35 अपशूद्राधिकरणम्

(1.03.9) अपशूद्राधिकरणम्अत्र संवर्ग विद्या विचार्यते । रैक्वविद्या इत्यपि नाम । जानश्रुतिः ग्राम नगरमार्ग वन प्रभृतिषु सर्वत्रान्नपानाद्यावसथान् विरचय्य सर्वेभ्यः अन्नपानादिप्रदाय धर्मानुष्ठानेऽतिश्रद्धावान् विरराज । सर्वैश्च संयक् स्तुतोऽवर्तत ।कदाचित् रात्रौ शयनकाले महात्मनोऽस्यान्नपानादिभिः तोषिताः केचन महात्मानःहंसरूपा भूत्वा एतदुपरि डयन्ते स्म । तत्र कश्चन हंसः पुरोगामिनं हंसंप्रत्येवमुवाच - अस्य जानश्रुतेः वितरणजयशसा जातं तेजः सर्वलोकव्याप्तम् ।तत् रात्रिमपि दिवसं कर्तुं शक्तिमत् । तादृशतेजोवतः अस्योपरि तव गमने त्वं दग्धोभविष्यसीति । एतच्छ्रुत्वा हंसोऽन्यः शकटस्थस्य रैक्वस्य ब्रह्मज्ञस्य तेज एवमहत् । नास्य तेजः मां दहेत् । यतोऽयमब्रह्मज्ञः इत्याह । स रैक्वः कःइत्यनेन पृष्टोऽन्यो हंसः - बहुप्रकारेषु द्यूतेषु कृतनामकद्यूतविशेषेसर्वमन्तर्गतम् । तथा यदीयकर्मणि यदीयज्ञाने च सकलैः अनुष्ठितं कर्म, ज्ञानंचान्तर्गतं तादृशप्रभाववान् रैक्वः इत्युवाच । एतच्छ्रुत्वा जानश्रुतिःउषस्युत्थाय रैक्वान्वेषणाय क्षत्तारं प्रेषयामास । सोपिसर्वत्रादृष्टरैक्वः पुनरपि राज्ञा प्रेषितः शकटस्याधस्तात् पामानंकण्डूयमानं अभिवाद्य तेनैव विदितरैक्वः राजनिकटमागतः ।राजापि गवां षट्शतानि, कण्ठाभरणं अश्वतरीयुक्तरथं चादाय रैक्वंप्रणम्य, एतदुपहारतया गृहीत्वा “यां देवतां त्वमुपास्से तां देवतांमह्यं उपदिशस्वेति प्रार्थयामास । एवं प्रार्थनायामपि अभिलषितालाभेनखिन्नमनाः अधिकं गवां सहस्त्रं तस्य परिणयार्थं स्वकन्यां आवासार्थंग्रामंचोपहारतया ददौ । तदा तेन सन्तुष्टः अस्य ब्रह्मविद्याऽलाभप्रयुक्तं शोकमधिकमवेक्ष्य “शूद्र’ इत्यामन्त्र्य स्वोपास्यदेवतामुपदिदेश ।।देवेषु - अग्नि सूर्य चन्द्र जलानां लयस्थानभूतो वायुः अतोऽयं संवर्गः ।एवं शरीरे - वाक्चक्षुश्श्रोत्रमनसां लयस्थानभूतः प्राणः । अयमपरःसंवर्गः । एवं लयस्थानभूतं वायुशरीरकं प्राणशरीरकं च परात्मानंउपासीत । इति संवर्गद्वयमुपदिष्टम् । एकैकत्र पंच पंच वस्तूनि ।आहत्य दश एतत्संवर्गद्वयं कृतत्वेन अन्नत्वेन विराट्त्वेन चोपासितुःसर्वज्ञत्वं सर्वभोग्य भूतान्नभूतब्रह्मानुभवश्च भवतः ।। इत्युपदिष्टम् ।।अत्र चान्यदुपाख्यानमपि । कापेयः अभिप्रतारी च द्वौ सूपकारैः परिविष्यमाणौउपविष्टौ । तदा कश्चित् संवर्गोपासकः ब्रह्मचारी बिभिक्षे । तौ च,अयं ब्रह्मचारी संवर्गविद्यानिष्ठो दुरभिमानी इति मत्वा तस्मै नभोजनं दत्तवन्तौ । तदाऽयं ब्रह्मचारी तौ प्रत्येवमाह - अधिदैवत भूत-अग्न्यादित्यचन्द्रजलरूपान्अध्यात्मभूत वाक्चक्षुश्शोत्र मनोरूपान् भुवनगोप्ता एको देवः वायुप्राणरूपीप्रजापतिः संहृतवान् । एवं भूतं प्रजापतिं बहुरूपतया वसन्तं मर्त्यधर्माणःअविद्या मोहिताः न जानन्ति । सर्वमपि जगत् यस्य संवर्गस्य प्रजापतेः अन्नम् ।तस्मै भिक्षमाणाय मह्यम् अन्नं भवद्भ्यां न दत्तं इति प्राह । प्रजापतिंसंवर्गमिति मत्वा अनेनोपासनकरणात् स्वस्मै अन्नाप्रदानं स्वोपास्यदेवतायै अप्रदानमेवेति मत्या ब्रह्मचारी उवाचैवम् ।श्रुत्वा कापेयः अनेन संवर्गस्वरूपं नावधृतमिति मन्वानः तस्मै स्वोपास्यसंवर्ग-स्वरूप-बुबोधयिषया तत्समीपमागत्यैवमुवाच । संवर्ग विद्याविषय भूतदेवतान प्रजापतिः । परं तु नृसिंहः । यो देवानां नियन्ता प्रजोत्पादकःहिरण्यविदारकरमणीयदंष्ट्रायुक्तः सर्व भक्षणशीलः असुरसंहारकः विपश्चित्अन्यै रनद्यमानः वागादि सर्वनाशकृत् । अतस्त्वदुक्तप्रजापतिं संवर्गत्वेननोपासनं कुर्वः । अपि तु परमात्मानमेव इत्युवाच । पश्चात् परिचारकमूलमन्नंदतवन्तौ । इति आख्यायिका ।।