36 अर्थान्तरत्वादिव्यपदेशाधिकरणम्

(1.03.10) अर्थान्तरत्वादिव्यपदेशाधिकरणम्अधिकरणत्रयं प्रसंगादागतम् । तत्पूर्वतनं प्रमिताधिकरणं, दहराकाशस्यपरब्रह्मत्वसमर्थनार्थम् अल्पश्रुतिपरिहारः कृतः । तत्प्रसंगेनागतम् ।पूर्व प्रकृतदहरविद्यायाः बुद्धिस्थत्वात्तदनन्तर श्रुतस्याकाशशब्दस्य परमात्मपरत्वं स्थाप्यत इति संगतिः ।“यत्प्रसंगात् यदागतं तत्समाप्तौ तत् बुद्धिस्थं जायते इति न्यायात् ।केचित् तु प्रमिताधिरणकशेषे अन्तिमसूत्रेण संगतिं प्राहुः - ज्योतिरितिदिव्यमंगलविग्रहोक्त्या तस्य परमात्मपरत्वेपि आकाशवाक्ये दिव्यमंगल-विग्रहाप्रतीत्या आसमन्तात्काशते इति व्युत्पत्तिसिद्ध प्रकाशमानत्वस्य जीवेसंभवात् जीव एवाकाशब्दवाच्यः ।पूर्वं प्रजापतिवाक्ये जीवस्यैव प्राधान्येन निरूपणात् । श्यामात्शबलं प्रपद्ये…ब्रह्मलोकमभिसंभवानि इति जीवस्यैव तदनन्तरमपि प्राधान्येननिर्देशः इति ।। रोमाणि इति । रोमविधूननेन दुर्बलंरोम्णांपतनं दृष्टम्तदेवदृष्टान्तभूतम् । नचैवं सति केषांचिदेव पतनादन्येषामपतनाच्चदार्ष्टान्तिकेपि केषाचिदेव पापानां अपगमः इति स्यात् न मन्तव्यम्पतनमात्रे एव दृष्टान्त प्रदर्शनात् । अश्वः रोमाणीव पापं विधूय,चन्द्रः राहोर्मुखात् स्वात्मानं प्रमुच्येव अहं प्रमुच्य शरीरंधूत्वा इत्यन्वयः । अनन्तरप्रकृतत्वात् = अनन्तरपूर्वप्रकृतत्वादित्यर्थःअभिसंभवानीति कर्तृत्वेन प्राधान्येन निर्दिष्टत्वात्। “यद्यपिब्रह्मलोकमिति ब्रह्मापि प्रकृतं अथापि ब्रह्मलोकविशेषणतयाऽत्यन्तोपसर्जनत्वमेवतस्य ।। अयमाशयः - “अश्व इव” इति पूर्व मन्त्रे मुक्तात्मनः प्राधान्येनप्रकृतत्वात् अत्र ते यदन्तरा इति नामरूपास्पृष्टत्ववर्णनात् बद्धावस्थायांतस्य नामरूपनिर्वोढृत्वसंभवात् आकाशब्दवाच्यः जीवात्मैव । नच जीवस्यदेवमनुष्यादिजन्म पर्यायेण बहुविधनामरूपवोढृत्व संभवेऽपि ते यदन्तराइत्यस्य कथमुपपत्तिः अन्तरा इत्यस्य विनार्थकत्वासंभवात्, “अन्तराअन्तरेण युक्ते"इति सूत्रे अन्तरा शब्दस्य मध्य वाचित्वेन अस्पृष्टत्ववाचित्वासंभवादितिवाच्यम्"ते यदन्तरा” इत्यस्य नामरूपयोर्मध्ये इत्यर्थकत्वेपि उक्तार्थभालात् ।नामरूप मध्यस्थत्वं हि नामरूपरहितस्थले विद्यमानत्वम् ।तच्च तन्निर्मुक्तत्वमेव । नच आकाश इति पुलिंगस्वारस्यात् यत् इतिनपुसकलिंगनिर्दिष्टं अन्यदेवस्यात् । ततश्च नामरूपनिर्वोढा जीवःतादृशनामरूपविनिर्मुक्तं यत्, तद्ब्रह्मेति वाक्यार्थः इति अत्रब्रह्मणएव ग्रहणम्” इति वाच्यम् ।।