षकत्वसंभवात् । अत एव पापारंभकपापनिवृत्यर्थं पुनःप्रपत्तिकरणं योयुज्यते ।यदि उपायान्तरनिविष्टस्यैव रक्षकत्वमिति नियमः, तदेदं नोपपद्यते । भाविनः पापस्य निवृत्त्यर्थं प्रतिपदोक्तप्रायश्चित्तविधानाश्रवणात् । प्रपत्तेस्तु सोऽपि विशेषः । अतः तथाविधप्रायश्चित्ताभावात् तत्स्थाने नास्याः निवेशः संभवति ॥
नन्वेकशब्दार्थविवरणे उक्तस्यान्तिमार्थस्य का गतिः । तत्र हि ऐहिकामुष्मिकफलसाधनोपायस्थाने निवेशस्येव मोक्षरूपफलार्थिविषयेऽपि उपायान्तरस्थाननिवेशस्य ‘नच भक्तित’ इत्यनेनोक्तत्वात् । भक्तेः प्रारब्धनिवर्तकत्वाभावात् । तत्र पूर्वोक्ताक्षेपस्य परिहारासंभवादिति चेत्, सत्यम् । यस्य भक्त्यादौ शक्त्यभावः ज्ञानाभावश्च मोक्षाभिलाषपुरस्सरं विलम्बाक्षमता च तस्य प्रपित्सोरपि प्रपत्तियोग्यत्वात् तस्य विषये उपायान्तरस्थाननिवेशपूर्वकरक्षकत्वं भगवति सूपपादमिति तद्वचनस्यावकाशसंभवात् ॥ कालविशेषनिर्देशं विना प्रपन्नस्य प्रारब्धकर्मावसाने हि मोक्षः ॥
वस्तुतः प्रपत्तिः द्विविधा - भक्तिस्थाननिवेशगर्भा प्रतिपदोक्तस्थाननिवेशगर्भा । ‘शरण’शब्दव्याख्यानावसरे अभिमतफलार्थम् इत्यादौ सामान्यपुरस्कारेण उपायान्तरमपि अनिक्षिप्य इत्येवोक्तम् नतु भक्तिम् इति ।
नन्वेतावता कृतस्य प्रश्नस्य कः परिहारः उक्तः । हस्तविहीनस्य साक्षात्प्राणायाम इव शिरोवेष्टनेनापि न स कर्तुं शक्यः । द्वये चरमश्लोके च उपायशब्दः श्रूयते । तस्योपायार्थवाचकत्वम् ‘उपाये गृहरक्षित्रोः …. उपायार्थैकवाचकः’ इति स्मृतिसिद्धम् । ‘त्वमेवोपायभूतो मे’ इति भगवतः उपायत्वं चोक्तम् । नायं सिद्धोपायवाचकः उपायशब्दः । सिद्धोपाये तस्मिन् उपायभूतत्वोक्तिः स्वर्गादिजनकयाग-मोक्षादिजनकभक्तिरूपत्वावगमिका । नात्र दृष्टिविधिः । चेतने ईश्वरे अचेतनयागादिरूपत्वस्यायुक्तत्वात् । अचेतने यागादौ ब्रह्मदृष्टिरपि प्रकरणविरुद्धा । अतस्सिद्धोपायं भगवन्तं साध्योपायभूतयागभक्त्यादिस्थाने निवेश्य तस्मिन् रक्षकत्वप्रार्थना कार्येति सिद्धम् । तत्रापि स्वाभिमतफलसाधनोपायस्थाने एव निवेशः । नतु स्वाभिमतफलानुपायस्थाने । तथासति तत्र निवेशनस्य निष्प्रयोजनत्वप्रसङ्गात् । तथा च प्रारब्धकर्मनिवर्तनाक्षमभूतायां भक्तौ भगवन्निवेशनेन कथं प्रपन्नस्य प्रारब्धनिवृत्तिः स्यात्? अभिमतफलसाधनोपायस्थाने सिद्धोपायस्य निवेशे हि अभिमतफलसिद्धिः । किञ्च सर्वाधिकारिनिरूपितरक्षकत्वप्रार्थनैव भगवति कृता स्यादिति प्रपन्नविषये भगवतो नातिशयश्च । इति चेद् - उच्यते ।
अत्रोपायान्तरस्थाननिवेशो नाम उपायान्तरनिरपेक्षरक्षकत्वप्रार्थनैव । उपायसंभवस्थले अशक्तविषये तन्निरपेक्षरक्षकत्वम् उपायासंभवस्थलेऽपि तस्यासत्वादेव तन्निरपेक्षरक्षकत्वम् । अतो न विरोधः । सर्वाधिकारिविषयेऽपि भगवतो रक्षकत्वं साधारणमपि अप्रपन्नविषये उपायान्तरसापेक्षरक्षकत्वरूपम् । अशक्तप्रपन्नविषये तन्निरपेक्षरक्षकत्वरूपम् । निरपेक्षत्वमपि द्विविधम् - उपायान्तरसद्भावासद्भावप्रयुक्तमिति । अतो न विरोधः ।
एतेन ‘यद्येन कामकामेन’ इत्युक्तषष्ठार्थे एवोपायान्तरस्थाने भगवतो निवेशः नान्यार्थेषु इत्यर्थस्वीकारे अस्वारस्यमिति दूषणमपि निरस्तम् । सर्वत्र स्थाननिवेशस्य स्वीकारात् । ‘त्वमेवोपायभूतो मे’ इत्युक्तोपायान्तरस्थाननिवेशरूपभरन्यासस्य शरणागतौ प्रधानत्वात् एतदभावे शरणागतिस्वरूपस्यैवासिद्धेः ॥
‘यद्येन कामकामेन’ इति षष्ठार्थनिरूपणं त्रैवर्गिकफलार्थिनां सर्वेषामपि शरणागतिः अवश्यंभाविनी । मोक्षार्थिनामेव इति न निर्बन्धः इत्येतत्सूचनायैवेति बोध्यम् । अत एव तत्र त्रैवर्गिकफलार्थिभिरपि कर्तुं शरणागतिः शक्या इत्युपसंहृतम् । सर्वत्रोपायान्तरनिरपेक्षरक्षकत्वस्याङ्गीकारेऽपि भरन्यासस्योपपादितत्वात् प्रारब्धपापे अभिमतव्यतिरिक्तपापांशे, प्रतिपदोक्तप्रायश्चित्तरूपोपायस्य, सञ्चितपापे भक्तिरूपोपायस्य च प्रसिद्धत्वात् एतदुभयनिरपेक्षरक्षकत्वप्रार्थनारूपभरन्यासस्य उपायसद्भावासद्भावप्रयुक्तनिरपेक्षरक्षकत्वप्रार्थनारूपस्यापि सूपपादत्वात् । यथा विशिष्टाभावस्थले विशेष्यमात्र सत्वेऽपि वा विशेषणमात्रसत्वेऽपि वा अन्यतराभावप्रयुक्तविशिष्टाभावोपपादनम्, तथाऽत्रापि उपायान्तरसापेक्षत्वाभावस्य सद्भावासद्भावप्रयुक्ततयोपपादनं संगच्छते ॥