अर्थित्वसामर्थ्ययोरेवोपासनाधिकारे प्रयोजकत्वात् देवतानामिव ब्राह्मणादीनामिव चमनुष्यविशेषाणां शूद्राणामप्यधिकारोऽस्त्विति शंकया पूर्वपक्षोत्थितिः ।यद्यपि पूर्वतन्त्रापशूद्राधिकरणे शूद्रादीनां अधिकारः प्रतिक्षिप्तः,अथापि अत्र तन्न्यायः न प्रवर्तते । अग्निविद्याऽभावात् अग्न्यंगककर्मणिअनधिकारो युक्तः । अत्र तूपासनस्य मनोवृत्तिमात्ररूपत्वात् अग्न्यपेक्षायाःअसंभवात् अधिकारस्स्यादेव । न च कर्मणां विद्यांगत्वात् तदंगक विद्यायांकथमधिकारः इति शंक्यम् । स्वस्ववर्णाश्रमधर्माणामेव विद्यांगत्वात्अस्यापि शुश्रूषादिवर्णांश्रमधर्मसत्त्वेनोपपत्तेः ।अत एव हि विधुराणां अग्न्यनधिकृतानामपि ब्रह्मविद्यासद्भावः स्थाप्यतेनच शूद्राणां वेदानधिकारात् वेदोक्तब्रह्मस्वरूपतदुपासन प्रकारज्ञानंन संभवतीति वाच्यम् । इतिहास पुराणादिभिः तत्संभवात् । इतिहासपुराणश्रवणादेःतेषामनिषिद्धत्वात् । अत एव विदुरादीनां श्रुतं ब्रह्मनिष्ठत्वमुपपद्यते ।।अतः “वसन्ते ब्राह्मणोऽग्नीनादघीत, इत्यादिना शूद्रान्यस्य आधानविधानात्,अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयेत् इति त्रैषर्णिकानामेव उपनयन,अध्ययनादिविधानेन कर्मसु अधिकाराभावेऽपि मनोवृत्तिमात्रसाध्योपासनेअधिकारः शक्यवचनः । न चाध्ययनजन्यार्थज्ञानवतामेव ब्रह्मविद्यायामधिकारःइति वाच्यम् । तादृशज्ञानस्यैवांगत्वग्राहक प्रमाणाभावात् । अध्ययनंहि अनधीयाना व्रात्या भवन्ति इति प्रत्यवायपरिहारार्थम् । कृतेचाध्ययने तदधीन ज्ञानस्य अर्थात् तत्कृतकर्माचरणे उपयोगः । प्रकारान्तरेणलब्धज्ञानवतामपि कर्माचरणसंभवात् । अतः, “अपि वा वेदनिर्देशात् अपशूद्राणांप्रतीयेत इत्यादिना अपशूद्राणामधिकारसमर्थनंब्रह्मविद्याऽतिरिक्तकर्ममात्रविषयकम् । इतीमां शंकामनुवदति - यद्यपीत्यादिनाकर्मकाण्डे एव अग्निविद्यासाध्ययज्ञादिकर्मस्वनधिकारः इति स्पष्टमुक्तत्वात्ज्ञानसाध्ये उपासने अधिकारः सूचितः । अतस्तदप्युपदिष्टं भवती मित्याह - तस्मात्शूद्रः - इति । किंच कर्मणां उपनयनाध्ययनाद्यपेक्षावत् न ब्रह्मविद्यायास्तदपेक्षत्वसंभवःउपनयनाध्ययनशून्यानां स्त्रीणां गार्गीप्रभृतीनां उपासनाधिकार श्रवणात् । इत्याशयेनसमाधत्ते - उच्यत इति । शूद्रस्याधिकारसद्बावे श्रुतिं प्रमाणयति - तथोपनिषत्स्वपीतिसिद्धान्ते । यद्यपि “शुगस्य"इति सूत्रस्वारस्यमवलम्ब्य, मध्वधिकरणम्इति नामवत् शुगधिकरणं इति नाम कर्तुं शक्यते । अथापि पूर्वतन्त्रगतापशूद्राधिकरणन्यायेनैवसर्वस्यापि समाहितत्वं भवतीत्याशयेन जैमिन्यपशूद्राधिकरण प्रत्यभिज्ञापनार्थंअपशूद्राधिकरणमिति नामकृतम् । तर्हि तेनैव गतार्थत्वे किमर्थ मस्यारंभःइति शंकायां श्रुत्युक्त शूद्रपद स्वारस्य बोधनायैवेति ज्ञापयितुंआरंभः । अतः शुगस्य इत्यारंभ एव पदस्यार्थो वर्णितः ।। निषादस्थपतिन्यायेनकस्यचित् व्यक्तिविशेषस्याधिकारोक्तावपि न दोषः । द्रौपद्याः पंचपत्नीत्वमवेक्ष्यसर्वासां न तदापादयितुं शक्यते । अनुपनीतस्य ध्रुवस्येव न सर्वेषामुपदेशार्हत्वम् ।अथापि वास्तवार्थप्रदर्शनार्थमयमारंभः । शूद्रस्य अजानतः अनधिकृतस्य इत्येतत्शास्त्रानुमतत्वज्ञानशक्तिरूप त्रिवपुष्कसामर्थ्यं नास्तीति सूचयितुम् ।।यज्ञादिष्वनधिकृतस्य इत्यनेन यज्ञ उपासनयोः अनधिकारे न्यायसाम्यं सूचितम् ।भक्तिविद्याहि उपनिषत्सु प्रतिपादिता । तदनुष्ठानप्रकारश्च तत्रैवोक्तःसत्यत्व ज्ञानत्वानन्तत्वानन्दत्वामलत्वादिरूपा साधारणधर्मभूतस्वरूपनिरूपकधर्मविशिष्टंनिरूपित स्वरूपविशेषणात्मक वशित्व सौलभ्यादि विशिष्टं च ब्रह्मध्येयम् । तथैव विद्यापूर्तिः ।इतिहासपुराणश्रवणेनाप्येवंविधस्य ब्रह्मविद्यास्वरूपस्य ज्ञानमेवन सिध्यति । अतो ब्रह्मस्वरूप तदुपासनज्ञानं न पुराणादिभिः सेत्स्यति ।