तथा सति आकाश शब्दवाच्यत्वं जीवस्य, यदन्तरा तद्बह्म इत्यस्य ब्रह्मपरत्वमितिवैरूप्यापत्तेः । एवमपि आकाशशब्दस्य जीवपरत्वेन दहरवाक्यस्यापिजीवपरत्व शंकाया अवारणात् । अपिच - नामरूपयोः निर्वहिता=निर्वोढाआकाशशब्दवाच्यः जीवः यत्=यस्मात् कारणात् ते=नामरूपे अन्तराः (विहाय)मुक्तवान् तत्=तस्मात्कारणात् ब्रह्म भवतीति विशिष्टवाक्यार्थःतथा चेदं सर्वमपि वाक्यं जीवविषयकमेव ।। अत्र निर्वहितृत्वं ननिर्वोढृत्वरूपं शब्दास्वारस्यात् । पूर्वप्रकृतप्रजापतिवाक्यैकरस्यायअवयवार्थग्रहणे विरोधाभावात् । सिद्धान्ते - जीवात्मनोऽर्थान्तरत्वंव्यपदिश्यते । जीवात्मविलक्षणत्वं व्यपदिश्यते इति यावत् ।हेतुस्तु सूत्रे नोक्तः । नामरूपयोः निर्वहिता इत्येतत् हेतुसमर्थकम्यद्वा अर्थान्तरत्वोपपादकस्य नामरूपयोर्निवहिता इत्यस्य श्रूयमाणत्वात्इत्यर्थः । निर्वहिता इति पदं वहनं न बोधयति । निर्वोढृत्वरूपनामरूपकार्यकरत्वमेवस्वरससिद्धं बोधयेत् । नामरूपकर्ताच परमात्मेति - नामरूपे व्याकरवाणीतिश्रुतिसिद्धम् । “ते यदन्तरा” इत्यनेन तस्य नामरूपभजनानर्हत्वंउक्तम् । परेषां नामरूपकर्ता स्वयं तदनर्हः । एवं विधस्वातन्त्र्यवान्आकाशः । तस्मात् कारणात् तत् ब्रह्मः अमृतंइति वाक्यार्थः । अतः कर्तृत्व नामरूपशून्यत्व ब्रह्मत्वामृतत्वादिकंपरब्रह्मासाधारणम् । वोदृत्वमपि मुक्तात्मनि नास्ति इति पूर्वावस्थामादायैवोपपादनीयम्परमात्मपरत्वे नावस्थाभेदः आश्रयर्णायः इत्यपि बोध्यम् । ननुनामरूपकर्तृत्वस्य नामरूपोत्पादकत्वरूपत्वे मातापित्रादि जीवेपितत् स्यात् । सत्ताविशेष प्रयोजकत्व रूपत्वे जीवेपि तद्भवति । प्राणेन्द्रियादिसत्ताप्रयोजकत्वस्य सत्वात् इति चेत्? सत्ताविशेषप्रयोजक बुद्धिपूर्वव्यापारस्यैवनामरूपव्याकर्तृत्वरूपत्वात् । नेदं जीवे । नामरूपवहन तदभवोभयकीर्तनमत्रेतिपूर्वपक्षी जीवमाहसिद्धान्ती नामरूपकर्तृत्व तदनर्हत्वोभयकीर्तनमिहेति । स्वस्य नामरूपास्पृष्टत्व,तदनर्हत्वरूपस्वातन्त्र्यसत्वात् अन्येषां तत्कर्ता इति परस्य महिमाअत्रोक्तः । जीवस्यैतादृशस्वातन्याभावात् नान्येषां तत्कर्तृत्वम्।। परस्यापि पूर्व प्रकृतत्वमस्तीत्युपपादयति - इति परस्यैव ब्रह्मणइति । यद्यपि प्राधान्येन न प्रकृतत्वं ब्रह्मणः अथापि “आकाश’ इतिपुंलिंगशब्देन निर्दिश्य तदिति क्लीब तया निर्देशात् ब्रह्मपरत्वमेवोचितम्अपिच अभिसंभवानीति जीवप्रस्तावात् स इति प्रकृतस्य जीवस्य तच्छेदेननिर्देशः आवश्यकः । अत्र तु आकाशशब्दः उपात्तःअतोपि जीवोऽनात्र प्रकृतः । पूर्वमन्त्रे ब्रह्मलोकमिति ब्रह्मशब्देनप्राप्यत्वेना निर्दिष्टः परमात्मैवात्र आकाशब्देन प्रतिपाद्यतेन तु प्राप्ता मुक्तात्मा । निरवधिकबृहत्वामृतत्वादीनां तस्मिन्असंभवात् । पूर्वपक्षे मुक्तावस्यस्य जीवस्य ब्रह्मत्वं वक्तव्यम्तच्च गौणं जीवस्वभावभूत धर्म ज्ञानमादायैव वक्तव्यम् । न तु स्वरूपतःनिर्वहिता इति वहनरूपयोगार्थापेक्षया निर्वोढृत्वरूप रुढ्यर्थस्यैवप्रथमतः प्रतीतेः तदर्थत्यागानुपपत्तेः । ते अन्तरा इति अस्पृष्टत्वमेवोक्तंन