ननु ‘सर्वपापेभ्यो मोक्षयिष्यामी’त्युक्त्या पापप्रायश्चित्तरूपत्वं प्रपत्तेः प्रसिद्धम् । न त्वपूर्वफलजनकत्वम् । साधनानुष्ठाने हि शरणागत्या प्रतिबन्धकनिवृत्तिरिति फलसिद्धिः इति चेन्न । अत्र अविद्यानिवृत्तेरेव फलत्वात् । ‘यथा न क्रियते ज्योत्स्ना’ इति न्यायेनाविर्भावस्य स्वतः प्राप्तत्वात् । ननु यागस्वर्गादिस्थले कथमुपपत्तिः । तत्र यागादिः साक्षात्स्वर्गसाधनं न च प्रपत्तिः स्वर्गादिसाधनम् । प्रतिबन्धनिवृत्तेरेव प्रपत्तिफलत्वात् । नच तत्र प्रतिबन्धनिवृत्तिरेव स्वर्गादिकम् इति चेत्? ‘तद्यथा इषीकतूलमग्नौ प्रोतं प्रदूयेत’ इति भक्तेरपि पापप्रायश्चित्तरूपत्वेनापूर्वफलसाधकत्वाभावप्रसङ्गात् । ‘आर्तो जिज्ञासुरर्थार्थी’ इति चतुःफलसाधनत्वस्य गीतायां स्पष्टमुक्तत्वादिति चेत् तत्स्थाने प्रप्तत्तेरप्युक्तत्वात् अपूर्वफलसाधनत्वं युज्यते । ‘यद्येन कामकामेन’ इति उपबृंहणानुसारेणापि साक्षात्सर्वफलसाधनत्वं प्रपत्तेः अङ्गीकार्यम् । पापनिवृत्तिरूपफलसाधनत्वोक्तिः उपलक्षणम् । पापनिवृत्तिरूपफलं प्रपत्त्या यथा, तथा सर्वफलसिद्धिरपि प्रपत्त्या इति बोधनमेवात्र क्रियते । यथा भक्त्यङ्गतया प्रपदनानुष्ठाने भक्तिविरोधिपापनिवृत्तिरुच्यमाना दृष्टान्तविधया सर्वपापनिवृत्तिजनिकापि प्रपत्तिः इति सूचनार्था । तथेति मन्तव्यम् ।
केचिदत्र उपायान्तरस्थाननिवेशविषये एवमभिप्रयन्ति - भगवतः भक्तिस्थाने न निवेशः । परं तु भक्तिरूपोपायस्थाने । भक्तेः उपायत्वं च तदधिगमप्रभृति, अन्तिमस्मृत्यवधि आधेयातिशयापन्नस्मृतेरेव । तदव्यवहितानन्तरमेव प्रारब्धावसानात् मोक्षप्राप्त्या तस्या एव मोक्षोपायत्वम् । सा च भक्तिः तत्कालस्थितसर्वपापप्रायश्चित्तरूपा, प्रपत्तिरपि तथाविधैव, (परं तु प्रपत्तिविषये प्रारब्धांशगर्भा, भक्तौ तदगर्भा ।) तादृशभक्तिस्थाने भगवतोः निवेशः संभवत्येव । सर्वपापप्रायश्चित्तरूपत्वस्याविवादात् इति । परभक्तिपरज्ञानपरमभक्तिरूपपर्वसु परभक्तिस्थाने प्रपत्तेः विवक्षितत्वात् अन्तिमस्मृत्यव्यवहितपूर्वक्षणवृत्तिभक्तिस्थानापन्नत्वाभावात्, तथैव श्रीमद्रहस्यत्रसारे प्रतिपादनाच्च, न तन्मनोहरम् । तथा तन्मतावलम्बनेऽपि आर्तप्रपत्तेरेव तथाविधत्वात् दृप्तप्रपत्तेः क्रोडीकारासंभवः । सर्वपापप्रायश्चित्तरूपत्वात् भक्तेः तादृशफलसाधनभक्तिस्थाने भगवतो निक्षेपः इति वक्तव्यम् । दृप्तप्रपन्नस्य प्रारब्धांशे पापांशस्याभ्युपगतत्वात् एतदभिमतफलसाधनत्वस्य भक्तावभावात् । तत्स्थाने भगवतो निक्षेपः न संभवत्येव । पूर्वं भक्तेः प्रारब्धनाशकत्वाभावप्रयुक्ततया अभिमतोपायत्वं नास्ति । अत्र सर्वपापनिवर्तकत्वेनाभिमतायाः भक्तेः स्वाभिमताभ्युपगतप्रारब्धांशव्यतिरिक्तनाशकत्वं नास्ति । प्रारब्धांशस्यापि नाशावश्यंभावात् । नच वचनबलात् अभिमत्यनुसारेण पापनाशकत्वमिष्यते इति वाच्यम् । तथैव वचनबलात् सर्वपापप्रायश्चित्तरूपत्वमेवेष्यतां, किं मध्ये उपायान्तरनिक्षेपेण ॥
किञ्च अन्तिमस्मृत्यवधिकभक्तेरेवोपायत्वमभ्युपगम्य निर्वाहे तदा प्रारब्धकर्मणोऽपि अनुभवेन नष्टत्वात् तत्स्थितेरेवाभावात्, ‘अनारब्धकार्ये एव तु पूर्वे तदवधेः’ इत्यधिकरणस्यैवानुत्थितिः स्यात् । भक्तेः प्रारब्धनाशकत्वं वा तद्व्यतिरिक्तनाशकत्वं वा इति सन्दिह्य प्रारब्धव्यतिरिक्तनाशकत्वस्थापनं हि तत्र क्रियते । उपायभूता भक्तिः प्रारब्धकर्मावसानभाविनी तदा प्रारब्धकर्मणामेवाभावात् एवं संशयस्यैवानुपपन्नत्वात् । तदर्थं समाधेरप्यनवसरग्रस्तत्वात् इत्यवधेयम् ॥
रथ्यादिरूपकविन्यस्ताः इन्द्रियादयः इति । नात्र क्रमविवक्षा । रूपकप्रकरणे वशीकारप्रकरणे चोक्तं प्राथम्यमादायैवमुक्तिः । स्वशब्दैरेवेति । यद्यप्यत्रार्थशब्दः रूपकप्रकरणे तु विषयशब्दः, अथाप्यनयोरनन्यार्थत्वध्रौव्यात् स्वशब्दैरिति भाषितम् । स्ववाचकशब्दैरिति वार्थः । अव्यक्तशब्दस्य शरीरवाचकत्वं तु कथञ्चिदेवोपपादनीयम् । स्पष्टीभविष्यति चेदं - ‘सूक्ष्मं तु तदर्हत्वात्’ इत्यत्र । परिशेषादिति । अनेन रथत्वरूपितशरीरस्यैवाव्यक्तशब्दवाच्यत्वे नियामकं दर्शितमिति न रूपितान्तरस्य तच्छब्दवाच्यत्वम् । निश्चीयत इति । अत्रेतिशब्दमध्याहृत्यास्य एतदुक्तं भवतीत्यनेनान्वयो बोध्यः ॥ परिशेषादिति । अवश्यापेक्षितार्थेषु केषाञ्चिदर्थानां कैश्चित् शब्दैः स्पष्टं बोधने अवशिष्टावश्यापोक्षितार्थस्यावशिष्टशब्देन बोधनं हि परिशेषः इति भावः ॥