अतो न सामर्थ्यम् ।।अध्ययनविधिसिद्ध स्वाध्यायाधिगत ज्ञानस्यैव इत्यनेन सर्वेषामपिपूर्वपक्ष तर्काणां परिहारः उक्तः । इतिहासपुराणश्रवणमन्यथयति - इतिहासेति ।विदुरविषयकप्रश्ने समाधानमाह - विदुरादयस्त्विति । पूर्वकाण्ड एवशूद्रस्याग्न्याधानाभावात् अग्निविद्यासापेक्ष कर्मणि नाधिकारःइत्युच्यते । अग्न्यपेक्षारहितकर्मणि अधिकारोऽस्तु इति प्रश्नेकिं समाधानं तस्यनिरग्नित्वेपि उपनयनाध्ययनपूर्वकार्थ ज्ञानवत एवकर्मण्यधिकारः । कर्मविधयश्च तादृशज्ञानवत्पुरुषापेक्षित्वेन तत्रैवविश्रमादितिसमाधिः वाच्यः । एवमेव उपासनविधयोपि स्वाध्यायध्ययनजन्यापानप्रतीतिपूर्वकविशदज्ञानवत्पुरुषोपेक्षितेत्वेन तत्रैव विश्रमः इति पाठाद्युपयोगजन्यज्ञानवति न प्रवर्तन्ते"यदृच्छया श्रुतो मन्त्रः इत्यादिभिरपि निषिद्धत्वात् अन्यविधयाप्राप्तज्ञानस्य निष्फलत्वं विपरीतफलकत्वं चेति । नच त्रैर्वार्णकानामेववेदाध्ययनाधिकारात् देवानां अध्ययनाभावेन तत्पूर्वकज्ञानवत्वाभावात्कथं देवादीनां ब्रह्मविद्याधिकारः । कथं चेन्द्रः प्रतर्दनायोपदेशंकुर्यात् । कथं च मध्वादिषु देवानामधिकारसमर्थनं इति वाच्यम् ।तेषामधुना वेदाध्ययना भावेपि विदुरादिवत् भवान्तराध्ययनसंभवेन तत्पूर्वकसंपादित ज्ञानस्य प्रमोषात् न दोषः । “धर्मव्याधादयोऽप्यन्ये….संसिद्धिंश्रमणी यथा” इत्याद्यपि बोध्यम् ।सम्वर्गविद्यागमनिकां आशंकापूर्वकं निरूपयति - यत्तु इति । एतदर्थमेवसूत्रप्रवृत्तिरिति दर्शयति - शुश्रूषोरिति । अत्रायं सूत्रार्थः - शुक्अस्येति पदच्छेदः अस्येति जानश्रुतिवाचकं शूद्रेति संबोधनकरणात्तस्य बुद्धिस्थत्वम् । प्रथमतच्छब्दः हंसवाची । द्वितीयस्सः रैक्ववाचीतथाच हंसकर्तृकस्वानादरवाक्यश्रवणात् अस्य जानश्रुतेः शुक् जाताशुगुत्पत्तेः अनादर श्रवणं कारकहेतुः । तदैव रैक्वं प्रति आद्रवणंवेगेन गमनं अस्य अत एव शुक् सूच्यते । आद्रवणं ज्ञापकहेतुः । सूत्रेतदा द्रवणात् इत्यपि पदच्छेदः सुकरः । अवधारणगर्भमिदंतदैव द्रवणात् इत्यर्थः । रैक्वेण अस्य शुक्जाता इति सूच्यते ।यद्वा शूद्रेत्यामन्त्रणेनेत्यर्थः । जातिं पुरस्कृत्य नात्रामन्त्रणम् ।परंतु शोकं पुरस्कृत्यैव । अतो जानश्रुतेः न शूद्रजातीयत्वम् ।पूर्वपक्षरीत्या वस्तुतोऽस्य शूद्रत्वेपि निकर्ष वाचकशूद्रशब्देनामन्त्रणंव्यर्थम् । तस्य शूद्रत्वाज्ञानात् । शोकनिमित्त शूद्रत्वं तु तस्यसरभसब्रह्मविद्याप्राप्त्युद्योगदर्शनेन ज्ञातम् ब्रह्मविद्यानिष्ठस्यसर्वज्ञत्वात् तदपि ज्ञातमिति । अत एव अनादरवाक्यश्रवणजनितशोकेनस्वसमीपे आगमनमित्यपि ज्ञातम् ।। यद्यस्य शूद्रत्वं, तर्हि तस्यरैक्वेन ज्ञातत्वात् स्वस्य शूद्रत्वेनोपदेशं न चकार । अत एव “अहहारेत्वा शूद्र तवैव सह गोभिरस्तु” इत्युक्तवान् इति मत्वा पुनःतन्निकटे आगमनं नैव कुर्यात् ।अतः प्रथमशूद्रशब्दोपि न जातिवचनः । शुचा द्रवतीति शूद्रः इति शांकरनिर्वाहः ।भाष्यकृता व्याकरणव्युत्पत्तिमवलम्ब्य । शोचतीत्यादिना योगार्थःदर्शितः । उपरि जानश्रुतिवृत्तान्तः उपयोगार्थं सुविस्तरं प्रदर्श्यते ।भल्लाक्ष = भल्लायुधनेत्र । सर्पनेत्र । विपरीतलक्षणया मन्दनेत्रइत्यर्थ सूचकम् । दिवासमं = अहःकालतुल्यम् । तन्मा प्रसांक्षीः = तस्मिन्तेजसि मा प्रसक्तो भूः । तदा अनर्थप्रसक्तिरित्याह - मा प्रधाक्षीत्मा दहेदित्यर्थः । तत्समीपं न गन्तव्यमिति भावः । कम्वरे = कं उ इति च्छेदः ।सयुग्वानं शकटयुक्तम् । चिरकालसेवां विनेति ।गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थोनोपपद्यते इति प्रमाणात् गुरुपरिचर्यां विना अल्पद्रव्यमात्रं प्रदायब्रह्मविद्यां श्रोतुमभिलषतोऽस्योपदेशेपि न पूर्तिः भवेत् इत्यालोच्यप्रथमं नोपदिदेश । पुष्कलधनाप्रदानात् । नच विरक्तस्य ब्रह्मज्ञस्यरैक्वस्य कुतो धनाभिलाषः इति वाच्यम् । स्वस्य तेन प्रयोजनाभावेपिजानश्रुतेः विद्याप्रतिष्टित्यै अभिलाषप्रदर्शनात् । न चास्य कन्यकामुखप्रदर्शनानन्तरंउपदेशप्रवृत्तिर्विरुद्धा इति वाच्यम् लौकिकसुखाभिलषया कन्यकास्वीकरस्यानेनाकृतत्वात्यतो वृद्धाय स्वस्मै युवत्या अपि कन्यकायाःदानं अनेन क्रियतेअतोऽस्य ब्रह्मविद्यायां अधिकत्वरा स्पुटा इति तस्योपदेशपात्रत्वम्वस्तुतः अस्या अपि स्वशिश्रूषामुखेनोत्तमलोकप्राप्तिकामनावान्तां स्वीचकारेप्यदोषात् । अह हारेत्वा=अह इत्यव्ययम् । इत्वा=रथःइत्वा =हारेण सहितः । निष्कं=रुचकं कण्ठाभरणं=हारः । अत्र प्रकरणविरोधेनयोगात् रुढिर्बलीयसी इति न्यायोपि परिहृतः ।।

क्षत्रियत्वगतेश्च । पूर्वं जातिवाचकत्वाभावे हेतुरुक्तः । अत्र तुक्षत्रियत्व मेवास्येत्युच्यते । अयं क्षत्रिय एव बहुदायित्वात्बहुपाक्यत्वात् बहुतरपक्वान्नप्रदायित्वात्, क्षत्तृप्रेषयितृत्वादित्यादिकमत्रविवक्षितम् । शूद्रस्य पक्कान्नदानं निषिद्धम् । अयं तु तद्ददाति ।सर्वत एव मेऽन्नमत्स्यन्तीति श्रुतेः । शूद्रात् आमस्यापक्वस्यैवग्राह्यत्वंस्वीकर्तृणामनुमतम् ।। “वैश्यात् ब्राह्मणकन्यायां क्षत्ता नामप्रजायते । जीविका वृत्तिरेतस्य राजान्तः पुररक्षणं इति क्षत्तृलक्षणमुक्तम्अतोऽस्य प्रेषणं प्रेषयितुः क्षत्रियत्वं ज्ञापयति"इयं जाया, अयं ग्रामः यस्मिन्नास्से इति कन्या प्रदातृत्वग्रामदातृत्वादपि

प्रकरणगताख्यायिकयापि अस्य क्षत्रियत्वं सुवचमिति सुत्रान्तरेणप्रदर्श्यते । अस्यां सवर्गविद्यायां कापेयस्य अभिप्रतारिणः ब्रह्मचारिणश्चसंबन्धः । ब्रह्मचारी वायु प्राणरूप संवर्गं प्रजापति मभन्यत ।तच्छिक्षण पूर्वकं परमात्मैव वायुप्राणशरीरक सवर्गः इति कापेयःप्रसाधितवान् । अत्र कापेयस्य ब्रह्मचारिणश्च ब्राह्मणत्वं अभिप्रतारिणःक्षत्रियत्वम् । कापेयब्राह्मणस्य द्वितीयोऽभिप्रतारी क्षत्रियःइति तत्प्रायपाठात् रैक्व ब्राह्मणस्य द्वितीयो जानश्रुतिरपि क्षत्रियःइति अवगमः सुलभः ।। अतोऽस्यां ब्राह्मणत्रिकस्य क्षत्रिय द्वयस्यैवसंबन्धः ।अयमाशयः - कापेयाः अयाजयन् इत्युक्तत्वात् कापेयानां याजकत्वं सिद्धम्ब्राह्मणानामेव षड्कर्मस्वधिकारात् याजकत्वेन श्रुतस्यास्य ब्राह्मणत्वंनिर्विवादम् । “चैत्ररथं अयाजयन्” इत्युक्तत्वात् चैत्ररथस्य याज्यत्वम्"शूद्रस्य यागेऽनधिकारात् चैत्ररथस्य न शूद्रत्वसंन्देहः । “तस्मात्चैत्ररथो नामैकः क्षत्रपतिः अजायत’ इत्युक्तत्वात् चैत्ररथस्य क्षत्रियत्वमप्यवगतम्अभिप्रतारिणश्च चित्ररथयाजककापेययाज्यत्वात् चित्ररथवंश्यत्वमवगतम्चैत्ररथस्य क्षत्रियत्वं श्रुतिसिद्धम् । अतोऽभिप्रतारिणः चैत्ररथत्वम्अतोऽत्रविद्यायां प्रायपाठसत्वाधीनं क्षत्रियत्वनिर्धारणंजानश्रुतेः ।। तथाच चैत्ररथस्य क्षत्रियत्वं श्रुति सिद्धम् । अभिप्रतारिणःकापेययाज्यत्वमपि । तेनाभिप्रतारिणः चित्ररथान्वयसंभवत्वम् । तेनतस्यापि क्षत्रियत्वम् । ततः संवर्ग विद्यान्वयवतः प्रायपाठात्क्षत्रियत्वं इति गमनिका । पूर्वसूत्रे उपक्रमगतलिंगात् क्षत्रियत्वमुक्तम् । अत्रोपंसंहारगताख्यायिकयेति । यद्यप्यत्र ब्राह्मणक्षत्रिययोरेवसंबन्धात् जानश्रुतेरपि ब्राह्मणत्वस्यवा क्षत्रियत्वस्य वाऽवगतिर्युक्तानतु क्षत्रियत्वेस्यैव । अथापि क्षत्रियत्वं पूर्वसूत्रेणैव सिद्धम्शूद्रत्वाभावस्तु अनेन निश्चेतुं शक्यःअतः आद्रवणादिना शुचः सिद्धिवत् लिंगात् शूद्रत्वाभावस्यापि सिद्धिःइत्यभिप्रायः । रैक्वस्य ब्राह्मणत्वं तु” यत्रारे ब्राह्मणस्यान्वेषणातदेनं गच्छेति ब्राह्मणावासस्थले अन्वेषणोक्तेः ।।