तु विनिर्मुक्तत्वमिति । अतोऽत्राकाशशब्देन प्रकृतस्य दहराकाशस्यैवप्रत्यभिज्ञानंन चात्र प्रजापतिवाक्येन व्यवधानात् दहराकाशः परमात्मा, अयमाकाशःजीव एवेति शंक्यम् । प्रजापतिवाक्यस्य दहरवाक्यशेषत्वात् दहरवाक्येउपक्रान्तः आकाशः एव परमात्मैवात्रोपसंह्रियते । उपासकरूपात्मयाथात्म्यज्ञानस्यब्रह्मोपासनांगत्वेन दहरवाक्यशेषत्वं स्पष्टं प्रजापतिवाक्यस्य ।।

उत्तरसूत्रमवतारयति - अथ स्यादिति । आकाशो हवै “इत्युक्ताकाशः परःजीवो वेति शंकापुरस्सरं परमात्मवाचकत्वस्थापनायेदमधिकरणं प्रकृतम्"सुषुप्त्युक्रान्त्यो र्भेदेन इति सूत्रं पूर्वोक्ताशंका निवारणपरंन । परंतु जीवात्मापेक्षया परमात्मैवान्यो नास्तीति शंकानिवारकमेवअतोऽत्रास्य सूत्रस्य कः संगतिः । अधिकरणे वा का प्रसक्तिः ।अधिकरणान्तररचनया पूर्वपक्षकरणेपि जीवापेक्षया अन्यः परमात्मा अस्तिवान वा इति विषयस्य नास्मिन्पादे सन्दर्भश्चेति शंकानिनराकरणायाह - आत्मान्तरमेवनास्तीति । अयं भावः । नामरूप कर्तृत्वादिना जीवादन्यत्वं आकाशशब्दवाच्यस्योक्तम्एतत्प्रतिपादकं अर्थान्तरन्वव्यपदेशादिति सूत्रम् । अत्र संशयःजीवब्रह्मणोः अर्थान्तरत्वे सिद्धे हि एवं सिद्धान्त करणं युक्तम्उभयोरैक्यात् नार्थान्तरत्वम् । ऐक्योपदेशात् इत्याशयः । तथाहिबृहदारण्यके कतम आत्मा इति वैदेहेन प्रश्नः कृतः । अस्यच याज्ञवल्क्येनसमाधीयते - योऽयं विज्ञानमयः प्राणेषु इति । अत्र विज्ञानमयशब्दनिर्दिष्टः जीवात्मा इत्यविगीतम् । अन्ते एष ब्रह्मलोकः सम्राडितिहोवाच याज्ञवल्क्यः इति श्रुतम् । अत्र “एष ब्रह्मलोक” इति, पूर्वनिर्दिष्टःजीवपरामर्शी । जीवस्य चात्र ब्रह्मलोकत्वं उक्तम्अतः धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकं इत्यत्रापि तस्यैव ब्रह्मलोकशब्दस्यप्रत्यभिज्ञानात्प्राप्तृप्राप्ययोरैक्यं प्रतीयते । अतः बद्धावस्थस्यैव शुद्धावस्थायांपरमात्मत्वं परब्रह्मत्वं चेति । अत एव मनसैवानुद्रष्टव्यं नेहनानास्ति किंचन ..एकधैवानु द्रष्टव्यमिति द्वैतप्रतिषेधश्च संगच्छतइति ।सुषुप्त्युत्क्रान्त्योर्भेदनेति - परिष्वंगः आम्नायते इति बृहदारण्यकेएव तृतीय ब्राह्मणे सुषुप्तिनिरूपणप्रकरणे “एवमेवायं पुरुषः…संपरिष्वक्तःइति सुषुप्तस्य जीवस्य प्राज्ञशब्दोक्तपरमात्मनश्च एकस्यामवस्थायांपरिष्वज्यत्व परिष्वञ्जकत्व अज्ञत्व प्राज्ञत्वरूप धर्मपुरस्कारेणभेदः प्रदर्श्यते । अत्रा वास्तवभेदमादाय निर्वोहो न शक्यः । तत्रैवोक्रान्तिप्रकरणे “प्राज्ञेनात्मना अन्वारूढःउत्सर्जन् याति इति शकटसारथ्योरिवजीवपरयोः अन्वारोहसंबन्धविशेषश्च बोध्यते । अतस्तयोः भेदआवश्यकःपरिष्वज्य परिष्वञ्जकभावस्यान्वारोहस्य संबन्दस्यच एककालीनस्यभेदसधकत्वात्अन्यजीवान्तर्भावेणोपपादनमप्यशक्यं, तस्यापि प्राज्ञत्वाभावात्।। “एष ब्रह्मलोकः सम्राट्” इतीदं वाक्यं प्राप्यप्राप्त्रोः स्वरूपैक्यपरं न । परं तु “एष’ इति सुषुप्त्याधारतया पूर्वप्रकृतस्य परमात्मनः"अहरह..