यद्यपि “इन्द्रियाणि पराण्याहुः, इन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिः यो बुद्धेः परतस्तु सः ॥” इति गीतावचने इन्द्रियमनसोर्मध्ये अर्थाः नोपात्ताः । ‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः’ इत्यपि न श्रुतम् । अथापि सङ्ग्रहविस्तररूपेण कतिपयाभिधानसकलाभिधानयोरुपपत्तिरिति न तयोर्भिन्नार्थत्वशङ्कनं युक्तम् । एवमेव हि सृष्टिप्रकरेणेषु कतिपयसृज्यनिर्देशसमस्तसृज्यनिर्देशयोरविरोधः उपपाद्यते । अत एव हि अन्यत्रास्यार्थस्याभिधानबोधकम् आहुरित्येतदुपपन्नम् । ततश्चानयोरेकार्थत्वात् ‘इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्’ इति पूर्वप्रस्तुतकामस्यैव ‘यो बुद्धेः परतस्तु सः’ इति बुद्धेः परत्वकथनावश्यकत्वात् तद्वाक्यादौ तथैवोक्तत्वाच्च ॥ अत्र ‘बुद्धेरात्मा महान्परः’ इति आत्मनः तस्याः परत्वकथनं कथं सङ्गच्छते । उपबृंहणानुसारेणैवार्थस्य निर्णेयत्वादिति चेत्? उच्यते - यद्यपि पूर्वत्रोत्तरत्र च विरोधित्वे जेतव्यत्वे च प्रधानतया कामस्य तत्र निर्दिष्टत्वात् स एव ‘यो बुद्धेः परतस्तु सः’ इत्यनेन व्यपदिश्यत इत्यभ्युपेयम् । अथापि तस्य कठवल्ल्यर्थपरत्वं न स्वारसिकम् । अर्थाद्यनिर्देशेन मात्रया क्रमभङ्गस्यापातात् । न च सङ्ग्रहरूपेण तदभिधानोपपत्तिः, ‘इन्द्रियाणि मनो बुद्धिः’ इत्यत्र इन्द्रियादिकामपर्यन्तानामेव चतुर्णां विरोधिनां निर्देशेन तत्तारतम्यमात्रस्योत्तरत्रापि निर्देशावश्यकत्वात् । यदि त्वात्मनोऽपि नियन्तव्यत्वमभिमतं तर्हि तन्निर्देशोऽपि अवश्यं पूर्वं कृतस्स्यात् । तत्रहि इन्द्रियमनोबुद्धीनामेवाधिष्ठानत्वमुक्तं नत्वात्मनः । अत एव तस्य चतुर्भिः मोहनीयतया व्यपदेशः कृतः । अतश्चतुर्णामेव नियमनमत्र क्रियते । अतः अर्थाद्यनिर्देशेन क्रमभङ्गस्य नियन्तव्यान्तरकथनस्य च सत्वात् नैतदुपबृंहणरूपत्वं तस्य । आहुः इति तु - ‘इन्द्रियाणां हि चरतां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम्’ इत्यादिमन्वादिवचनाभिप्रायकम् ॥
एवं तन्त्रसिद्धप्रक्रियाप्रत्यभिज्ञापनमभ्युपगम्योक्तम् । परत्वं वशीकार्यतायामित्युपपादितम् । अथ तत्प्रत्यभिज्ञापनमेवात्रायुक्तत्वान्नास्तीत्याह - न चात्रेति । नहीति । कारणतायां परत्वमेव तदभिमतं, तच्च भवन्मतविरुद्धमपि । आहङ्कारिकाणामिन्द्रियादीनामर्थजन्यत्वाभावात् । अन्यादृशं परत्वमपि दुर्वचमिति प्रागेवोपपादितम् । सुवचत्वेऽपि ‘महतः परमव्यक्तम्’ इत्यत्र कारणतायां परत्वस्य वक्तव्यतया वैरूप्यापत्तेरिति भावः । ‘मनसस्तु परा बुद्धिः’ इत्यस्य कथञ्चित् बुद्धिशब्दवाच्यमहत्तत्त्वस्याहङ्कारद्वारा मनः कारणत्वेनोपपादनसंभवेन तत्साङ्गत्येऽपि ‘बुद्धेरात्मा महान्परः’ इत्यस्यासाङ्गत्यमित्याह - तथेति । बुद्धिशब्देनेति । ‘मनसस्तु परा बुद्धिः’ इत्यस्य कथञ्चिदप्युपपादनार्थमेव हि बुद्धिशब्दस्य महत्तत्त्वपरत्वं स्वीकृतम् । अन्यथा तदपि दुरुपपादं भवेदिति भावः । तथाऽभिधाने च दूषणमाह - नहीति । ननु समष्टि-व्यष्टिविभागेनोक्तपरत्वोपपत्तिरिति चेन्न, पूर्वत्र तथा विभागादर्शनेनास्वारस्यात् । रूपकप्रकरणे तथा पृथङ्निर्देशाभावाच्च । अस्तु वा तथा निर्वाहः - अथापि दूषणान्तरमस्तीत्याह - महत इति । आत्मशब्दस्य स्वतश्चेतनैकान्तत्वादित्याशयः ॥ यद्यपि अगतिकस्थले क्वचिदवयवव्युत्पत्त्याऽन्यर्थकत्वमपीष्यते । अथापि अत्रावयवसिद्धार्थस्य प्रधाने एव पुष्कलत्वेन महत्तत्त्वविशेषणत्वं न युक्तम् । चेतनवाचित्वे गतिश्च दर्शितेति । ननु सिद्धान्तेऽपि आत्मनः महच्छब्देन विशेषणमपि न सङ्गच्छते । तथा सति आत्मनः विशेष्यत्वेनोत्तरत्र विशेष्यवाचकपदानिर्देशेन ‘महतः परमव्यक्तम्’ इति विशेषणवाचकपदनिर्देशस्यास्वरसत्वादिति चेन्न । विशेषणवाचिपदेनापि प्रकृतविशेष्याभिधानस्य दर्शनेनानुपपत्त्यभावात् ॥