संस्कारपरामर्शात् … । शूद्रस्याधिकारः न्यायविरोधीत्युक्तत्वात्विधिमूल वेदग्रहणं नास्ति तदधीनार्थज्ञानं नास्ति । अतोनाधिकारःइति जैमिन्यभिप्रायः व्यासस्यापीति सूचितम् । ननु “अष्टंवर्ष ब्राह्मणमुपनयीतइत्यत्र अष्टवर्षत्वविधाने एव तात्पर्यं नतु ब्राह्मणस्यैवोपनयनविधाने अन्यथा वाक्यभेदात् इति चेन्न तमध्यापयेत् इति तच्छब्दश्रवणात्अष्टवर्णत्व ब्राह्मणत्वोभयविशिष्टस्यैवाध्ययनमिति सिद्धत्वात्शूद्राणामुपनयनाभावात् नाध्ययनसिद्धिः । ननु स्त्रीणामपि उपनयनाभावात्नाध्ययनम् । तत एव न ब्रह्मविद्यासंपत्तिः स्यात् ।न चेष्टापत्तिः, गार्गी मैत्रेयी प्रभृतिषु विरोधादिति चेत् ।। “पुराकल्पे तुनारीणां मौञ्जीबन्धनमिष्यते’ इत्यादिना तासामपि उपनयनसंस्कार सत्त्वात्तासां विवाहस्यैवोपनयन रूपत्वात् । न चैवं सति सर्वासामपि ब्रह्मविद्याधिकारःस्यात् इति वाच्यम् । पुराकल्पे तु इत्यपवादात् । अनुपदमेव एतत् विवृणुमः।। एतत्सूत्रप्रभृति उपनिषदं पुरस्कृत्यैव शूद्रस्याधिकाराभवस्थापनम्।। “संस्कारः परामृश्यते इति । ननु तान् हा अनुपनीयैव प्रोवाच इतिश्रुतेः कथ मुपनयन पूर्वकत्वं विद्योप देशस्य इति चेत् न । नात्रोपनयनाभावःउच्यते । परं तु उत्कृष्टवर्णस्य नीच वर्णेनोपनयनं न कार्यमित्येवइदंच प्रकरणसिद्धम् ।

तदभाव …… । अत्र सत्यकामवृत्तान्तः ज्ञेयः । अयं नाहं गोत्रंवेदमातापि नावेदीत् माता मे जावाला सत्यकामोऽहं इत्येवानेनोक्तम्अनेन गोत्रमस्ति अहं तन्न वेद इति ज्ञायते । शूद्राणां गोत्रस्यैवाभावात्नोपनयनादिप्रसक्तिः । अतः अब्राह्मणे गोत्रं नास्तीति सूचितम् ।“अपिच किंगोत्रोनु’ इति प्रश्नसामर्थ्यादपि गोत्र शून्यस्योप देशोन युक्तः इत्यपि ज्ञापितम् । नायमब्राह्मणो विवेक्तुमर्हतीति निर्धायोपदेशोपिगमकः ।।

श्रवणाध्ययनार्थ प्रतिषेधात् - उपनयनं विनैवाध्यापनं भवतु इति शंकापरिह्रियते । सूत्रे अर्थप्रतिषेधः अर्थानुष्ठानप्रतिषेधः । तदर्थ-ज्ञान-तदर्थानुष्ठान प्रतिषेधो वा । अध्ययन फलत्वात् । पद्यु = पादयुक्तं - जंगमम् ।बहुपशुः अत्र बहुच्प्रत्ययः । बहुपशुः इत्यनेन अर्थज्ञानं निषिद्धम् ।अयज्ञीयः इत्यनेनानुष्ठाननिषेधः ।

स्मृतेश्च । पूर्वं श्रुतिः। अत्र स्मृतिः । यद्यपि पूर्वसूत्रेएव अध्ययनादि निषेध श्रुतिरिव तादृशस्मृतिरपि विवक्षितुं शक्याअथापि तदन्य संस्कारादिनिषेध बोधनाय तादृशस्मृतिः विवक्षणीयाइत्येतदर्थं स्मृतेश्च इति सूत्रम् । अत एव “न चास्येत्यादिस्मृतिवाक्यमप्युपात्तम्तेषां जातकर्मादिमात्रसंस्कार एवोक्तः । नतूपनयनादिसंस्कारोपिशूद्रःचतुर्थो वर्णः एकजातिः इत्युक्तत्वात् द्वितीयजन्मरूपोपनयनमपिनिषिद्धमिति ज्ञेयम् ।।शूद्रस्य समीपे नाध्येतव्यं वेदवाक्यम् । तस्य तेन श्रवणे महान्दण्डःइति चेत् कथं सः वेदं शृणुयात् । अशृण्वतश्च कथं अध्ययनं अनुष्ठानंवा अतः शूद्रस्य न विद्याधिकारः ।।वाक्यजन्यज्ञानात् अपरमार्थबन्धनिवृत्तिरिति वदतां अद्वैतिनां पक्षेअस्याधिकरणस्य न सांगत्यमिति दर्शयति - येत्विति । भ्रमनिवृत्तौ वस्तुयाथात्म्यज्ञानमेवापेक्षितम्तज्ज्ञानोत्पाद कसामत्र्यां नियतिस्तु नास्ति । सर्पभ्रमनिवर्तकज्ञानस्यप्रत्यक्षेण वा वाक्येन वा जातत्वेपि निवर्तकत्वदर्शनात् वाक्योच्चरयित्रृपुरुषनियमस्याप्यभावात्तेभ्यः उपदेशो न कार्यः इति नियमोपि नास्ति । उपदेष्दृणां वेदकिंकरत्वाभावात् । “दग्धारिवलाधिकारत्वात् ब्रह्मज्ञानाग्निना मुनिःवर्तमानः श्रुतेर्मूध्नि नैव स्यात् वेदकिं करः” इति तैरेवोक्तत्वात्विध्यतिक्रमण पूर्वकमुपदेशेपि वाक्यस्य याथात्म्यज्ञानहेतुत्वानपायात्शूद्रस्य भ्रमनिवृत्तिः न दृष्टेति चेत् ब्राह्मणस्यापि निवृत्तिःन दृष्टा ।। तस्य निदिध्यासनं नास्तीति चेत् तस्यापि लौकिकवाक्यजन्यात्माद्वैत-ज्ञानेन ध्यानस्यापि संभवः अनिवार्यः ।