एतं ब्रह्मलोकं न विन्दन्ति इति सुषुप्तिप्रकरणवाक्यस्थब्रह्मलोक शब्दवाच्यत्वप्रतिपादनपरमित्यदोषात् । तथा च “एषः प्रत्यगात्मनःसुषुप्त्याघारः परमात्मा छान्दोग्ये अष्ठमाध्याये एवमेवेमाः सर्वाःप्रजाः अहरहर्गच्छन्त्यः एवं ब्रह्मलोकं न विन्दन्ति । इत्यत्रब्रह्मलोकशब्द वाच्यः इत्यर्थः ।।

पत्यादिशब्देभ्यः । सर्वस्य वशी इति श्रुत्यारंभात् वश्यादिशब्देभ्यःइति सूत्रयितव्यम् । अथापि “सर्वस्याधिपतिः, भूताधिपतिः’ इति पतिशब्दस्यद्विः पठितत्वात् आदरातिशयः द्योत्यते इति ज्ञापनार्थम् । एष सर्वेश्वरः एषभूताधिपतिः एष भूतपालः इत्यादिवाक्यश्रुत परिष्वंजकविषयपत्यादिशब्देभ्यःजीवभिन्नस्य परमात्मनः अर्थान्तरत्वं स्पष्टम् । तत्रापि पतिशब्दश्रवणम्अत्रापि द्विः पति श्रवणम् । अत एव सूत्रे प्रथमं पतिशब्दं प्रयुक्तवान् ।।साधुकर्मकारित्व प्रयुक्त श्रैष्ठ्यस्य असाधुकर्मकारित्वप्रयुक्तानुत्कर्षस्यच निषेधात् परमात्मनः तादृशजीववैलक्षण्यं स्पष्टमेव प्रतीयते ।अत्र सुषुप्तिदशायां उत्क्रान्तिदशायां च भेदः स्थापितः मुक्तिदशायां"अनुकृतेस्तस्य च " इत्यनेन स्थापितः ।। ऐक्योपदेश भेदनिषेधौ तुप्रकार्येक्यानिबन्धनतदभावप्रयुक्तौ । अन्नादः = अन्नं आसमन्तात्ददातीत्यर्थः । वसुदानः इत्यनेन प्राकृतभोगप्रदत्वमुक्तम् । अन्नादःइति मोक्षप्रदत्वम् । भक्तिं वा प्रपत्तिं वाऽचरतां तत्संबन्धिनांच भगवता मोक्षदानात् तदर्थविवक्षया अन्नं आसमन्तात् ददातीति विग्रहःस्वीकृतः । भक्तिः प्रपत्तिरथवा भगवन् तदुक्तिः तन्निष्टसंश्रयःइति प्रमाणबलात् भक्तिनिष्ठ निष्टस्यापि मोक्षसिद्धेःदीर्धस्यार्षत्वं नेति मुक्त्यवस्थायामपि इदमेव भेदसाधकमित्याहएतेचेति । सूत्रद्वयस्यापि प्रथमसूत्रशेषत्वमुपपादयन्नुप संहरतिअत इति । अत्र “परमात्मात्मनोर्योगः” परमार्थ इतीष्यते, मिथ्यातैत्,अन्यत् द्रव्यंहि नैति तद्द्रव्यतां यतः इति विष्णु पुराणश्लोकमादायजिज्ञासाधिकरण एव परमात्मनः अर्थान्तरत्वमुपपादितम् ।। अतः आकाशो हइति वाक्यं न मुक्तजीवपरम् । एवं विस्पष्टजीवलिंगकानां जगत्कारणवादिवाक्यानांजीवविलक्षणब्रह्मपरत्वं स्थापितम् ।।।। इति प्रथमाध्याये तृतीयः पादः ।इत्यभिनवसुदर्शनभट्टार्यस्य श्रीवैष्णवसिंहस्य ब्रह्मविद्यावाचस्पतेःविद्वदुपन्यासकरत्नस्य सद्वावदूकस्य देशिकविद्यावारिधेः देशिकदर्शनचूडामणेःश्रीद्रामायणसुधावर्षी इत्याद्यनेक सार्थकबिरुदभूषितस्य शिरोमणिसारज्ञ चक्रवर्त्यार्य महादेशिकस्य कृतिषु श्रीभाष्य भाव चन्द्रिकाव्याख्याप्रथमाध्याय तृतीयपादीया समाप्ता ।।