दर्शयति चेति सूत्रखण्डं व्याचष्टे - दर्शयतीत्यादिना । तत् = वशीकार्यतायांपरत्वम् । इति दर्शयतीत्यन्वयः । श्रुतिरित्यध्याहार्यम् । अजितबाह्याभ्यन्तरकरणैरित्यनेन ‘यस्त्वविज्ञानवान्’ इत्यादि श्रुत्यर्थो विवृतः । ‘गूढोत्मा न प्रकाशते’ इत्यभिसन्धायाह - परमपुरुषस्य दुर्दर्शत्वमिति । वाक्शब्दस्य सर्वेन्द्रियोपलक्षणत्वमभिसन्धायोक्तं - वाक्पूर्वकाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि चेति । मनसः पृथक्श्रवणेन वाक्शब्देनन तत् गृहीतम् ॥ छान्दसो दीर्घ इति । अयमाशयः - वाक् च मनश्चेति विग्रहे वाङ्मनसे इति रूपप्राप्त्या तत्र वाङ्मनसीति दीर्घस्य छान्दसत्वं कल्पनीयम् । तदपेक्षया पदं विभज्य सप्तम्यन्तत्वं चाभ्युपगम्य मनसीति निर्देशस्य ‘ईदूतौ च सप्तम्यर्थे’ इति प्रकृतिवद्भावस्मरणनिबन्धनत्वाभ्युपगम एवोचितः । यच्छेदित्युक्तनियमनस्य ‘ज्ञान आत्मनि’ ‘आत्मनि महति नियच्छेत्’ इत्यादाविव सप्तम्याः अपेक्षितत्वात् । वाक्च मनश्चेति विग्रहे च तद्यच्छेत् ज्ञान आत्मनीति एकवचनान्ततच्छब्दनिर्देशस्यास्वरसत्वाच्चेति । बुद्धिरभिधीयत इति । ज्ञानशब्दस्याहङ्कारपरत्वेऽस्वरसत्वादिति भावः । पूर्वोक्तेत्यनेनानात्मविषयकहेयत्वाध्यवसायरूपत्वम्, आत्मविषयकोपादेयत्वाध्यवसायरूपत्वं च दर्शितम् । ज्ञानसामन्यवाची ज्ञानशब्दः विशेषे पर्यवस्यतीति भावः ॥ ननु कथं ज्ञानशब्दः बुद्धिमभिधत्तां, तस्याः आत्मविशेष्यत्वासंभवादित्यत्राह - ज्ञान आत्मनीति व्यधिकरणे सप्तम्यौ ॥ ननु स्वरससिद्धसामानाधिकरण्यस्य परित्यागः किमिति स्वीकृतः । उच्यते । आत्मशब्दस्तावत् चेतनैकान्तः इत्यविवादम् । अत एव ‘ज्ञानमात्मनि’ इत्यत्राप्यात्मशब्दस्यात्मपरत्वेनैकरूपार्थत्वम् । अतश्च ज्ञानशब्दबोध्यायाः बुद्धेः आत्मत्वासंभवेन वैयधिकरण्यं स्वीकृतम् । ननु आत्मस्वरूपस्यापि ज्ञानरूपत्वेन ज्ञानशब्दस्य विशेषणवाचकत्वमभ्युपगम्य सामानाधिकरण्यं किमिति न स्वीकृतम् । मैवम् । तच्छब्दबोधितमनसः आत्मनि नियमनासंभवेन वाक्यार्थासाङ्गत्यापत्तेः । बुद्धेरेव ह्यात्मनि नियमनं युक्तम् । आत्मनि महति नियच्छेदिति आत्मनि अन्यस्य नियमनोक्तेश्च । वस्तुतः सामानाधिकरण्याभ्युपगमे आत्मनश्च विशेष्यत्वे ‘ज्ञानमात्मनि महति नियच्छेत्’ इत्यत्र विशेषणवाचिज्ञानपदस्यापि आत्मरूपविशेष्यवाचित्वापत्तिः । ततश्चात्मानमात्मनि नियच्छेदिति वाक्यार्थस्यासाङ्गत्यं दुरपह्नवमिति । अर्थस्कुटीकरणाय वर्तमाने इत्युक्तम् । शान्ते = स्वतः ऊर्मिषड्कप्रतिभटे । शान्त आत्मनीत्यनेन सिद्धमर्थमाह - परस्मिन्ब्रह्मणीति । ननु पुलिङ्गात्मवाचकशब्दस्य प्रस्तुतत्वेन तदिति क्लीबनिर्देशः कथमित्यत्राह - व्यत्ययेनेति । ‘सुप्तिङुपग्रहलिङ्गनराणाम्’ इति शाब्दिकैरुक्तत्वादिति भावः । अत्रेन्द्रियादीनां मनसि नियमनं नाम - मनोऽननुगुणप्रवृत्तिवैमुख्यापादनम् । मनसः बुद्धौ नियमनं च अध्यवसायानुगुणप्रवृत्तितापादनम् । बुद्धेरात्मनि नियमनं च उपादेयवस्तुनि तदेव साक्षात्कार्यमित्येतदर्थविषयत्वापादनम् । परमात्मशेषता प्रतिपत्तिः जीवस्य परमात्मनि नियमनम् । तस्य वशीकरणमपि तदेवेति ध्येयम् ॥
अत्रार्थानां शरीरस्य च नियमनानुक्तिः तयोरर्थसिद्धत्वाभिप्रायेण । विषयासन्निधानरूपविषयनियमनाभावे सात्त्विकाहारेण शरीरपरिशोधनरूपशरीरनियमनाभावे चात्यक्तविषयत्वात् दुष्टाहारसेवया मलिनमनस्कत्वाच्चेन्द्रियादिनियमनासंभवात् । अतोऽत्र न तयोः पृथगुक्तिः । अनेन रूपितानां वशीकरणप्रकारस्यानया श्रुत्या दर्शितत्वोक्तिः कथं अर्थशरीरनियमनानुक्तेरिति शङ्का निरस्ता । अत्र विषयसन्निधिपरिवर्जनस्य सात्त्विकाहारसेवनस्य च योगाद्युत्पादनकाले एव कर्तव्यत्वम् । इन्द्रियादिनियमनस्य तु योगकाले एवेति वैलक्षण्यं च बोध्यम् ॥