वाक्यजन्यज्ञानस्यैव मुक्तिहेतुत्वमिति नियमोपि न संभवति । लौकिकभ्रमे वाक्यस्येव प्रत्यक्षानु मानादिजन्य ज्ञानस्यापि निवर्तकत्वस्यदर्शनात् । अतः प्रमाणान्तराधीन ज्ञानस्य मुक्तिहेतुत्व संभवात्वेदान्त शास्त्रमेव न तेषामावश्यकम् । अतः उपनयनाध्ययनाभावेपि भ्रमनिवृत्तेःशूद्रस्याधिकारः युक्तः । शूद्रतुल्यानुपनीत ब्राह्मणेऽपीयमेवरीतिःउपनयनार्हत्वेपि वेदवाक्येनैव भ्रमनिवृत्तिरित्यस्याभावात् वेदान्तवाक्यानांअनुपयोग एव । प्रत्यक्षस्य सन्मात्रग्राहित्वस्य तैरेवोक्तत्वात्अन्येषां मिथ्यात्वमवगतमिति तत एवाविद्यानिवृत्तिप्रसंगःजगत् मिथ्या अध्यस्तत्वादित्यनुमानेनापि अविद्या निवृत्ति प्रसंगश्च"नच जगदपरमार्थत्व ब्रह्मपरमार्थत्वावेदेकश्रुत्यभावे कथं तदनुमानेनप्रत्यक्षेण तदवगन्तुं शक्यम् । लौकिकव्यवहारे उत्सर्गतः अस्य भ्रान्तत्वात्इति वाच्यम् । सांख्यादिभिरिव भवद्भिरपि प्रत्यक्षेनानुमाने च वस्तुनिरूपणस्यक्रियामाणत्वात् । प्रत्यक्षानुमानादृष्टस्य विशेषान्तरस्य ब्रह्मणिभवद्भिः बोधयितुमशक्यत्वाच्च । आनन्दरूपत्वं मधिकं श्रुतौ बोधितमित्यपिभवतां न शक्यवचनम् । आनन्दत्वस्य ईतरव्यावृत्ति रूपत्वात् इति ।स्वमतेशूद्रस्याधिकारभाव कथनं सूपपादमित्याह - यस्य तु इति ।अत्रेदमवधेयं - सर्वेषामपि वर्णानां प्रपत्तावधिकारः । भक्त्युपायेतुत्रैवर्णिकानामेव । तत्रापि स्त्रीणां अधिकारःअस्तीति केषांचित्पक्षः । उपनिषदि गार्गी मैत्रेयीप्रभृतीना मधिकारोक्तेः । स्त्रीविधुराणामपि ब्रह्मविद्यायामधिकारोऽस्तीति न्यायसिद्धाञ्जने प्रतिपादितत्वात्स्त्रीणां विद्यांगभूतयागादिषु अधिकाराभावेपि जपोपवासाद्यंगमूलकंविद्यायामधिकारोक्तौ बाधकाभावात् । विधुरादीनां तथैवाधिकारः इति"अन्तरा चापि तु तद्दृष्टेः इति सूत्रे प्रतिपादितम् । तन्न्यायस्यात्रापिसंभवात् इति ।अन्येषां पक्षस्तु तासां नाधिकारः इति । गार्गीप्रभृतीनामुक्तिस्तुव्यक्तिविशेषनियता । निषादस्थपतिं याजयेदित्यादौ तस्यैव निषादस्यतस्मिन्नेव यागविशेषे अधिकार इति नियतिकल्पनवदत्रापि नियमस्य स्वीकर्तव्यात्वात्स्त्रीणां केषुचित् वैदिककर्मविशेषेषु मन्त्रोच्चारणविधानेपितेषामुच्चारणे एव नान्यमन्त्रोच्चरणे इति नियतेरिवात्रापि संभवात्यथावत् सांगवेदाध्ययनं कृत्वा तन्मूलापातप्रतीतिं प्राप्य वेदान्तविचारेप्रविश्य ज्ञानं संपादित वतामेवाधिकारो ब्रह्मविद्यायाम् इत्यधिकरणसारावल्यामुक्तम्"वेदार्थापात बुद्धिः यदनधिकरणा नोपबृंह्येत तैस्सह” इतिअत्र शूद्रादीनामधिकारः अस्ति नवेति विचारणार्थं प्रवृत्ते आदिशब्दोपिश्रुतः । श्रीभाष्येपि - “अतोऽध्ययनसिद्ध स्वाध्यायाधिगतज्ञानस्यैवब्रह्मोपासनोपायत्वात् इति भाषितम् । अध्ययनेनापातप्रतीतिं सम्पाद्यविचारे प्रवृत्तिमतामेव ब्रह्मोपासने अधिकारोऽत्रोक्तो भवति ।स्त्रीणांतु वेदाध्ययनाद्यभावात् तन्मूलकापातप्रतीतेरभावान्नाधिकारःअन्यथा जातायाः आपात प्रतीतेरनुपकारत्वात् । स्त्रीणा मध्ययनंन शिष्टा चार सिद्धम् ।।पुरुषाणामपि आशौचकाले केषांचिन्मन्त्राणामुच्चार्यत्वोक्तावपि तन्मूलंतस्मिन्समये अन्यमन्त्रोच्चारणं निषिध्यते । उपनयन - अध्ययनादि पुरुषाणामेवोक्तम्विधिवाक्ये पुंलिगनिर्देश एवात्र पर्याप्तो हेतुः । “शूद्र स्त्रीद्विजबन्धूनां श्रुतिः न श्रुतिगोचरा” इति शूद्रस्येव स्त्रीणामपिस्पष्टं निषिद्धम् । उपनयनानन्तरं वटोरिव एतासामपि भिक्षाचरण मनुमतंस्यात् । प्रतिवीथि गत्वा भिक्षाचरणे प्रवर्तेरन् । पुरुषाणामिवेतासामपिवेदाध्ययनसंभवे यागेपि स्वातन्त्र्येणाधिकारः आपद्येत । वैधव्यप्राप्त्यनन्तरमपि यागस्यानुष्ठाने को निषेद्धाविधिवाक्ये पुंलिग निर्देशात् न यागाधिकारः इति चेत् उपनयने अग्न्याधानेच तथैवेति विभाव्यताम् ।वर्णत्रये ब्राह्मणानां षदकर्मसु अधिकारः । एवमेव बाह्मणस्त्रीणामपि स्यात् । अध्ययन अध्यापन यजन याजनादीनामप्यंगीकारे सपिण्डीकरणादौगोदान प्रतिग्रहाद्यपि स्यात् । पुत्र हीना स्त्र्यपि भर्तृमरणेसाक्षादेव भर्तृकैकंर्यमपि कुर्यात् । सर्वत्रेवात्रापि दोषासंभवात्।। पुरुषस्येवास्या अपि साक्षात्कर्तृत्वे बाधका भावात् । उपनयनअध्ययन अग्न्याधानादीनां प्राप्त्यापत्तेः । प्रणवोच्चारणेपि विरोधाभावःशूद्रतज्जाति स्त्रीणां नाधिकारः इति निषेधवाक्यस्याप्यर्थ वर्णसंभवात् । आदौ अन्तेच प्रणवमुच्चार्यैव वेदाध्ययनस्य विहितत्वाच्चवेदाध्ययने नासामधिकारःव्यक्तिविशेषेषु कस्यचिंशस्य दर्शनमात्रेण सर्वासु व्यक्तिषु न्यायसंचारोऽनुपपन्नः । गरुडगजेन्द्र वालि जटायु नन्द्रिनी प्रभृतिषुदृष्टं विशेषांशमुप जीव्य व्यक्तयन्तरे तत्तज्जातीये न्यायसंचारोन स्वीक्रियते । वालिविषये श्रीरामोणोक्तं समाधानमप्यत्र स्मर्तव्यम्स्त्रीणां ब्रह्मविद्याया मधिकारोऽस्तीति वदतां पक्षेपि त्रिमात्रप्रणवोच्चरण मूलकोपासने अधिकारो नास्तीत्येवांगीकार्यम् । न स्वरःप्रणवोम् ऽगानि नाप्यन्यविधयः स्मृताः । स्त्रीणां तु शूद्र जातीनाम्इति प्रणवस्येव स्वरस्यापि निषेधः दृश्यते । अतः स्वर सहित वेदाध्ययनंनासां संभवति ।इदं वाक्यं मूलमन्त्र विषये एव स्वरनिषेधार्थं प्रवृत्तमितिन मूढोपि ब्रूयात् । स्वरेणसहवेदाध्ययनस्यानुमतौ मन्त्रमात्रे निषेधस्यानुपपन्नत्वात्।। सामान्यविषयकनिषेधः विशेषविषयकाधिकारः शास्त्रसंमतः नतु विपर्ययेणतथा वेदाध्ययनस्य नियमोपिश्रुतः नास्य कर्मणि प्रसक्तिःवर्णविशेषं निर्दिश्यैव वेदेन विधानात् । त्रैवर्णिक मादाय यागादिषुश्रावण्यां प्रौष्टपद्यां इत्यादिना । श्रीभाष्येऽप्यं विषयः प्रदर्शितःअअत्र श्रुतप्रकाशिका, व्रतविशेषः=उपाकर्म, नियमविशेषः=काण्डव्रतादिःइति स्पष्टमुक्तम् । इदं तु नस्त्रीणामिति निर्विवादम् ।तत्त्वमुक्ताकलापे तद्व्याख्यानभूत सर्वार्थ सिद्धौच शूद्राणांत्रैवर्णिक स्त्रीणां च न ब्रह्मविद्यायां मधिकारः इति स्पष्टम्जीव सरे - श्लोके । तत्र तत्तद्वर्णाश्रममूलकतया सन्यासिनामिव शूद्राणामपिब्रह्मविद्यायामधिकारः किं नस्यात् अन्यथा तस्य मोक्ष एव नस्यात्भगवन्तं प्राप्य तेपि मोक्षं प्राप्नुवन्ति इति गीतायां स्पष्टमुक्तमितिशंकामुद्भाव्य ब्रह्मविद्यायामधिकाराभावेपि प्रपत्तिविद्यायामधिकारसद्भावात् मोक्षप्राप्तिस्सुलभा, इत्युक्तम् । पूर्वकाण्डे वर्णविशेषमधिकृत्यकर्माविधानात् सर्वेषामपि वर्णानां कर्मधिकारात् शूद्राणामपि कर्मण्यधिकारःस्यात् इत्युद्भाव्य ज्ञानशून्यस्यानुष्ठानाग्संभवात् निर नेः अग्निकार्यासंभवाच्चनास्याधिकारो वक्तुं शक्यतेत्रिवर्णानामेवोपनयन अध्ययन विधानाच्च कर्त्राकांक्षायाः शान्तत्वेनन कर्ता यागादिषु शूद्रः । ब्रह्मविद्यायां वर्णविशेषनिर्देशाभावेपित्रैवर्णिकाणामेव वेदाध्ययनविधानात् अध्ययनपूर्वक शास्त्रार्थज्ञानआपात प्रतीति वद्भिरेव शान्ताकांक्षत्वात् तैरेव शास्त्रार्थस्यचरितार्थत्वाच्च ब्रह्म विद्यायामपि न शूद्राणामधिकारः इत्युक्तम्अयं व्यायः स्त्रीविषयेपि समानः।