व्यक्तस्य शरीरस्येति । अव्यक्तशब्दः “अव्यक्तमक्षरे लीयते इत्यादावव्यक्तप्रधानवाचीदृष्टः । अतस्तस्य व्यक्तशरीरवाचकत्वम् कथम् । यद्यपि पारिशेष्यात्शरीराव्यक्त शब्दयोरैकार्थ्यमवश्य भावि । उपक्रमस्थ शरीर शब्देनाव्यक्तशब्दस्यार्थो वर्णनीयश्च, अथापि तस्याव्यक्तशब्दस्य शरीरवाचकत्वानुगुणवृत्त्यभावात् तद्वाचकत्वम् न स्यादित्याशयः ।। अवस्थाविशेषमापन्नम्मित्यनेन कार्य रूप शरीरे कारणशब्दोपचारस्यानु गुणः द्रव्यैक्यरूपसंबन्धःदर्शितः । हि इत्यनेन सूत्रस्थतुशब्दार्थः विवृतः । तदर्हत्वादितिसूत्रखण्डस्य, कारणभूताव्यक्ते एव कार्यवाचिशरीर शब्दस्योपचारःइति किमिति नाभ्युपगम्यते इति शंकानिरासपरत्वमभिप्रेत्य तदर्थमाह - तस्येतिविकारापन्नस्येत्यन्तम् सूत्रस्थतच्छब्दस्य तस्येति व्यस्य निर्दिष्टस्यविवरणम् ।एवकारो भिन्नक्रमः । विकारापन्नस्यैवाचिद्वस्तुनः अव्याकृतस्येत्यर्थःशरीरं रथमेव चेत्युक्तमभिसन्धायाह - रथवदिति । प्रवृत्त्यर्हत्वादितियद्यप्यौपचारिकत्वाश्रयणमुभयपक्षाविशिष्टम् । अथापि शरीर शब्दस्याव्यक्ते औपचारिकत्वेऽर्थ विरोधः । न अव्यक्तमविकृतम् पुरुषार्थसाधनप्रवृत्यर्हम् । शरीरम् तु तादृशं भवितुमर्हति । एतदभिप्रेत्यहिउपक्रमे शरीरं रथमेवचेति रथत्वेन शरीरम् रूपितम् अतः उपक्रमस्थशरीरशब्दस्वारस्यात्,उपायदशायाम् स्थूलशरीरस्योपयोगप्रतीति स्वारस्याच्चा व्यक्तशब्दस्यैवौपचारिकत्वमाश्रयितुंयुक्तमित्याशयः

प्रधानसूत्रे परमपुरुषस्यापिशब्देन समुच्चितत्वेन बुद्धिस्थत्वात्तस्य तच्छब्देन परामर्शः युक्त इत्यभिप्रेत्याह - परमकारणभूतपरमपुरुषेतिपूर्वसूत्रस्थ सूक्ष्मशब्दानुवृत्तिमभि प्रेत्योक्तम् भूतसूक्ष्ममितिननु प्रधानमभ्युपगम्य तस्य कारणत्वांगीकारणं तद्दूषणम् च विरुद्धमितिशंकायाः उक्तेन कथम् परिहारः इत्यत्राशयं विवृणोति - एतदुक्तमितिपरमपुरुषात्मकत्वविरहेणानभ्युपगमात् स्वरूपेणेत्युक्तम् । न नाभ्युपगच्छामः - अभ्युपगच्छामएवेत्यर्थः । तदात्मकत्वविरहेण नाभ्युपगच्छाम इत्यन्वयः । सूत्रोक्तम्अव्यक्तादेः परमपुरुषाधीनत्वम् न तत्प्रवृत्तिमात्रे किंतु परमपुरुषशरीरतयातदात्मकत्वेनापीति सूचनाय - तदात्मकत्वेत्यन्तम्सूत्रे विधेयत्वार्थकतदधीनत्व वचनं तदाधेयत्व तच्छेषत्वादीनामप्युपलक्षणम्तेन तच्छरीरत्वरूप तदात्मकत्वसिद्धिः ।परमात्मात्मकत्वेनाभ्युपगमे एव तेषांप्रयोजनवत्वमित्युपपादयति - तदात्मकत्वेनैवेतिस्वप्रयोजनं=स्वकार्यं भोगापवर्गरूपं वा । बाधकमाह - अन्यथेति ।तदात्मकत्वाभावे इत्यर्थः । स्वरूपं=मानसंबन्धार्हत्वम् । व्यवहारार्हत्वंवास्थितिः=उत्तरकालानुवृत्तिः । प्रवृत्तिः=कार्योत्पत्त्यनुगुणव्यापारःन स्युरिति । अयमाशयः - यथा आत्मविश्लेषे शरीरस्य स्वरूपस्थितिप्रवृत्ति भेदाः न भवेयुः एवमेव, “न तदस्ति बिना यत्स्यात्” मयिसर्वमिदं प्रोतं, मत्तस्सर्वं प्रवर्तते इत्यादिप्रमाणावगतपरमात्मसंबन्घाधीनस्वरूपस्थितिप्रवृत्तिमतां प्रकृत्यादीनां तदात्मकत्वविरहे स्वरूपस्थिति प्रवृत्तिभेदाःनस्युरितिएवमब्रह्मात्मक प्रधानाद्यनभ्युपगमादेव तन्मतनिरासः अतः न स्वमतेव्याहतिरित्याह - तथेति । ननु तदात्मकत्वे सिद्धेहि शरीरदृष्टान्तेनप्रकृत्यादीनां प्रयोजनवत्वं वक्तुं युक्तं, तदात्मकत्वमेवतु नसिद्धं प्रमाणाभावात् । नहि जीवसंबन्धे शरीरस्य स्वरूपस्थिति प्रवृत्तिभेदरूपप्रयोजनदर्शनमिवप्रकृते तथा दर्शनमस्ति, येनकार्यबलेन तदात्मकत्वमनुमन्तुं शक्यमित्यत्राह - श्रुतिस्मृत्योरितिश्रुतिमुदाहरति - तथेति । उत्पत्तेः प्रलय पूर्वकत्वेन प्रलय श्रुत्युपादानेनैव"तस्मात्तमस्संजायत” इत्यादि सृष्टिवाक्यानि प्रदर्शितानि भवन्तीतिमत्वा तादृशाति नोपात्तानियस्य पृथिवीत्यादिकं महिमप्रतिपादनपरम्।। भूमिराप इत्यादिना स्मृतिप्रदर्शनम्लीयेते परमात्मनीति । अत्र प्रकृति पुरुषयोर्लयः तप्तायस्तोयनीत्योपपादनीयः

उत्तरसूत्रार्थमाह - यदीति । ज्ञेयत्वमवक्ष्यदिति । अयमाशयः - तद्विष्णोःपरमं पदमित्युक्त्या प्रकरणस्य मुमुक्षुविषयकत्वावगमात् मुमुक्षुणाचसर्वकारणीभूतस्य प्रधानस्य ज्ञातव्यत्वावश्यकत्वेन तज्ज्ञानमवश्यमुपादेश्यंभवन्मते, नह्यव्यक्तस्य ज्ञेयत्वेनोपदेशः अत्र प्रकरणेदृष्टः ।अतः प्रधानभूत भवन्मतप्रक्रियाप्रत्यभिज्ञापकाभावेन न तन्त्रसिद्धाव्यक्तस्यग्रहणमिति । ननु अव्यक्तज्ञानस्योपासनात्मकस्यास्माभिरपि मोक्षकारणत्वानभ्युपगमात्नायं दोष इत्यत्र तदुक्तकारिकाभागमेव स्ववाक्ये दृढीकरणाय विनिवेश्यपरिहरति - व्यक्तेतिसर्वेषां ज्ञेयत्वाभ्युपगमादिति । अयं त्विह भावः - यद्यपि तत्क्रतुन्यायेनाचित्संपत्तिभियाप्रधानोपासनस्य मोक्षकारणत्वं नाभ्युपेतम् । अथापि हेयता बुध्युत्पत्यर्थंव्यक्तस्याव्यक्तस्य पुरुषस्य च ज्ञानं मुमुक्षोः अपेक्षितम् ।

वदतीति चेदित्युत्तरसूत्रं व्याचष्टे - अशब्दमिति । इयं श्रुतिरितिअस्यां श्रुतौ शब्दादिमत्स्थूलरूपाचेतन आकाश पृथिव्याद्यश्रयस्यशब्दादेर्निषेधात् पृथिव्यादिसजातीयसूक्ष्म रूपाचेतनमेव निषेधाधारंभवितुमर्हति । अत एव महच्छब्दवाच्यमहत्तत्वापेक्षया परत्वोक्तिःअतः अशब्दमिति प्रतिपादितस्य निचाय्येति ज्ञेयत्वोक्तेः नास्मन्मतप्रत्यभिज्ञापने विप्रतिपत्तिगन्धः इति भावः ।। निचाथ्यत्वेनेतिअनेन चायृ दर्शने इति धातुनिष्पन्नस्यास्य दर्शनार्थकत्वेन तस्यचश्रुत्यन्तरसंवादेन प्रत्यक्षसमानाकारोपासनेपर्यवसानात् तादृशोपासनविषयत्वंप्रधानस्य न युक्तं, प्रधानोपासनस्य मृत्युप्रच्यवनहेतुत्वानभ्युपगमेनभवन्मतविरोधात् इति सूचितम्विज्ञान सारथि रित्यादिना, परमपुरुषासाधारणविष्णुशब्दश्रवणेन परमपुरुषस्यैवप्रकृतत्वमितिदर्शितम् । अथ प्रसंगात् अवान्तरशंका निरासकेनानेनापिसूत्रेण प्रधानपूर्वपक्षयुक्ति निरासोपि क्रियतइत्याशयेनाह - अत एवेतिप्रकरणे प्राज्ञस्योक्तत्वादित्यर्थः । न पंचविंशकेति । यदि पुरुषादित्यादौजीवतत्वातिरिक्तस्यैव निषेधः अभ्युपगम्यते तदा तदतिरिक्ततत्वबोधनंप्रकरणे एव विरुध्येत इति भावः ।।नन्वचेतनप्रधानगतानामशब्दत्वादिधर्माणां कथं परमपुरुषवृत्तित्वमित्यत्राह - तस्यचेतितत्तदद्रेश्यमित्यादि श्रुतिमुपादाय अदृश्यत्वाधिकरणे समर्थितत्वादितिभावः । नन्वदृश्यत्वादीनां परमपुरुषे समर्थनेन अशब्दत्वादीनां कथंसमर्थितत्वमिति चेन्न, अरूपत्ववाचकावर्णपदश्रवणात् तत्र च वर्णपदस्यशब्दाद्युपलक्षणत्वात् अवर्णत्वं अशब्दत्वादिकंचैकरूपमेवेति अशब्दत्वादीनांपरमपुरुषगतत्वनिश्चयसंभवात् । ननु ब्रह्मणि महतः परत्वोक्तिर्विरुध्यनइत्यत्राह - महतः परमिति । पूर्व प्रकृतादिति । बुद्धेरात्मा महान्परःइत्यत्र इन्द्रियादिपरिकरवत्वरूप प्राधान्यातिशयविवक्षया महच्छब्देनविशेषितस्य आत्मनः प्रकृतत्वादित्यर्थःननु “बुद्धेरात्मा महान् परः महतः परमव्यक्त’मित्यत्राव्यक्त शब्दबोधितस्यपरमपुरुषभिन्नस्य महत परत्वेन निर्देशः अत्रतु परमात्मन एवेति वैरुप्यप्रसंगःइति चेत्? इष्टापत्तेः। तत्रहि “इन्द्रियेभ्यःपरा ह्यर्थाः इत्यादिनावशीकार्यतायां प्रधानस्य परत्वेन निर्देशात् शरीरस्य जीवात्मनःपरत्वेननिर्देशो युक्तः । अत्रतु महतः परमव्यक्त मित्येतावन्मात्रकथनात्वशीकार्यतायां प्राधान्यविवक्षावगमेन परमात्मनः जीवभिन्नत्वरूपपरत्वाभ्युपगमे विरोधाभावादिति ।।

सूत्रे हेतुवाचकशब्दाभावेन हि इति भाषितम् । सूत्रस्थ प्रथमचकारःहेतु समुच्चय परः । द्वितीयस्तु प्रश्नोपन्यासयोस्समुच्चयपरः ।सूत्रे प्रतिवचनपर्यायोपन्यासस्य प्रथममुक्तिः - प्रश्नवाक्यार्थस्यप्रतिवचनानुसारेण विज्ञेयत्वबोधनार्था । तेन प्रश्नवाक्यस्य मुक्तमात्रविषयत्वाशंकानिरस्ता एवंपदसमभिव्याहृतोपन्यासशब्दं विशिंषन्नाह - ज्ञेयत्वेनेतिएवकारसिद्धमर्थमाह - नान्यस्येति । अनेन प्रकरणस्य प्राज्ञैकपरत्वंनास्ति प्रधानस्यापि प्रतिपाद्य मानत्वादिति शंकनं निरस्तं भवतिअत्र प्राप्य ब्रह्मणःप्राप्तुः प्रत्यगात्मनः उपायस्योपासनस्यैवचप्रश्नप्रतिवचने इति कथमवगम्यते तदुपपादयति तथाहीतिविरक्ताग्रेसरस्य नचिकेतसः काम्यवरणानुपपत्तेः - पुरुषार्थयोग्यतापादिनीमित्युक्तम् । नाचिकेताग्निविद्यायाः परमात्मकस्वात्मानुसन्धानगर्भत्वेनपरब्रह्मोपासनद्वारा मोक्षोपायत्वं प्रकरणसिद्धमित्यभि प्रेत्य - मोक्षोपायभूतामितिभाषितम् । स्वर्ग्यं=स्वर्गजनकम् । स्वर्गलोका इति बहुव्रीहिः ।निरतिशयसुखरूपस्थाने विद्यमानः इत्यर्थः । मोक्षोऽभिधीयत इति ।