स्त्रीणां विवाहस्योपनयन स्थानत्वेपिकाण्डव्रत उपाकर्म, अग्न्याधानाद्यप्रसक्तेः नाधिकारः । अतः सर्वार्थसिद्धावेवस्त्रीणामपि ब्रह्माविद्यानधिकारः सूचितः"पुंभिः सिद्धाधिकारैः इत्ययमपि श्लोकः पर्याप्तः । शास्त्रस्यपुरुषैरेव चरितार्थत्वात् न स्त्रीणामधिकारकल्पन मपेक्षितम् । ननुशूद्राणां प्रपत्तिद्वारैव मोक्षप्राप्तौ “अस्तेयाद्यैः परिचरणमुखैःइत्युक्तिः कथं” प्रपत्तेः आनुकूल्यसंकल्पाद्यतिरिक्तांगानपेक्षत्वात्नामसंकीर्तन - विषयवास प्रभृतीनामिव एतेषामपि न साक्षान्मोक्षोपायत्वंअतः कथमिदं उपपद्यते इति चेत् । त्रैवर्णिकेष्वेव केचननाध्ययन कारिणःअन्ये ब्रह्मविद्यायामनधिकृताः मोक्षाभिलाषिणश्च । एते सात्विकत्यागपूर्वकंकर्म कुर्वन्ति । निवृत्तिकर्म निष्टास्तेएते एतादृशकर्मानुष्ठानात् भगवत्प्रसादेन मोक्षाभिलाषया प्रपत्तौप्रवर्तन्ते । एवमेव शूद्रा अपि मुमुक्षवः अस्तेयादि कर्माणि सात्त्विकत्यागपूर्वकंअनुतिष्टेयुः । एते च ब्रह्मविद्यार्थमुत्तमजन्माभिलाषिणः पश्चात्त्रैवर्णिकजन्म प्राप्य भक्तियोगाधिकारिणो भवेयुः । अत्र अस्तेयपूर्ववर्णपरिचर्यादिभिस्सहप्रपत्ति पठनं अंगप्रपत्तिमपि मनसि निघाय । सोपि” निर्विघ्नतयाअस्तेयपरिचर्यादिकस्यानुष्ठानं सिध्यतु “इत्याशयवान् अंगप्रपत्तिमपिकुर्यात् । त्रैवर्णिकजन्माभिलषयापि प्रपत्तिं कुर्यात् ।।ननु “मां हि पार्थ….स्त्रियो वैश्यास्तथा शूद्राः” इति एतेषांकथं सहपरिगणम् । वैश्यानां भक्त्यधिकारात् स्त्रीशूद्राणां भक्त्यनधिकारात्इति चेत् । अत्र पूर्वापरसन्दर्भेणार्थो वर्णनीयः । तात्पर्यचन्द्रिकायांएतच्छ्लोकावतरिणिकायामिदं स्पष्टम् । “दुराचारोपि’ इति श्लोकेनजन्मप्रभृति निषिद्धानुष्टातृणां विहितकर्माकारिणामपि भगवदाश्रयणमात्रेणशुद्धिः फलसिद्धिश्चोक्ता । भगवदाश्रयणं भक्त्यापि भवति प्रपत्यापिस्त्री शूद्रविषये प्रपत्या वैश्यविषये प्रपत्तिभक्त्न्यतरेणअतो वैश्यविषये भक्तिनिषेधाभिप्रायणेवेति न मन्तव्यंतर्हि ब्राह्मण क्षत्रियाणामपि प्रपत्या भगवदाश्रयणेन शुद्धेः फलसिद्धेश्चसंभवात् तेषामत्र परिगणनं कुतो न कृतमिति चेत् । अत्रेदमवधेयम् - अथय इह रमणीयचरणाः - वैश्ययोनिं वा इति वैश्यस्य पुण्ययोनित्वकथनात्कथमस्य पापयोनित्वम् । “अथ यइहकपूयचरणाः…इत्यत्र शूद्रस्यापढनात्श्वसूकरचण्डलसाम्यस्य तस्मिन्नभावेन च तस्यापि पुण्ययोनित्वात्कथं पापयोनित्वं इति शंका जायेत । अस्यैवमभिप्रायो वर्णनीयः । स्त्रीणांशूद्राणां च सत्रयागे नाधिकारः ।। एवं त्रैवर्णिकान्तर्गत वैश्यस्यसत्रे अधिकारः ब्राह्यणानामेव आर्त्विज्यम्"तस्मात् वाजपेय याजी आर्त्विजीनः इति क्षत्रियाणां उक्तम् । एतादृशशास्त्राधिकाररूपोत्कर्षः वैश्यस्य नास्तीति शूद्राणामिव वेश्यानामपिपापयोनित्वम् । अतोनविरोधः । अत एतेषां न ब्रह्मविद्याधिकारः ।गार्गीप्रभृतिषु विद्यासंभवः व्यक्तिविशेषनियतः । एतन्मूलं सर्वस्त्रीणामापादनंनयुक्तम् । नीचजात्युत्पन्नारुन्धती ब्रह्मज्ञस्य वसिष्टस्य भार्या,शारंगी मन्दपालेन संगता । एतन्न्यायःन सर्वेषाम् । स्त्रीविधुराणांब्रह्मविद्याया मधिकारोऽस्त्येव” इति श्रीसूक्तेः अभिप्रायान्तरवर्णनेनार्थोवाच्यः । यथा कैवल्यविषये श्री भाष्यकारसूक्तीनां तत्रतत्रोक्तानांपरस्पराविरोधेन अर्थ वर्णनम् । यथा च सूक्ष्म शरीरत्यागविषये परस्परविरोधंसूचयन्तीनां श्रीमद्रहस्यत्रयसारसूक्तीनां न्यायसिद्धाञ्जन श्रीसूक्तीनांचाविरोधेनार्थ वर्णनम्, तथाऽत्रापि न्यायसिद्धाञ्जन श्रीसूक्तेः अधिकरणसारावलितत्व मुक्ताकलाप सर्वार्थ सिद्धि श्रीसूक्तीनां चाविरोधेनार्थो वर्णनीयः ।मैत्रेयी गार्गी प्रभृति स्त्रीव्यक्तिविशेषाभिप्रायेण स्त्रीविधुराणामित्यत्रस्त्रीशब्दप्रयोगः इति संकोचः कार्यः । स्त्रीभिः विधुराणां = रहितानामित्यर्थवर्णनमपि अर्थविधुराणां = दरिद्राणामितिवत् उपपद्यते । परं तु न स्वरसम् ।।इति दिक् ।।