स्वर्गशब्दस्य प्रकृष्टसुखपरत्वात् मोक्षस्य च तादृशत्वादिति भावःअत्र मोक्षशब्दः मोक्षस्थानपरः । स्वर्गलोकाः इत्युपरिनिर्देशात्केवलसुखरूप मोक्षपरत्वे लोकशब्दसामानाधिकरण्यायोगात्अत एव हि तत्रस्थस्येत्युपरि भाषितम् । प्रसिद्धस्वर्गपरित्यागेबीजमाह - मृतत्वमिति । अन्यथा “क्षीणे पुण्ये मर्थलोकं विशन्तीत्युक्तेः"अमृतत्वं भजन्त इत्यस्य विरोधापत्तेरिति भावः । निन्दादर्शनाच्चेतिउतरत्र “सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्वं जीवितमल्पमे"वेत्यादिभिःनचिकेतसैव क्षयिफलजनकं कर्म निन्द्यते, यद्यत्रात्यल्पप्रसिद्धस्वर्गजनकाग्निविद्या अनेनैव वृता स्यात्तर्हि तत्कर्तृकतन्निन्दनं कथंसंगच्छेते । अतोऽत्रानवधिकानन्दरूपमोक्षजनकाग्निविद्यैवानेन वृतेतिस्वर्ग शब्दस्य मोक्षपरत्वमेषित व्यमित्यर्थःअथैतत्प्रश्नप्रतिवचनेनापि मोक्षपरत्वं निश्चेतुं शक्यमित्याह त्रिणाचिकेतःइति । त्रिणाचिकेतः=अयं वायज्ञः पवते इत्याद्यनुवाकत्रयाध्यायीत्रिकर्मकृत् यजनाध्ययनदानकृत् । पकयज्ञहविर्यज्ञसोमयज्ञकृत्इतिवाऽर्थः । त्रिभिः=अग्निभिः (हेतुभिः) सन्धिं=परब्रह्मे । पासनसंबन्धम्एत्य=प्राप्य । जन्ममृत्यू तरतीत्यन्वयः ।। अत्राग्निविद्यायाःपरमात्मोपासनद्वारा जन्ममृत्युतारकत्वोक्तेः तत्साध्यं मोक्षरूपफलमेवेतितदेवात्र प्रश्ने स्वर्गशब्दग्राह्यमित्यध्यवसीयत इत्याशयः । येयमित्यस्यार्थःअत्रधिकरणे भाष्यकृतैव दर्शितःननु देहातिरिक्तजीवस्वरूपमात्रप्रश्नपरत्वमस्य किं न स्यादित्यत्राह - एवंमोक्षे इति । इत्युपदिदेशेत्यन्वयः । प्रतिवचनानुसारेणैव प्रश्नार्थस्यावगन्तव्यत्वात्प्रतिवचने च पूर्वोक्तत्रयाणा मुक्तेः प्रश्नस्यापि तत्परत्वमेवयुक्तमित्याशयः । वरद्वयवरणानुपपत्तिरूपहेतुः पूर्वंभाषितः इतिनात्र प्रोक्तम् ।। प्रकरणोक्तं दुरवगमत्वविविधप्रलोभन प्रश्नप्रतिवाचनादिकमभिसन्धाय - तदुपदेशयोग्यतां परीक्ष्येति भाषितम् ।। दुर्दर्शं=द्रष्टुमशक्यम् । तत्रगूढमिति हेतुकथनं, गुणत्रयतिरोहितत्वादित्यर्थः । अनुप्रविष्टं=शरीरानुप्रविष्टंगुहाहितं=हृदयगुहागतम् । गह्वरेष्टं=तदन्तर्गते वस्तुनि स्थितम्जीवान्तस्थितमिति यावत् । अध्यात्मयोगः प्रत्यागात्मस्वरूपविषयकयोगः । ननु प्रतिवचने एव त्रयाणां कथमवगतिः येन प्रश्नस्य तत्परत्वंयुक्तं स्यादित्यत्राह तदेवमिति । उपदेश्यस्य त्रितयस्यानेनैवोपदेशेउपदेश्याभावेन पुनःप्रश्नाद्यनुपपत्तिरिति शंका परिहाराय - सामान्येनोपदिष्टे -इति भाषितम् ।। अन्यत्रेति । धर्मादन्यत्र=प्रसिद्धोपायादन्यत्रतद्विलक्षणमित्यर्थः । अनेनोपायस्वरूपप्रश्नः कृतः । अधर्मादन्यत्र=उपायेतरोपेयविलक्षणम्अनेनोपेयप्रश्नः कृतःअस्मादन्यत्र=, अस्मच्छब्दः बुद्धिस्थ तत्साधकरूपोपेतृपरः । प्रसिद्धोपेतृविलक्षणःअनेनोपेतृस्वरूप प्रश्नः । उपेतुः साधकावस्थायां इतरफलविरक्तत्वात्फलदशायामाविभर्ूतगुणाष्टकविशिष्टत्वाच्चात्रोपेतुर्वैलक्षण्यम्कृताकृतात्=वर्तमानात् प्रारब्धस्यासमाप्तस्य हि वर्तमानत्वम्इदं च धर्मादीनां विशेषणम् । तथाचायमर्थः - वर्तमानात् धर्मादेःविलक्षणं भूतात् धर्मादेर्विलक्षणं भव्याद्धर्मादेर्विलक्षणं यत्तत्पश्यसि तद्वदेत्यर्थः । अत्र प्रश्नत्रयस्यापि प्रतिवचनानुसारेणत्रितयधयत्तच्छब्दस्वारस्यत् स्वरूपशोधनाकांक्षायास्त्रितयसाधारणत्वेनपृष्टत्वमभिसंघाय श्रुत्यर्थं प्रदर्शयति - एवमितिकृत्स्नवैलक्षण्यबोधनाय - सकलशब्दः । वक्ष्यमाणोपायोपेयोपेतृणामपिक्रमेण साध्यसाधनसाधकत्वसद्भावेन कथं तद्वैलक्षण्यसिद्धिरिति शंकापरिहाराय इतरशब्दः स्वेतरार्थकः । अतीतत्वादीनां साध्यादिषु अन्वयःस्वेतरसकलं अतीतमनागतं वर्तमानं च यत्साध्यं साधनं साधकं वा तद्विलक्षणमित्यर्थःयद्वा - अन्यत्रेत्यधिकस्य श्रूयमाणतया कृताकृतात् भूतात् भव्याच्चान्यत्रेत्यन्वयमभ्युपगम्यवक्ष्यमाणेपायोपेयोपेतृणां अतीतादिवैलक्षण्यमप्युक्तम् । धर्मादधर्माच्चान्यत्र=यत् । पुण्यापुण्यरूपसाधन विलक्षणं यत् । अनेनोपासनप्रश्नः । कृताकृताद्भूताद्भव्याच्चान्यत्र यत् कालापरिच्छिन्नमुपेयंयत् । अनेनोपेयप्रश्नः । उपेतुः चेतनस्यनित्यत्वात्प्राम्यान्तर्गतत्वाच्चतत्प्रश्नस्योपेयप्रश्नेन तन्त्रेण सिद्धिरित्यपि केचित् । प्रणवंप्रशस्येति - सर्वे वेदाः इत्यादिनेत्यर्थः । प्राप्यस्वरूपमिति ।पद्यत इति व्युत्पत्या पदशब्दस्य प्राप्यवाचित्वादित्यर्थःतदन्तर्गतं=प्रणववाच्य प्राप्यान्तर्गतम् । प्राप्तृस्वरूपस्य तदन्तर्गतत्वं=प्रणवैकदेशवाच्यत्वात्प्रणववाच्य प्राप्य परमात्मनि प्रकारतयाऽन्तर्गतत्वाद्वा । अतएव परिशुद्धजीवस्य प्राप्यान्तर्भावात् पदशब्दवाच्यत्वमपि । वाचकरूपमुपायमितिशब्दरूपस्य प्रणवस्य वाच्यस्मरणोपायत्वेन मोक्षोपायभूतस्मरणोपायत्वात्उपायत्वम् । “ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्” ओमित्यात्मानंध्यायथ’ ओमित्यनेनैवाक्षरेण…..अभिध्यायीत इत्यादौ प्रणवस्यध्यानोपायत्वाभ्युपगमात्।। तपांसि=वेदान्ताः तपः प्रधानत्वात् । अत्र “तत्ते पदं संग्रहेणब्रवीमि’ इति प्रप्यस्वरूपमात्र प्रतीतावपि - ब्रह्मणः प्रतिज्ञातत्वेपितदनुंबन्धिनां तदुपयुक्तत्वादुत्तरत्र निरूप्यमाणत्वाच्चार्थतःप्रतिज्ञातत्वसिद्धिवत् ब्रह्मवेदनोपयोगित्वात् उत्तरत्र प्रतिपाद्यमानत्वात्पदशब्दवाच्यान्तर्गतत्वाच्चोपायोपेत्रोरपि प्रतिपाद्यत्वं च सिध्यतीतिबोध्यम्पुनरपि प्रणवं प्रशस्येति । एत देवाक्षरं ब्रह्मेत्यादावित्यर्थःनजायते इति । न जायते म्रियतेवा विपश्चिन्नायं कुतश्चिन्न बभूवकश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरेहन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतःनायंहन्तिनहन्यते “इत्यनयोर्मन्त्रयोः जीवैकविषयत्वमास्थेयम् ।। बध्यघातुकभावाभिमानस्यजीव विषये एव देहिनां संभवेन तत्प्रतिषेधोपपत्तेः । परस्य च प्रत्यक्षागोचरत्वेनबध्यतादि प्रतिपत्यसंभवेन परमात्मपरत्वे तन्निषेधानुपपत्तेः । नास्यजरयैतज्जीर्यते न वधेनास्यहन्यते इत्यादिपरमात्मपरश्रुतौ परस्मिन्हननप्रतिषेधस्तु दहराकाशस्य देहान्तस्थितिप्रयुक्त शंकितविकारादिनिषेधार्थःअत्र तु लोकभ्रान्ति मनूद्य निषेधात् परमात्मनि च वध्यघातुकभ्रान्तेःकस्यचिदप्यभावेन निषेधानुपपत्तिरिति ।। सूपासतामिति सूपास्यत्वमित्यर्थःअनेन “न जायने’ अणोरणीयानित्यादिनैव जीवपरयोःस्वरूपस्य प्रतिपादितत्वात्ऋतं पिबन्तावित्यनेन पुनरपि तयोः प्रतिपादनं व्यर्थमिति शंकानिरस्ता।।सूत्रे त्रयाणामित्यस्य नचिकेतसा पृष्टवरत्रयं न विवक्षितम् । प्रधानस्यज्ञेयत्वं बोध्यते इति वदतः पूर्वपक्षस्य निषेधार्थमस्य सूत्रस्यप्रवृत्तत्वात् । अतः प्रकरण सामञ्जस्याय अन्यदेव त्रयं वक्तव्यम्तच्च उपाय, उपेय, उपेतृ रूपम् । प्रापकं उपासनं, प्राप्ता=उपेता,उपेयं मोक्षरूपं फलम् । तत्र तृतीयप्रश्नस्योत्तरावसने एतत्त्रयाणामुपन्यासःअतः तृतीयप्रश्नः एतत्त्रितयविषयकः इति समाधानवाक्यात् स्फुटंविज्ञायते । अत्र प्रधानस्य सांख्याभिमतस्य ज्ञेयत्वं नोक्तमितिसूत्रतात्पर्यम् । येयं प्रेत’ इत्यादिना तृतीयोवरः पृष्टःतं दुर्दशमित्यादिना पूर्वोक्तत्रितयमुपदिष्टम् । “अन्यत्र धर्मादित्यादिनाप्रश्नान्तरं च कृतम् । इदं पूर्वपृष्टस्यैव पुनर्वैशद्याय । नतुअन्यस्य प्रधानादेः बोधनार्थम् । यद्यपि अस्मन्मते अर्थपंञ्चकंज्ञातव्यम् । तच्च प्राप्य - प्राप्तृ प्राप्त्युपाय तत्फल तद्विरोधिरूपम्इदं च “येयं प्रेते” इति प्रश्नेनार्थसिद्धम् । अतः प्राप्तिविरोधिभूतस्यप्रकृतिसंसर्गादिरूपस्याप्युपन्यासः आवश्यकः । अतः “अशब्दं अस्पर्शं..मृत्युमुखात्प्रमुच्यते"इत्यनेनोपन्यासः कृतः इति वक्तुं शक्यम् । अथापि “अन्यत्र धर्मादित्यादिकंन प्रधानादिप्रतिपादनायालं, परं तु पूर्वोक्तत्रितविषयकमेवेति भवितुमर्हतिधर्माधर्मतत्फल - विलक्षणस्य पृष्टत्वात् धर्म - अधर्म तत्फल रूप - प्राप्तिविरोधिप्रश्नः नात्रावकाशंलभते । उपरिच प्रणव प्रशंसायाः तद्वाच्य प्राप्यस्वरूप,तदन्तर्गत प्राप्तृस्वरूप वाचकोपायस्वरूपस्यच विस्तरेण प्रतिपादनात्प्रधानस्य नात्रावकाशः । उपरिच । एतदालंबनं ज्ञात्वा ब्रह्मलोकेमहीयते “न जायते म्रियते वा, अणोरणीयान्’ इति त्रयाणामेवोपन्यासःश्रूयते, अतः अशब्दमित्यादिकं न प्रधानविषयकमिति प्रघट्टार्थः ।।

महद्वच्चेति सूत्रस्य प्रधानपूर्वपक्षिशंकानिरासकतया प्रवृत्तत्वज्ञापनाय - एवमव्यक्तमपीतिभाषितम् । आत्मनः परत्वेनेति । महतः परमव्यक्तमित्यत्र महच्छब्देनात्मबोधनस्यस्थापितत्वादिति भावः । बुद्धेरात्मा महान्परः इत्यत्रात्मशब्दसामानाधिकरण्यात्यथा तन्त्रसिद्धमहत्तत्वग्रहणं न संभवति तत एव हेतोः महतः परमित्यत्रमहच्छब्दस्यात्मपरत्वात् तत्परत्वेनोक्तमपि अव्यक्तं तथैव न तन्त्रसिद्धप्रधानं भवितु मर्हतीत्याशयः । प्रधानसूत्रे रूपकप्रकरणपर्यालोचनयाअव्यक्त शब्दस्य प्रधान वाचित्वं व्युदस्तम् । अत्र तु स्ववाक्यपर्यालोचनयेतिविशेषः । (इत्यानुमानिकाधिकरणं)